(अथ प्रथमाष्टकेऽष्टमप्रपाठक एकादशोऽनुवाकः )।
अ॒र्थेतः॑ स्था॒पां पति॑रसि॒ वृषा॑ऽस्यू॒र्मिवृ॑षसे॒–
नो॑ऽसि व्रज॒क्षितः॑ स्थ म॒रुता॒मोजः॑ स्थ॒ सूर्य॑–
वर्चसः स्थ॒ सूर्य॑त्वचसः स्थ मान्दाः॑ स्थ॒
वाशाः॑ स्थ॒ शक्क॑रीः स्थ विश्व॒भृतः॑ स्थ जन॒–
भृतः॑ स्था॒ग्नेस्ते॑ज॒स्याः॑ स्था॒पामोष॑धीनाँ॒ रसः॑
स्था॒पो दे॒वीर्मधु॑मतीरगृह्ण॒न्नूर्ज॑स्वती राजसू॒या॑य॒
चिता॑नाः। याभि॑र्मि॒त्रावरु॑णाव॒भ्यषि॑ञ्च॒न्याभि–
रिन्द्र॒मन॑य॒न्नत्यरा॑तीः। रा॒ष्ट्र॒दाः स्थ॑ रा॒ष्ट्रं द॑त्त॒
स्वाहा॑ राष्ट्र॒दाः स्थ॑ रा॒ष्ट्रम॒मुष्मै॑ दत्त॥१॥
(अत्येका॑दश च)
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टकेऽ–
ष्टमप्रपाठक एकादशोऽनुवाकः॥११॥
–––––––
( अथ प्रथमकाण्डेऽष्टमप्रपाठक एकादशोऽनुवाकः )।
दशमे देवसुवां हवींष्युक्तानि। एकादशेऽभिषेकार्थजलविषया मन्त्रा उच्यन्ते।
कल्पः — “अपां ग्रहान्गृह्णात्याग्नीध्रे वायव्यैर्गृह्यन्ते षोडश सप्तदश वा ग्रहा गृह्यन्ते तावन्त एव ग्रहा गृह्यन्ते, अर्थेतः स्थेति सारस्वतीष्वप्सु हुत्वैतेनैव मन्त्रेण गृह्णात्येवमुत्तरैर्येन जुहोति तेन गृह्णाति, अपां पतिरिति समुद्रियाः सैन्धवीर्वाऽपो वाऽन्यः पुंनदः स्यात्पुरुषे पशौ वाऽभ्यवेते प्रतीपमन्य ऊर्मिर्युध्यत्यन्वीपमन्यो वृषाऽसीति यः प्रतीपं वृषसेनोऽसीति योऽन्वीपं व्रजक्षित इति कूप्यानां मरुतामोज इति याः प्रतीपं गच्छन्ति ह्रादुनीनां वा प्रभावरीः स्थेति या उत्स्यन्दित्वा तत्रैव प्रत्यवसिच्यन्ते परिवाहिणीः स्थेति परिनदीनां सूर्यवर्चस इत्यातपति वर्ष्याणां सूर्यत्वचस इति यासु रूपाणि परिदृश्यन्ते मान्दा इति स्थावराणां वाशा इति पुष्पाणां शक्करीः स्थेति गोरुल्ब्यानां विश्वभृत इति पयसो
१ स्र. घ. ङ. च. वा गृ०। २ ख. प्रहाव०। ३ क. घ. ङ. च. यावदुत्स्य०।
[[899]]
८९९
प्रपा ० ८ अनु० ११ ] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता। (राजसूयविषयाणामभिषेकार्थजलविषयमन्त्राणामभिधानम्)
जनभृत इति दध्नोऽग्नेस्तेजस्या इति घृतस्यापामोषधीनाँ रस इति मधुनोऽपो देवीर्मधुमतीरगृह्णन्निति सर्वत्र होमे ग्रहणे चानुषजति राष्ट्रदाः स्थ राष्ट्रं दत्त स्वाहेति होमसंयुक्ते राष्ट्रादाः स्थ राष्ट्रममुष्मै दत्तेति ग्रहणसंयुक्ते” इति।
सूत्रार्थो मन्त्रव्याख्यान एव स्पष्टी भविष्यति। प्रभावरीः स्थ परिवाहिणीः स्थेति मन्त्रद्वयं शाखान्तरगतम्। अत्र मन्त्रपाठस्तु —
अर्थेत इति। हे सारस्वत्य आपो यूयमर्थेतः स्थ, अर्थं प्रयोजनमुद्दिश्य सरस्वत्या नद्या सकाशाद्यज्ञदेशं यन्ति गच्छन्तीत्यर्थेतः, यूयं तथाविधाः स्थ। समुद्रं कांचिन्नदीं पुंनदं वा संबोध्यापां पतिरसीत्युच्यते। त्वदीयं जलं गृह्णामीत्यभिप्रायः। हे प्रतीपं युद्यन्नूर्मे त्वं वृषाऽसि सेचकोऽसि। हेऽन्वीपं युध्यन्नूर्मे त्वं वृषसेनोऽसि सेचनक्षमा सेना जलराशिरूपा यस्यासौ वृषसेनः। पुरुषे