०५

(अथ प्रथमाष्टकेऽष्टमप्रपाठके पञ्चमोऽनुवाकः)।
सोमा॑य पितृ॒मते॑ पुरो॒डाशँ॒ षट्क॑पालं॒
निर्व॑पति पि॒तृभ्यो॑ बर्हि॒षद्भयो॑ धा॒नाः पि॒तृ–
भ्यो॑ऽग्निष्वा॒त्तेभ्यो॑ऽभिवा॒न्या॑यै दु॒ग्धे म॒न्थमे॒–
तत्ते॑ तत॒ ये च॒ त्वामन्वे॒तत्ते॑ पितामह प्रपिता–
मह॒ ये च॒ त्वामन्वत्र॑ पितरो यथाभा॒गं म॑न्द–
ध्‍वँ सुसं॒दृशं॑ त्वा व॒यं मघ॑वन्मन्दिषी॒महि॑।
प्र नू॒नं पू॒र्णव॑न्धुरः स्तु॒तो या॑सि॒ वशाँ॒ अनु॑।
योजा॒ न्वि॑न्द्र ते॒ हरी॑ (१)। अक्ष॒न्नमी॑मदन्त॒
ह्यव॑ प्रि॒या अ॑धूषत। अस्तो॑षत॒ स्वभा॑नवो॒
विप्रा॒ नवि॑ष्ठया म॒ती। योजा॒ न्वि॑न्द्र ते॒ हरी॑।
अक्ष॑न्पि॒तरोऽमी॑मदन्त पि॒तरोऽती॑तृपन्त पि॒त–
रोऽमी॑मृजन्त पि॒तरः॑। परे॑त पितरः सोम्या
गम्भी॒रैः प॒थिभिः॑ पू॒र्व्यैः। अथा॑ पि॒तॄन्त्सु॑वि–
दत्राँ॒ अपी॑त य॒मेन॒ ये स॑ध॒मादं॒ मद॑न्ति।


१ क. विहितम्।

८५६––२
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे
(राजसूयविषयस्य चतुर्मास्यसंबन्धिसाकमेधाख्यतृतीयपर्वणोऽभिधानम्)

मनो॒ न्वा हु॑वामहे नाराशँ॒सेन॒ स्तोमे॑न
पितृ॒णां च॒ मन्म॑भिः। आ (२) न॒ ए॒तु॒ म॒नः
पुनः॒ क्रत्वै॒ दक्षा॑य जी॒वसे॑। ज्योक्च॒ सूर्यं॑ दृ॒शे।
पुन॑र्नः पि॒तरो॒ मनो॒ ददा॑तु॒ दैव्यो॒ जनः॑। जी॒वं
व्रातँ॑ सचेमहि। यद॒न्तरि॑क्षं पृथि॒वीमु॒त द्यां
यन्मा॒तरं॑ पि॒तरं॑ वा जिहिँसि॒म। अ॒ग्निर्मा॒
तस्मा॒देन॑सो॒ गार्ह॑पत्यः॒ प्र मु॑ञ्चतु दुरि॒ता यानि॑
चकृ॒म क॒रोतु॒ माम॑ने॒स॑म् (३)।
(हरी॒ मन्म॑भि॒रा चतु॑श्चत्वारिँशच्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टकेऽ
ष्टमप्रपाठके पञ्चमोऽनुवाकः॥५॥
––––––––
(अथ प्रथमकाण्डे सप्तमप्रपाठके पञ्चमोऽनुवाकः)।
चतुर्थे साकमेधाख्ये तृतीये पर्वणि प्रधानहवींष्युक्तानि। पञ्‍चमे तदीयशेषो महापितृयज्ञ उच्यते। आदौ तावत्त्रीणि हवींषि विधत्ते ––
सोमायेति। पितपोऽस्य सन्तीति पितृमान्पितृस्वामीत्यर्थः। बर्हिषि यज्ञे सीदन्तीति बर्हिषदः। धाना भृष्टयवाः। अग्निष्वात्ता अयज्ञनिष्ठाः। अभिवान्या मृतवत्सा धेनुः। क्षीरे यवपिष्टं प्रक्षिप्य मिश्रीकृतं द्रव्यं मन्थः।
तदिदं हविस्त्रयं पितृयज्ञः। तस्य च पितृयज्ञस्य विधिमर्थवादेनोन्नयति––
“वैश्वदेवेन वै प्रजापतिः प्रजा असृजत। ता वरुणप्रघासैर्वरुणपाशाद-मुञ्चत्। साकमेधैः प्रत्यस्थापयत्। त्र्यम्बकै रुद्रं निरवादयत। पितृयज्ञेन सुवर्गं लोकमगमयत्। यद्वैश्वदेवेन यजते। प्रजा एव तद्यजमानः सृजते। ता वरुण-प्रघासैर्वरुणपाशान्मुञ्चति। साकमेधैः प्रतिष्ठापयति। त्र्यम्बकै रुद्रं निरवदयते (१)। पितृयज्ञेन सुवर्गं लोकं गमयति” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ८) इति।

[[857]]

