(तत्र प्रथमोऽनुवाकः)।
ह॒रिः॒ॐ।
अनु॑मत्यै पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पति
धे॒नुर्दक्षि॑णा॒ ये प्र॒त्यश्चः॒ शम्या॑या अव॒शीय॑न्ते॒
तं नैर्ऋ॒तमेक॑कपपालं कृ॒ष्णं वासः॑ कृ॒ष्णतू॑षं॒
दक्षिणा॒ वीहि॒ स्वाहाऽऽहु॑तिं जुषा॒ण एष॒ ते॑
निते भा॒गो भूते॑ ह॒विष्म॑त्यसि मु॒ञ्चेममँ
ह॑सः॒ स्वाहा॒ नमो॒ य इ॒दं च॒कारा॑ऽऽदि॒त्यं च॒रुं
निर्व॑पति॒ वरो॒ दक्षि॑णाऽऽग्नावैष्ण॒वमेका॑दशक-
पालं वाम॒नो व॒ही दक्षि॑णाऽऽग्नीषो॒मीय॑म् (१)
एका॑दशकपा॒लँ हिर॑ण्यं॒ दक्षि॑णै॒न्द्रमेका॑दशक-
पालमृष॒भो व॒ही दक्षि॑णाऽऽग्ने॒यम॒ष्टाक॑पालमै॒न्द्रं
दध्यृ॑ष॒भो व॒ही दक्षि॑णै॒न्द्राग्नं द्वाद॑शकपालं
वैश्वदे॒वं च॒रूं प्र॑थम॒जो व॒त्सो दक्षि॑णा सौ॒म्यँ
श्या॑मा॒कं च॒रुं वासो॒ दक्षि॑णा॒ सर॑स्वत्यै च॒रुँ
सर॑स्वते च॒रुं मि॑थु॒नौ गावौ॒ दक्षि॑णा (२)॥
(अ॒ग्नी॒षो॒मीयं॒ चतु॑स्त्रिँशच्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टकेऽ
ष्टमप्रपाठके प्रथमोऽनुवाकः॥१॥
(अथ प्रथमकाण्डऽष्टमः प्रपाठकः)।
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिळं जगत्।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम्॥
[[808]]
८०८
प्रपाठकेऽथाष्टमेऽस्मिन्राजसूयो निगद्यते।
द्वाविंशत्यनुवाकेषु विंशत्या राजसूयके॥
अनेकानि प्रधानानि कर्माणि विहिनान्यथ।
द्वाभ्यां सौत्रामणीमन्त्राः काम्या याज्याश्च वर्णिताः॥
अष्टमे मन्त्रकाण्डस्थे कर्मणां बहुलत्वतः।
तत्तत्संनिधये प्रोक्ता मन्त्रा विधिपुरःसराः॥
अनूद्य तान्विधीनर्थवादो ब्राह्मण ईरितः।
संप्रदायविदोऽतोऽत्र ब्राह्मणद्वयमूचिरे॥
ब्राह्मणं मन्त्रकाण्डस्थविधिजातमितीरितम्।
अनुब्राह्मणमन्यत्तु कथितं सार्थवादकम्॥
तत्र प्रथमानुवाके प्रथमं तावद्ब्राह्मणेन कर्मद्वयं विधीयते-
अनुमत्या इति। चतुर्दशीमिश्रितायाः पौर्णमास्या अभिमानिदेवताऽनुमतिः। “अमावस्या सिनीवाली पौर्णमास्यनुमतिः” इति श्रुतेः। “कलाहीनसाऽनुमतिः पूर्णे राका निशाकरे” इत्यभिधानात्। सा चानुमतिरत्र देवता, पुरोडाशो द्रव्यमित्येतदेकं कर्म। दक्षिणाभिधानेन वक्ष्यमाणेभ्यः कर्मभ्यो भिन्नाधिकारावगमात्। अस्मिन्कर्मणि पुरोडाशार्थं तण्डुलेषु पिष्यमाणेषु पश्चिमायांदिशि दृषदमभ्याधातुमधः स्थापितायाः शम्यायाः पश्चाद्ये तण्डुलपिष्टलेशा अवशीयन्तेऽधः पतन्ति तल्लेशजातं द्रव्यं नितिदेवताकं, तदिदमपरं कर्म। पृथग्दक्षिणाभिधानात्। कृष्णं वासोऽत्र दक्षिणा। तच्च कृष्णतूषं कृष्णदशान्तम्। केषांचिद्वस्त्राणां वैचित्र्याय दशाभागमुपेक्ष्य मध्यमभाग एव काषायहरिद्रादिभी रज्जितो भवति तद्वन्मा भूदिति कृष्णतूषत्वेन विशेष्यते। एतस्मिन्मुख्ये ब्राह्मणे प्रधानं कर्म विहितम्। अनुब्राह्मणं तु ग्रन्थान्तरे प्रथमकाण्डे षष्ठसप्तमाष्टमप्रपाठकरूपम्।