पशौ वा नदीमुत्तरीतुं प्रविष्टे सत्युपरिभागस्थ ऊर्मिः प्रवाहस्योर्म्यन्तरेण युध्यति, अधोभागस्थः प्रवाहानुकूलः सहसा गच्छन्नूर्म्यन्तरेण युध्यति, तदुभयमत्रोक्तम्। हे कूप्या आपो यूयं व्रजक्षितः स्थ, व्रजे गोष्ठवद्बह्वीनां निवासयोग्ये कूपस्थाने क्षियन्ति निवसन्तीति व्रजक्षितः। हे प्रतीपगामिन्य आपो यूयं मरुतामोजः स्थ वायूनां बलरूपा भवत। आवर्तादिषु वायुना प्रतिहताः सत्यः प्रतीपं गच्छन्ति। हे आतपयुक्तवृष्टिसंबन्धिन्य आपो यूयं सूर्यवर्चसः स्थ, सूर्यवद्वर्चस्तेजो यासां ताः सूर्यवर्चसः। हे सूर्यादिप्रतिबिम्बग्राहिण्य आपो यूयं सूर्यत्वचसः स्थ, सूर्यस्य त्वक्शरीरं प्रतिबिम्बरूपेण यासु तिष्ठति ताः सूर्यत्वचसः। हे स्थावरा आपो यूयं मान्दाः स्थ गत्यभावान्मन्दरूपाः स्थ। हे नीहारगता आपो यूयं वाशाः स्थ वश्या भवत। नीहारो हि नदीप्रवाहवन्मनुष्यगतिं न प्रतिबध्नाति ततो वश्यत्वम्। गोर्गर्भवेष्टन उल्बे स्थिता हे आपो यूयं शक्करीः स्थ गर्भरक्षणे शक्ता भवत। हे क्षीरगता आपो यूयं विश्वभृतः स्थ, विश्वं बिभ्रतीति विश्वभृतः। क्षीरेण हि प्राणिजातं पुष्यते। हे दधिगता आपो यूयं जनभृतः स्थ। पूर्ववद्व्याख्येयम्। हे घृतद्रवरूपा आपो यूयमग्नेस्तेजस्याः स्थ, ज्वालारूपत्वाद्घृतमग्नेस्तेजस्तेन भवास्तेजस्याः। हे मधुद्रवरूपा आपो यूयमपामोषधीनां रसः स्थ। पुष्परसजन्यत्वादुभयसारत्वं प्रसिद्धम्। राजसूयार्थं चितानाश्चिन्तयन्त ऋत्विजोऽपोऽगृ–
१ ख. प्रहाव०।
[[900]]
९००
श्रीमत्सायणाचार्यविरचितभाष्यसमेता– [१ प्रथमकाण्डे–
(राजसूयविषयाणामभिषेकार्थजलविषयमन्त्राणामभिधानम्)
ह्णन्। कीदृशीः। देवीर्दीप्यमाना मधुमतीर्मधुरा ऊर्जस्वतीर्बलप्रदाः। ता एव पुनर्विशेष्यन्ते — याभिरद्भिर्देवताः पूर्वं मित्रावरुणावभ्यषिञ्चन्पुनरपि याभिरद्भिररातीः शत्रूनतिक्रम्येन्द्रमनयंस्तादृशीरपो गृह्णन्नित्यन्वयः। हे आपो यूयं राष्ट्रप्रदत्वाद्यजमानाय राष्ट्रं दत्त स्वाहा तुभ्यमिदं स्वाहुतम्। हे आपो राष्ट्रप्रदत्वादमुष्मै रामयुधिष्ठिरादिवर्मणे राष्ट्रं दत्त। अत्रार्थेत्यादिषु पञ्चदशसु मन्त्रेष्वपो देवीरित्यृगियं शेषत्वेनानुषज्यते। स्वाहाकारान्तो राष्ट्रदा इति मन्त्रो होमकाले शेषत्वेनानुषज्यते। तद्रहितस्तु ग्रहणकाले। विधत्ते —
“अर्थेतः स्थेति जुहोति। आहुत्यैवैना निष्क्रीय गृह्णाति। अथो हवि-ष्कृतानामेवाभिघृतानां गृह्णाति” [ब्रा० का० १ प्र० ७ अ० ५] इति।
एनाः सरस्वत्यादिनदीगता अपो निष्क्रीय निःशेषेण क्रीत्वा। किंचाऽऽहुत्या हविष्कृता हवीरूपत्वं प्रापिता भवन्ति। आज्यहोमस्याभिघारणरूपत्वात्। होमादूर्ध्वमनेन मन्त्रेण ग्रहणं विधत्ते —
“वहन्तीनां गृह्णाति। एता वा अपाँ राष्ट्रम्। राष्ट्रमेवास्मै गृह्णाति। अथो श्रियमेवैनमभिवहन्ति” [ब्रा० का० १ प्र० ७ अ० ५] इति।
