१३

(अथ प्रथमकाण्डेऽष्टमप्रपाठके त्रयोदशोऽनुवाकः )।
स॒मिध॒मा ति॑ष्ठ गाय॒त्री त्वा॒ छन्द॑सामवतु
त्रि॒वृत्स्तोमो॑ रथंत॒रँ सामा॒ग्निर्दे॒वता॒ ब्रह्म॒ द्रवि॑–
णमु॒ग्रामा ति॑ष्ठ त्रि॒ष्टुप्त्वा॒ छन्द॑सामवतु पञ्चद॒शः
स्तोमो॑ बृ॒हत्सामेन्द्रो॑ दे॒वता॑ क्ष॒त्रं द्रवि॑णं वि॒रा–
ज॒मा ति॑ष्ठ॒ जग॑ती त्वा॒ छन्द॑सामवतु सप्तद॒शः
स्तोमो॑ वैरू॒पँ साम॑ म॒रुतो॑ दे॒वता॒ विड्द्रवि॑–
ण॒मुदी॑ची॒मा ति॑ष्ठानु॒ष्टुप्त्वा॑ (१) छन्द॑सा–
मवत्त्वेकविँ॒शः स्तोमो॑ वैरा॒जँ साम॑ मि॒त्रा–
वरु॑णौ दे॒वता॒ बलं॒ द्रवि॑णमू॒र्ध्वामा ति॑ष्ठ
पङ्क्तिस्त्वा॒ छन्द॑सामवतु त्रिणवत्रयस्त्रिँ॒शौ
स्तोमौ॑ शक्वरैरव॒ते साम॑नी॒ बृह॒स्पति॑र्दे॒वता॒
वर्चो॒ द्रवि॑णमी॒दृङ्चा॑न्या॒दृङ्चै॑ता॒दृङ्च॑ प्रति॒दृ–
ङ्च॑ मि॒तश्च॒ संमि॑तश्च॒ सभ॑राः। शु॒क्रज्यो॑तिश्च


१ ख. ०वित्सप्त०।

[[912]]

९१२
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे–––
(राजसूयविषयदिग्व्यास्थापनमन्त्राणामभिधानम्)
चि॒त्रज्यो॑तिश्च स॒त्यज्यो॑तिश्च॒ ज्योति॑ष्माँश्च
स॒त्यश्च॑र्त॒पाश्च॑ (२) अत्यँ॑हाः। अ॒ग्नये॒ स्वाहा॒
सोमा॑य॒ स्वाहा॑ सवि॒त्रे स्वाहा॒ सर॑स्वत्यै॒
स्वाहा॑ पू॒ष्णे स्वाहा॒ बृह॒स्पत॑ये स्वाहेन्द्रा॑य॒
स्वाहा॒ घोषा॑य॒ स्वाहा॒ श्लोका॑य॒ स्वाहाऽ–
ँशा॑य॒ स्वाहा॒ भगा॑य॒ स्वाहा॒ क्षेत्र॑स्य॒ पत॑ये॒
स्वाहा॑ पृथि॒व्यै स्वाहा॒ऽन्तरि॑क्षाय॒ स्वाहा॑ दि॒वे
स्वाहा॒ सूर्या॑य॒ स्वाहा॑ च॒न्द्रम॑से॒ स्वाहा॒ नक्ष॑–
त्रेभ्यः॒ स्वाहा॒ऽद्भयः स्वाहौष॑धीभ्यः॒ स्वाहा॒
वन॒स्पति॑भ्यः॒ स्वाहा॑ चराच॒रेभ्यः॒ स्वाहा॑ परि–
प्ल॒वेभ्यः॒ स्वाहा॑ सरीसृ॒पेभ्यः॒ स्वाहा॑ (३)।
(अ॒नु॒ष्टुप्त्व॑र्त॒पाश्च॑ सरीसृ॒पेभ्यः॒ स्वाहा॑)॥

इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टकेऽ
ष्टमप्रपाठके त्रयोदशोऽनुवाकः॥१३॥
––––––––
(अथ प्रथमकाण्डेऽष्टमप्रपाठके त्रयोदशोऽनुवाकः)।
द्वादशेऽभिषेकार्थजलसंस्कारादिमन्त्रा उक्ताः। त्रयोदशे दिग्व्यास्थापनमन्त्रा उच्यन्ते। कल्पः — “अथैनं पञ्चभिर्दिशो व्यास्थापयति समिधमा तिष्ठेति मनसा चानु प्रक्रमति” इति।
व्यास्थापयति विविधदिगभिमुखत्वेन विजयाय प्रस्थापयतीत्यर्थः।
तत्र प्रथममन्त्रपाठस्तु –
समिधमिति। समिध्यतेऽस्यामादित्य इति समित्प्राची दिक्तां दिशमाति-ष्ठाऽऽक्रम्य तिष्ठ। तथा स्थितं त्वां छन्दसां मध्ये गायत्री रक्षतु। स्तोमानां मध्ये त्रिवृत्स्तोमो रक्षतु। साम्नां मध्ये रथंतरं साम रक्षतु। देवानां मध्येऽग्निर्देवो रक्षतु। ब्रह्म ब्राह्मणस्त्वदीयं द्रविणं धनं रक्षतु। त्रिवृत्स्तोमस्य स्वरूपं सामब्राह्मणे

[[913]]

९१३
प्रपा॰ ८ अनु॰ १३) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(राजसूयविषयदिग्व्यास्थापनमन्त्राणामभिधानम्)
समाम्नातम् – “तिसृभ्यो हिं करोति स प्रथमया तिसृभ्यो हिं करोति स मध्यमया तिसृभ्यो हिं करोति स उत्तमयोद्यती त्रिवृतो विष्टुतिः” इति।
अयमर्थः — उपास्मै गायतेत्यादीनि तृचात्मकानि त्रीणि सूक्तानि सन्ति। तेषु तिसृभ्य ऋग्भ्यो हिं करोति गायेत्। काभिस्तिसृभिः। प्रथमया त्रिष्वपि सूक्तेषु या प्रथमा तया स उद्गाता गायेत्। तथा सति तिसृभिर्गीतं भवति। सोऽयं प्रथमः पर्यायः। द्वितीये सूक्तत्रयगतया मध्यमया गायेत्। तृतीये पर्याये सूक्तत्रयगतयोत्तमया गायेत्। अनेन प्रकारेण त्रिवृत्स्तोमसंबन्धिनी विशिष्टा स्तुतिः संपद्यते। सेयं स्तुतिरुद्यतीनाम्नाऽभिधीयत इति। अभि त्वा शूर नोनुम इत्यास्यामृच्युत्पन्नं साम रथंतरम्। द्वितीयमन्त्रपाठस्तु –
उग्रमिति। पूर्वन्यायेन योजनीयम्। पापिनां शिक्षकेण यमेनाधिष्ठितत्वाद्द–क्षिणादिगुग्रा।
पञ्चदशस्तोम एवमाम्नातः — “पञ्चभ्यो हिं करोति स तिसृभिः स एकया स एकया पञ्चभ्यो हिं करोति स एकया स तिसृभिः स एकया पञ्चभ्यो हिं करोति स एकया स एकया तिसृभिः पञ्चपञ्चिनी पञ्चदशस्य विष्टुतिः” इति।
पूर्वोक्तत्रिवृत्स्तोम एक एव सूक्तत्रयनिष्पाद्यः। अन्ये तु स्तोमा एकैकेनैव तृचात्मकेन सूक्तेन निष्पाद्यन्ते। तत्रायं क्रमः। प्रथमपर्याय आवृत्तिः पञ्चभिग्भिर्गायेत्। तद्यथा – प्रथमामृचं त्रिर्गायेत्। इतरे द्वे सकृत्सकृद्गायेत्। द्वितीयपर्याये मध्यमां त्रिर्गायेत्। तृतीयपर्याय उत्तमां त्रिर्गायेत्। सेयं पञ्चदशस्तोमस्य संबन्धिनी विष्टुतिरिति। तस्याः पञ्चपञ्चिनीति नाम। त्वामिद्धि हवामह इत्येतस्यामृच्युत्पन्नं साम बृहत्। तृतीयमन्त्रपाठस्तु –
विराजमिति। जलाधिपेन वरुणेन पालिता सति सम्यक्फलितैः सस्यैर्वि–शेषेण राजत इति विराट् प्रतीची दिक्। सप्तदशस्तोम एवमाम्नातः —
“पञ्चभ्यो हिं करोति स तिसृभिः स एकया स एकया पञ्चभ्यो हिं करोति स एकया स तिसृभिः स एकया सप्तभ्यो हिं करोति स एकया स तिसृभिः स तिसृभिरि+ति दशसप्ता सप्तदशस्य विष्टुतिः” इति।


