०९

( अथ प्रथमकाण्डेऽष्टमप्रपाठके नवमोऽनुवाकः )।
बा॒र्ह॒स्प॒त्यं च॒रुं निर्व॑पति ब्र॒ह्मणो॑ गृ॒हे
शि॑तिपृ॒ष्ठो दक्षि॑णै॒न्द्रमेका॑दशकपालँ राज॒–
न्य॑स्य गृ॒ह ऋ॑ष॒भो दक्षि॑णाऽऽदि॒त्यं च॒रुं
महि॑ष्यै गृहे धे॒नुर्दक्षि॑णा नैतं च॒रुं प॑रि-
वृ॒क्त्यै॑ गृ॒हे कृ॒ष्णानां॑ व्रीही॒णां न॒खनि॑र्भिन्नं
कृ॒ष्णा कू॒टा दक्षि॑णाऽग्ने॒यम॒ष्टाक॑पालँ
से॒नान्यो॑ गृ॒हे हिर॑ण्यं॒ दक्षि॑णा वारु॒णं दश॑क-
पालँ सू॒तस्य॑ गृ॒हे म॒हानि॑रष्टो॒ दक्षि॑णा मारु॒–
तँ स॒प्तक॑पालं ग्राम॒ण्यो॑ गृ॒हे पृश्नि॒र्दक्षि॑णा
सावि॒त्रं द्वाद॑शकपालम् ( १ )। क्ष॒त्तुर्गृ॒ह उ॑प–
ध्व॒स्तो दक्षि॑णाऽऽश्वि॒नं द्वि॑कपा॒लँ सं॑ग्रही॒–
तुर्गृ॒हे स॑वा॒त्यौ॑ दक्षि॑णा पौ॒ष्णं च॒रुं भा॑गदु॒–
घस्य॑ गृ॒हे श्या॒मो दक्षि॑णा रौ॒द्रं गा॑वीधु॒कं च॒रु–
म॑क्षावा॒पस्य॑ गृ॒हे श॒बल॒ उद्वा॑रो॒ दक्षि॒णेन्द्रा॑य
सु॒त्राम्णे॑ पुरो॒डाश॒मेका॑दशकपालं॒ प्रति॒ निर्व॑–
प॒तीन्द्रा॑याँ होम॒मुचे॒ऽयं नो॒ राजा॑ वृत्र॒हा राजा॑
भू॒त्वा वृ॒त्रं व॑ध्यान्मैत्राबार्हस्प॒त्यं भ॑वति श्वे॒तायै॑
श्वे॒तव॑त्सायै दु॒ग्धे स्व॑यंमू॒र्ते स्व॑यंमथि॒त आज्य॒
आश्व॑त्थे॒ ( २ ) पात्रे॒ चतुः॑स्रक्तौ स्वयमवप॒–

[[886]]

८८६
श्रीमत्सायणाचार्यविरचितभाष्यसमेता– [१ प्रथमकाण्डे–
(राजसूयविषयदेविकादिकर्मषट्काभिधानम्)
न्नायै॒ शाखा॑यै क॒र्णाँश्चाक॑र्णाँश्च तण्डु॒लान्वि
चि॑नुया॒द्ये क॒र्णाः स पय॑सि बार्हस्प॒त्यो येऽ–
क॑र्णाः स आज्ये॑ मै॒त्रः स्व॑यंकृ॒ता वेदि॑र्भवति
स्वयंदि॒नं ब॒र्हिः स्व॑यंकृ॒त इ॒ध्मः सैव श्वे॒ता
श्वे॒तव॑त्सा॒ दक्षि॑णा ( ३ )॥