सरस्वत्यामन्यस्यां वा नद्यां प्रवाहरूपा वहन्त्यस्तासां सकाशाद्गृह्णीयात्। एता एव वहन्त्यः कुल्यारूपेण बहुविधसस्योपकारित्वादपां राष्ट्रमित्युच्यते। तद्ग्रहणेन यजमानार्थं राष्ट्रं कृतं भवति। किंचैनं यजमानं प्रति श्रियं वहन्ति। स्त्रीलिङ्गपुंलिङ्गस्याभिप्रायं दर्शयति —
“अपां पतिरसीत्याह। मिथुनमेवाकः” [ब्रा० का० १ प्र० ७ अ० ५] इति। यजमानस्य सस्याभिवृद्धये जलसंपत्तिं प्रदर्शयति —
“वृषाऽस्यूर्मिरित्याह (१) । ऊर्मिमन्तमेवैनं करोति” [ब्रा० का० १ प्र० ७ अ० ५] इति। स्वाधीनसेनायुक्तत्वं दर्शयति —
“वृषासेनोऽसीत्याह। सेनामेवास्य सँश्यति” [ब्रा० का० १ प्र० ७ अ० ५] इति। वैश्यादिप्रजासंपत्तिं दर्शयति —
“व्रजक्षितः स्थेत्याह। एता वा अपां विशः। विशमेवास्मै पर्यूहति” [ब्रा० का० १ प्र० ७ अ० ५] इति।
नगरस्थितवैश्यवत्कूपे सर्वदाऽवस्थानाद्वैश्यत्वम्। अन्नप्राप्तिं दर्शयति —
१ क. घ. ङ. च. ०त्वात्तद०।
[[901]]
९०१
प्रपा॰ ८ अनु॰ ११) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(राजसूयविषयाणामभिषेकार्थजलविषयमन्त्राणामभिधानम्)
“मरुतामोजः स्थेत्याह। अन्नं वै मरुतः। अन्नमेवावरुन्धे” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ५) इति। राष्ट्रस्य वैर्यनभिभवरूपं तेजो दर्शयति––
“सूर्यवर्चसः स्थेत्याह (२)। राष्ट्रमेव वर्चस्व्यकः” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ५) इति। सत्यानृतप्रयुक्तं स्वातन्त्र्यं दर्शयति––
“सूर्यत्वचसः स्थेत्याह। सत्यं वा एतत्। यद्वर्षति। अनृतं यदातपति वर्षति। सत्यानृते एवावरुन्धे” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ५) इति।
आतपरहिताया वृष्टेः प्रभूतत्वेन फलपर्यन्तस्थायित्वादातपयुक्तायास्तद्वैपरी-त्यम्। सर्वत्र सत्यं वक्तुमनृतं क्षमत्वं तयोरवरोधः। वेदनं प्रशंसति––
“नैनँ सत्यानृते उदिते हिँस्तः। य एवं वेद” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ५) इति।
स्थिरास्वप्सु घर्षणादिकं विस्रम्भेण कर्तुं शक्यत्वाद्राष्ट्रगतब्राह्मणवर्गस्य ब्रह्मवर्चसं दर्शयति–––
“मान्दाः स्थेत्याह। राष्ट्रमेव ब्रह्मवर्चस्यकः (३)” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ५) इति।
नीहारे वश्यत्वस्य दर्शितत्वाद्राष्ट्रस्यापि वश्यत्वं दर्शयति––
“वाशाः स्थेत्याह। राष्ट्रमेव वश्यकः” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ५) इति।
उल्बगतानामपां पशुसंबन्धात्पशुप्राप्तिं दर्शयति–––
“शक्वरीः स्थेत्याह। पशवो वै शक्वरीः। पशूनेवावरुन्धे” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ५) इति। क्षीरस्थजलेन क्षीरसंपत्तिं दर्शयति––
“विश्वभृतः स्थेत्याह। राष्ट्रमेव पयस्व्यकः” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ५) इति। दघ्न इन्द्रियप्रदत्वात्तज्जलेनेन्द्रियसंपत्तिं दर्शयति––