+सर्वपुस्तकेष्वितिशब्दो वर्तते। परंत्वनुपयुक्त इति ज्ञेयम्।


१ क. च. ०सप्त स०।

[[914]]

९१४
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे–––
(राजसूयविषयदिग्व्यास्थापनमन्त्राणामभिधानम्)
प्रथमपर्याये प्रथमामृचं त्रिर्गायेत्। द्वितीयपर्याये मध्यमां त्रिर्गायेत्। तृतीय-पर्याये मध्यमामुत्तमां च त्रिर्गायेत्। सेयं सप्तदशस्तोमलंबन्धिनी विष्टुतिर्दशस-प्तेत्यभिधीयते। यद्याव इन्द्रेत्यस्यामृच्युत्पन्नं साम वैरूपम्। चतुर्थमन्त्रपाठस्तु –
उदीचीमिति। एकविंशस्तोम एवमाम्नातः — “सप्तभ्यो हिं करोति स तिसृभिः स तिसृभिः स एकया सप्तभ्यो हिं करोति स एकया स तिसृभिः स तिसृभिः सप्तभ्यो हिं करोति स तिसृभिः स एकया स तिसृभिः सप्तसप्तिन्येकविंशस्य विष्टुतिः” इति।
प्रथमपर्याय उत्तमां सकृद्गायेत्। द्वितीयपर्याये प्रथमां, तृतीयपर्याये मध्यमां सकृद्गायेत्। सेयमेकविंशस्तोमसंबन्धिनी विष्टुतिरिति सप्तसप्तिनीत्याभिधीयत इत्यर्थः। पिबा सोममिन्द्र मन्दतु त्वेत्यस्यामृच्युत्पन्नं साम वैराजम्।
पञ्चममन्त्रपाठस्तु –
ऊर्ध्वामिति। त्रिणवस्तोम एवमाम्नातः — “नवभ्यो हिं करोति स तिसृभिः स पञ्चभिः स एकया नवभ्यो हिं करोति स एकया स तिसृभिः स पञ्चभिर्नवभ्यो हिं करोति स पञ्चभिः स एकया स तिसृभिर्वज्रो वै त्रिणवः” इति।
प्रथमपर्याये प्रथमां त्रिर्गायेत्। मध्यमां पञ्चकृत्वो गायेत्। उत्तमां सकृद्गा-येत्। द्वितीयपर्याये प्रथमां सकृद्गायेत्। मध्यमां त्रिर्गायेत्। उत्तमां पञ्चकृत्वो गायेत्। तृतीयपर्याये प्रथमां पञ्चकृत्वो गायेत्। मध्यमां सकृद्गायेत्। उत्तमां त्रिर्गायेत्। सोऽयं त्रिरावृत्तनवसंख्योपेतत्वात्रिणवनामको वज्रसमानः।
त्रयस्त्रिंशस्तोम एवमाम्नातः — “एकादशभ्यो हिं करोति स तिसृभिः स सप्तभिः स एकयैकादशभ्यो हिं करोति स एकया स तिसृभिः स सप्तभिरेका-दशभ्यो हिं करोति स सप्तभिः स एकया स तिसृभिरन्तो वै त्रयस्त्रिंशः” इति।
प्रथमपर्याये प्रथमां त्रिर्गायेत्। मध्यमां सप्तकृत्वः। उत्तमां सकृत्। द्विती-यपर्याये प्रथमः सकृद्द्वितीयां त्रिस्तृतीयां सप्तकृत्वः। तृतीयपर्याये प्रथमां सप्तकृत्वो द्वितीयां सकृत्तृतीयां त्रिरिति। सोऽयं त्रयस्त्रिंशः स्तोमानामन्तः। यत्तु वाजपेय उज्जित्यनुवाके त्रयोदशस्तोमश्चतुर्दशस्तोम इत्यादिकमाम्नातं तत्सर्वमुन्नेयस्तोमाभिप्रायेणेति द्रष्टव्यम्। उन्नयनप्रकारस्तु सामसूत्रे द्रष्टव्यः। प्रो ष्वस्मै पुरोरथमित्यस्यामृच्युत्पन्नं साम शाक्वरम्। रेवतीर्नः सधमाद इत्यस्यामृच्युत्पन्नं साम रैवतम्। त्रिषु मन्त्रेषु ब्राह्मणक्षत्रियवैश्या द्रव्यरक्षका उक्ताः।

