१४

(अथ प्रथमाष्टकेऽष्टमप्रपाठके चतुर्दशोऽनुवाकः )।
सोम॑स्य॒ त्विषि॑रसि॒ तवे॑व मे॒ त्विषि॑र्भूया–
द॒मृत॑मसि मृ॒त्योर्मा॑ पाहि दि॒द्योन्मा॑ पा॒ह्यवे॑ष्टा
दन्द॒शूका॒ निर॑स्तं॒ नमु॑चेः॒ शिरः॑। सोमो॒ राजा॒
वरु॑णो दे॒वा ध॑र्म॒सुव॑श्च॒ ये। ते ते॒ वाचँ॑
सुवन्तां॒ ते ते॑ प्रा॒णँ सु॑वन्तां ते ते॒ चक्षुः॑
सुवन्तां॒ ते ते॒ श्रोत्रँ॑ सुवन्ताँ॒ सोम॑स्य त्वा
द्यु॒म्नेना॒भि षि॑ञ्चाम्य॒ग्नेः (१) तेज॑सा॒ सूर्य॑स्य॒
वर्च॒सेन्द्र॑स्येन्द्रि॒येण॑ मि॒त्रावरु॑णर्वी॒र्येण॑ म॒रु–
ता॒मोज॑सा क्ष॒त्राणां॑ क्ष॒त्रप॑तिर॒स्यति॑ दि॒वस्पा॑हि
स॒माव॑वृत्रन्नध॒रागुदा॑ची॒रहि॑ बु॒ध्निय॒मनु॑ सं॒च–

[[919]]

९१९
प्रपा॰ ८ अनु॰ १४) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(राजसूयविषयभिषेकाभिधानम्)
र॑न्ती॒स्ताः पर्व॑तस्य वृ॒षभस्य॑ पृ॒ष्ठे नाव॑श्चरन्ति
स्व॒सिच॑ इया॒नाः। रुद्र॒ यत्ते॒ क्रयी॒ परं नाम॒
तस्मै॑ हु॒तम॑सि य॒मेष्ट॑मसि। प्रजा॑पते॒ न त्वदे॒–
तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव।
यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यँ स्या॑म॒
पत॑यो रयी॒णाम् (२)।
(अ॒ग्नेस्तैका॑दश च)॥

इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टकेऽ–
ष्टमप्रपाठके चतुर्दशोऽनुवाकः॥१४॥
––––––––
(अथ प्रथमकाण्डेऽष्टमप्रपाठके चतुर्दशोऽनुवाकः )।
त्रयोदशेऽनुवाके दिग्व्यास्थापनमुक्तम्। चतुर्दशेऽभिषक उच्यते। कल्पः —
“अग्रेण प्रशास्तुर्धिष्णियं खादिरीमौदुम्बरीं वाऽऽसन्दीं प्रतिष्ठाप्य सोमाय त्विषिरसीति तस्यां शार्दूलचर्म प्राचीनग्रीवमुत्तरलोमाऽऽस्तीर्य” इति। पाठास्तु –
सोमस्येति। हे शार्दूलचर्म त्वं सोमस्य दीप्तिरस्यतस्तवेव मे दीप्तिर्भूयात्। विधत्ते ––
“सोमस्य त्विषिरसि तवेव मे त्विषिर्भूयादिति शार्दूलचर्मोपस्तृणाति। यैव सोमे त्विषिः। या शार्दूले। तामेवावरुन्धे” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ८) इति।
शार्दूलचर्मगतां दीप्तिं दृष्ट्वा सोमदीप्तित्वेन भावनादुभयावरोधः। कल्पः — “अमृतमसीति तस्मिञ्‍शतमानं हिरण्यं निधाय” इति।
तस्मिञ्शार्दूलचर्मणि। पाठस्तु –
अमृतमिति। हिरण्यस्यामृतत्वमसकृत्पूर्वमुक्तम्।
हिरण्यस्य स्थापनं तत्प्रमाणं च क्रमेण विधत्ते ––
“मृत्योर्वा एष वर्णः। यच्छार्दूलः। अमृतँ हिरण्यम्। अमृतमसि मृत्योर्मा पाहीति हिण्यमुपान्यति। अमृतमेव मृत्योरन्तर्धत्ते। शतमानं भवति