( सा॒वि॒त्रं द्वाद॑शकपाल॒माश्व॑त्थे॒ त्रय॑स्त्रिँशच्च )।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टकेऽ-
ष्टमप्रपाठके नवमोनुवाकः॥९ ॥
–––––––––––
(अथ प्रथमकाण्डेऽष्टमप्रपाठके नवमोऽनुवाकः)।
अष्टमे देविकादिकं कर्मषट्कमेकदिनकर्तव्यमुक्तम्। नवमे रत्निनां हवींष्यनुदिनं क्रमेण कर्तव्यान्युच्यन्ते। तत्रैकादश हवींषि विधत्ते –
बार्हस्पत्यमिति। ऋत्विग्विशेषो ब्रह्मा, तस्य गृहे राजा गत्वैतामिष्टिं कुर्यात्। एवं सर्वत्र। शितिपृष्ठः श्वेतपृष्ठः। कृताभिषेका राज्ञः स्त्री महिषी। परिवृक्तिः प्रीतिरहिता राज्ञः स्त्री। तद्गृहे गत्वा कृष्णानां व्रीहीणां कृष्णान्व्रीहीन्न-स्वैर्निर्भिद्यावघातमन्तरेणैव तण्डुलान्निष्पाद्य चरुः कर्तव्यः। कूटा भग्नशृङ्गा गौः। सूतः सारथिः। महानिरष्टः पीडितवृषणः। पृश्निः शुक्लः। अल्पतनुरित्यन्ये। क्षत्ता यष्टिहरतोऽन्तःपुराध्यक्षः। संकीर्णवर्ण उपध्वस्तः। संग्रहीता धनसंग्रहकर्ता कोशाध्यक्षः। सवात्यौ समानमातरौ वत्सावेकोदराविर्थः। यो राज्ञः प्राप्तं षष्ठं भागं प्रजाभ्यो गृह्णाति स भागदुघः। गावीधुकोऽरण्यगोधूमनिष्पन्नः। अक्षावापो द्यूतकारः। शबलश्चित्रवर्णः। उद्वारो दीर्घपुच्छः। यथोक्तानि सर्वाणि हवींषि समस्य प्रशंसति –
“रत्निनामेतानि हवीँषि भवन्ति। एते वै राष्ट्रस्य प्रदातारः। एतेऽपादातारः। य एव राष्ट्रस्य प्रदातारः। येऽपादातारः। त एवास्मै राष्ट्रं प्रयच्छन्ति। राष्ट्रमेव भवति” [ब्रा॰ का॰ १ प्र॰ ७ अ॰ ३] इति।


१ ख. ०र्भिन्नानव०।

[[887]]

८८७
प्रपा ०८अनु०९] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।

(राजसूयविषयाणां रत्निहविषामभिधानम्)
रत्नान्येषां सन्तीति रत्निनः। ब्राह्मणराजन्यमहिष्यादयो रत्निनः। तदभिमानि-देवानां प्रियाण्येतानि हवींषि। अतस्तद्गृहेष्वेव गत्वा निर्वपेत्। एते रत्निनामभिमानिनो देवा एव राष्ट्रं प्रदातुमपादातुं च समर्थाः। अतः स्वकीयब्रह्मादिगृहेषु निर्वापेण तुष्टा अस्मै राष्ट्रं प्रयच्छन्ति।
रत्नीत्येकनाम्ना प्रसक्तं प्रयोगैक्यमपोद्य देशभेदप्राप्तं प्रयोगभेदं प्रशंसति –
“यत्समाहृत्य निर्वपेत्। अरत्निनः स्युः। यथायथं निर्वपति रत्नित्वाय (१)” [ब्रा॰ का॰ १ प्र॰ ७ अ॰ ३] इति।
अरत्निनो रत्नरहिता दरिद्राः।
पूर्वोक्तदेविकादिवदेकानुवाकविहितत्वेन प्रसक्तं दिनैक्यमपवदितुं दिनभेदं विधत्ते –
“यत्सद्यो निर्वपेत्। यावतीमेकेन हविषाऽऽशिषमवरुन्धे। तावतीमवरुन्धीत। अन्वहं निर्वपति। भूयसीमेवाऽऽशिषमवरुन्धे। भूयसो यज्ञक्रतूनुपैति” [ब्रा॰ का॰ १ प्र॰ ७ अ॰ ३] इति।
आशिषं फलम्। बहुदिनानुष्ठाने क्रतुबाहल्यं जनानां प्रतीयते।
गृहस्वामिनं ब्रह्माभिमानिनं बृहस्पतिं प्रशंसति–
“बार्हस्पत्यं चरुं निर्वपति ब्रह्मणो गृहे। मुखत एवास्मै ब्रह्म सँश्यति। अथो ब्रह्मन्नेव क्षत्रमन्वारम्भयति। शितिपृष्ठो दक्षिणा समृद्ध्यै (२)” [ब्रा॰ का॰ १ प्र॰ ७ अ॰ ३] इति।
मुखत एव कर्मोपक्रम एव यजमानार्थ ब्राह्मणजातिं संश्यति सम्यक्तीक्ष्णी करोति। उत्कृष्टं करोतीत्यर्थः। किंच प्रथमतो ब्रह्मगृहं पश्चाद्राजन्यगृहमित्येवं ब्राह्मणजातिमनु क्षत्रियजात्यारम्भः कारितो भवति। इन्द्रं प्रशंसति –
“ऐन्द्रमेकादशकपालँ राजन्यस्य गृहे। इन्द्रीयमेवावरुन्धे। ऋषभो दक्षिणा समृद्ध्यै” [ब्रा॰ का॰ १ प्र॰ ७ अ॰ ३] इति।
अदितिं प्रशंसति –
“आदित्यं चरुं महिष्यै गृहे। इयं वा अदितिः। अस्यामेव प्रतितिष्ठति। धेनुर्दक्षिणा समृद्ध्यै” [ब्रा॰ का॰ १ प्र॰ ७ अ॰ ३] इति।
अत्र मुख्यब्राह्मण उपेक्षितं हविर्विशेषं विधत्ते –

