(अथ प्रथमाष्टकेऽष्टमप्रपाठके दशमोऽनुवाकः)।
अ॒ग्नये॑ गृ॒हप॑तये पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑–
पति कृ॒ष्णानां॑ व्रीही॒णाँ सोमा॑य॒ वन॒स्पत॑ये
श्यामा॒कं च॒रुँ स॑वि॒त्रे स॒त्यप्र॑सवाय पुरो॒डाशं॒
द्वाद॑शकपालमाशू॒नां व्री॑ही॒णाँ रु॒द्राय॑ पशु॒–
पत॑ये गावीधु॒कं च॒रुं बृह॒स्पत॑ये वा॒चस्पत॑ये
नैवा॒रं च॒रुमिन्द्रा॑य ज्ये॒ष्ठाय॑ पुरो॒डाश॒मेका॑द–
शकपालं म॒हाव्री॑हीणां मि॒त्राय॑ स॒त्याया॒ऽऽ–
म्बानां॑ च॒रुं वरु॑णाय॒ धर्म॑पतये यव॒मयं॑ च॒रुँ
स॑वि॒ता त्वा॑ प्रस॒वानाँ॑ सुताम॒ग्निर्गृ॒हप॑तीनाँ॒
सोमो॒ वन॒स्पती॑नाँ रु॒द्रः प॑शू॒नाम् (१)
बृह॒स्पति॑र्वा॒चामिन्द्रो॑ ज्ये॒ष्ठानां॑ मि॒त्रः स॒त्यानां
वरु॑णो॒ धर्म॑पतीनां॒ ये दे॑वा देव॒सुवः॒ स्थ त इ॒म–
मा॑मुष्याय॒णम॑नमि॒त्राय॑ सुवध्वं मह॒ते क्ष॒त्राय॑
मह॒त आधि॑पत्याय मह॒ते जान॑राज्यायै॒ष वो॑
भरता॒ राजा॒ सोमो॒ऽस्माकं॑ ब्राह्म॒णानाँ॒ राजा॒
प्रति॒ त्यन्नाम॑ रा॒ज्यम॑धायि॒ स्वां त॒नुवं॒ वरु॑णो
[[893]]
८९३
प्रपा॰८अनु॰१०] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(राजसूयविषयाणां देवसुवां हविषामभिधानम्)
अशिश्रे॒च्छुचे॑र्मि॒त्रस्य॒ व्रत्या॑ अभू॒माम॑न्महि
मह॒त ऋ॒तस्य॒ नाम॒ सर्वे॒ व्राता॒ वरु॑णस्याभू–
व॒न्वि मि॒त्र एवै॒ररा॑तिमतारी॒दसू॑षुदन्त य॒ज्ञिया॑
ऋ॒तेन॒ व्यु॑ त्रि॒तो ज॑रि॒माणं॑ न आन॒ड्विष्णोः॒
क्रमो॑ऽसि॒ विष्णोः॑ क्रा॒न्तम॑सि॒ विष्णो॒र्विक्रा॑न्त–
मसि (२)।
(प॒शू॒नां व्राताः॒ पञ्च॑विँशतिश्च)।
इति कृष्णयर्जुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टकेऽ–
ष्टमप्रपाठके दशमोऽनुवाकः॥१०॥
–––––––––––––
(अथ प्रथमकाण्डेऽष्टमप्रपाठके दशमोऽनुवाकः)
नवमे रत्निनां हवींष्यभिषेचनीयस्य दीक्षणीया चेत्येतावदुक्तम्। दशमे देव-सुवां हवींष्युच्यन्ते। तानि चाभिषेचनीयगतस्याग्नीषोमीयपशुपुरोडाशस्यानुनि-र्वाप्याणि। तथा च बौधायनः – “सह सोमौ क्रीणात्यभिषेचनीयाय दशपेयाय च सह परिवहत्यर्धं राज्ञः पुरोहितस्य गृहे दशपेयार्थं निदधात्यग्नीषोमीयस्य पशुपुरोडाशमष्टौ देवसुवां हवींष्यनुनिर्वपति समानं तु स्विष्टकृदिडम्” इति। तान्येतानि हवींषि विधत्ते –
अग्नय इति। गृहपत्यादीन्यग्न्यादिदेवताविशेषणानि। सत्यप्रसवायामो-घाभ्यनुज्ञानाय। Xषष्टिभिरेव दिनैः पच्यमाना आशुव्रीहयः। स्थूलबीजं महा-व्रीहयः। आम्बा धान्यविशेषाः। तेष्वेतेषु विधिषु श्रूयमाणा देवताः प्रशंसति–
