१२

(अथ प्रथमाष्टकेऽष्टमप्रपाठके द्वादशोऽनुवाकः )।
देवी॑रापः॒ सं मधु॑मती॒र्मधु॑मतीभिः सृज्यध्वं॒
महि॒ वर्चः॑ क्ष॒त्त्रिया॑य वन्वा॒ना अना॑धृष्टाः सीद॒–
तोर्ज॑स्वती॒र्महि॒ वर्चः॑ क्ष॒त्त्रिया॑य॒ दध॑ती॒रनि॑भृष्ट–
मसि वा॒चो बन्धु॑स्तपो॒जाः सोम॑स्य दा॒त्रम॑सि
शु॒क्रा वः॑ शु॒क्रेणोत्पु॑नामि च॒न्द्राश्चन्द्रेणा॒मृता॑
अ॒मृते॑न॒ स्वाहा॑ राज॒सूया॑य चिता॑नाः। सध॒–
मादो॑ द्यु॒म्निनी॒रूर्ज॑ ए॒ता अनि॑भृष्टा अप॒स्युवो॒
वसा॑नः। प॒स्त्या॑सु चक्रे॒ वरु॑णः स॒धस्थ॑म॒पाँ
शिशुः॑ (१) मा॒तृत॑मास्व॒न्तः। क्ष॒स्रस्योल्ब॑–
मसि क्ष॒त्रस्य॒ योनि॑र॒स्यावि॑न्नो अ॒ग्निर्गृहप॑ति॒रा–
वि॑न्न॒ इन्द्रो॑ वृ॒द्धश्र॑वा॒ आवि॑न्नः पू॒षा वि॒श्ववे॑दा॒
आवि॑न्नौ मि॒त्रावरुणावृता॒वृधा॒वावि॑न्ने॒ द्यावा॑–
पृथि॒वी धृ॒तव्र॑ते आवि॑न्ना दे॒व्यदि॑तिर्विश्वरू॒प्या
वि॑न्नो॒ऽयम॒सावा॑मुष्याय॒णो॑ऽस्यां वि॒श्य॑स्मिन्‍रा॒ष्ट्रे
म॑ह॒ते क्ष॒त्राय॑ मह॒त आधि॑पत्याय मह॒ते
जान॑राज्यायै॒ष वो॑ भरता॒ राजा॒ सोमो॒ऽस्माकं॑
ब्राह्मा॒णानाँ॒ राजेन्द्र॑स्य (२) वज्रो॑ऽसि॒ वार्त्र॑–

[[904]]

