०६

(अथ प्रथमाष्टकेऽष्टमप्रपाठके षष्ठोऽनुवाकः )।
प्र॒ति॒पू॒रु॒षमेक॑कपाला॒न्निर्व॑प॒त्येक॒मति॑रिक्तं॒ या
व॑न्तो गृ॒ह्याः॑ स्मस्तेभ्यः॒ कम॑करं पशू॒नाँ
शर्मा॑सि॒ शर्म॒ यज॑मानस्य॒ शर्म॑ मे य॒च्छैक॑ ए॒व
रु॒द्रो न द्वि॒तीया॑य तस्य आ॒खुस्ते॑ रुद्र प॒शुस्तं

[[870]]

८७०
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे––
(राजसूयविषयस्य चतुर्मास्यसंबन्धिसाकमेधाख्यतृतीयपर्वणोऽभिधानम्)
जु॑षस्वै॒ष ते॑ रुद्र भा॒गः स॒ह स्वस्राऽम्बि॑कया॒
तं जु॑षस्व भेष॒जं गवेऽश्वा॑य॒ पुरु॑षाय॒ भेष॒ज–
मथो॑ अ॒स्मभ्यं॑ भेष॒जँ सुभे॑षजम् (१)
यथाऽस॑ति। सु॒गं मे॒षाय॑ मे॒ष्या॑ अवा॑म्ब रु॒द्र–
म॑दिम॒ह्यव॑ दे॒वं त्र्य॑म्बकम्। यथा॑ नः॒ श्रेय॑सः॒
कर॒द्यथा॑ नो॒ वस्य॑सः॒ कर॒द्यथा॑ नः पशु॒मतः॒
कर॒द्यथा॑ नो व्यवसा॒यया॑त्। त्र्य॑म्बकं यजा–
महे सुग॒न्धिं पु॑ष्टि॒र्ध॑नम्। उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑–
नामृ॒त्योर्मु॑क्षीय॒ माऽमृता॑त्। ए॒ष ते॑ रुद्र भा॒–
गस्तं जु॑षस्व॒ तेना॑वसे॒न॑ प॒रो मूज॑व॒तोऽती॒ह्य–
व॑ततधन्वा॒ पिना॑कहस्तः॒ कृत्ति॑वासाः (२)॥
(सुभे॑षजमिहि॒ त्रीणि॑ च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टकेऽ
ष्टमप्रपाठके षष्ठोऽनुवाकः॥६॥
––––––––
(अथ प्रथमकाण्डेऽष्टमप्रपाठके षष्ठोऽनुवाकः )।
पञ्चमे पितृयज्ञोऽभिहितः। षष्ठे त्र्यम्बकपुरोडाशाः साकमेधशेषा उच्यन्ते। तान्विधत्ते –––
प्रतिपूरुषमिति। तद्विधिं प्रशंसति –– “प्रतिपूरुषमेककपालान्निर्वपति। जाता एव प्रजा रुद्रान्निरवदयते। एकमतिरिक्तम्। जनिष्यामाणा एव प्रजा रुद्रान्निरवदयते। एककपाला मवन्ति। एकधैव रुद्रं निरवदयते” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ १०) इति।
करम्भवाक्यवन्नैतवाक्यवच्‍च व्याख्येयम्। मुख्यविधिसंनिधौ यावन्त इत्यादय एकादश मन्त्रा आम्नाताः।
यावन्त इति। कल्पः — “यावन्तो गृह्याः स्मस्तेभ्यः कमकरमिति निरु

[[871]]