[[888]]

८८८

श्रीमत्सायणाचार्यविरचितभाष्यसमेता– [१ प्रथमकाण्डे–
(राजसूयविषयाणां रत्निहविषामभिधानम्)
“भगाय चरुं वावातायै गृहे। भगमेवास्मिन्दधाति। विचित्तगर्भा पष्ठौही दक्षिणा समृद्ध्यै (३)” [ब्रा॰ का॰ १ प्र॰ ७ अ॰ ३] इति।
वावाता महिष्या अभिषिक्ताया अर्वाचीना परिवृक्त्याः प्रीतिरहिताया उत्त-मत्वेन स्वयं मध्यमा राज्ञः स्त्री। अत एवाश्वमेधप्रकरणेऽश्वमलंकुर्वत्यो राज-स्त्रिय उत्तममध्यमाधमाद्यक्रमेणैतैरेव नामभिर्निदिष्टाः – “भूरिति महिषी। भुव इति वावाता सुवरिति परिवृक्ती” इति। भगमेव सौभाग्यमेव। विचित्तगर्भा विशेषेण चित्तो ज्ञातोऽभिव्यक्तो गर्भो यस्या इति विग्रहः। पष्ठौही बालगर्भिणी। नितिं प्रशंसति –
“नैतं चरुं परिवृक्त्यै गृहे कृष्णानां व्रीहीणां नखनिर्भिन्नम्। पाप्मानमेव नितिं निरवदयते। कृष्णा कूटा दक्षिणा समृद्ध्यै” [ब्रा॰ का॰ १ प्र॰ ७ अ॰ ३] इति।
पाप्मनो नितिशरीरत्वात्तां प्रति प्रशंसैवैषा।
अग्निं गृहस्वामिनं च प्रशंसति–
“आग्नेयमष्टाकपालँ सेनान्यो गृहे। सेनामेवास्य सँश्यति। हिरण्यं दक्षिणा समृद्ध्यै” [ब्रा॰ का॰ १ प्र॰ ७ अ॰ ३] इति।
वरुणं प्रशंसति –
“वारुणं दशकपालँ सूतस्य गृहे। वरुणसवमेवावरुन्धे। महानिरष्टो द-क्षिणा समृद्ध्यै” [ब्रा० का० १ प्र० ७ अ० ३] इति।
वरुणसवो वरुणानुज्ञा। मरुतः प्रशंसति –
“मारुतँ सप्तकपालं ग्रामण्यो गृहे (४)। अन्नं वै मरुतः। अन्नमेवावरुन्धे। पृश्निर्दक्षिणा समृद्ध्यै” [ब्रा॰ का॰ १ प्र॰ ७ अ॰ ३] इति।
मरुतां वैश्यत्वेनान्नसंपादकत्वादन्नत्वम्। सवितारं प्रशंसति –
“सावित्रं द्वादशकपालं क्षत्तुर्गृहे प्रसूत्यै। उपध्वस्तो दक्षिणा समृद्ध्यै” [ब्रा॰ का॰ १ प्र॰ ७ अ॰ ३] इति। अश्विनौ प्रशंसति –
“आश्विनं द्विकपालँ संग्रहीतुर्गृहे। अश्विनौ वै देवानां भिषजौ। ताभ्यामेवास्मै
––––––––––––––––––––––––––––––––––––––––––––––––
१ च. ०द्यनुक्र०।