“दवेसुवामेतानि हवींषि भवन्ति। एतावन्तो वै देवानाँ सवाः। त एवास्मै सवान्प्रयच्छन्ति। त एनँ सुवन्ते। अग्निरेवैनं गृहपतीनाँ सुवते। सोमो वनस्पतीनाम्। रुद्रः पशूनाम्। बृहस्पतिर्वाचाम्। इन्द्रो ज्येष्ठानाम्। मित्रः सत्यानाम् (१)। वरुणो धर्मपतीनाम्। एतदेव सर्वं भवति” [ब्रा॰ का॰ १ प्र॰ ७ अ॰ ४] इति।
यान्यग्नये गृहपतय इत्यादिभिरुत्पत्तिविधिभिर्विहितान्यष्टौ हर्वींषि तान्येतानि
––––––––––––––––––––––––––––––––––––––––––––––
X ‘विंशत्याग्नाः सदैकत्वं’ इति कोशात्षष्ट्यैवेति युक्तम्।
[[894]]
८९४
श्रीमत्सायणाचार्यविरचितभाष्यसमेता [१ प्रथमकाण्डे
(राजसूयविषयाणां देवसुवां हविषामभिधानम्)
देवसुवां संबन्धीनि। भाविनी(न्या) संज्ञया यजमानो देवस्तं सुवन्तेऽनुजानन्तीत्यग्न्यादयो देवसुवः। यावन्तो विधिवाक्येष्वग्न्यादयः श्रूयन्त एतावन्त एव देवानां मध्ये सवा अभ्यनुज्ञातारः। अतस्त एवाग्न्यादयोऽस्मै यजमानाय सवान्स्वोचितानैश्वर्यविशेषान्प्रयच्छन्ति। तेऽग्न्यादय एनं यजमानं सुवन्त ईश्वरो यथा भवति तथाऽभ्यनुजानन्ति। तत्राग्निरेवैनं यजमानमन्येषां गृहपतीनामीश्वरमनुजानाति। एवमन्यत्रापीश्वरं सुवत इति योज्यम्। सोमो वनस्पतीनां रुद्रः पशूनामित्यनयोर्मध्ये सविता सत्यप्रसवानामित्यध्याहर्तव्यम्। स्वभृत्यान्प्रत्यैश्वर्यार्थममोघा या अभ्यनुज्ञास्तासामीश्वरं करोतीत्यर्थः। गृहपत्यादीन्धर्मपत्यन्तान्प्रति यत्स्वामित्वमेतदेव लोकेऽपेक्षितं सर्वमैश्वर्यम्।
उक्तानां हविर्विधीनां संनिधौ सवितेत्यादयो मन्त्रा आम्नाताः। तत्र कल्पः – “पुरस्तात्स्विष्टकृतः सविता त्वा प्रसवानाँ सुवतामिति ब्रह्मा यजमानस्य हस्तं गृह्णाति” इति। पाठस्तु –
सविता त्वेति। सविता हविर्विधौ तृतीयो देवः। सोऽत्र प्राधान्यात्प्रथमं निर्दिश्यते। यजमानस्य स्वभृत्येषु ऐश्वर्यार्थमनुज्ञाः प्रसवाः। हे यजमान त्वां सविता तेषां प्रसवानां स्वामित्वेन सुवतामभ्यनुजानातु। एवमुत्तरत्र त्वां सुवतामिति पदद्वयानुषङ्गेण योजनीयम्। हे देवा अग्न्यादयो ये यूयं देवसुवो यजमानप्रेरकाः स्थ ते यूयमिमं यजमानमामुष्यायणममुष्य देवदत्तस्य पुत्रममुष्य यज्ञदत्तस्य पौत्रं चानमित्राय शत्रुराहित्यार्थं सुवध्यमभ्यनुजानीध्वम्। किंच महते क्षत्रायानुत्तमक्षत्रियकुलाय, महत आधिपत्यायाप्रतिहतनियमनसामर्थ्याय, महते जानराज्याय जनसंबन्धि यद्राज्यं तच्च सागरपर्यन्तभूमिविषयत्वान्महत्सार्वभौमत्वाय सुवतामित्यर्थः। विधत्ते –