९०४
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे–––
(राजसूयविषयाणामभिषेकार्थजलविषयमन्त्राणामभिधानम्)
घ्न॒स्त्वया॒ऽयं वृ॒त्रं व॑ध्याच्छत्रु॒बा॑धनाः स्थ पा॒त
मा॑ प्र॒त्यञ्चं॑ पा॒त मा॑ ति॒र्यञ्च॑म॒न्वञ्चं॑ मा पात
दि॒ग्भ्यो मा॑ पात॒ विश्वा॑भ्यो मा ना॒ष्ट्राभ्यः॑
पात॒ हिर॑ण्यवर्णावु॒षसां॑ विरो॒केऽयः॑स्थूणा॒वु–
दि॑तौ॒ सूर्य॒स्याऽऽरो॑हतं वरुण मित्र॒ गर्तं॒ तत॑–
श्चक्षाथा॒मदि॑तिं॒ दितिं॑ च (३)॥
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टकेऽ–
ष्टमप्रपाठके द्वादशोऽनुवाकः॥१२॥
––––––––
(अथ प्रथमकाण्डेऽष्टमप्रपाठके द्वादशोऽनुवाकः )।
एकादशेऽभिषेकजलमन्त्रा उक्ताः। द्वादशे तज्जलसंस्कारमन्त्रा उच्यन्ते।
कल्पः — “देवीराप इति वैतसे सते ग्रहान्समवनीय” इति।
अप्सु जातो वृक्षविशेषो वेतसस्तेन निर्मितं द्रोणकलशसदृशं पात्रं सतं तस्मिन्सते वायव्यैर्गृहीतास्ता अपोऽवनयेत्। पाठस्तु –
देवीराप इति। हे आपो देव्यो नानापात्रेषु गृहीता यूयं क्षत्रियाय राज्ञे महि वर्चो वन्वाना महत्तेजः संपादयन्त्यः परस्परं संसृज्यध्वम्। कीदृश्यः कीदृ-शीभिः सह। मधुमतीर्मधुरा मधुमतीभिर्मधुराभिः सह।
मन्त्रसामर्थ्येन परस्परं संसर्गः संपद्यत इति दर्शयति––
“देवीरापः सं मधुमतीर्मधुमतीभिः सृज्यध्वमित्याह। ब्रह्मणैवैनाः सँसृजति” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ६) इति।
कल्पः — “अनाधृष्टाः सीदतेत्यन्तरा होतुर्धिष्ण्यं ब्राह्मणाच्छंसिनश्च सादयि-त्वा” इति। पाठस्तु –
अनाधृष्टा इति। हे आपोऽनाधृष्टाः केनाप्यतिरस्कृता ऊर्जस्वतीः सारस्वत्यः सीदत तिष्ठत। किं कुर्वत्यः। राज्ञे महद्वर्चो दधत्यः।
मन्त्रसामर्थ्येनैवाऽऽसामुपवेशनमपि संपद्यत इत्याह –
“अनाधृष्टाः सीदतेत्याह। ब्रह्मणैवैनाः सादयति” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ६) इति। विधत्ते –

[[905]]

९०५
प्रपा॰ ८ अनु॰ १२) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(राजसूयविषयाणामभिषेकार्थजलविषयमन्त्राणामभिधानम्)
“अन्तरा होतुश्च धिष्णियं ब्राह्मणाच्छँसिनश्च सादयति। आग्नेयो वै होता। ऐन्द्रो ब्राह्मणाच्छँसी। तेजसा चैवेन्द्रियेण चोभयतो राष्ट्रं परिगृह्णाति” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ६) इति।
प्र वो देवायाग्नय इत्याद्याग्नेयशस्त्रपाठाद्धोताऽऽग्नेयः। इन्द्र त्वा वृषभं वयमित्याद्यैन्द्रशस्त्रपाठाद् ब्राह्मणाच्छंसिन ऐन्द्रत्वम्।
कल्पः – “अनिभृष्टमसीति तस्मिञ्शतमानं हिरण्यमवधाय” इति। पाठस्तु –
अनिभृष्टमिति। हे हिरण्य त्वमनिभृष्टमसि यवादिवद्वह्निसंयोगेऽपि नितरां भृष्टं नासि न भवसि। किंच वाचो बन्धुतसि। हिरण्यवत्तया हि राजामात्यादीनां वाक्सर्वैराद्रियते। तपोजा असि संतापवतोऽग्नेर्जातोऽसि। हिरण्यस्याग्निरेतस्त्वात्। तथा चाऽऽधानप्रकरणेऽग्निं प्रकृत्य श्रूयते – “तस्य रेतः परापतत्। तद्धिरण्यमभवत्” इति। सोमस्य दात्रमसि सोमस्य क्रयार्थं त्वं दत्तमसि। “हिरण्येन क्रीणाति” इति श्रुतेः।
कल्पः – “शुक्रा वः शुक्रेणोत्पुनामीति तेनोत्पूय” इति। पाठस्तु –
शुक्रा व इति। हे आपः शुक्रा वो दीप्तमतीर्युष्माञ्शुक्रेण दीप्तिमता हिर-ण्येनोत्पुनामि। कीदृशीः कीदृशेन। चन्द्राश्चन्द्रेण। उभयोराह्लादकत्वं प्रसि-द्धम्। अमृता अमृतेन। स्वादुत्वादापोऽमृताः। प्रियत्वाद्धिरण्यममृतम्। पुनरपि कीदृशीः। स्वाहाकारसंपादितहोमयुक्ताय राजसूयाय चितानाः संपादिताः। विधत्ते –
“हिरण्येनोत्पुनाति। आहुत्यै हि पवित्राभ्यामुत्पुनन्ति व्यावृत्त्यै (१)” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ६) इति।
पात्रे स्थापितं हिरण्यं दर्भेण दीर्घसूत्रेण वा प्रग्रथ्य तत्सूत्रं हस्ताभ्यां धृत्वो-त्पुनीयात्। आज्यं त्वाहुत्यर्थं पवित्राभ्यामेवोत्पूयते। आपस्त्वभिषेकार्था इत्या-ज्याद्व्यावृत्त्यर्थं हिरण्येनोत्पवनम्। हिरण्यपरिमाणं विधत्ते –
“शतमानं भवति। शतायुः पुरुषः शतेन्द्रियः। आयुष्येवेन्द्रिये प्रतितिष्ठति” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ६) इति।
वाजपेये यूपावरोहणप्रसङ्गे यमेतद्व्याख्यातम्। मन्त्रद्वयभागानामर्थो लोकसिद्ध इति दर्शयति –