[[920]]

९२०
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे–––
(राजसूयविषयभिषेकाभिधानम्)
(१)। शतायुः पुरुषः शतेन्द्रियः। आयुष्येवेन्द्रिये प्रतितिष्ठति” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ८) इति।
दिद्योदिति। कल्पः — “दिद्योन्म पाहीति सौवर्णेन शतमानेन शतक्षरेण शतकृष्णलेन यजमानस्य शीर्षन्नधि निधत्ते” इति।
हे दिद्योद्द्योतनात्मक शिरस्यभिषेकजलसेचनार्थं स्थापित शतच्छिद्रयुक्त सुवर्णपात्र त्वं मां रक्ष। विधत्ते ––
“दिद्योन्मा पाहीत्युपरिष्टादधिनिदधाति। उभयत एवास्मै शर्म दधाति” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ८) इति।
उभयतोऽधस्तादुपरिष्टाच्चामृतरूपस्य सुवर्णस्य स्थितत्वात्सुखं भवति।
अवेष्टा इति। कल्पः — “अवेष्टा दन्दशूका इति दक्षिणत आसीनं क्लीबं सीसेन विध्यति” इति।
दन्दशूकाः सर्पा अवेष्टा विनाशिताः। विधत्ते ––
“अवेष्टा दन्दशूका इति क्लीबँ सीसेन विध्यति। दन्दशूकानेवावयजते। तस्मात्क्लीबं दन्दशूका दँशूकाः” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ८) इति।
यस्मात्सर्पत्वेन भावितं सीसं क्लीबे पातितं सस्माल्लोकेऽपि क्लीबं पुंस्त्वरहितं पलायनाद्यक्षमं बहुवल्मीकोपेतेऽरण्ये गच्छन्तं सर्पा दन्दशूका दंशुका भवन्ति। दंशशीला इत्यार्थः।
निरस्तमिति। कल्पः — “सव्येन पदा लोहितायसं निरस्यति निरस्तं नमुचेः शिर इति” इति।
लोहितायसं ताम्रं पूर्वं फेनेन पातितं यन्नमुचेः शिरस्तदिदं ताम्ररूपं संनिरस्तं परित्यक्तम्। एतच्‍च ताम्रं नापितस्योपरि प्रक्षेप्तव्यम्। अत एवाऽऽपस्तम्ब आह – “तामारोहन्यजमानोऽवेष्टा दन्दशूका इति दक्षिणेन पदा सीसं षण्ड-काय प्रत्यस्यति, निरस्तं नमुचेः शिर इति सव्येन लोहितायसं केशवापाय, तौ बहिर्वेदि निरस्यतः” इति। विधत्ते –
“निरस्तं नमुचेः शिर इति लोहितायसं निरस्यति। पाप्मानमेव नमुचिं निरवदयते” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ८) इति।
“कल्पः — ऊर्ध्वबाहुं तिष्ठन्तं माहेन्द्रस्य स्तोत्रं प्रत्यभिषिञ्चति सोमो राजेत्य-भिमन्त्र्य सोमस्य त्वा द्युम्नेनाभिषिञ्चामीति पालाशेन पुरस्तादध्वर्युरेवमितरत्रौ-

[[921]]

