०७

(अथ प्रथमाष्टकेऽष्टमप्रपाठके सप्तमोऽनुवाकः )।
ऐ॒न्द्रा॒ग्नं द्वाद॑शकपालं वैश्वदे॒वं च॒रुमिन्द्रा॑य॒
शुना॒सीरा॑य पुरो॒डाशं॒ द्वाद॑शकपालं वाय॒व्यं॑ पयः॑
सौ॒र्यमेक॑कपालं द्वादशग॒वँ सीरं॒ दक्षि॑णाऽऽ–
ग्ने॒यम॒ष्टाक॑पालं॒ निर्व॑पति रौ॒द्रं गा॑वीधु॒कं च॒रु–
मै॒न्द्रं दधि॑ वारु॒णं य॑व॒मयं॑ च॒रुं व॒हिनी॑ ध॒नुर्द–
क्षि॑णा॒ ये दे॒वाः पु॑रः॒सदो॒ऽग्निने॑त्रा दक्षि॒णसदो॑
य॒मने॑त्राः पश्चा॒त्सदः॑ सवि॒तृने॑त्रा उत्तर॒सदो॒
वरु॑णनेत्रा उपरि॒षदो॒ बृह॒स्पति॑नेत्रा रक्षो॒हण॒–
स्ते नः॑ पान्तु॒ ते नो॑ऽवन्तु॒ तेभ्यः॑ (१) नम॒–


१ क. ख. घ. च. ०मी त्रियम्ब प०।

[[876]]

८७६
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे––
(राजसूयविषयस्य शुनासीर्येन्द्रतुरीयेतिकर्मद्वयपञ्चेध्मीयमन्त्रापामार्गहोममन्त्राणामभिधानम्)
स्तेभ्यः॒ स्वाहा॒ समू॑ढँ॒ रक्षः॒ संद॑ग्धँ॒ रक्ष॑ इ॒द-
म॒हँ रक्षो॒ऽभि सं द॑हाम्य॒ग्नये॑ रक्षो॒घ्ने स्वाहा॑
य॒माय॑ सवि॒त्रे वरु॑णाय॒ बृह॒स्पत॑ये॒ दुव॑स्वते
रक्षो॒घ्ने स्वाहा॑ प्रष्टिवा॒ही रथो॒ दक्षि॑णा दे॒वस्य॑
त्वा सवि॒तुः प्र॑सवे॑ऽश्विनो॑र्बा॒हुभ्या॑ पू॒ष्णो
हस्ता॑भ्याँ॒ रक्ष॑सो व॒धं जु॑होमि ह॒तँ रक्षोऽ–
व॑धिष्म॒ रक्षो॒ यद्वस्ते॒ तद्दक्षि॑णा (२)॥
(तेभ्यः॒ पञ्च॑चत्वारिँशच्च)॥

इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टकेऽ
ष्टमप्रपाठके सप्तमोऽनुवाकः॥७॥
––––––––
(अथ प्रथमकाण्डेऽष्टमप्रपाठके सप्तमोऽनुवाकः )।
षष्ठे साकमेधाः समापिताः। सप्तमे शुनासीर्यमिन्द्रतूर्यं(तुरीयं) चेति कर्मद्वयं पञ्चेध्मीयमन्त्रा अपामार्गहोममन्त्राश्चोच्यन्ते।
तत्र शुनासीर्यहवींषि विधत्ते ––
ऐन्द्राग्नमिति। शुनासीराय शुनो वायुः सीर आदित्यस्ताभ्यां युक्तः शुनासीरः। द्वादशभिर्बलीवर्दैरुह्यमानं सीरं लाङ्गलम्।


[[877]]

८७७
प्रपा॰ ८ अनु॰ ७) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(राजसूयविषयस्य शुनासीर्येन्द्रतुरीयेतिकर्मद्वयपञ्चेध्मीयमन्त्रापामार्गहोममन्त्राणामभिधानम्)



अस्य च शुनासीर्यस्य कालं बौधायन आह – “अथातश्चतुर्षु मासेषु शुनासीरीयहविर्भिर्यक्ष्यमाणो भवति” इति। तत्र पूर्वेभ्यस्त्रिभ्य पर्वभ्य ऊर्ध्वं प्रत्येकं मासचतुष्टयमतिबाह्य क्रियमाणमिदं संवत्सरादूर्ध्वं प्रवर्तते। तदेतदभिप्रेत्य संवत्सरो वा इन्द्राशुनासीर इत्युक्तम्। वायुसूर्याभ्यां युक्त इन्द्रः संवत्सरे समाप्ते प्राप्तत्वात्संवत्सर इत्युच्यते। वायोः पुरोवातरूपेण वृष्टिप्रदापयितृत्वम्। “अग्नौ प्रास्ताऽऽहुतिः सम्यगादित्यमुपतिष्ठते। आदित्याज्जायते वृष्टिः” इति स्मरणात्सूर्यस्य स्वर्गे वृष्टिधारकत्वम्।
अथेन्द्रतुरीयस्य हवींषि विधत्ते ––
आग्नेयमिति। गावीधुकमरण्यधान्यविशेषनिष्पन्नम्। पृष्ठे भारं वहतीति वहिनी।






१ क. घ. ०श्चतृषु मा। च. ०श्चतसृषु मा०।

[[878]]

