०८

(अथ प्रथमकाण्डेऽष्टमप्रपाठकेऽष्टमोऽनुवाकः)।
धात्रे॒ पु॑रो॒डाशं॒ द्वाद॑शकपालं॒ निर्व॑प॒त्यनु॑–
मत्यै च॒रुँ रा॒कायै॑ च॒रुँ सि॑नीवा॒ल्यै च॒रुं
कु॒ह्वै॑ च॒रुं मि॑थु॒नौ गावौ॒ दक्षि॑णाऽऽग्नावैष्ण॒वमे–

[[882]]

८८२
श्रीमत्सायणाचार्यविरचितभाष्यसमेता– [१ प्रथमकाण्डे–
(राजसूयविषयदेविकादिकर्मषट्काभिधानम्)
का॑दशकपालं॒ निर्व॑पत्यैन्द्रावैष्ण॒वमेका॑दशक–
पालं वैष्ण॒वं त्रि॑कपा॒लं वा॑म॒नो व॒ही दक्षि॑–
णाग्नीषो॒मीय॒मेका॑दशकपालं॒ निर्व॑पतीन्द्रासो॒–
मीय॒मेका॑दशकपालँ सौ॒म्यं च॒रुं ब॒भ्रुर्द–
क्षि॑णा सोमापौ॒ष्णं च॒रुं निर्व॑पत्यैन्द्रापौ॒ष्णं च॒रुं
पौ॒ष्णं च॒रुँ श्या॒मो दक्षि॑णा वैश्वान॒रं द्वाद॑–
शकपालं॒ निर्व॑पति॒ हिर॑ण्यं॒ दक्षि॑णा वारु॒णं य॑व॒–
मयं॑ च॒रुमश्वो॒ दक्षिणा ( १ )
(वै॒श्वा॒न॒रं द्वाद॑शपालं॒ निर॒ष्टौ च॑ )।.
इति कृष्णयजुर्वेदीयतेत्तिरीयसंहितायां प्रथमाष्टकेऽ
ष्टमप्रपाठकेऽष्टमोऽनुवाकः॥८॥
––––––––

( अथ प्रथमकाण्डेऽष्टमप्रपाठकेऽष्टमोऽनुवाकः )।
सप्तमेऽनुवाके शुनासीर्यादिकर्मचतुष्टयमेकदिनकर्तव्यमुक्तम्। अष्टमे देविकादिकर्मषट्कमेकदिनकर्तव्यमुच्यते।
तत्राऽऽदौ देविकानामकानि पञ्च हवींषि विधत्ते —
धात्रे पुरोडाशमिति।



प्र सिनीवाली जनयति। प्रजास्वेव प्रजातासु कुह्वा वाचं दधाति। मिथुनौ गावौ दक्षिणा समृद्यै् ” [ब्रा० का० १ प्र० ७ अ० २] इति।

[[883]]

८८३
प्रपा० ८ अनु० ८] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(राजसूयविषयदेविकादिकर्मषट्काभिधानम्)

वीर्यं वा अग्निः। वीर्यमिन्द्रः। वीर्यं विष्णुः। प्रजा एव प्रजाता वीर्ये प्रतिष्ठापयति। तस्मात्प्रजा वीर्यावतीः। वामन ऋषभो वही दक्षिणा। यद्वही। तेनाऽऽग्नेयः। यदृषभः (२)। तेनैन्द्रः। यद्वामनः। तेन वैष्णवः समृद्ध्यै” [ ब्रा० का० १ प्र० ७ अ० २] इति।


इन्द्रासोमीयमेकादशकपालम्। सौम्यं चरुम्।



पौष्णश्चरुर्भवति। इयं वै पूषा। अस्यामेव प्रतितिष्ठति। श्यामो दक्षिणा समृद्ध्यै” [ ब्रा० का० १ प्र० ७ अ० २] इति।

[[884]]

८८४
श्रीमत्सायणाचार्यविरचितभाष्यसमेता– [प्रथमकाण्डे–
(राजसूयविषयदेविकादिकर्मषट्काभिधानम्)




… वदत्यनृतम्। अनृते खलु वै क्रियमाणे वरुणो गृह्णाति। वारुणं यवमयं चरुं निर्वपति। …




अथ मीमांसा।
एकादशाध्यायस्य तृतीय(चतुर्थ)पादे चिन्तितम् –
“सोमपौष्णादिके तन्त्रमङ्गानामुत भिन्नता।
तन्त्रं फलैक्यतो मैवं दक्षिणाकर्तृभेदतः”॥
राजसूये श्रूयते — “सोमापौष्ण एकादशकपाल ऐन्द्रापौष्णश्चरुः पौष्णश्चरुः श्यामो दक्षिणा” इति। “आग्नावैष्णव एकादशकपाल ऐन्द्रापौष्ण (वैष्णव) श्चरुर्वैष्णवस्त्रिकपालो वामनो दक्षिणा” इति। तत्र द्वयोस्त्रिकयोस्तन्त्रेणानुष्ठा-नम्। कृतः। कृत्स्नस्य राजसूयस्य फलैकत्वेनैतदेकदेशयोरनयोरपि फलैक्यात्। न च दर्शपूर्णमासयोरिवात्र कालभेदोऽस्ति, येनात्रापि तथा शङ्क्येतेति प्राप्ते ब्रूमः – श्यामवामनयोर्दक्षिणयोर्भेदेन ताभ्यामानतानां कर्तॄणां भेदादङ्गानि भिद्यन्ते॥
१ ख. ङ. च. नमतां क०।

[[885]]

८८५
प्रपा० ८ अनु० ९] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(राजसूयविषयदेविकादिकर्मषट्काभिधानम्)
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डेऽष्टमप्रपाठकेऽ-
ष्टमोऽनुवाकः॥८॥
––––––