८५७
प्रपा॰ ८ अनु॰ ५) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(राजसूयविषयस्य चतुर्मास्यसंबन्धिसाकमेधाख्यतृतीयपर्वणोऽभिधानम्)
प्रतिपूरुषमेककपालान्निर्वपतीति विधास्यमाना यागास्त्र्यम्बकास्तैः क्‍रूरं रुद्रं परितोष्य निःसारितवान्। तत्र सावर्गादिलोकहेतुत्वेनात्यन्तप्रशस्तत्वात्पितृ-यज्ञः कर्तव्य इत्यभिप्रायः।
अत्र हेयं पक्षम पूर्वपक्षतया विधत्ते ––
“दक्षिणतः प्राचीनावीती निर्वपति। दक्षिणावृद्धि पितृणाम्” ब्रा॰ का॰ १ प्र॰ ६ अ॰ ८) इति।
गार्हपत्यस्य दक्षिणदेशे स्थित्वा प्राचीनावीती सन्नुक्तानां हविषां निर्वापं कुर्यात्। यस्मात्पितॄणां संबन्धि कर्म दक्षिणावृत्प्रायेण दक्षिणस्यां दिशि वर्तते।
तं पक्षं दूषयित्वा सिद्धान्तं विधत्ते ––
“अनादृत्य तत्। उत्तरत एवोपवीय निर्वपेत्। उभये हि देवाश्च पितर-श्चेज्यन्ते” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ८) इति।
यत्रैकोद्दिश्राद्धादौ पितर एव पूज्यन्ते तत्र दक्षिणावृत्त्वमस्तु। इह त्वाज्य-भागादिदेवा अग्निष्वात्तादिपितरश्चेज्यन्ते। अतो देवानां प्रियायोत्तरतोऽवस्थानमुपवीतं च।
तर्हि पितॄणां प्रीतिर्न स्यादित्याशङ्क्य विध्यन्तरेण दक्षिणावृत्त्वं संपादयति–
“अथो यदेव दक्षिणार्धेऽधिश्रयति। तेन दक्षिणावृत्” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ८) इति।
हविः पाकाय गार्हपत्यस्य दक्षिणभागेऽधिश्रयेत्। तेनैतत्कर्म पितृप्रीत्यै दक्षिणावृदपि भविष्यति।
एतदेव कालरूपेण प्रशंसति––
“सोमाय पितृमते पुरोडाशँ षट्कपालं निर्वपति। संवत्सरो वै सोमः पितृमान् (२)। संवत्सरमेव प्रीणाति। पितृभ्यो बर्हिषद्भ्यो धानाः। मासा वै पितरो बर्हिषदः। मासानेव प्रीणाति। यस्मिन्वा ऋतौ पुरुषः प्रमीयते। सोऽस्यामुष्मिल्ँ लोके भवति” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ८) इति।
वसन्ते ज्योतिषा यजेतेति विधानात्सोमस्य संवत्सरत्वं, स एव पितॄणां पतिरित्यस्य पितृमत्त्वं, मासि पितृभ्यः क्रियत इति अमावास्याश्राद्धाभिधा–


१ ख. घ.ङ. च. ०गास्त्रैयम्ब०

[[858]]

८५८
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे
(राजसूयविषयस्य चतुर्मास्यसंबन्धिसाकमेधाख्यतृतीयपर्वणोऽभिधानम्)
नात्पितॄणां मासत्वं चोपचर्यते। “यदि वसन्ता प्रमीयते, वसन्तो भवति, यदि ग्रीष्मे ग्रीष्मः” इत्यभिधानात्तत्तदृतुदेवताप्रीतिरेवास्यामुष्मिन्नृतुसंबन्धः।
भर्जनेन क्वचिदीषत्कृष्णत्वं क्वचित्कृष्णत्वं क्वचिदकृष्णत्वमित्येवंविधं त्रैविध्यं विधत्ते ––
“बहुरूपा धाना भवन्ति। अहोरात्राणामभिजित्यै” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ८) इति।
अहान्यकृष्णान्यमावास्यारात्रिः कृष्णा, अन्यास्तु रात्रय ईषत्कृष्णाः।
तृतीययागदेवतां प्रशंसति––
“पितृभ्योऽग्निष्वात्तेभ्यो मन्थम्। अर्धमासा वै पितरोऽग्निष्वात्ताः (३) । अर्धमासानेव प्रीणाति” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ८) इति।
बर्हिषदामनुष्ठितयागत्वान्मासत्वम्। अग्निष्वात्तानां यागाभावादर्धमासत्वम्। एतच्‍च “ये वै यज्वानः, ते पितरो बर्हिषदः” इत्यादिना वक्ष्यते।
मृतवत्सां प्रशंसति––
“अभिवान्यायै दिग्धे भवति। सा हि पितृदेवत्यं दुहे” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ८) इति।
पितृदेवत्यं पितृदेवताभ्यो हितम्। मृताः पुरुषाः पितरो भवन्ति। अभिवान्या च मृतवत्सेति सजातीयत्वात्तत्र तेषां प्रीतिः।
यदुक्तमापस्तम्बेन –– “उद्वासनकाले धाना उद्वास्य विभागमन्त्रेण विभ-ज्यार्धा आज्येन संयौति, अर्धाः पिष्टानामावृता सक्तून्कृत्वाऽभिवान्यायै दुग्धस्यार्धशरावे सक्तूनोप्यैकयेक्षुशलाकयेक्षुकाण्डेन वा दक्षिणामुखस्त्रिः प्रसव्यमनारभ्योपमन्थति” इति।
तत्रार्धशरावे मन्थनं विधत्ते ––
“यत्पूर्णम्। तन्मनुष्याणाम्। उपर्यर्धो द्वानाम्। अर्धः पितृणाम्। अर्ध उपमन्थति। अर्धो हि पितृणाम्” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ८) इति।
भुञ्जाना मनुष्याः पात्रपूर्णमेव घृतमिच्छन्ति। प्रयाजदेवता जुहूगतेनोप-रितनाज्यभागेन तृप्यन्ति। अधोभागेन हविरभिघारणात्। अग्निहोत्रे चोपरि-भागं देवेभ्यो हुत्वाऽर्धभागं स्वधा पितृभ्यः पितॄञ्जिन्वेति भूमौ निमृजन्तीति तद्विधानात्। तदेतत्सर्वमभिप्रेत्य यत्पूर्णमित्याद्युक्तम्।
इक्षुशलाकां विधत्ते ––