तत्रं षष्ठप्रपाठकस्याऽऽदौ पूर्वोदाहृतं कर्मविधिमनूद्य प्रशंसति —
“अनुमत्यै पुरोडाशमष्टाकपालं निर्वपति। ये प्रत्यञ्चः शम्याया अवशीयन्ते। वं नैतमेककपालम्। इयं वा अनुमतिः। इथं नितिः” (ब्रा. का.१ प्र.६ अ. १) इति।
भूमिर्द्विविधा। शालिगोधूमादिसर्वसस्याढ्या तदयोग्या वा। तत्राऽऽयभूमिरूपाऽनुमतिर्द्वितीयभूमिरूपा नितिः।
[[809]]
८०९
पश्चान्निरुप्तस्य नैतस्याऽऽनुमतादुत्तरकाले न्यायप्राप्तं प्रधानयागप्रचारं बाधितुं पूर्वकालं विधत्ते —
“नैतेन पूर्वेण प्रचरति। पाप्पानमेव नैतिं पूर्वा निरवदयते” (ब्रा. का.१ प्र.६ अ. १) इति।
लोके रुग्णानां पुरुषाणामनिष्टं रोगं प्रथमं निर्वाय पश्चादिष्टा शरीरपुष्टिः संपाद्यते तद्वदत्रापि पाप्मानं प्रतिकूलां नैतिं प्रथमतो भागदानेन निवारयति।
विधिवाक्यगतं कपालैक्यमनूद्य प्रशंसति —
“एककपालो भवति। एकधैव नैतिं निरवदयते” (ब्रा. का.१ प्र.६ अ. १) इति।
एकधैवैकेनैव प्रयत्नेन। कपालबाहुल्ये हि प्रयत्नबाहुल्यं प्रसज्येतेति। तत्त्विदमानुमतनैतिदकमन्वाररम्भणीयास्थानीयात्पवित्राख्यादग्निष्टोमादूर्घ्वमनुष्ठेयम्।.
तथाऽत्राऽऽपस्तम्ब आह — “राजा स्वर्गकामो राजसूयेन यजेत गवां शतसहस्त्रं दक्षिणाऽग्निष्टोमः पश्चापवर्गःप्रथममहःपञ्च सहस्त्राणि पवित्रे ददाति त्रिंशतमभिषेचनीये त्रिंशतं दशपेये दश केशवपनीये विंशतिं व्युष्टिद्विररात्रे पञ्च क्षत्र्त्रस्य घृतावपि वा चत्वार्यभिषेचनीये प्रतिसहस्त्राणीतराण्यहानि षष्टिं शतानि सहस्त्राणि ददातीति बह् वृचब्राह्मणं भवति। तथा दक्षिणा अतिनयेद्यथाऽस्याहानि समकालानि स्युः शेषमनुदिशति श्वोभूत आनुमतादिभिरष्टाभिरन्वहं यजेत पिंषन्नानुमतं पश्चादुत्तरश्च व्यवशातयति ये प्रत्यञ्चः शम्याया अवशीयन्ते तं नैतमेककपालमिति। अत्र चाऽऽनुमतमासाद्य नैतेन प्रचरति” इति।
बौधायनोऽप्येतदेव विशदयति —“राजसूयेन यक्ष्यमाणो भवति। पुरस्तात्फाल्गुन्यै पौर्णमास्यै चैत्र्यै वा पौर्णमास्या अमावस्येन हविषेष्ट्वा दीक्षते तस्य तिस्त्रो दीक्षास्तिस्त्र उपसदः सप्तम्यां प्रसूतः संतिष्ठत एव प्रायणीयोऽग्निष्ठोमश्चतुष्टोमः सहस्त्रदक्षिण उदवसानीयान्तोऽथाष्टमेऽह्न्यानुमतं निर्वपति हविः पेष्यै प्रयच्छन्नाह प्राचश्च प्रतीचश्च व्यवशातयेति” इति। “ये प्राञ्चः शम्याया अवशीयन्ते तानध्वर्युः समोप्य संयुत्याऽऽनुमतं श्रपयति। अथ ये प्रत्यञ्चः शम्याया अवशीयन्ते तान्प्रतिप्रस्थाता समोप्य संयुत्य नैतं श्रपयति” इति च।
[[810]]
८१०
वीहि स्वाहेति। प्रधानकर्ममात्राभिधायकेन मुख्यब्राह्मणेनोपेते प्रकृते मन्त्रकाण्डे नैतयागविधिसंनिधौ वीहीत्यादस्त्रयो मन्त्रा आम्नातास्येषां विनियोगं बौधायन आह —