“सविता त्वा प्रसवानाँ सुवतामिति हस्तं गृह्णाति प्रसूत्यै” [ब्रा॰ का॰ १ प्र॰ ७ अ॰ ४] इति।
मन्त्रगतयोर्मध्यमोत्तमभागयोः स्पष्टार्थतामाशीःपरतां च दर्शयति–
“ये देवा देवसुवः स्थेत्याह। यथायजुरेवैतत्। महते क्षत्राय महत आधिपत्याय महते जानराज्यायेत्याह। आशिषमेवैतामाशास्ते” [ब्रा॰ का॰ १ प्र॰ ७ अ॰ ४] इति।
एष हति। “कल्पः अथैनं रत्निभ्य आवेदयत्येष वो भरता राजेति” इति।
हे भरता राजन्यवैश्यादयो धनिका एष यजमानो युष्माकं राजा। एनं स्वामिनं यथोचितं सेवध्वमित्यभिप्रायः।
[[895]]
८९५
प्रपा॰८अनु॰१०] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(राजसूयविषयाणां देवसुवां हविषामभिधानम्)
सोमोऽस्माकमिति। कल्पः – “सोमोऽस्माकं ब्राह्मणानाँ राजेति ब्रह्मा जपति " इति।
सोम उत्तमो देवो राजा न त्वधमो यः क्षत्रिय इत्यर्थः।
भरतानामिव ब्राह्मणानामप्ययमेव राजेति प्राप्तिं वारयितुं व्याचष्टे —
“एष वो भरता राजा सोमोऽस्माकं ब्राह्णणानाँ राजेत्याह। तस्मात्सोमराजानो ब्राह्मणाः” [ब्रा० का० १ प्र० ७ अ० ४] इति।
यस्मान्मन्त्रेण ब्रह्मा स्वकीयं राजानं विभज्य निर्दिष्टवांस्तस्माल्ँ लोकेऽप्यग्निष्टो-मादियागेषु सोममेव राजशब्दोपहितैः सोम राजन्नेह्यवरोत्यादिभिर्मन्त्रैरुप-चरन्ति।
कल्पः — " प्रति त्यन्नाम राज्यमधायीति वारुणीभ्यां यजमानो मुखं विमृष्टे” इति। पाठस्तु —
प्रति त्यदिति। ऋतस्य नामेत्यन्त आद्यो मन्त्रः। सर्वे व्राता इत्यादिर्द्वितीयः। त्यद्राज्यं महत इत्यादि जानराज्यायेत्यन्तं यत्पूर्वमभिहितं तद्राज्यं नाम नमनीयं यजमानस्य यथाऽवश्यं भवति तथा प्रत्यधायि वरुणेन प्रतिष्ठापितम्। वरुणः स्वां तनुवमशिश्रेदाश्रितवान्। वरुणो धर्मपतीनामिति मन्त्रेऽभिधानाद्धर्मपतीन्पुरुषान्प्रति यजमानस्य स्वामित्वमभ्यनुजानती वरुणस्य स्वकीया तनुः। वरुणशब्देनाग्न्यादयोऽप्युपलक्ष्यन्ते। अत एवाग्न्यादिदेवास्तत्तदनुज्ञात्रीं स्वस्वतनुमाश्रितवन्तः इति द्रष्टव्यम्। वयमपि शुचेर्मित्रस्यानुज्ञया व्रत्याः कर्मयोग्या अभूम। मित्रः सत्यानामिति मन्त्रेऽभिहितत्वात्। मित्रशब्देनाग्न्यादयोऽप्युपलक्ष्यन्ते। अत एवाग्न्यादिदेवैरनुज्ञाता वयं महत ऋतस्य प्रौढस्य यज्ञस्य नामागमन्महि