[[859]]

८५९
प्रपा॰ ८ अनु॰ ५) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(राजसूयविषयस्य चतुर्मास्यसंबन्धिसाकमेधाख्यतृतीयपर्वणोऽभिधानम्)
“एकयोपमन्थति (४) । एका हि पितृणाम्।” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ८) इति।
यदेकमेकँ संभरेत्पितृदेवत्यानि स्युरित्यादौ पितॄणामेकत्वसंख्याप्रीतिः प्रसिद्धा।
दक्षिणामुखत्वं विधत्ते ––
“दक्षिणोपमन्थति। दक्षिणावृद्धि पितृणाम्” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ८) इति।
प्राचीं देवा दक्षिणा पितर इत्यादौ दक्षिणदिक्प्रीतिः प्रसिद्धा।
हस्ताभ्यां मन्थनं विधत्ते ––
“अनारभ्योपमन्थति। तद्धि पितॄन्गच्छति” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ८) इति।
तृतीयसवनगताशिरादौ मन्थानं स्तम्भे निबध्य मन्थति। तत्तु देवानां प्रियम्। अत्र त्वनारभ्य बन्धनमकृत्वा हस्ताभ्यामेवोपमन्थति। तच्‍च देववैलक्षण्यात्पि-तॄणां प्रियम्।
यदुक्तमापस्तम्बेन – “न प्राचीं वेदिमुद्धन्ति पितृयज्ञो हि न दक्षिणा देवयज्ञो ह्युभे दिशावन्तरोद्धत्य” इति। तामाग्नेयीं दिशमङ्गुल्या निर्दिशन्विधत्ते –
“इमां दिशं वेदिमुद्धन्ति। उभये हि देवाश्च पितरश्चेज्यन्ते” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ८) इति।
तस्या वेदेश्चतुर्विधं दैविकवैलक्षण्यं क्रमेण विधत्ते ––
“चतुःस्रक्तिर्भवति। सर्वा ह्यनु दिशः पितरः। अखाता भवति (५) । खाता हि देवानाम्। मध्यतोऽग्निराधीयते। अन्ततो हि देवानामाधीयते। वर्षीयानिध्म इध्माद्भवति व्यावृत्त्यै” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ८) इति।
दैविकी वेदिर्दीर्घा न तु समचतुरस्रा। इयं तु समचतुरस्रेति व्यावृत्तिः। अश्रिषु प्रकारविशेषं सूत्रकारो दर्शयति – “प्रतिदिशं स्रक्तयोऽवान्तरदेशा-न्प्रति मध्यानि” इति।


१ क. घ. ङ. च. मथ्नन्ति।

[[860]]

८६०
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे––
(राजसूयविषयस्य चतुर्मास्यसंबन्धिसाकमेधाख्यतृतीयपर्वणोऽभिधानम्)
परितः कटादिभिराच्छादनं विधत्ते ––
“परिश्रयति। अन्तर्हितो हि पितृलोको मनुष्यलोकात्” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ८) इति।
उन्मूलनं विधत्ते ––
“यत्परुषि दिनम्। तद्देवानां यदन्तरा। तन्मनुष्याणाम् (६) । यत्समूलम्। तत्पितृणाम्। समूलं बर्हिर्भवति व्यावृत्त्यै” इति।
परुषि पर्वसंधौ दिनं छिन्नं तादृशं बर्हिरहिंसितत्वाद्देवानां प्रियम्। अत एव बर्हिर्लवनब्राह्मणे श्रूयते–– “प्रजापतिर्वा ओषधीः पर्वशो वेद। स एना न हिनस्ति” इति। “ओषधीनामहिँसायै” इति च। यदन्तरा पर्वमध्ये छिन्नं तन्मनुष्याणां प्रियं संधिविशेषस्य तैरज्ञातत्वात्। परिशेषेण समूलत्वं पितॄणां प्रियम्।
बर्हिषां दक्षिणाग्रत्वं विधत्ते ––
“दक्षिणा स्तृणाति। दक्षिणावृद्धि पितृणाम्” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ८) इति।
यदुक्तमापस्तम्बेन––“आस्तरणकाले बर्हिषा त्रिः प्रसव्यं वेदिं स्तृणन्पर्येत्यौ-द्धवान्धारयमाणस्त्रिरस्तृणन्प्रतिपर्येत्यौद्धवः प्रस्तरः” इति। प्रसव्यमप्रदक्षिणत्वं यथा भवति तथा, तदिदमप्रदक्षिणत्वाभ्यां षट्कृत्व आवर्तनं विधत्ते ––
“त्रिः प्रर्येति। तृतीये वा इतो लोके पितरः। तानेव प्रीणाति। त्रिः पुनः पर्येति। षट्संपद्यन्ते (७) । षड्वा ऋतवः। ऋतूनेव प्रीणाति” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ८) इति।
इतो भूलोकादारभ्य तृतीयः पितृलोको भोगभूमेः स्वर्गस्यन्तरिक्षादूर्ध्वभावि-त्वात्।
प्रस्तरस्यामन्त्रकमासादनं विधत्ते ––
“यत्प्रस्तरं यजुषा गृह्णीयात्। प्रामायुक्तो यजमानः स्यात्। यन्न गृह्णीयात्। अनायतनः स्यात्। तूष्णीमेव न्यस्येत्। न प्रमायुक्तो भवति। नानायतनः” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ८) इति।
गृह्णीयात्सादयेदिति।

[[861]]