[[915]]

९१५
प्रपा॰ ८ अनु॰ १३) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(राजसूयविषयदिग्व्यास्थापनमन्त्राणामभिधानम्)
चतुर्थे शारीरबलस्य तद्रक्षकत्वम्। पञ्चमे वर्चसः प्रख्यातशूरनामकृतस्य तेजसो धनरक्षकत्वम्। विधत्ते ––
“दिशो व्यास्थापयति। दिशामभिजित्यै” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ७) इति।
यजमानं दिक्षु प्रस्थापितवतोऽध्वर्योर्मानसमनुक्रमणं विधातुं प्रस्तौति––
“यदनु प्रक्रामेत्। अभि दिशो जयेत्” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ७) इति।
यद्यध्वर्युर्यजमानमनु पादेन प्रक्रामेद्दिशामभिजयो भवेत्किंतून्माद्येद्बुद्धिभ्रमं प्राप्नुयात्। विधत्ते –
“मनसाऽनु प्रक्रामति। अभि दिशो जयेति। नोन्माद्यति” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ७) इति।
प्रक्रमणस्य कृतत्वाद्दिग्विजयः। पादेन तदकरणादुन्मादाभावः।
समिदादीनि दिशां नामानि प्रशंसति––
“समिधमा तिष्ठेत्याह। तेज एवावरुन्धे (१)। उग्रामा तिष्ठेत्याह। इन्द्रियमेवावरुन्धे। विराजमा तिष्ठेत्याह। अन्नाद्यामेवावरुन्धे। उदीचीमा तिष्ठेत्याह। पशूनेवावरुन्धे। ऊर्ध्वामा तिष्ठेत्याह। सुवर्गमेव लोकमभिजयति” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ७) इति।
समिच्छब्दस्य दीप्तिप्रतिपादकतया तेजःप्राप्तिः। उग्रशब्द इन्द्रियबलोपे-तत्वमाचष्ट इतीन्द्रियप्राप्तिः। अन्नं वै विराडिति श्रुत्यनुसारेणान्नप्राप्तिः। “यर्हि पशुमाप्रीतमुदञ्चं नयन्ति” इति पशोरुत्तरदिक्संबन्धश्रवणात्पशुप्राप्तिः। स्वर्ग-लोकस्योर्ध्वभावित्वादभिजयः। विहितं मानसमनुक्रमणं प्रशंसति –
“अनूज्जिहीते। सुवर्गस्य लोकस्य समष्ट्यै (२)” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ७) इति।
कल्पः — “मारुतमेकविँशतिकपालं निर्वपति वैश्वदेवीमामिक्षां तस्यारण्येऽनुवाक्येन” इति। पाठस्तु –
ईदृङ्चेति। ईदृङ्ङित्यादीनि मरुद्विशेषाणां नामधेयानि। तद्रूपेण भावित-त्वात्कपालानामपि तन्नाम। हे प्रथमकपाल त्वमीदृङ् चासि। एतन्नामकमेवासि। एवमन्यत्रापि योज्यम्। विधत्ते ––

[[916]]