८७८
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे
(राजसूयविषयस्य शुनासीर्येन्द्रतुरीयेतिकर्मद्वयपञ्चेध्मीयमन्त्रापामार्गहोममन्त्राणामभिधानम्)


गोत्वं जातिः। धेनुत्वं नवप्रसवत्वम्। अस्य चेन्द्रतुरीयस्य कर्मणः शुनासी-र्यदिन एवानुष्ठानमापस्तम्बो दर्शयति–“ततश्चतुर्हविषेन्द्रतुरीयेण यजते” इति।
इन्द्रतुरीयविधानादूर्ध्वं ये देवाः पुरःसद इत्यादयो मन्त्रा आम्नातास्तेषां विनियोगमापस्तम्बो दर्शयति–––“एतस्या एव रात्रेर्निशायां पञ्चेध्मीयेन यजते चतुर्धाऽऽहवनीयं प्रतिदिशं व्युद्धृत्य मध्ये पञ्चमं कृत्वा पृथगिध्मानुपसमाधाय जुह्वां पञ्चगृहीतं गृहीत्वा ये देवाः पुरःसद इत्येतैर्यथालिङ्गं जुहोति मध्ये पञ्चमेन समूढँ रक्ष इति मध्य इध्मानुपसमू(मु)ह्यैकधोपसमाधायापरं पञ्चगृहीतं गृहीत्वाऽग्नये रक्षोघ्ने स्वाहेत्युत्तराः पञ्चाऽऽहुतीर्जुहोति प्रष्टिवाही रथो दक्षिणा” इति। ये देवा इत्यादिमन्त्रपाठस्तु –
ये देवा इति। पुरःसदः पूर्वदिग्वार्तिनोऽग्निनेत्रा अग्निप्रमुखा ये देवा रक्षोहणो राक्षसघ्नाः सन्ति ते देवा नोऽस्मान्‍रक्षोनिवारणेन पान्तु। पुनरपि ते देवा नोऽस्मान्कर्मानुष्ठानेनावन्तु। तेभ्यो देवेभ्यो नमस्कारोऽस्तु। तेभ्य इदं हव्यं स्वाहुतमस्तु। दक्षिणसदो यमनेत्रा इत्यस्य मन्त्रस्याऽऽदौ ये देवा इत्यनुषज्यते। अन्ते च रक्षोहण इत्यादिकमनुषज्यते। एवं तृतीयचतुर्थयोर्द्रष्टव्यम्। पञ्चमे तु ये देवा इत्येतावदेवानुष्ज्यते। प्रथमे तु रक्षोहण इत्यादिकमेवानुषज्यते।



[[879]]

८७९
प्रपा॰ ८ अनु॰ ७) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(राजसूयविषयस्य शुनासीर्येन्द्रतुरीयेतिकर्मद्वयपञ्चेध्मीयमन्त्रापामार्गहोममन्त्राणामभिधानम्)

अपामार्गहोममन्त्राणां विनियोगमापस्तम्ब आह – “व्युष्टायां पुराऽग्निहोत्रा-दपामार्गहोमेन चरन्ति, अपां न्ययनादपामार्गानाहृत्य तान्सक्तून्कृत्वा दक्षिणाग्नेरेकोल्मुकं धूपायद्धरति, उत्तरपूर्वमवान्तरदेशं गत्वा स्वकृत इरिणे प्रदरे वोपसमाधाय देवस्य त्वेत्यनुद्रुत्य रक्षसो वधं जुहोमीति पर्णमयेन स्रुवेण जुहोति, हतँ रक्ष इति स्रुवमनुप्रहृत्यावधिष्म रक्ष इत्युपतिष्ठते” इति।
मन्त्रपाठास्तु–––
देवस्य त्वेति। एते त्रयो मन्त्राः स्पष्टार्थाः। तत्र रक्षसो वधमुद्दिश्येति विशेषः।
होमकाले यद्वस्त्रामाच्छादयति तस्य दानं विधत्ते –– यद्वस्त इति।





१ ख. ०ति शे०।

[[880]]

८८०
श्रीमत्सायणाचार्यविरचितभाष्यसमेता– [१ प्रथमकाण्डे–
(राजसूयविषयाणां शुनासीर्येन्द्रतुरीयेतिकर्मद्वयपञ्चेध्मीयमन्त्रापामार्गहोममन्त्राणामभिधानम्)






१ ख. स्परमङ्गी। २ ख. घ. ङ. च. त्वां। ३ क. घ. ङ. फेनेनाऽऽयु।

[[881]]

८८१
प्र. पा० ८ अनु० ८] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(राजसूयविषयाणां शुनासीर्येन्द्रतुरीयेतिकर्मद्वयपञ्चेध्मीयमन्त्रापामार्गहोममन्त्राणामभिधानम्)









अत्र विनियोगसंग्रहः –
“पञ्चेध्मवह्नौ जुहुयाद्ये देवा इति पञ्चभिः।
समूहन्तीध्मान्समिति पञ्चहोमस्तथाऽग्नये॥१॥
निशि हुत्वा सक्‍तुहोमः प्रातर्देवेति मन्त्रतः।
हतं स्रुवप्रहरणमवधिष्मेति चोत्थितिः॥
अनुवाके सप्तमेऽस्मिन्नुक्ता मन्त्राश्चतुर्दश” ॥२॥ इति।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-
तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डेऽष्टमप्रपाठके
सप्तमोऽनुवाकः॥७॥
–––––––––