८६१
प्रपा॰ ८ अनु॰ ५) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(राजसूयविषयस्य चतुर्मास्यसंबन्धिसाकमेधाख्यतृतीयपर्वणोऽभिधानम्)
दक्षिणपरिधिवर्जनमभिप्रेत्य विधत्ते –
“यत्रीन्परिधीन्परिदध्यात् (८) । मृत्युना यजंमानं परिगृह्णीयात्। यन्न परिदध्यात्। रक्षाँसि यज्ञँ हन्युः। द्वौ परिधी परिदधाति। रक्षसामपहत्यै। अथो मृत्योरेव यजमानमुत्सृजति” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ८) इति।
मध्यामोत्तराविति सूत्रेऽभिहितम्।
हविषामनुक्रमेण सादनं विधत्ते ––
“यत्रीणि त्रीणि हवीँष्युदाहरेयुः। त्रयस्त्रय एषाँ साकं प्रमीयेरन्। एकै-कमनूचीनान्युदाहरन्ति। एकैक एवैषमन्वञ्चः प्रमीयते” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ८) इति।
उदाहरेयुरासादयेयुः। एषां यजमानबन्धूनां मध्ये। अन्वञ्चो वृद्धबालानु-क्रमगताः। एतेषां मध्य एकैक एव प्रमीयते न तु युगपत्।
दक्षिणतः कशिपूपबर्हणमाञ्जनमभ्यञ्जनमुदकुम्भमित्येकैकश आसाद्येति सूत्रे यदुक्तं तद्विधत्ते ––
“कशिपु कशिपव्याय। उपर्बहणमुबर्हण्याय। आञ्जनमाञ्जन्याय। अभ्यञ्जनमभ्यञ्जन्याय। यथाभागमेवैनान्प्रीणाति (९)” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ८) इति।
कशिपु तूलपूरितशय्यादि। उपबर्हणं शिरस आधारः। कशिपुप्रभृतीन्यु-दाहरन्तीत्यनुवर्तते। कशिपुप्रियः कशिपव्यः पिता, तत्परितोषार्थं कशिपु सादयेत्। एवमन्यत्। तथा सत्येनान्पितॄन्स्वस्वभागमनतिक्रम्य तोषयति।
तदेवमनुब्राह्मणगतेनानुवाकेन पितृयज्ञे हविरासादनपर्यन्तः पूर्वप्रयोगोऽभि-हितः। अनुवाकान्तरेण सामिधेन्यादिक उत्तरप्रयोगोऽभिधीयते। तत्राध्वर्योः प्रैषमन्त्रमुत्पाद्य मन्त्रं व्याचष्टे––
“अग्नये देवेभ्यः पितृभ्यः समिध्यमानायानुब्रूहीत्याह। उभये हि देवाश्च पितरश्चेज्यन्ते” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ९) इति।
देवानां पितॄणां चोपकारी योऽग्निस्तस्मै।
उशन्तस्त्वेत्येतामृचं सामिधेनीत्वेन विधत्ते –
“एकामन्वाह। एका हि पितृणाम्” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ९) इति।

[[862]]

८६२
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे–––
(राजसूयविषयस्य चतुर्मास्यसंबन्धिसाकमेधाख्यतृतीयपर्वणोऽभिधानम्)
तस्यामावृत्तिं विधत्ते ––
“त्रिरन्वाह। त्रिर्हि देवानाम्” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ९) इति।
चोदकप्राप्तावाघारौ प्रशंसति––
“आघारावाघारयति। यज्ञपरुषोरनन्तरित्यै” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ९) इति।
यज्ञपरुषोर्यज्ञांशयोरलोपाय।
वरणं पर्युदस्यति––
“नाऽऽर्षेयं वृणीते। न होतारम् (१) । यदार्षेयं वृणीते। यद्धोतारम्। प्रमायुक्तो यजमानः स्यात्। प्रमायुको होता। तस्मान्न वृणीते। यजमानस्य होतुर्गोपीथाय” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ९) इति।
अग्निर्देवो होता देवान्यक्षदित्यादिनिगदपाठ अर्षेयवरणम्। निगदावसाने विष्णुशर्मा मानुष इत्यादिनामोच्चारणं होतृवरणम्।
बर्हिर्नामकं चतुर्थं प्रयाजं निषेधति––
“अपबर्हिषः प्रयाजान्यजति। प्रजा वै बर्हिः। प्रजा एव मृत्योरुत्सृजति” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ९) इति।
चोदकप्राप्तावाज्यभागौ प्रशंसति––
“आज्यभागौ यजति (२) । यज्ञस्यैव यक्षुषी नान्तरेति” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ९) इति।
हविष्प्रचारकाले प्राचीनावीतं विधत्ते ––
“प्राचीनावीती सोमं यजति। पितृदेवत्या हि एषाऽऽहुतिः” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ९) इति।
चतुरवदानमपवदितुं विधत्ते ––
“पञ्चकृत्वोऽवद्यति। पञ्च ह्येता देवताः। द्वे पुरोनुवाक्ये। याज्या देवता वषट्कारः। ता एव प्रीणाति” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ९) इति।
त्वँ सोम प्रचिकितस्त्वया हि नः पितर इत्युभे पुरोनुवाक्ये। त्वँ सोम पितृभिः संविदान इत्येका याज्या। पितृमान्सोमो देवता, वषट्कारः। ता एताः पञ्च देवता उच्‍यन्ते।
एकैकदेवतार्थं त्रिषु हविःष्वविच्छिन्नावदनं विधत्ते ––

[[863]]