[[889]]

८८९
प्रपा०८अनु०९] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(राजसूयविषयाणां रत्निहविषामभिधानम्)
भेषजं करोति। सवात्यौ दक्षिणा समृद्ध्यै” [ब्रा॰ का॰ १ प्र॰ ७ अ॰ ३] इति। पूषणं प्रशंसति–
“पौष्णं चरुं भागदुघस्य गृहे (५)। अन्नं वै पूषा। अन्नमेपापरुन्धे। श्यामो दक्षिणा समृद्ध्यै” [ब्रा॰ का॰ १ प्र॰ ७ अ॰ ३] इति।
यथा मरुतां वैश्यत्वेनान्नसंपादकत्वादन्नत्वं तथा पूष्णोऽन्नपोषकत्वादन्नत्वम्। रुद्रं प्रशंसति –
“रौद्रं गावीधुकं चरुमक्षावापस्य गृहे। अन्तत एव रुद्रं निरवदयते। शबल उद्वारो दक्षिणा समृद्ध्यै” [ब्रा॰ का॰ १ प्र॰ ७ अ॰ ३] इति।
भागप्रदानपूर्वकत्वेन रुद्रस्य पुरतो निःसारणमपि प्रशंसैव।
पाठेनावगतां हविःसंख्यां प्रशंसति –
“द्वादशैतानि हवीँषि भवन्ति। द्वादश मासाः संवत्सरः। संवत्सरेणैवास्मै राष्ट्रमवरुन्धे। राष्ट्रमेव भवति (६)” [ब्रा॰ का॰ १ प्र॰ ७ अ॰ ३] इति।
विहितेभ्यो द्वादशहविर्भ्य ऊर्ध्वं स्वगृहे हविर्द्वयं विधत्ते –
इन्द्रायेति। प्रति प्रातिस्विके गृहे। सुत्राम्णे सुष्ठुपालयित्रे। अंहोमुचे पा-पान्मोचकाय। पुरोडाशमेकादशकपालमित्यनुवर्तते।
तमिमं प्रतिनिर्वापं प्रशंसति –
“यन्न प्रतिनिर्वपेत्। रत्निन आशिषोऽवरुन्धीरन्। प्रतिनिर्वपति। इन्द्राय सुत्राम्णे पुरोडाशमेकादशकपालम्। इन्द्रायाँहोमुचे। आशिष एवावरुन्धे” [ब्रा॰ का॰ १ प्र॰ ७ अ॰ ३] इति।
रत्निनो ब्राह्मणराजन्यादय आशिषस्तद्विहितफलान्यवरुन्धीरन्गृह्णीयुः।
अयं नो इति। एतेषां हविषां समीप एको मन्त्रे आम्नातस्तस्य विनियोगमापस्तम्ब आह – “अयं नो राजा वृत्रहा राजा भूत्वा वृत्रं वध्यादिति पुरस्तात्स्विष्टकृतोऽध्वर्युर्जपति” इति।
अयं राजा राजसूयस्य कर्ताऽस्माकं राजा योऽस्त्यसौ शत्रुवधक्षमो राजा भूत्वा शत्रुं वध्यात्।
वध्यादित्येत्यस्य पदस्याऽऽशीरर्थत्वं द्योतयति –
“अयं नो राजा वृत्रहा राजा भूत्वा वृत्रं वध्यादित्याह। आशिषमेवैता-माशास्ते” [ब्रा॰ का॰ १ प्र॰ ७ अ॰ ३] इति।

[[890]]