९१६
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे–––
(राजसूयविषयदिग्व्यास्थापनमन्त्राणामभिधानम्)
“मारुत एष भवति। अन्नं वै मरुतः। अन्नमेवावरुन्धे” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ७) इति।
एष पुरोडाश इत्यर्थः। तस्मिन्गुणं विधत्ते ––
“एकाविँशतिकपालो भवति प्रतिष्ठित्यै” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ७) इति। एकविंशः स्तोमानां प्रतिष्ठेत्युक्तत्वात्प्रतिष्ठाहेतुत्वम्।
कपालोपधानमन्त्राणां शेषं पूरयितुं विधत्ते ––
“योऽरण्येऽनुवाक्यो गणः। तं मध्यत उपदधाति। ग्राम्यैरेव पशुभिरार-ण्यान्पशून्परिगृह्णाति। तस्माद्ग्राम्यैः पशुभिरारण्याः पशवः परिगृहीताः” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ७) इति।
अत्राऽऽम्नात ईदृङ्चेत्यादिः सप्तसंख्यायुक्त एको गुणः। शुक्रज्योतिश्चेत्यादिः सप्तसंख्यायुक्तोऽपरो गणः। तयोर्गणयोर्मध्ये गणान्तरं प्रक्षेपीयम्। अरण्ये गत्वाऽध्येतव्यो योऽनुवाकस्तस्मिन्ननुवाके स गण आम्नातः। तथा हि –“धु-निश्च ध्वान्तश्च ध्वनश्च ध्वनयँश्च। निलिम्पश्च विलिम्पश्च विक्षिपः” इति। एतस्य गणस्य मध्यत उपधाने सत्युभयतोऽवस्थितैर्ग्राम्यैः पशुभिः परितोऽवबध्याऽऽरण्यान्पशून्गृह्णाति। यस्मादत्रारण्यगणो मध्ये प्रक्षिप्तस्तस्माल्लोकेऽप्यरण्यवासिनो हरिणादय आनीयमानाः पलायनं वारयितुं ग्रामे परिचयवद्भिर्हरिणादिभिरुभयत एकपाशेन बद्ध्वा परिगृहीता भवन्ति।
कल्पः — “अग्नये स्वाहेति षट्पार्थानि पुरस्तादभिषेकस्य जुहोति” इति। “इन्द्राय स्वाहेति षट्पार्थान्युपरिष्टादभिषेकस्य जुहोति” इति च। “पृथिव्यै स्वाहेति षड्भूतानामवेष्टीः” इति च। “अद्भ्यः स्वाहेति षड्भूतानामवेष्टीः” इति च।
एतस्मिन्नवेष्टिविनियोगेऽप्यभिषेकात्पूर्वं षट्कमेकं तत ऊर्ध्वमपरं षट्कमिति द्रष्टव्यम्। पाठस्तु –
अग्नय इति। अत्र चतुर्थ्यन्तैरुक्ताः सर्वे देवताविशेषा द्रष्टव्याः।
तत्र पार्थानि विधातुं प्रस्तौति –
“पृथिर्वैन्यः। अभ्यषिच्यत (३)। स राष्ट्रं नाभवत्। स एतानि पार्था-न्यपश्यत्। तान्यजुहोत्। तैर्वै स राष्ट्रमभवत्” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ७) इति।

[[917]]