[[906]]

९०६
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे–––
(राजसूयविषयाणामभिषेकार्थजलविषयमन्त्राणामभिधानम्)
“अनिभृष्टमसीत्याह। अनिभृष्टँ ह्येतत्। वाचो बन्धुरित्याह। वाचो ह्येष बन्धुः। तपोजा इत्याह। तपोजा ह्येतत्। सोमस्य दात्रमसीत्याह ( २ )। सोमस्य ह्येतद्दात्रम्। शुक्रा वः शुक्रेणोत्पुनामीत्याह। शुक्रा ह्यापः। शुक्रँ हिरण्यम्। चन्द्राश्चन्द्रेणेत्याह। चन्द्रा ह्यापः। चन्द्रँ हिरण्यम्। अमृता अमृतेनेत्याह। अमृता ह्यापः। अमृतँ हिरण्यम् ( ३ )। स्वाहा राजसूयाये-त्याह। राजसूयाय ह्येना उत्पुनाति” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ६) इति।
राजसूयाय राजसूयान्तर्गतराजाभिषेकाय।
कल्पः — “सधमादो द्युम्निनीरिति चतुर्षूदपात्रेषु व्यानयति पालाश औदुम्बर आश्वत्थे नैयग्रोधे च” इति। पाठस्तु –
सधमाद इति। वरुणः पस्त्यासु गृहस्थानीयास्वप्सु अन्तर्मध्ये सधस्थं चक्रे ताभीरद्भिः सह स्थितिं कृतवान्। कीदृशीषु पस्त्यासु। मातृतमासु। अति-शयेन मातरो मातृतमाः। अतिस्नेहयुक्ता मातरो हि पुत्रं पालयन्ति प्रियं तद्वत्पालयित्र्य इत्यर्थः। कीदृशो वरुणः। अपां शिशुः। मतृस्थानीयानामपां पुत्रस्थानीयः। किं कुर्वन्। वसान एता अपो वस्त्रवदाच्छादयन्। कीदृशीरपः। सधमादः स्वान्तःस्थितेन वरुणेन सहैकस्मिन्देशे स्थित्वा तं वरुणं मादयित्रीर्हर्षयित्रीः। द्युम्निनीर्दीप्तिमतीर्धनवतीर्वा। ऊर्जो बलहेतुभूताः। अनिभृष्टा यवादिवद्भर्जनायोग्याः। अपस्युवः कर्माणीच्छन्तीः। विधत्ते –
“सधमादो द्युम्निनीरूर्ज एता इति वारुण्यर्चा गृह्णाति। वरुणसवमेवावरुन्धे” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ६) इति।
वरुणसवं वरुणानुज्ञानम्। ऋच एकत्वं प्रशंसति –
“एकया गृह्णाति। एकधैव यजमाने वीर्यं दधाति” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ६) इति।
क्षत्त्रस्येति। कल्पः — “क्षत्रस्योल्बमसीति तार्प्यं यजमानः परिधत्ते। क्षत्रस्य योनिरसीति पाण्डुरमुष्णीषं द्वितीयं श्वेतं पाण्डुरमित्याचक्षते” इति।
तार्प्यं घृताक्तं वस्त्रम्। वाजपेये व्याख्यातौ मन्त्रौ। विधत्ते –
“क्षत्रस्योल्बमसि क्षत्रस्य योनिरसीति तार्प्यं चोष्णीषं च प्रयच्छति सयोनित्वाय” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ६) इति।