९२१
प्रपा॰ ८ अनु॰ १४) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(राजसूयविषयभिषेकाभिधानम्)
दुम्बरेण दक्षिणतो ब्रह्मा राजन्यो वाऽऽश्वत्थेन पश्चाद्वैश्यो नैयग्रोधेनोत्तरतो जन्यः” इति। जन्यः सखा। अभिमन्त्रणमन्त्रपाठस्तु –
सोमो राजेति। यः सोमो राजा वरुणो यो राजा ये चान्ये देवा गृह-पत्यग्न्यादयो धर्मसुवो धर्ममनुजानन्तः सन्ति ते सर्वे तव वाचमनुजानन्तु। एवं प्राणादिषु योज्यम्। अभिषेकमन्त्रपाठस्तु –
सोमस्येति। हे यजमान त्वां सोमस्य द्युम्नेन दीप्त्याऽभिषिञ्चामि। एवम-ग्नेस्तेजसेत्यादौ योज्यम्। अभिमन्त्रणमन्त्रस्य प्रयोजनं दर्शयति –
“प्राणा आत्मनः पूर्वेऽभिषिच्या इत्याहुः (२)। सोमो राजा वरुणः। देवा धर्मसुवश्च ये। ते ते वाचँ सुवन्तां ते ते प्राणँ सुवन्तामित्याह। प्राणा-नेवाऽऽत्मनः पूर्वानभिषिञ्चति” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ८) इति।
आत्मनो यजमानस्य प्राणा वागादयो ये सन्ति ते यजमानाभिषेकात्पूर्वम-भिषिच्या इत्याहुरभिज्ञाः। युक्तो हि तेषाममूर्तानां मन्त्रपाठमात्रेणाभिषेकः। मन्त्रे हि सोमादयो देवा वागादीनभिषिक्ताननुजानन्त्वित्येवावबुध्यते। तस्मात्तत्पाठ एवाभिषेकः। स च पाठः प्रथमतः कृत इत्यसौ पूर्वाभिषेकः।
अभिषेकमन्त्रे प्रथमभागस्य शाखान्तरपाठं निराकृत्यात्रत्यं पाठं विधत्ते ––
“यद्ब्रूयात्। अग्नेस्त्वा तेजसाऽभिषिञ्चामीति। तेजस्व्येव स्यात्। दुश्चर्मा तु भवेत्। सोमस्य त्वा द्युम्नेभिषिञ्चामीत्याह। सौम्यो वै देवतया पुरुषः (३)। स्वयैवैनं देवतयाऽभिषिञ्चति” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ८) इति।
सोमो वै रेतोधा इत्यादौ रेतोधारिणः पुरुषस्य सोमत्वनिरूपणात्पुरुषः सोम-देवत्यः। सोमदेवतयाऽभिषेते सति लावण्यलाभाद्दुश्चर्मत्वं न भवेत्।
उक्तभागानां पाठं तत्तत्प्राप्त्या प्रशंसति––
“अग्नेस्तेजसेत्याह। तेज एवास्मिन्दधाति। सूर्यस्य वर्चसेत्याह। वर्च एवास्मिन्दधाति। इन्द्रस्येन्द्रियेणेत्याह। इन्द्रियमेवास्मिन्दधाति। मित्रावरुण-योर्वीर्येणेत्याह। वीर्यमेवास्मिन्दधाति। मरुतामोजसेत्याह (४)। ओज एवा-स्मिन्दधाति” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ८) इति।
क्षत्त्राणामिति। कल्पः — “क्षत्त्राणां क्षत्त्रपतिरसीत्यभिषिच्यमानमभिमन्त्र-यते” इति।

[[922]]