राजसूयं कर्म कुर्म इति नामधेयं सर्वदा मन्यामहे। किंच, ऋत्विजः सर्वे वरुणस्यानुज्ञया व्राताः कर्मयोग्या अभूवन्। मित्रश्चैवैरस्मान्प्रति रक्षकत्वेनाऽऽगमनैररातिं वैरिणं विशेषेणातारीद्वयं यथा वैरिणमतिलङ्घयामस्तथाऽकरोत्। यज्ञिया ऋत्विज ऋतेन यज्ञेनासूषुदन्त रक्षितवन्तः। त्रिभिर्ब्राह्मणादिभिर्वर्णैर्यागेषु विस्तार्यत इति त्रितोऽग्निः। स नोऽस्माकं जरिमाणं जरया शैथिल्यं व्यु विशेषेणोद्धृत्याऽऽनडायुष्यं व्यापितवान्भवति। दीर्घायुष्यं कृतवानित्यर्थः। तदिदं मन्त्रद्वयं पादशो व्याचष्टे —
१ ख. घ. ङ. च. ०त्तमदे०। २ क. घ. ङ. च. ०यि प्र०। ३ ख. ०म्। स च व०।
[[896]]
८९६
श्रीमत्सायणाचार्यविरचितभाष्यसमेता– [१ प्रथमकाण्डे–
(राजसूयविषयाणां देवसुवां हविषामभिधानम्)
“प्रति त्यन्नाम राज्यमधायीत्याह (२) । राज्यमेवास्मिन्प्रतिदधाति। स्वां तनुवं वरुणो अशिश्रेदित्याह। वरुणसवमेवावरुन्धे। शुचेर्मित्रस्य व्रत्या अभूमेत्याह। शुचिमेवैनं व्रत्यं करोति। अमन्महि महत ऋतस्य नामेत्याह। मनुत एवैनम्। सर्वे व्राता वरुणस्याभूवन्नित्याह। सर्वव्रातमेवैनं करोति। वि मित्र एवैररातिमतारीदित्याह (३) । अरातिमेवैनं तारयति। असूषुदन्त यज्ञिया ऋतेनेत्याह। स्वदयत्येवैनम्। व्यु त्रितो जरिमाणं न आनडित्याह। आयुरेवास्मिन्दधाति” [ब्रा० का० १ प्र० ७ अ० ४] इति।
वरुणसवं वरुणस्यानुज्ञाम्। एनं राजसूयं मनुत एव पुनः पुनः कर्तुमिच्छत्येव। सर्वेऽध्वर्युप्रभृतयो व्राता व्रतयोग्या यस्य यजमानस्यासौ सर्वव्रातः। एनं यजमानमरातिं तारयति वैर्यतिक्रमं कारयत्येव। एनं यज्ञं स्वदयत्येव स्वादू करोत्यविघ्नेन पालयतीत्यर्थः। मुखमार्जनं विधत्ते –
“द्वाभ्यां विमृष्टे। द्विपाद्यजमानः प्रतिष्ठित्यै” [ब्रा० का० १ प्र० ७ अ० ४] इति।
पुरतो निर्वाप्यस्यानुनिर्वाप्यैः सहैव स्विष्टकृदवदानं विधत्ते –
“अग्नीषोमीयस्य चैकादशकपालस्य देवसुवां च हविषामग्नये स्विष्टकृते समवद्यति। देवताभिरेवैनमुभयतः परिगृह्णाति” [ब्रा० का० १ प्र० ७ अ० ४] इति।
एकत्राग्नीषोमौ देवता, इतरत्राष्टावग्न्यादिदेवताः। एवमुभयतो देवताभिर्यज्ञस्य परिग्रहः। कल्पः —
“विष्णोः क्रमोऽसीति त्रीन्विष्णुक्रमान्प्राचः क्रामति इति। पाठस्तु —
विष्णोरिति। वाजपेये रथसमीपगमने व्याख्यातम्। विधत्ते —
“विष्णुक्रमान्क्रमते। विष्णुरेव भूत्वेमाल्ँ लोकानभियजति (४)” [ब्रा० का० १ प्र० ७ अ० ४] इति। अत्र विनियोगसंग्रहः —