१ ख. घ. च. पाण्डर०। २ ख. च. पाण्डर०।

[[907]]

९०७
प्रपा॰ ८ अनु॰ १२) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(राजसूयविषयाणामभिषेकार्थजलविषयमन्त्राणामभिधानम्)
यजमानो राजत्वात्क्षत्रियः। तार्प्योष्णीषयोरपि क्षत्रसंबन्धित्वे सयोनित्वं समानजातित्वं भवति। विधत्ते –
“एकशतेन दभपुञ्जीलैः पवयति। शतायुर्वै पुरुषः शतवीर्यः। आत्मैकशतः (४)। यावानेव पुरुषः। तस्मिन्वीर्यं दधाति” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ६) इति।
बहुभिर्दर्भनाडीभिर्युक्तमेकं काण्डं दर्भपुञ्जीलं, तादृशैरेकाधिकशतसंख्याकै-र्यजमानं शोधयेत्। शतवीर्यः शतेन्द्रिय आत्मा यजमानजीवः शताधिकामे-कत्वसंख्यां पूरयति। द्रव्यात्रयभभक्षणं क्रमेण विधत्ते –
“दध्याशयति। इन्द्रियमेवावरुन्धे। उदुम्बरमाशयति। अन्नाद्यस्यावरुद्ध्यै। शष्पाण्याशयति। सुराबलिमेवैनं करोति” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ६) इति।
दध्न इन्द्रियप्रियत्वात्तेनेन्द्रियावरोधः। उदुम्बरफलस्य मधुरत्वान्मृदुत्वाच्चात्तुं योग्यत्वम्। शष्पाण बालतृणानि। व्रीहियवाङ्कुराणीत्यर्थः। तेषां सुराजनक-त्वात्सुरात्वम्। सा च सुरा बलिः पूजा यस्य सोऽयं यजमानः सुराबलिः।
कल्पः — “आविन्नो अग्निरित्याविदो यजमानं वाचयन्बहिरुदानीय” इति। आविद आवित्संज्ञका मन्त्राः सप्त। उदानीयाऽऽग्नीध्रीयाद्बहिर्निःसार्य। पाठस्तु–
आविन्न इति। अग्निरिदानीं गृहपतिराविन्नोऽनेन कर्मणा गृहपतित्वं लब्धवान्। इन्द्रः प्रवृद्धकीर्तिं लब्धवान्। पूषा विज्ञानं लब्धवान्। मित्रावरुणौ सत्यवचनवृद्धिं लब्धवन्तौ। द्यावापृथिव्यौ नियमेन सर्वस्वव्यापाररूपं व्रतधारणं लब्धवत्यौ। आदितिर्देवमाता च सर्वदेवशरीरयुक्तत्वं लब्धवती। देवतारूपान्बहुपुत्रानुत्पादयतीत्यर्थः। अयं पुरतो वर्तमानोऽसौ नरसिंहवर्माऽऽमुष्यायणोऽमुष्य राजेन्द्रवर्मणः पुत्रः पौत्रो वा। तादृशो यजमानोऽस्यां प्रजायामस्मिन्‍राष्ट्रे महद्भयः क्षत्रत्वादिपूर्वव्याख्यातगुणेभ्यः पर्याप्तः सन्नाविन्नस्तान्गुणाल्लँब्धवानित्यर्थः।
एष व इति। कल्पः — “एष वो भरता राजेत्युक्त्वा” इति।
पूर्ववदनेन मन्त्रेण यजमानं रत्निभ्यः प्रदाय “सोमोऽस्माकं ब्राह्मणानाँ राजा” इति ब्रह्मा जपतीत्यर्थः। विधत्ते –
“आविद एता भवन्ति। आविदमेवैनं गमयन्ति (५)” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ६) इति।