८७१
प्रपा॰ ८ अनु॰ ६) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(राजसूयविषयस्य चतुर्मास्यसंबन्धिसाकमेधाख्यतृतीयपर्वणोऽभिधानम्)
प्यमाणेषु यजमानो जपति” इति।
गृहे भवा मनुष्या गृह्यास्ते वयं यावन्त इह स्थितास्तेभ्यं सर्वेः कं सुख-मकरमकार्षम्। श्रपितेषु पुरोडाशेषु चोदकप्राप्तमभिघारणं निषेधति––
“नाभिघारयीत। यदाभिघारयेत्। अन्तरवचारिणँ रुद्रं कुर्यात्” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ १०) इति।
रुद्रमनिष्टकारिणं क्रूरदेवम्। अन्तरवचारिणं गृहस्यान्तः प्रविश्यास्मानवरोद्धुं चरन्तम्।
कल्पः — “तानभिघार्यानभिघार्य वोद्वास्यान्तर्वेद्यामासाद्यः पशूनाँ शर्मासीति मूते समावपति” इति।
कर्षकैर्व्रीह्यादिबीजानि संग्रहीतुं तृणकटादिना पुटबन्धनं क्रियते तदिदं मूत-शब्देनोच्यते। पाठस्तु––
पशूनामिति। हे मूत भक्ष्यैस्तृणादिभिर्बीजैश्चोपेतत्वात्पशूनां शर्मासि। अतो यजमानस्य मेऽध्वर्योश्च सुखं यच्छ।
एक एवेति। कल्पः — “एक एव रुद्रो न द्वितीयाय तस्थ इति दक्षिणाग्ने-रेकोल्मुकं धूपायद्धरंति उत्तरपूर्वमवान्तरदेशं गत्वा” इति।
रुद्रो जगत्येक एवास्ति। द्वितीयाय न तस्थे। द्वितीयो रुद्रो न कोऽप्यव-स्थितः। विधत्ते ––
“एकोल्मुकेन यन्ति (१)। तद्धि रुद्रस्य भागधेयम्। इमां दिशं यन्ति। एष वै रुद्रस्य दिक्। स्वायामेव दिशि रुद्रं निरवदयते” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ १०) इति।
कल्पः — “आखुस्ते रुद्र पशुरित्याखूत्कर एकं पुरोडाशमुपवपत्यसौ ते पशुरिति वा द्वेष्यं मनसा ध्यायन्यदि न द्विष्यादाखुस्ते पशुरिति ब्रूयात्” इति।
आखूत्करो मूषकैर्बिलादुद्धृतः पांसुराशिः। पाठस्तु––
आखुस्त इति। हे रुद्र मूषकस्ते प्रियः पशुरतस्तं सेवस्व। विधत्ते ––
“रुद्रो वा अपशुकाया आहुत्यै नातिष्ठत। असौ ते पशुरिति निर्दिशेद्यं द्विष्यात्। यमेव द्वेष्टि। तमस्मै पशुं निर्दिशति। यदि न द्विष्यात्। आखुस्ते पशुरिति ब्रूयात् (२)। न ग्राम्यान्पशून्हिनस्ति। नाऽऽरण्यान्” (ब्रा॰


१ ख. ०पायोद्ध०।

[[872]]

८७२
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे
(राजसूयविषयस्य चतुर्मास्यसंबन्धिसाकमेधाख्यतृतीयपर्वणोऽभिधानम्)
का॰ १ प्र॰ ६ अ॰ १०) इति।
आहुत्यै नातिष्ठत पशुरहितामाहुतिं नाङ्गी करोतीत्यर्थः। यं द्विष्यात्तमसा-विति नामग्रहणेन निर्दिशेत्। तथा सति द्वेष्यमस्मै समर्पयत्येव।
एष त इति। कल्पः — “चतुष्पथ एकेल्मुकमुपसमाधाय संपरिस्तीर्य सर्वेषां पुरोडाशानामुत्तरार्धात्सकृदवदायावदाय मध्यमेनान्तिमेन वा पलाशपर्णेन जुहोत्येष ते रुद्र भागः सह स्वस्राऽम्बिकया तं जुषस्व स्वाहेति” इति।
अत्र स्वाहाकारोऽध्याहृतः। हे रुद्र, एषोऽवत्तः पुरोडाशनामंशस्तवावदी-यमानो भागः, तं भागं, स्वस्रा भगिनीवद्धितकारिण्याऽम्बिकया पार्वत्या सहांशं जुषस्य सेवस्व। विधत्ते ––
“चतुष्पथे जुहोति। एष वा अग्नीनां पड्वीशो नाम। अग्निवत्येव जुहोति। मध्यमेन पर्णेन जुहोति। स्रुग्घ्येषा। अथो खलु। अन्तमेनैव होतव्यम्। अन्तत एव रुद्रं निरवदयते (३)” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ १०) इति।
अग्नीनां पड्वीशः पादप्रदे(वे)शस्थानम्। यत्राग्नयः पुनः पुनः संचारेण प्रवि-शन्ति तादृश एवैष चतुष्पथः। अतस्तत्र होमेनाग्निवत्येव देशे हुतं भवति। पलाशाखायां यानि त्रीणि पर्णानि तत्र मध्यमं पर्णं प्रशस्ततया स्रुग्रूपम्। वामदक्षिणपार्श्वस्थयोरन्यतरेण होमेन रुद्रो यागभूमेरन्तान्निष्काशितो भवति।
सह स्वस्राऽम्बिकयेत्यस्य मन्त्रभागस्य तात्पर्यं व्याचष्टे––
“एष ते रुद्र भागः सह स्वस्राऽम्बिकयेत्याह। शरद्वा अस्याम्बिका स्वसा। तया वा एष हिनस्ति। यँ हिनस्ति। तयैवैनँ सह शमयति” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ १०) इति।
शरत्कालो हि पीनसज्वराद्युत्पादनेन हिंसकस्तद्वदियमम्बिका हिंसिका। ततः शरदित्युच्यते। एष रुद्रस्तयैव सहायभूतया प्राणिनं हिनस्ति। अतस्तया सह पुरोडाशभागसेवया तुष्टया तयेव सहैवैनं रुद्रं शमयति हिंसारहितं करोति।
कल्पः — “भेषजं गवे सुभेषजमित्येताभ्यां चतुष्पथमग्निं परिषिञ्चति” इति।
पाठस्तु–––
भेषजमिति। भेषजं सुभेषजमित्येतौ मन्त्रयोरादी। हे रुद्र गवेऽस्मदीयायै गोजात्यै भेषजमारोग्यं कुरु। एवमन्यत्र। तात्कालिकं रोगोपशमनमात्यन्तिकं