“सवितेति स्वामिहस्तं ब्रह्मा गृह्णीत एष वः।
रत्निभ्यः स्वामिनं ब्रूयात्सोमेति ब्रह्मणो जपः॥
प्रतिद्वाभ्यां मुखं स्वामी मार्ष्टि विष्णोस्त्रिभिः क्रमः।
दशमे अनुवाकेऽस्मिन्नष्टौ मन्त्रा उदीरिताः॥ इति।
[[897]]
८९७
प्रपा ० ८ अनु० १०] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(राजसूयविषयाणां देवसुवां हविषामभिधानम्)
अथ मीमांसा।
एकादशाध्यायस्य तृतीयपादे चिन्तितम् —
“नानाबीजेषु यागेषु वाग्विसर्गश्च पूर्ववत्।
शङ्किते तद्विधौ तस्याविधित्वेन तु उत्तरम्”॥
राजसूये नानाविधबीजयुक्ता यागाः श्रुताः - “अग्नये गृहपतये पुरोडाशमष्टा-कपालं निर्वपति कृष्णानां व्रीहीणाँ सोमाय वनस्पतये श्यामाकं चरुम्” इत्यादिना। प्रकृतौ प्रणीताप्रणयनकाले नियमिताया वाचो हविष्कृत आह्वानकाले विसर्गः श्रुतः। स चात्र चोदकप्राप्तः। तत्र प्रथमे चरमे वा हविष्कृदाह्वानकाले वाग्विसर्गो विकल्पितो इति पूर्वपक्षे प्राप्ते चरम एवेति राद्धान्तः। अत्रेयं पूर्वपक्षिणोऽधिका शङ्का, न हस्तेन कण्डूयनं विहितं वाग्विसर्गस्तु विहित इति। तत्रेदमुत्तरम् — विहितस्य वाङ्नियमनस्यावधित्वेनायं हविष्कृदाह्वानकालीनो वाग्विसर्गोऽनूद्यते, रागप्राप्तत्वान्नासौ विधीयत इति। तस्मात्प्रासनवद्विसर्गोऽपि चरम एव काले नियम्यते।
तत्रैव चतुर्थपादे चिन्तितम् —
“नानाबीजेषु तन्मन्त्रः सकृद्भूयोऽपि वा सकृत्।
चिकीर्षैक्यात्प्रयोगाणां भिन्नत्वान्न सकृद्भवेत्॥”
राजसूये नानाबीजयागेषु सोऽवघातमन्त्रः सकृदेव प्रयोक्तव्यः। कुतः। सर्वावघातविषयायामेकस्यां चिकीर्षायां प्रकृतत्वादिति प्राप्ते ब्रूमः – समन्त्रोऽवघातश्चोदकातिदेशेन प्राप्तो बीजेषु प्रयुज्यते। तण्डुलनिष्पत्तौ स कृतार्थः संपन्नः। पुनर्बीजान्तरे तण्डुलनिष्पत्तये समग्रस्यावघातस्य प्रयोक्तव्यत्वादसकृन्मन्त्रपाठः। अवघातप्रसङ्गात्प्रथमे प्रपाठक उदाहृतोऽप्यत्र मन्त्रविषयलाभादनुस्मारितः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय–
तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डेऽष्टमप्रपाठके
दशमोऽनुवाकः॥१०॥
–––––––––
१ ख स्यावधि०। २ क. घ. ङ. च. ० चमम्। ३ ङ. ० स्याविधि०।
११३
[[898]]
८९८
श्रीमत्सायणाचार्यविरचितभाष्यसमेता– [१ प्रथमकाण्डे–
(राजसूयविषयाणामभिषेकार्थजलविषयमन्त्राणामभिधानम्)