९२२
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे–––
(राजसूयविषयभिषेकाभिधानम्)
हे यजमान त्वं क्षत्त्रियाणां पतिरसि। नात्र केषांचित्पतिः, किंतु सर्वेषां क्षत्त्रियाणाम्। अनेनैवाभिप्रायेण क्षत्त्रशब्दस्य द्विरुक्तिः।
मन्त्रसामर्थ्यादशेषक्षत्त्रियपतित्वसिद्धिं दर्शयति––
“क्षत्त्राणां क्षत्त्रपतिरसीत्याह। क्षत्त्राणामेवैनं क्षत्त्रपतिं करोति” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ८) इति।
अतीति। कल्पः — “कृष्णविषाणया वासांसि विचृत(त्य), एकं द्वे सर्वाणि वा, एतान्युत्कर उदस्यत्यति दिवस्पाहीति” इति।
यान्यभिषेककाले लेपलिप्तानि वस्त्राणि तेषामेव त्यागः। हे यजमान दिवो द्योतमानानन्यान्पार्थिवानतिक्रम्य त्वमेव सर्वां भूमिं पाहि।
द्युशब्दस्येतरपुरुषपरत्वं दर्शयति––
“अति दिवस्पाहीत्याह। अत्यन्यान्पाहीति वावैतदीह” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ८) इति।
कल्पः — “समाववृत्रन्निति येऽभिषिच्यमानस्य लेपा व्यवस्रवन्ति तान्पा-त्रैरुन्मार्ष्टि” इति। पाठस्तु––
समाववृत्रन्निति। या आपो लेपरूपेण स्रवन्ति अधरागधोगताः, उदी-चीरूर्ध्वं गताः, समाववृत्रन्सम्यगावृत्य स्थिताः, न हीयत इत्यहिरुत्तमाङ्गं, बुध्नस्य पादस्याग्रभागो बुध्नियः, शिरःप्रभृति पादाग्रपर्यन्तमनुक्रमेण संचरन्त्यस्ता आपः पर्वतस्य वृषभस्य पृष्ठे पर्वतसदृशस्य वर्षणक्षमस्य मेघस्योपरि नद्यां नाव इव चरन्ति। यद्वा नावो नौयोग्या बहुलाश्चरन्ति। कीदृश्यः। स्वसिचः स्वमात्मीयं यजमानक्षेत्रं सिञ्चन्तीति स्वसिचः। इयाना आगच्छन्त्यः। बाहुल्येन सर्वत्र प्रभवन्त्य इत्यर्थः। वस्त्रनिरसनमन्त्रः पूर्वमाम्नातोऽपि सामर्थ्यात्पश्चात्प्रयोक्तव्यः।
लेपोदकानामूर्ध्वाधोभागयाः सम्यगावृत्य स्थित्या राष्ट्रध्रौव्यसंपत्तिं दर्शयति–
“समाववृत्रन्नधरागुदीचीरित्याह। राष्ट्रमेवास्मिन्ध्रुवमकः” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ८) इति।
रुद्रेति। कल्पः — “आग्नीध्रे प्ररेकं जुहोति रुद्र यत्ते क्रयी परं नाम तस्मै हुतमसि यमेष्टमसि स्वाहेति” इति।


१ ख. ङ. च. विवृत।

[[923]]

९२३
प्रपा॰ ८ अनु॰ १४) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(राजसूयविषयभिषेकाभिधानम्)
अत्र स्वाहाकारोऽध्यात्दृतः। हे रुद्र यत्तव परमुत्कृष्टं नाम शर्वादिकं नमः शिवाय पशुपतय इत्यादिश्रुतिप्रसिद्धं क्रयि जपपरान्पुरुषान्फलप्रदानेन क्रीणाति वशी करोतीति क्रयि तस्मै नाम्ने हुतमसि, अभिषेकशेषभूतं पात्रस्थं जलं हुतमस्तु। तच्च यमस्येष्टमस्तु। विधत्ते ––
“उच्छेषणेन जुहोति। उच्छेषणभागो वै रुद्रः। भागधेयेनैव रुद्रं निरवदयते (५) " (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ८) इति।
यदग्नये स्विष्टकृतेऽवद्यति भागधेयेनैव तद्रुद्रँ समर्धयतीति श्रुतत्वाद्रुद्रस्योच्छेषणभागत्वम्। तत्रैव कंचिद्विशेषं विधत्ते ––
“उदङ् परेत्याऽऽग्नीध्‍रे जुहोति। एषा वै रुद्रस्य दिक्। स्वायामेव दिशि रुद्रं निरवदयते” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ८) इति।
नाम्न आहुतिप्रदानेन प्रयोजनं दर्शयति––
“रुद्र यत्ते क्रयी परं नामेत्याह। यद्वा अस्य क्रयी परं नाम। तेन वा एष हिनस्ति। यँ हिनस्ति। तेनैवैनँ सह शमयति” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ८) इति।
एष रुद्रस्तेनैव शर्वादिनाम्ना स्वक्रोधविषयं पुरुषं हिनस्ति। तथा सति यो वध्योऽस्ति तमेनं पुरुषं तेनैव घातकेन नाम्ना सह शमयति। आहुतिदानेन घातकं नाम शाम्यति, तदानीमेव वध्योऽपि शाम्यति। वाध्यत्वं निवर्तत इत्यर्थः। यमेष्टमित्यस्य पदस्य तात्पर्यं दर्शयति––
“तस्मै हुतमसि यमेष्टमसीत्याह। यमादेवास्य मृत्युमवजते (६)” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ८) इति।
यमस्येष्टसिद्धौ तदनुग्रहादेव यजमानस्यापमृत्युं विनाशयति।
कल्पः – “अत्रैतेषामभिषेकाणां मुख्यपात्रे संस्रावान्समवनीय प्रतिहितस्य गृहानेत्यान्वारब्धयोः प्रतिहिते च महिष्यां च जुहोति प्रजापते न त्वदेतान्यन्य इति” इति।
प्रतिहितोऽत्यन्तप्रियपुत्रस्तं च महिषीं च स्पर्शयित्वा जुहुयात्। पाठस्तु––
प्रजापत इति। हे प्रजापते त्वदन्यः कोऽपि पुरुष उत्पन्नानि तान्येतानि विश्वानि न परिबभूव परुभवितुं समर्थो नाभूत्। परिभवः सृष्टेरप्युलक्षणम्।