[[873]]

८७३
प्रपा॰ ८ अनु॰ ६) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(राजसूयविषयस्य चतुर्मास्यसंबन्धिसाकमेधाख्यतृतीयपर्वणोऽभिधानम्)
वा सुभेषजं तद्यथाऽसति यथा भवति तथा कुरु। मेषो वाहकः। मेषी दोग्ध्री। तयोः सुगं सुष्ठु गमनं रोगराहित्येन संचरणं यथा भवति तथा कुरु।
गवाश्वादिशब्दैः पश्वादयः सर्वेऽप्युपलक्ष्यन्त इत्याह––
“भेजषं गव इत्याह। यावन्त एव ग्राम्याः पशवः। तेभ्यो भेषजं करोति” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ १०) इति।
कल्पः — “अवाम्ब रुद्रमदिमहीति यजमानो जपति” इति। पाठस्तु–––
अवाम्बेति। हेऽम्ब पार्वति रुद्रमुद्दिश्यावादिमहि पुरोडाशावदानमकार्ष्म। त्रीण्यम्बकानि नेत्राणि यस्यासौ त्र्यम्बकस्तमुद्दिश्यावादिमहि। आदरार्थं पुनर्व-चनम्। किमर्थमवदानं कृतमित्युच्यते। असौ रुद्रो नोऽस्माञ्श्रेयसोऽध्ययना-दिभिः श्रेष्ठान्यथा करत्करोति, वस्यसो वसुमत्तमान्यथा करोति, पशुमतो गवाश्वादियुक्तान्यथा करोति, व्यवसाययाव्द्यवसाययति शास्त्रार्थनिश्चययुक्तान्यथा करोति तदर्थमवदानं कृतम्।
यथा नः श्रेयस इत्याद्यभिधानान्मन्त्रस्याऽऽशीःपरस्वं दर्शयति ––
“अवाम्ब रुद्रमदिमहीत्याह। आशिषमेवैतामाशास्ते (४)” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ १०) इति।
कल्पः — “त्र्यम्बकं यजामह इति त्रिः प्रदक्षिणमग्निं पर्येति” इति।
पाठस्तु––
त्र्यम्बकमिति। शोभनः शरीरगन्धः पुण्यगन्धो वा यस्यासौ सुगन्धिः। “यथा वृक्षस्य संपुष्पितस्य दूराद्गन्धो वात्येवं पुण्यस्य कर्मणो दूराद्गन्धो वाति” इति श्रूतेः। पुष्टिं शरीरधनादिविषयां वर्धयतीति पुष्टिवर्धनस्तादृशं त्र्यम्बकं यजामहे पूजयामः। लोके यथोर्वारुकफलानि बन्धनाद्वृन्तात्स्वयमेव मुच्यन्ते तद्वदहं त्रयम्बकप्रसादेन मृत्योर्मुक्षीय मोचनयुक्तो भूयासम्। अमृताच्चिरजीवि-तात्स्वर्गदेर्वा मा मुक्षीय।
चतुर्थपादार्थ(र्थे)मन्त्रस्य तात्पर्यातिशयं दर्शयति––
“त्र्यम्बकं यजामह इत्याह। मृत्योर्मुक्षीय माऽमृतादिति वावैतदाह” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ १०) इति।
यजमानो यजामह इति यदाह, एतद्वचनं मृत्योर्मुक्षीयेत्येवाऽऽह मोचन एव तात्पर्यं तच्छेषत्वेनान्यदित्यर्थः।


१ क. ०पादम०। २ ख. ०त्वेन यजनामित्य०।

[[874]]