८६३
प्रपा॰ ८ अनु॰ ५) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(राजसूयविषयस्य चतुर्मास्यसंबन्धिसाकमेधाख्यतृतीयपर्वणोऽभिधानम्)
“संततमवद्यति (३) । ऋतूनाँ संतत्यै” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ९) इति।
तदाहाऽऽपस्तम्बः — “जुह्वामुपस्तीर्य सोमाय पितृमतेऽनु स्वधेति संप्रेष्यति सकृत्परोडाशस्यावद्यति सकृद्धानानां सकृन्मन्थस्य” इति।
द्वयोः पुरोनुवाक्ययोरेकस्या याज्यायाश्च विधिं मनसि निधाय प्रशंसति––
“प्रैवैभ्यः पूर्वया पुरोनुवाक्ययाऽऽह। प्रणयति द्वितीयया। गमयति याज्यया। तृतीये वा इतो लोके पितरः। अह्न एवैनां पूर्वया पुरोनुवाक्ययाऽत्यानयति। रात्रियै द्वितीयया। ऐवैनान्याज्यया गमयति” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ९) इति।
त्वँ सोम प्रचिकित इत्यनया पूर्वया पितृभ्यो हविः प्रकर्षेण कथितवा-न्भवति। त्वया हि नः पितर इत्यनया द्वितीयया पितॄन्प्रयति हविर्नयति। त्वँ सोम पितृभिरित्यनया तद्धविः पितॄन्गमयति याज्यया। पितॄणां तृतीयलोक-वर्तित्वादत्र मन्त्रत्रित्वं युक्तम्। किंच त्रिभिर्मन्त्रैः क्रमेणाह्नो रात्र्याश्च पितॄना-नीय हवि प्रति तानागमयत्येव।
वेदेरुत्तरत उपविश्यावदाय दक्षिणामुखो वेदिमतिक्रम्योदङ्मुखस्तिष्ठञ्‍जुहोति। अत्र तु तद्वैपरीत्यं सूत्रकार आह – “दक्षिणतोऽवदायाभिघार्योदङ्ङतिक्रम्य दक्षिणामुखस्तिष्ठन्” इति। तदेतद्विधत्ते ––
“दक्षिणतोऽवदाय। उदङ्ङतिक्रामति व्यावृत्त्यै (४)” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ९) इति।
आश्रावयास्तु श्रौषड्वौषडिति मन्त्रत्रयमपवदितुं क्रमेण विधत्ते ––
“आ स्वधेत्याश्रावयति। अस्तु स्वधेति प्रत्याश्रावयति। स्वधा नम इति वषट्करोति। स्वाधाकारो हि पितृणाम्” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ९) इति।
पितॄन्प्रति यद्वक्तव्यं तस्य सर्वस्य स्वधाकारो वाचकः। अत आश्रावयेत्या-दिशब्दान्न ब्रूते। यस्मात्स्वधाकारः पितॄणां प्रियः।
विधिवाक्ये पाठादेव प्राप्तं प्रचारक्रमं प्रशंसति––
“सोममग्रे यजति। सोमप्रयाजा हि पितरः। सोमं पितृमन्तं यजति। संवत्सरो वै सोमः पितृमान्। संवत्सरमेव तद्यजति। पितॄन्बर्हिषदो यजति (५)। ये वै यज्वानः। ते पितरो बर्हिषदः। तानेव तद्यजति। पितॄनग्नि–

[[864]]

८६४
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे
(राजसूयविषयस्य चतुर्मास्यसंबन्धिसाकमेधाख्यतृतीयपर्वणोऽभिधानम्)
ष्वात्तान्यजति। ये वा अयज्वानो गृहमेधिनः। ते पितरोऽग्निष्वात्ताः। तानेव तद्यजति” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ९) इति।
सोमः प्रथमं यष्टव्यो येषां पितॄणां ते सोमप्रयाजाः। पितृस्वामित्वेन तस्य प्राथम्यं युक्तम्। संवत्सरत्वं तु सोमस्य पूर्वमेवोक्तम्। इह लोके यज्ञं कृत्वा पितृलोकं प्राप्ता बर्हिषदः। इह यज्ञरहिता गृहमेधिनो ये गृहस्थास्ते पितृलोकं प्राप्याग्निष्वात्ता उच्यन्ते।
स्विष्टकृत्संज्ञकां देवतामपवदितुं विधत्ते –
“अग्निं कव्यवाहनं यजति। य एव पितृणामग्निः। तमेव तद्यजति (६)। अथो यथाऽग्निँ स्विष्टकृतं यजति। तादृगेव तत्” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ९) इति।
पित्र्यं हविः कव्यं तद्वहतीति कव्यवाहनः। अत एवान्यत्र श्रूयते––
“त्रयो वा अग्नयो हव्यवाहनो देवानां कव्यवाहनः पितृणाँ सहरक्षा असुराणाम्” इति।
मुख्यब्राह्मणे पैतृकानि(णि) त्रीणि हवींषि विधायैतत्ते ततेत्याद्येकादश मन्त्रा आम्नाताः। तत्र विनियोगमाहाऽऽपस्तम्बः — “हविःशेषान्संप्लोम्नाय पिण्डान्कृत्वा तिसृषु स्रक्तिषु निदधाति पूर्वस्यां दक्षिणस्यामपरस्यामित्येतत्ते ततासौ ये च त्वामन्वित्येतैः प्रतिमन्त्रम्” इति। संप्लोम्नाय सम्यङ्मर्दनेनैकीकृत्य। पाठस्तु –
एतत्त इति। तत हे पितस्ते तुभ्यमेतत्पिण्डीकृतमन्नं दत्तं, ये चान्ये त्वामनु वर्तन्ते तेभ्योऽप्येतद्दत्तम्। मध्यममन्त्रे ये च त्वामन्वित्यनुषङ्गः। प्रपितामहमन्त्र एतत्त इत्यनुषङ्गः। विधत्ते –
“एतत्ते तत ये त्वामन्विति तिसृषु स्रक्तीषु निदधाति। तस्मादा तृतीयात्पुरुषान्नाम निगृह्णन्ति। एतावन्तो हीज्यन्ते” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ९) इति।
यस्मान्मन्त्रेषु तत पितामह प्रपितामहेत्येवं साधारणशब्दनिर्देशः कृतस्तस्माल्लोकेऽप्या तृतीयात्पुरुषात्प्रपितामहपर्यन्तं संबन्धविशेषेणैव व्यवहरन्ति, न तु तदीयं देवदत्तविष्णुशर्मादिनामोच्चारयन्ति। यस्मात्पार्वणश्राद्धेषु पित्रादयस्त्रय एव पूज्यन्ते न तूपरितनास्तस्मादत्रापि त्रयाणां निर्देशो युक्तः।
अत्रेति। कल्पः — “अत्र पितरो यथाभागं मन्दध्वमित्युक्त्वोदञ्चो निष्क्रम्य सुसंदृशं त्वा वयमित्यैन्द्रियर्चाऽऽहवनीयमुपतिष्ठन्ते” इति।