८९०
श्रीमत्सायणाचार्यविरचितभाष्यसमेता [१ प्रथमकाण्डे
(राजसूयविषयाणां रत्निहविषामभिधानम्)
यदुक्तमापस्तम्बेन – “श्वोभूतेऽभिषेचनीयस्योक्थ्यस्य दीक्षां प्रक्रमयति मैत्राबार्हस्पत्या दीक्षणीया” इति। तामिमामभिषेचनीयनामकस्य सोमयागस्याङ्गभूतां दीक्षणीयां चोदकप्राप्तेष्टिबाधनाय विधत्ते –
मैत्राबार्हस्पत्यमिति। मैत्राबार्हस्पत्यं हविरिति शेषः। तत्र दुग्धे बार्हस्पत्यश्चरुः। आज्ये मैत्रश्चरुः। कीदृश आज्ये। स्वयंमूर्ते स्वयंमथिते। तदिदमापस्तम्बेन स्पष्टीकृतम् – “श्वेतां श्वेतवत्सां गामाम्रस्य दृतौ दुहन्ति तत्स्वयंमूर्तं संयोगेन परिवहति तत्स्वयंमथितमातपे विषजन्ति तत्स्वयंविलोनमाज्यं भवति” इति। आम्रेण फरपुष्परसेन लेपितायां(ते) दृतौ यत्पय आतञ्चनमन्तरेणैवामूर्तं दधि भवति तच्च बदरादिफलसंयोगेन परिवहति तक्रवत्परितः क्षरति। तदिदं स्वयं मथितम्। नात्र मृद्भाण्डे पाकः किंत्वाश्वत्थे पात्रे चतुःस्रक्तौ न तु वर्तुले। तच्च पात्रं यया कया[चि]च्छिन्नशाखया न कर्तव्यं किंतु वाय्वाद्यभिघातेन स्वयमेव पतितया निष्पादनीयम्। कर्णाः खण्डिततण्डुलाः। अकर्णा अखण्डिताः। तत्र खण्डितैः पयसि बृहस्पतेश्चरुर्निष्पादनीयः। अखण्डितैस्तु मित्रस्याऽऽज्ये चरुः। स्वयंकृता शास्त्रीयोद्धननादिरहिता। स्वयंदिनं समन्त्रकशास्त्रीयच्छेदनमन्तरेणैव खण्डितम्। स्वयंकृत इध्मः। अत्रापि शास्त्रीयसंपादनमन्तरेणैव निष्पन्नः।
तमिमं विधिमनूद्य द्वयोर्हविष्पात्रयोः संसर्गं विधत्ते –
“मैत्राबार्हस्पत्यं भवति। श्वेतायै श्वेतवत्सायै दुग्धे (७) । बार्हस्पत्ये मैत्रमपि दधाति। ब्रह्म चैवास्मि क्षत्रं च समीची दधाति। अथो ब्रह्मन्नेव क्षत्रं प्रतिष्ठापयति” [ब्रा॰ का॰ १ प्र॰ ७ अ॰ ३] इति।
बार्हस्पत्ये चरुपात्रेऽग्नावधिश्रिते तस्योपरि मैत्रं चरुपात्रमपिदध्यात्। तथा सति बृहस्पतिरूपा ब्राह्मजातिर्मित्ररूपा क्षत्रियजातिश्चेत्युभयमस्मै सम्यक्संपा-दितं भवति। किंचाऽऽधारभूते ब्राह्मण एव क्षत्रियजातिमाधेयत्वेन प्रतिष्ठापि-तवान्भवति। पाठक्रमेण पश्चात्प्राप्तं बार्हस्पत्यप्रचारमपवदितुं विधत्ते –
“बार्हस्पत्येन पूर्वेण प्रचरति। मुखत एवास्मै ब्रह्म सँश्यति। ब्रह्मन्नेव क्षत्रमन्वारम्भयति” [ब्रा॰ का॰ १ प्र॰ ७ अ॰ ३] इति।
स्वयंशब्दानामभिप्रायमाह –
“स्वयंकृता वेदिर्भवति। स्वयंदिनं बर्हिः। स्वयंकृत इध्मः। अनभिजितस्या-भिजित्यै। तस्माद्राज्ञामरण्यमभिजितम्” [ब्रा॰ का॰ १ प्र॰ ७ अ॰ ३] इति।

[[891]]