८७४
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे–––
(राजसूयविषयस्य चतुर्मास्यसंबन्धिसाकमेधाख्यतृतीयपर्वणोऽभिधानम्)
यदुक्तमापस्तम्बेन––“ऊर्ध्वान्पुरोडाशानुदस्य प्रतिलभ्य त्र्यम्बकं यजामह इति यजमानस्याञ्जलौ समोप्य भगः स्थ भगस्य वो लिप्सीयेत्यपादायैतेनैव कल्पेन त्रिः समावर्तयेयुः " इति, तदेतत्सर्वमभिप्रेत्य सर्वेषां पुरुषाणां हस्ते स्थितस्य पुरोडाशस्योत्क्षेपणं विधत्ते ––
“उत्किरन्ति। भगस्य लीप्सन्ते " इति (ब्रा॰ का॰ १ प्र॰ ६ अ॰ १०) इति।
यदेतत्पिण्डानामुपरि क्षेपणं तेन सौभाग्यभिमानिनो भगनामकस्य देवस्य सकाशादेतान्पुरोडाशाल्लँब्धुमिच्छन्ति। अत एवोत्क्षिप्तः पुनरञ्जलौ पतति।
कल्पः — “तान्मूते समावपन्ति मूतयोर्मूतेषु वैष ते रुद्र भाग इति वृक्ष आसजन्ति वृक्षयोर्वृक्षेषु वाऽपि वा मूतयोः समोप्याविवधं कृत्वा शुष्के स्थाणौ वल्मीकवपायां वाऽवधाय” इति। पाठस्तु ––
एष त इति। हे रुद्र, एष वृक्षादौ सज्यमानः पुरोडाशसंघस्तव भागस्तं सेवस्व। अवसेन पाथेयरूपतया तव रक्षकेणानेन भागेन युक्तो मूजवत एतन्नामकत्वेन प्रसिद्धात्पर्वतात्परः परभागे वर्तमानोऽतीह्यतिक्रम्य गच्छ। विधत्ते ––
“मूते कृत्वा सजन्ति। यथा जनं यतेऽवसं करोति। तादृगेव तत्” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ १०) इति।
यथा लोके दूरदेशवर्तिनं बन्धुजनं प्रति गच्छते पुरुषायावसं रक्षकं पाथेयं करोति तद्वृक्षाग्रे पुरोडाशसञ्जनं तादृगेव भवति।
मन्त्रे भागनिर्देशो रुद्रस्य निःशेषेण विसर्जनार्थ इति दर्शयति––
“एष ते रुद्र भाग इत्याह निरवत्त्यै” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ १०) इति।
अवततधन्वेति। कल्पः — “अवततधन्वा पिनाकहस्तः। कृत्तिवासोमिति त्रिरवताम्यन्ति” इति।
प्राणायामत्रयं कुर्वन्तीत्यर्थः। ओमित्यनेन वाक्यशेषः पूरितः। अस्मद्वि-रोधिनं पाप्मानं हन्तुमयं रुद्रः पिनाकनामकं धनुर्हस्ते गृहीत्वाऽवततधन्वा ज्याकर्षणेन विस्तारितधनुष्कः कृत्तिवासाश्चर्मवसन ॐ भवतु। अथवाऽसमद्विषयेऽवततधन्वाऽऽरोपितमौर्वीकधनुर्युक्तो भवतु।


१ घ. ङ. च. भगो वो लप्सी०। २ ख. वो लप्सी०। ३ ख. ०वपेयुः। ४ क. ख. घ. ङ. च. ०जति वृ०। ५ ख. ङ. च. तद्वदव०।

[[875]]

८७५
प्रपा॰ ८ अनु॰ ७) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(राजसूयविषयस्य चतुर्मास्यसंबन्धिसाकमेधाख्यतृतीयपर्वणोऽभिधानम्)
चतुष्पथप्रत्यागमनादीन्क्रमेण विधत्ते ––
“अप्रतीक्षमायान्ति। अपः परिषिञ्चति। रुद्रस्यान्तर्हित्यै। प्र वा एतेऽ-स्माल्लोकाच्च्यवन्ते। ये त्र्यम्बकैश्चरन्ति। आदित्यं चरुं पुनरेत्य निर्वपति। इयं वा अदितिः। अस्यामेव प्रतितिष्ठन्ति (५) " (ब्रा॰ का॰ १ प्र॰ ६ अ॰ १०) इति। अत्र विनियोगसंग्रहः —
“स्वामी यावन्त इत्याह पशू मूते समावपेत्।
एक इत्युल्मुकं नीत्वाऽऽखुस्त आखूत्करे हविः॥१॥
क्षिपेदेषोऽर्धहोमः स्याद्भे सुभे परिषिञ्चति।
अवाम्बेति जपेत्स्वामी त्र्यम्बकं परियन्ति ते॥२॥
एषोऽवस्थाप्य तच्छेषान्मूते बध्नाति शाखिनि।
अवत श्वासनियमो मन्त्रा एकादश स्मृताः॥३॥” इति॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डेऽष्टमप्रपाठके
षष्ठोऽनुवाकः॥६॥
–––––––––