[[908]]

९०८
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे–––
(राजसूयविषयाणामभिषेकार्थजलविषयमन्त्राणामभिधानम्)
एता आविन्न इत्याद्या आवित्संज्ञका मन्त्रवाचो मन्त्रवाचो वाचनीया भवन्तीत्यर्थः। तेनैनं यजमानमाविदं गृहपतित्वादिलाभं प्रापयन्तीत्यर्थः।
आद्यमन्त्रचतुष्टयपाठं प्रशंसति –
“अग्निरेवैनं गार्हपत्येनावति। इन्द्र इन्द्रियेण। पूषा पशुभिः। मित्रावरुणौ प्राणापानाभ्याम्” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ६) इति।
गार्हपत्यं गृहपतित्वम्। इन्द्रियेणावतीत्यनुवर्तते। पञ्चमन्त्रं प्रशंसति –
“इन्द्रो वृत्राय वज्रमुदयच्छत्। स दिवमलिखत्। सोऽर्यम्णः पन्था अभवत्। स आविन्ने द्यावापृथिवी धृतव्रते इति द्यावापृथिवी उपाधावत्। स आभ्यामेव प्रसूत इन्द्रो वृत्राय वज्रं प्राहरत्। आविन्ने द्यावापृथिवी धृतव्रते इति यदाह (६)। आभ्यामेव प्रसूतो यजमानो वज्रं भातृव्याय प्रहरति” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ६) इति।
इन्द्रेणोद्यतस्य वज्रस्य तीक्ष्णतया द्युलोके रेखा संपन्ना। सा च सूर्यस्य मार्गोऽभवत्। तदानीं द्यौरुत्पाटनेन क्षुब्धा यदा वज्रप्रहारायानुज्ञां दत्तवती तदा स इन्द्रोऽनेन मन्त्रेण द्यावापृथिव्यौ सेवित्वा ताभ्यामनुज्ञातो वृत्राय वज्रं प्राहरत्। एवं यजमानोऽप्यनेन मन्त्रेण वैरिणे वज्रं प्रहरति। षष्ठमन्त्रं प्रशंसति–
“आविन्ना देव्यदितिर्विश्वरूपीत्याह। इयं वै देव्यदितिर्विश्वरूपी। अस्यामेव प्रतिष्ठति” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ६) इति। भूमिरेव कांचिन्मूर्तिं धृत्वा देवमाताऽदितिरित्युच्यते। सप्तमन्त्रस्य पूर्वभागं प्रशंसति –
“आविन्नोऽयमसावामुष्यायणोऽस्यां विश्यस्मिन्‍राष्ट्र इत्याह। विशैवैनँ राष्ट्रेण समर्धयति” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ६) इति।
विशा करप्रदायिन्या प्रजया राष्ट्रेण सर्वसस्ययुक्तेन भूमिविशेषेण च यजमानं समर्धयत्येव। तस्य मन्त्रस्योत्तरभागमुत्तरौ च मन्त्रौ पूर्ववद्व्याचष्टे –
“महते क्षत्राय महत आधिपत्याय महते जानराज्यायेत्याह। आशिषमे-वैतामाशास्ते। एष वो भरता राजा सोमोऽस्माकं ब्राह्मणानाँ राजेत्याह। तस्मात्सोमराजानो ब्राह्मणाः (७)” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ६) इति।
कल्पः — “इन्द्रस्य वज्रोऽसि वार्त्रघ्न इति धनुर्यजमानाय प्रयच्छति” इति।