“जनभृतः स्थेत्याह। राष्ट्रमेवेन्द्रियाव्यकः” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ५) इति। घृतस्य तेजोरूपत्वात्तेजःसमृद्धिं दर्शयति––
“अग्नेस्तेजस्याः स्थेत्याह (४)। राष्ट्रमेव तेजस्व्यकः” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ५) इति। अबोषधिरसस्य मधुत्वान्मधुसंपत्तिं दर्शयति —
[[902]]
९०२
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे
(राजसूयविषयाणामभिषेकार्थजलविषयमन्त्राणामभिधानम्)
“अपामोषधीनाँ रसः स्थेत्याह। राष्ट्रमेव मधव्यमकः” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ५) इति।
वहन्तीनां गृह्णातीति नदीमात्रप्रवाहे जलग्रहणं यदुक्तं तस्यानुकल्पत्वं द्योत-यन्मुख्यकल्पं विधत्ते ––
“सारस्वतं ग्रहं गृह्णाति। एष वा अपां पृष्ठम्। यत्सरस्वती। पृष्ठमेवैनँ समानानां करोति” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ५) इति।
सरस्वत्याख्यान्नदीविशेषादानीयमानः सारस्वतः। अपां पृष्ठं पृष्ठवदुपरिवर्तिनी प्रशस्तेत्यर्थः। पृष्ठमेव करोत्युत्कृष्टमेव करोतीत्यर्थः।
शाखान्तरगतेनैकेन मन्त्रेण सह षोडशसंख्यां विधत्ते ––
“षोडशभिर्गृह्णाति। षोडशकलो वै पुरुषः। यावानेव पुरुषः। तस्मिन्वीर्यं दधाति” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ५) इति।
षोडशसंख्याकाः कला अवयवा यस्येति षोडशकलः। एकादशेन्द्रियैः पञ्चभूतैश्चोत्पादितत्वाच्छरीरस्य षोडशकलत्वम्।
अर्थेत इत्यादीनां षोडशमन्त्राणां होमशेषत्वं ग्रहणशेषत्वं च पूर्वं विहितम्। अर्थेतः स्थेति जुहोति वहन्तीनां गृह्णातीत्यभिधानात्तत्रोभयत्रावस्थितां षोडशसंख्यां समस्य प्रशंसति––
“षोडशभिर्जुहोति षोडशभिर्गृह्णात। द्वात्रिँशत्संपद्यन्ते। द्वात्रिँशदक्ष-राऽनुष्टुक्। वागनुष्टुप् सर्वाणि छन्दाँसि। वाचैवैनँ सर्वेभिश्छन्दोभिरभिषि-ञ्चति (५)” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ५) इति।
अनुष्टुप्छन्दसोऽक्षरसंघातगामित्वाद्वाग्रूपत्वम्। अनुष्टुभो वा इमानि जायन्त इति तापनीये सर्वजगद्धेतुत्वाभिधानात्सर्वच्छन्दोरूपत्वम्। अत्र विनियोगसंग्रहः —
“सारस्वतीजलेऽर्थेति होमः सामुद्रिके त्वपाम्।
वृषाऽसीति प्रतीपोर्मावन्वीपोर्मौ पुनर्वृष॥
व्रज कूप्यासु मरुतां वायुप्रतिहतास्वथ।
सूर्यश्चाऽऽ(वाऽऽ)तपवृष्टासु सूर्यबिम्बयुतासु च॥
मान्दाः स्थिरासु वाशाः स्थ नीहारस्थासु शक्वरीः।
गवोल्बस्थासु विश्वेति क्षीरगासु जनेति तु॥
[[903]]
९०३
प्रपा॰ ८ अनु॰ १२) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(राजसूयविषयाणामभिषेकार्थजलविषयमन्त्राणामभिधानम्)
दधिगासु घृतस्थासु त्वग्नेर्मधुगतासु तु।
अपामपः सर्वशेष ऋगेषा राष्ट्रदा इति।
स्वाहान्तो होमगोऽन्यस्तु ग्रहणे दश पञ्च च॥” इति॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजु-र्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डेऽष्टमप्रपाठक
एकादशोऽनुवाकः॥११॥
–––––––––