९१७
प्रपा॰ ८ अनु॰ १३) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(राजसूयविषयदिग्व्यास्थापनमन्त्राणामभिधानम्)
वेनस्य पुत्रः पृथिनामा कश्चिद्राजा राजसूये पार्थहोमं विनैवाभ्यषिच्यत।
ततः स राष्ट्रं न प्राप्नोत्। अतो राष्ट्रप्राप्तये पार्थसंज्ञकान्यग्नये स्वाहेत्यादीनि मन्त्रवाक्यान्य(ण्य)पश्यत्। तैर्हुत्वा राष्ट्रं प्राप्नोत्। विधत्ते –
“यत्पार्थानि जुहोति। राष्ट्रमेव भवति” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ७) इति। भवत्येव प्राप्नोत्येव। षष्ठसप्तममन्त्रौ प्रशंसति –
“बार्हस्पत्यं पूर्वेषामुत्तमं भवति। ऐन्द्रमुत्तरेषां प्रथमम्। ब्रह्म चैवास्मै क्षत्रं च समीची दधाति। अथो ब्रह्मन्नेव क्षत्रं प्रतिष्ठापयति (४)” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ७) इति।
बृहस्पतये स्वाहेत्येतन्मन्त्रवाक्यं पूर्वेषां षण्णां मन्त्राणां चरमम्। इन्द्राय स्वाहेत्येतद्वाक्यमुक्तरेषां षण्णां प्रथमम्। तथा सति बृहस्पतेरिन्द्रस्य च ब्रह्मणक्षत्रियाभिमानिदेवत्वादस्मै यजमानाय तज्जातिद्वयं समीची दधाति परस्परस्नेहयुक्तं करोतीत्यर्थः। किंच तयोर्मन्त्रयोः पूर्वोत्तरभावेन ब्राह्मणे क्षत्रियं प्रतिष्ठापयति ब्राह्मणानुकूलं करोतीत्यर्थः। विधत्ते ––
“षट् पुरस्तादभिषेकस्य जुहोति। षडुपरिष्टात्। द्वादश संपद्यन्ते। द्वादश मासाः संवत्सरः। संवत्सरः खलु वै देवानां पूः। देवानामेव पुरं मध्यतो व्यव-सर्पति। तस्य न कुतश्चनोपाव्याधो भवति” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ७) इति।
वसन्ते वसन्ते देवैः सोमस्य पीयमानत्वाद्भोगस्थानत्वेन संवत्सरो देवानां पुरमिव भवति। यथा पुरे पण्यवीथी व्यवस्थिताभ्यामुभयतो वाटिकाभ्यां युक्ता भवति तस्यां गच्छन्पुरुषश्चोरैरविद्धो भवति तद्वत्पार्थयोः षट्कयोर्मध्येऽभिषेकाय यजमानो देवपुरमध्ये प्रविशति तस्य कुतोऽप्यन्यस्माद्बाधो न भवति। विधत्ते –
“भूतानामवेष्टीर्जुहोति। अत्रात्र वै मृत्युर्जायते। यत्र यत्रैव मृत्युर्जायते। तत एवैनमयजते। तस्माद्राजसूयेनेजानः सर्वमायुरेति। सर्वे ह्यस्य मृत्यवोऽवेष्टाः। तस्माद्राजसूयेनेजानो नाभिचरितवै। प्रत्यगेनमभिचारः स्तृणुते (५)” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ७) इति।
भूतानां यक्षराक्षसपिशाचादीनां मृत्युहेतूनामवयजनस्य विनाशस्य हेतव आ-हुतयः। पृथिव्यै स्वाहेत्यादिद्वादशमन्त्रसाध्या आहुतयो भूतानामवेष्टयस्ता जुहु-यात्। अत्रात्र संध्याकाले मध्यरात्रे निर्जनदेश उच्छिष्टदेशे बाल्याद्यवस्थायां च भूतोपद्रवरूपो मृत्युरुत्पद्यते। अनेन तु होमेन तत एव देशात्कालादवस्थाविशे-


१ ख. ०न्ते दे०।

[[918]]

९१८
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे–––
(राजसूयविषयभिषेकाभिधानम्)
षाच्चैनं मृत्युमवयजते नाशयति। यस्मान्मृत्युर्नाशितस्तस्माद्राजसूयेनेष्टवतो यजमानस्यापमृत्युपरिहारेण कृत्स्नायुःप्राप्तिर्भवति। यस्माद्वैरिभिरापादितो भूताद्युपद्रवो राजसूययाजिनं न प्राप्नोति तस्मादयं नाभिचरितवै नाभिचरणीयः। स च परैः कृतोऽभिचारः प्रत्यक्कर्तुरेवाभिमुखो भूत्वा तमेनणभाचारकर्तारं स्तृणुते हिनस्ति।
अत्र विनियोगसंग्रहः —
“दिशो व्यास्थापयेद्भूपमध्वर्युः समिपञ्चभिः।
मारुतस्य कपालानि दध्यादीदृङ्चर्तुदश॥
अग्नाभिषेकतः पूर्वं षट् पार्थान्युत्तराणि षट्।
पृथिषट्कद्वयं तद्वत्स्युर्भूतानामवेष्टयः॥
त्रयोदशेऽनुवाकेऽस्मिंस्त्रिचत्वारिंशदीरिताः”॥ इति।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डेऽष्टमप्रपाठके
त्रयोदशोऽनुवाकः॥१३॥
–––––––––