[[909]]

९०९
प्रपा॰ ८ अनु॰ १२) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(राजसूयविषयाणामभिषेकार्थजलविषयमन्त्राणामभिधानम्)
इन्द्रस्येति। हे धनुस्त्वमिन्द्रस्य वज्रवत्प्रहारसाधनमसि। अतस्त्वयाऽयं यजमानो वैरिणं वध्यात्। विधत्ते ––
“इन्द्रस्य वज्‍रोऽसि वार्त्रघ्न इति धनुः प्रयच्छति विजित्यै” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ६) इति।
शत्र्विति। कल्पः — “शत्रुबाधनाः स्थेति त्रीन्बाणावतः” इति।
बाणा शल्यं तद्युक्ताग्रानित्यर्थः। त्रीनिषून्प्रयच्छतीति शेषः। हे इषवो यूयं शत्रणां बाधका भवथ। विधत्ते –
“शत्रुबाधनाः स्थेतीषून्। शत्रूनेवास्य बाधन्ते” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ६) इति। प्रयच्छतीत्यनुवर्तते।
कल्पः — “पात मा प्रत्यञ्चमिति प्रदीयमानाननुमन्त्रयते” इति। पाठस्तु –
पात मेति। यदा वैरी पुरतः स्थित्वा बाणं मुञ्चति तदानीमयं विध्यमानो बाणस्य प्रत्यङ्मुखो भवति। पार्श्वयोः स्थित्वा बाणमोक्षणेऽयं तिर्यग्भवति। पृष्ठतः स्थित्वा बाणमोक्षणे पलायमानोऽयमन्वग्भवति। हे मदीया बाणाः प्रत्यगादिरूपं मां पात परकीयेभ्यो यथोक्तप्रकारेण मां प्रत्यागच्छद्भ्यो बाणेभ्यो रक्षत। युद्धकुशला हि स्वकीयैर्बाणैः परकीयानपसारयन्ति खण्डयन्ति वा। अतो मद्धस्तेऽवस्थिता हे बाणाः सर्वाभ्यो दिग्भ्यो मां पात। न केवलं पर-कीयबाणेभ्य एव रक्षणं किंतु विश्वाभ्यः सर्वाभ्यो नाष्ट्राभ्यो नाशहेतुभ्यः शत्रु-कृतपीडाभ्यो मां पात। मन्त्रस्य पूर्वभागं व्याचष्टे –
“पात मा प्रत्यञ्चं पात मा तिर्यञ्चमन्वञ्चं मा पातेत्याह। तिस्रो वै शरव्याः। प्रतीची तिरश्च्यनूची। ताभ्य एवैनं पान्ति” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ६) इति।
शरव्या हिंसिकाः परकीयहेतयस्ताश्च पूर्वोक्तरीत्या प्रत्यगादिरूपाः।
मध्यमभागं व्याचष्टे –
“दिग्भ्यो मा पातेत्याह। दिग्भ्य एवैनं पान्ति” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ६) इति।
दूरदेशवर्तिनीषु दिक्षु स्थिताः संधिविग्रहकारिमनुष्यमुखेन(ण) वैरिणो


१ ख. स्थित्वा।

[[910]]