१ क. घ. सस्रवा०।

[[924]]

९२४
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे–––
(राजसूयविषयभिषेकाभिधानम्)
सृष्टिसंहारयोरशक्त इत्यर्थः। अतस्ते तव वयं यत्कामा जुहुमस्तत्फलमस्माकमस्तु। वयं धनानां पतयः स्याम। विधत्ते ––
“प्रजापते न त्वदेतान्यन्य इति तस्यै गृहे जुहुयात्। यां कामयेत राष्ट्रमस्यै प्रजा स्यादिति। राष्ट्रमेवास्यै प्रजा भवति " (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ८) इति।
अस्यै प्रजा राष्ट्रं स्यात्। प्रियाया भार्यायाः पुत्रो राष्ट्रं पालयितुं समर्थो भूयादित्यर्थः। विधत्ते ––
“पर्णमयेनाध्वर्युरभिषिञ्चति। ब्रह्मवर्चसमेवास्मिन्त्विषिं दधाति। औदुम्बरेण राजन्यः। ऊर्जमेवास्मिन्नन्नाद्यं दधाति। आश्वत्थेन वैश्यः। विशमेवास्मिन्पुष्टिं दधाति। नैयग्रोधेन जन्यः। मित्राण्येवास्मै कल्पयति अथो प्रतिष्ठित्यै (७) " (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ८) इति।
ब्रह्मवर्चसमेव त्विषिमध्ययनादिकृतमुत्कर्षम्। ऊर्जमेवान्नाद्यं बलप्रदमन्नं प्रियं चान्नाम्। विशमेव पुष्टिं करप्रदातृप्रजासंपत्तिम्। अत्र विनियोगसंग्रहः —
“सोमाऽऽसन्द्यां व्याघ्रचर्माऽऽस्तीर्यामृ स्वर्णकं क्षिपेत्।
दिद्योद्राजा स्वर्णपात्रं दध्यान्मूर्ध्नि शतक्षरम्॥
अवे रोहन्निहाऽऽसन्दीं क्लीबं सीसेन विध्यति।
निरस्तं केशवापाय निरस्येल्लोहितायसम्॥
सोमोऽध्वर्युर्मन्त्रयेत सोमस्येत्यभिषिञ्चति।
क्षत्त्राभिषिक्तं संमन्त्र्य त्यजेद्वस्त्रमतीत्यतः॥
समालेपान्मार्जनं स्याद्रुद्रशेषं जुहोति हि।
प्रजापते काम्यहोमो मन्त्रा द्वादश वर्णिताः॥” इति॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डेऽष्टमप्रपाठके
चतुर्दशोऽनुवाकः॥१४॥
–––––––––

[[925]]

९२५
प्रपा॰ ८ अनु॰ १५) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(राजसूयविषयस्य रथेन विजयस्यभिधानम्)