८९१
प्रपा ०८अनु०९] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(राजसूयविषयाणां रत्निहविषामभिधानम्)
यद्देशजातं युद्धप्रयासेन पूर्वमनभिजितं तस्याप्यभिजयः स्वयंकृतादिना भवति। यस्मादेवं तस्माल्लोकेऽपि राज्ञामरण्यं युद्धप्रयासमन्तरेणैवाभिजितं दृश्यते। दक्षिणां प्रशंसति –
“सैव श्वेता श्वेतवत्सा दक्षिणा समृद्ध्यै (८)” [ब्रा॰ का॰ १ प्र॰ ७ अ॰ ३] इति। अत्र विनियोगसंग्रहः –
“पुरा स्विष्टकृतोऽध्वर्युरयं न इति संजपेत्॥ [इति]।
अथ मीमांसा।
दशमाध्यायस्य प्रथमपादे चिन्तितम् –
“वेदिः स्वयंकृतेत्यादौ प्र (प्रा) कृतं सर्वमाचरेत्।
लुप्तार्थे बाध्यतां वाऽऽद्यश्चोदकप्रापितत्वतः॥
अपेक्षासत्तियोग्यत्वहानेरुद्धननादिकम्।
बाध्यतेऽपेक्षितं सर्वं चोदकेनातिदिश्यते”॥
“रत्निनामेतानि हवीँषि” इतिवाक्येन राजसूये रत्निनामकानां देवानां संबन्धीनि कानिचिद्धवींषि दर्शपूर्णमासेष्टिविकृतिरूपाणि विहितानि। ऊर्ध्वं मैत्राबार्हस्पत्ये हविषि श्रूयते – “स्वयंकृता वेदिर्भवति स्वयंदिनं बर्हिः स्वयंकृत इध्मः” इति। इष्टावुद्धननखननपरिलेखनादिभिः क्रियाविशेषैर्वेदिर्निष्पाद्यते। स्फ्येनोत्तमां त्वचमुद्धन्ति। देवस्य सवितुः सव इति खनति। स्फ्येन वेदिं परिगृह्णातीति तद्विधानात्। यज्ञस्य घोषदसीत्यस्मिन्ननुवाके प्रोक्तैर्मन्त्रैर्दात्रच्छिन्नं बर्हिः संपादायते। त्रीन्परीधीनित्यादिमन्त्रोपेताभिः क्रियाभिरिध्मः सिध्यति। विकृतिरूपे तु हविष्युद्धननाद्यपेक्षां वारयितुं स्वयमित्युक्तम्। यथास्थित एव तु प्रदेशो वेदित्वेन स्वीकर्तव्यः। इध्माबर्हिषी अपि स्वत एव च्छिन्ने शास्त्रीयच्छे-दननिरपक्षे ग्रहीतव्ये इत्यर्थः। तत्र संशयः। लुप्तार्थमलुप्तार्थं च सर्वमङ्गजातं विकृतावनुष्ठेयमुत लुप्तार्थं वर्जनयमिति। चोदकस्य साधारणत्वात्सर्वमनुष्ठेयमित्याद्ये पक्षे प्राप्ते सिद्धान्तं ब्रूमः – अङ्गी ह्यङ्गैरुपकृतः फलं साधयति। तथा सत्यङ्गिनोऽङ्गकृत उपकारे साक्षादपेक्षा। उपकारद्वारा त्वङ्गेषु। प्रत्यासन्नश्चाङ्गिनं प्रत्यङ्गेभ्य उपकारः। योग्यताऽपि साक्षादपेक्षां पूरयितुमुपकास्यैवास्ति न त्वङ्गानाम्। वेदिनिष्पादनलक्षणदृष्टोपकारयुक्तानि प्रकृतावुद्धननाद्यङ्गानि। विकृतौ तु वेद्याः स्वतः सिद्धत्वेन निष्पादनोपकारो लुप्यते। उपकारद्वारोपकारकाणामाकाङ्क्षासंनिधियोग्यत्वान्युद्धननाद्यङ्गेषु हीयन्ते। तस्मादुद्धननादीनि नानुष्ठेयानि।
––––––––––––––––––––––––––––––––––––––––––––
१ क. घ. ङ. च. ०नप०।

[[892]]

८९२
श्रीमत्सायणाचार्यविरचितभाष्यसमेता – [१ प्रथमकाण्डे
(राजसूयविषयाणां देवसुवां हविषामभिधानम्)
सोऽयं चोदकप्रापितस्योद्धननाद्यनुष्ठेयत्वप्रत्ययस्य भ्रान्तित्वनिश्चयो बाध उच्यते।
चोदकस्य त्वलुप्तोपकारैरुपकाद्वारेणाऽऽकाङ्क्षासंनिधियोग्यतायुक्तैर्हविरासाद-नाद्यङ्गैश्चरितार्थता संपद्यते॥
इति श्रीमत्सायणार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयर्जुवेदीय-
तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डेऽष्टमप्रपाठके
नवमोऽनुवाकः॥९॥
–––––––––––