९१०
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे–––
(राजसूयविषयाणामभिषेकार्थजलविषयमन्त्राणामभिधानम्)
भीषयन्ति। ताभ्यो दूरदेशवर्तिनीभ्यो दिग्भ्य एनं यजमानं हस्तस्था बाणाः पान्त्येव। तृतीयभागं व्याचष्टे –
“विश्वाभ्यो मा नाष्ट्राभ्यः पातेत्याह। अपरिमितादेवैनं पान्ति” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ६) इति।
अपरिमिताद्बहुविधाद्ग्रामापहारादिरूपाद्बाधात्। कल्पः —
“हिरण्यवर्णावित्युद्यतावभिमन्त्रयते” इति।
वेद्धुमुद्यतौ धनुर्बाणयुक्तौ यजमानहस्तौ। पाठस्तु –
हिरण्यवर्णाविति। हे वरुण शत्रुनिवारक वामहस्त, हे मित्र शत्रुमारक दक्षिणहस्त युवां गर्तमारोहतं, वेद्धुमुद्यतौ धनुर्बाणयुक्तौ यजमानहस्तौ रथस्योपरिभागं गर्तसदृशमारोहतं परकीयबाणेभ्यो रक्षतम्। परितश्चर्मफलकादिभिराच्छादिते सति रथस्योपरिभागो गर्तसदृशो भवति। आरोहणं कदा कर्तव्यमित्युच्छते – उषसां विरोके सूर्यस्योदितौ प्रतिदिनं यान्युषांसि सूर्योदयात्पूर्वभावीनि तेषां संबन्धिनि विशिष्ट आलोके प्रवर्तमाने सति यः सूर्यस्योदयस्तस्मिन्नुत्पन्ने सति। कीदृशौ बाहू। हिरण्यवर्णौ सुवर्णखचितकवचप्रतिमोकेन हिरण्यवद्भासमानौ। अयःस्थूणौ लोहस्तम्भवदत्यन्तदृढौ। ततो रथारोहणादूर्ध्वमदितिमखण्डितां स्वसेनां दितिं खण्डितां परसेनां च चक्षाथां क्रमेणनुग्रहनिग्रहदृष्टया समीक्षेथाम्। विधत्ते –
“हिरण्यवर्णावुषसां विरोक इति त्रिष्टुभा बाहू उद्गृह्णाति। इन्द्रियं वै वीर्यं त्रिष्टुक्। इन्द्रियमेव वीर्यमुपरिष्टादात्मन्धत्ते (८)"(ब्रा॰ का॰ १ प्र॰ ७ अ॰ ६) इति।
उद्ग्रहणमुद्यतयोरभिमन्त्रणम्। बौधायनपक्षे तु यथाब्राह्मणं बाहूद्यामनार्थ एव मन्त्रः। इन्द्रियं वीर्यं हस्तपादादिगतसामर्थ्यं, तत्सामर्थ्यप्रदत्वात्रिष्टुप्छन्दसस्तद्रूपत्वम्। अत्र विनियोगसंग्रहः —
“देवीति वैतसे पात्रे सर्वा अपि नयेदपः।
अनेति सादयेन्मध्ये होतुर्ब्रह्माख्याधिष्ण्ययोः॥
अनिभृष्टेति तास्वन्तः शतस्वर्णं विनिक्षिपेत्।
स्वर्णेनोत्पवनं शुक्राः पात्रेषु व्यानयेत्सध॥


१ क. घ. ङ. च. ०मोचके०।

[[911]]

९११
प्रपा॰ ८ अनु॰ १३) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(राजसूयविषयदिग्व्यास्थापनमन्त्राणामभिधानम्)
क्षत्रेति धारयेत्स्वामी तार्प्योष्णीषद्वयं क्रमात्।
स्वामिनं वाचयेदाविसप्तमन्त्रान्विनिर्गतौ॥
एष वः स्वामिनं दद्यात्सोमोऽस्मा ब्रह्मणो जपः।
इन्द्र दद्यात्स्वामिनोऽन्यो धनुः शत्र्विति बाणकान्॥
पातेषून्मन्त्रयेत्स्वामी हिर बाहू तथोद्यतौ।
अनुवाके द्वादशेऽस्मिन्मन्त्रा विंशतिरीरिताः”॥ इति।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डेऽष्टमप्रपाठके
द्वादशोऽनुवाकः॥१२॥
–––––––––