[[865]]

८६५
प्रपा॰ ८ अनु॰ ५) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(राजसूयविषयस्य चतुर्मास्यसंबन्धिसाकमेधाख्यतृतीयपर्वणोऽभिधानम्)
हे पितरोऽत्र स्रक्तिगतपिण्डेषु स्वस्वभागमनतिक्रम्य हृष्टा भवत।
मन्दध्वमिति पदस्याभिप्रायं व्याचष्टे –
“अत्र पितरो यथाभागं मन्दध्वमित्याह। ह्लीका हि पितरः” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ९) इति।
यस्मात्पितरो लज्जाशीलास्तस्मात्स्वस्वभागादूर्ध्वं लज्जां वारयितुं विस्रम्भेण मन्दध्वमित्युच्यते। विधत्ते –
“उदञ्चो निष्क्रामन्ति। एषा वै मनुष्याणां दिक्। स्वामेव तद्दिशमनु निष्क्रामन्ति (७)” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ९) इति।
पितृत्वदशायां दक्षिणा दिक्प्राप्ता। ततः पूर्वं मनुष्यतादशायामुत्तरा दिगेव परिशिष्यते। आहवनीयोपस्थानमन्त्रपाठस्तु –
सुसंदृशमित। हे मघवन्सुसंदृशं सुष्ठु कटाक्षवीक्षणेनास्मान्पश्यन्तं त्वां मन्दिषीमहि वयं तर्पयामः। त्वमप्यस्मद्दत्तैर्हविर्भिः पूर्णवन्धुरः परिपूरितरथपृष्ठोऽस्माभिः स्तुतः सन्वशानमीष्टान्देशाननुलक्ष्य नूनं प्रयासि प्रायेणाऽऽगमिष्यसि। हे इन्द्र ते हरी तवाश्वौ योजा नु रथे नियुक्तौ हि। विधत्ते –
“आहवनीयमुपतिष्ठन्ते। न्येवास्मै तद्ध्नुवते। यत्सत्याहवनीये। अथान्यत्र चरन्ति” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ९) इति।
आहवनीये पुरोऽवस्थिते सति तमुपेक्ष्याथ तदाऽन्यत्र पैतृकवेदिमध्यस्थैऽग्नौ चरन्तीति यत्तेनास्मै निह्नुवत एनमाहवनीयमपलपन्त्येव ततक्षमापणायोपस्थानमित्यर्थः। उपस्थानस्यावधिं विधत्ते –
“आ तमितोरुपतिष्ठन्ते। अग्निमेवोपद्रष्टारं कृत्वा। पितॄन्निरवदयन्ते” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ९) इति।
आ तमितोरा ग्लानेरनुच्छ्वासेन मन्त्रमुच्‍चारयता यावता कालेन निरोधरूपा ग्लानिर्भवति तावदुपस्थातव्यम्। तेनोपस्थानेनाग्निमेव साक्षिणं कृत्वा पितॄन्स्वभागप्रदानेन विसृष्टवन्तो भवन्ति।
मन्त्रगतस्य सुसंदृशमित्येतस्याभिप्रायं व्याचष्टे –
“अन्तं वा एते प्राणानां गच्छन्ति। य आ तमितोरुपतिष्ठन्ते। सुसंदृशं त्वा वयमित्याह (८) । प्राणो वै सुसंदृक्। प्राणमेवाऽऽत्मन्दधत्ते” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ९) इति।

[[866]]

८६६
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे–––
(राजसूयविषयस्य चतुर्मास्यसंबन्धिसाकमेधाख्यतृतीयपर्वणोऽभिधानम्)
श्वासनिरोधेन ग्लानिं प्राप्तेषु कताक्षनिरीक्षणं नाम प्राणनिरोधपरिहारः। तदेतदभिप्रेत्य प्राणो वै सुसंदृगित्युच्यते। योऽयं परिहृतनिरोधः प्राणः स एवेन्द्रस्य कटाक्षः। तं कुर्वन्तं त्वामिति मन्त्रे योजनीयम्।
योजेति पदस्याभिप्रायमाह –
“योजा न्विन्द्र ते हरी इत्याह। प्राणमेव पुनरयुक्त” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ९) इति।
यथा त्वदीयावश्वौ रथे युक्तावेवं प्राणमस्मासु योजयेत्यभिप्रायः।
अक्षन्निति। कल्पः — “अथ गार्हपत्यमुपतिष्ठिन्ते––अक्षन्नमीमदन्त ह्यव प्रिया अधूषत। अस्तोषत स्वभानवो विप्रा नविष्ठया मती। योजा न्विन्द्र ते हरी इति” इति।
अक्षन्पितरो हविरशितवन्तः। अमीमदन्त भृशं हृष्टा हि यतः प्रियास्तनू-रवाधूषत हविर्भोजनसौकर्येण शिरःप्रभृत्यङ्गान्यकम्पयन्त। स्वभानवो वपुषि जनितेन स्वकीयेन तेजसा भासमाना विप्रा भोजनतृप्त्या ब्राह्मणसदृशाः सन्तो नविष्ठया मती, अतिशयेन नूतनया बुद्ध्याऽस्तोषत भृशमिष्टमेतदित्यादिवचनैः स्तुतिं कृतवन्तः। योजेत्यादि व्याख्यातम्। विधत्ते –
“अक्षन्नमीमदन्त हीति गार्हपत्यमुपतिष्ठन्ते” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ९) इति।
नन्वक्षन्नित्यादिमन्त्रः पितृप्रतिपादक उपस्थेयस्तु गार्हपत्य इति वैयधिकरण्य-माशङ्क्य मन्त्रस्यापेक्षितशेषपूरणेन वैयधिकरण्यपरिहारं श्रुतिरेव दर्शयति –
“अक्षन्नमीमदन्ताथ त्वोपतिष्ठामह इति वावैतदाह” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ९) इति।
पितरो भुक्तवन्तो हृष्टाश्च। अथ तदा साक्षिणं त्वामुपतिष्ठामह इत्येवं मन्त्र-वाक्यमाह। मन्त्रस्थौ मघवन्निन्द्रेत्येतावपि शब्दावग्निपरत्वेन व्याख्येयौ। अन्न-वान्परमैश्वर्ययुक्त इति तयोरर्थः।
अक्षन्पितरा इति। कल्पः — “अथ प्राचीनावीतं कृत्वाऽन्वाहार्यपचनमभि-प्रपद्यन्तेऽक्षन्पितरोऽमीमदन्त पितरोऽतीतृपन्त पितरोऽमीमृजन्त पितर इति” इति।
अतीतृपन्तास्मांश्च तर्पयन्तः (?)। अमीमृजन्तास्माञ्शोधितवन्तः।


१ ख. घ. ङ. च. ०ल्पः — ’ प्रा ०। २ क. घ. ङ. च. ०द्यतेऽक्ष०।

[[867]]

८६७
प्रपा॰ ८ अनु॰ ५) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(राजसूयविषयस्य चतुर्मास्यसंबन्धिसाकमेधाख्यतृतीयपर्वणोऽभिधानम्)
अत्र सूत्रकारः शाखान्तरमन्त्रमपि विनियुङ्क्ते – “अमीमदन्त पितरः सोम्या इत्या तमितोरुपतिष्ठन्ते” इति।
तदेतदुपस्थानं विदधानः पूर्ववद्वैयधिकरण्यं परिहरति –
“अमीमदन्त पितरः सोम्या इत्यभिप्रपद्यन्ते। अमीमदन्त पितरोऽथ त्वाऽ-भिप्रपद्यामह इति वावैतदाह” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ९) इति।
कल्पः — “परेत पितरः सोम्या इति प्रवाहण्या पितॄन्प्रवाहयति” इति।
पाठस्तु –
परेतेति। हे सोम्याः पितरः पथिभिः परेत परावृत्य गृहान्गच्छतेति। कीदृशैः पथिभिः। गम्भीरैः सुलभान्नतोयैः पूर्व्यैः पूर्वं कृतैः प्रहतैः। अथ तदा गृहान्गत्वा तस्मिन्पितृलोके यमेन साकं ये पितरः सधमादं सहस्थानस्थमादं यथा भवति तथा मदन्ति हृष्यन्ति तान्सुविदत्रान्सुष्ठु वेदितॄंश्चिरवासेन तत्रत्यवृत्तान्तज्ञान्पितॄनपि यूयमित प्राप्नुत।
कल्पः — “मनो न्वा हुवामह इति मनस्वतीभिरुपतिष्ठते” इति।
तिसृषु ऋक्षु प्रथमायाः पाठस्तु ––
मनो न्वेति। नारांशंसेन मनुष्यप्रशंसायोग्येन स्तोमेन वाक्यसमूहेन पितॄ-णामपि मन्मभिर्मननीयैर्वाक्यैर्मनः पितृयज्ञानुष्ठानपरं चित्तं नु क्षिप्रमाहुवामह आह्वयामः। अथ द्वितीया ––
आ न एत्विति। ऋत्वे कर्मानुष्ठानाय दक्षाय तत्तत्सामर्थ्याय जीवसे जीवितुं ज्योक्चिरं सूर्यं दृशे द्रष्टुं योग्यं मन आगत्य नोऽस्मान्पुनरेत्वसकृत्प्राप्नोतु।
अथ तृतीया––
पुनर्न इति। हे पितरो दैव्यो जनो देवसंबन्धिपुरुषसमूहो नोऽस्माकं मनः कर्मानुष्ठानपरं चित्तं ददातु, असकृत्प्रयच्छतु। वयमपि व्रातं संवत्सरसंघाकरूपं जीवं जीवनं सचेमहि सेवेमहि।
कल्पः — “यदन्तरिक्षमिति पङ्क्त्या गार्हपत्यमुपतिष्ठते” इति। पाठस्तु –
यदन्तरिक्षमिति। पृथिव्यादील्लोँकान्मनसा जिहिंसिम हिंसितुमिच्छेम। यन्मा-तरं पितरं वा हिंसितुमिच्छेमेति यत्तस्मात्सर्वस्मादेनसः पापाद्गार्हपत्यो मां प्रमु-ञ्चतु। अन्यान्यपि दुरितानि यानि चकृम तेभ्योऽपि मुञ्चतु। मामनेनसं सर्व-पापरहितं करोतु।

[[868]]

८६८
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे––
(राजसूयविषयस्य चतुर्मास्यसंबन्धिसाकमेधाख्यतृतीयपर्वणोऽभिधानम्)
यदुक्तमापस्तम्बेन – “उदकुम्भमादाय यजमानः शुन्धन्तां पितर इति त्रिः प्रसव्यं वेदिं परिषिञ्चन्पर्येति” इति। तदेतद्विधत्ते ––
“अपः परिषिञ्चति। मार्जयत्येवैनान् (९)। अथो तर्पयत्येव” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ९) इति। एनान्पितॄन्। तद्वेदनं प्रशंसति ––
“तृप्यति प्रजया पशुभिः। य एवं वेद” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ९) इति।
चतुर्थप्रयाजवद्बर्हिर्नामकं प्रथमानूयाजं निषेधति –
“अपबर्हिषावनूयाजौ यजति। प्रजा वै बर्हिः। प्रजा एव मृत्योरुत्सृजति” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ९) इति।
बर्हिर्यागवर्जनात्। प्रयाजानूयाजान्प्रशंसति––
“चतुरः प्रयाजान्यजति। द्वानूयाजौ। षट्संपद्यन्ते। षड्वा ऋतवः। ऋतूनेव प्रीणाति” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ९) इति।
सूत्रकारो युक्ता मे यज्ञमन्वासाता इति यजमानः संप्रेष्यतीतिप्रैषानुसारेण गार्हपत्यसमीप उपविष्टायाः पन्त्याः पूर्णपात्रानयनपर्यन्तं यदन्वासनमवोचत्तच्‍च पत्नीसंयाजांश्च चोदकप्राप्तान्प्रतिषेधति ––
“न पत्न्यन्वास्ते। न संयाजयन्ति। यत्पत्न्यन्वासीत। यत्संयाजयेयुः। प्रमायुका स्यात्। तस्मान्नान्वास्ते। न संयाजयन्ति। पत्नियै गोपीथाय (१०)” (ब्रा॰ का॰ १ प्र॰ ६ अ॰ ९) इति।
अत्र विनियोगसंग्रहः —
“एतत्त इत् दत्ते त्रीन्वेद्याः कोणेषु पिण्डकान्।
ब्रूयुरत्रेत्युपस्थानं पूर्वस्याग्नेः सुसंदृशम्॥१॥
अक्षन्निति प्रतीचोऽग्नेस्तथाऽक्षन्दक्षिणानलम्।
परेतेति प्रवाह्याथ मन आद्यैरुपस्थितिः॥
यत्पश्चिमाग्न्युपस्थानं मन्त्रा द्वादश वर्णिताः॥२॥” इति।
अथ मीमांसा।
दशमाध्यायस्य द्वितीयपादे चिन्तितम्––


१ ख. च. ०पात्रन०।

[[869]]

८६९
प्रपा॰ ८ अनु॰ ६) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(राजसूयविषयस्य चतुर्मास्यसंबन्धिसाकमेधाख्यतृतीयपर्वणोऽभिधानम्)
“नावघातोऽवघातो वा धानानां नाविनष्टये।
न नाशः क्रमबाधेऽतो नावघातोऽत्र बाध्यते”
महापितृयज्ञे हविः किचिच्छ्रूयते––“पितृभ्यो बर्हिषद्भयो धानाः” इति। धानाशब्देन भृष्टं धान्यमभिधीयते। तासां धानानामवघाते सति पूर्वः पक्षः। धाना अवहन्तव्या इति ह्यत्र चोदकवाक्यं, तस्मिंश्च वाक्ये भर्जनसंपादितं धानात्वं पूर्वभावि, पश्चाद्भावी त्ववघात इति क्रमः प्रतीयते। तं बाधित्वा प्रधमतोऽवघाते सति नास्ति धानात्वनाशः। अवघातस्य पदार्थस्य बाधाद्वरं तद्धर्मस्य क्रममात्रस्य बाधनम्। तस्मादवहन्तव्याः।
तदेवाधिकरणं वार्तिककारमतेनाऽऽरचयति––
“पेषणं नूतनं मन्थे प्राकृतं वा क्रमान्तरात्।
नूतनं प्राकृतं धर्ममात्रादाद्य(त्रबाध)स्य लाघवात्॥”
महापितृयज्ञ एवं श्रूयते––“पितृभ्योऽग्निष्वात्तेभ्योऽभिवान्यायै दुग्धे मन्थम्” इति। मृतवत्सा धेनुरभिवान्या। दुग्धे द्रव्ये प्रक्षिप्य मथिताः सक्तवो मन्थः। तत्र यत्पेषणं तन्न प्राकृतम्। कुतः। क्रमव्यत्यासात्। प्रकृतौ हि प्रथमतः पेषणं पश्चात्पुरोडाशश्रपणम्। अत्र तु प्रथमतः श्रपणेन धानाः संपाद्य पश्चात्सक्तुभावाय पेषणम्। तस्मान्नूतनमिति प्राप्ते ब्रूमः — चोदकप्राप्तप्राकृतपेषणतत्क्रमयोरुभयोर्बाध(धे)गौरवात्क्रममात्रं बाध्यम्। पेषणपदार्थस्तु स एवेति तद्धर्मा दृषन्मन्त्रा इत्यादयोऽत्र कर्तव्याः॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डेऽष्टमप्रपाठके
पञ्चमोऽनुवाकः॥५॥