“गार्हपत्ये स्त्रुवाहुतिं जुहोति वीहि स्वाहाऽऽहुतिं जुषाण इति। अथ दक्षिणया द्वारोपनिष्क्रम्य तां दिशं यन्ति यत्रास्य स्वकृतमिरिणं स्पष्टं भवति प्रदरो वा तदेतदेकोल्मुकमुपसमाधायाङ्गुष्ठाभ्यां परिगृह्य नैतं जुहोति एव ते निते भागो भूते हविष्मत्यसि मुञ्चेममँहसः स्वाहेति। अत्र कृष्णं वासः कृष्णतूषं निदधाति। अथापो व्यतिषिच्य परास्य पात्रं निदंधात्यनवेक्षमाणा आयन्त्यथ हस्तपादान्प्रक्षाल्वैतेनैव पथा यथेतमेत्य गार्हपत्ये सुवाहुतिं जुहोति स्वाहा नमो य इदं चकारेति। अथाऽऽनुमतेन सँस्थां करोति धेनुं ददाति” इति।
हे गार्हपत्य स्वाहा तुभ्यं दत्तामाहुतिं जुषाणः सेवामानो वीहि दक्षिणां दिशं जिगमिषभिरस्माभिर्विगतो भव। माऽस्माननूत्याय बाधिष्ठाः।
कृत्स्नाङ्गविधायके सार्थवादेऽनुब्राह्मणे यथोक्ताहुतिविधिरन्वयव्यतिरेकाभ्यामुन्नियते —
“यदहुत्वा गार्हपत्य ईयुः (१) रुद्रो भूत्वाऽग्निरनूत्थाय। अध्वर्यु च यजमानं च हन्यात्। वीहि स्वाहाहुतिं जुषाण इत्याह। आहुत्यैवैनँ शमयति। नाऽऽर्तिमार्छत्यध्वर्यर्न यजमानः” (ब्रा. का.१ प्र. ६ अ.१) इति।
यद्यदि रुद्रः क्रूरदेवः। “रुद्रो वै क्रूरः” इति श्रुतेः। अध्वर्युयजमानयोरार्तिनिवारणाय जुहुयादित्यर्थः।
दक्षिणाग्नेरुल्मुकनयनं विधत्ते —
“एकोल्मुकेन यन्ति। नद्धि नैत्यै भागधेयम्” (ब्रा. का.१ प्र. ६ अ.१) इति।
उल्मुकेन युक्ता इत्यध्याहारः। नैतेरेकोल्मुकप्रियत्वमर्थवादान्तरगतं हिशब्देन सूच्यते।
दक्षिणपश्चिमयोरवान्तरदेशमङ्गुलिनिर्देशेन विधत्ते —
“इमां दिशं यन्ति। एषा वै नैत्यै दिक्। स्वायामेव दिशि नैतिंनिरवदयते (२)” (ब्रा. का.१ प्र. ६ अ.१) इति।
नीतस्योल्मुकस्य स्थापनाय देशविशेषं विधत्ते —
[[811]]
८११
“स्वकृत इरिणे जुहोति प्रदरे वा। एतद्वै नैत्या आयतनम्। स्व एवाऽऽयतने नैतिं निरवदयते” (ब्रा. का.१ प्र. ६ अ.१) इति।
इरिणमूषरक्षेत्रं, तच्च स्वकृतं स्वतःसिद्धं, न तु यतः कुताश्रिदादायोषाः प्रक्षिप्ताः। प्रदरः स्वतःसिद्धं भूछिद्रम्।
द्वितीयमन्त्रस्यायमर्थः — हे नैते पाप्यदेवते, एष एककपालपुरोडाशत्वद भागः। हे भूते स्वकीयभागे परितोषेणास्मदीयैश्वर्यहेतो त्वमिदानीं हविष्मत्यसि। अत इमं यजमानमंहसो दारिद्र्यप्रदात्पापान्मुञ्च। अत्र स्वाहाकारो बौधायनेनाध्याहृतः।
नैतिमुद्दिश्य प्रत्यक्षमेव भागं समर्थयितुमेतच्छब्द इत्यभिप्रेत्य व्याचष्टे —
“एष ते निते भाग इत्याह। निर्दिशत्येवैनाम्” (ब्रा. का.१ प्र. ६ अ.१) इति। भूतिशब्देन नितिपरामर्शस्याभिप्रायमाह —
“भूते हविष्मत्यसीत्याह। भूतिमेवोपार्वतते” (ब्रा. का.१ प्र. ६ अ.१) इति। प्राप्नोतीत्यर्थः।
मन्त्रसामर्थ्यात्सर्वथा मुञ्चतीत्यमुमभिप्रायं दर्शयति —
“मुञ्चेममँहस इत्याह। अँहस एवैन मुञ्चति” (ब्रा. का.१ प्र. ६ अ.१) इति। चोदकप्राप्तं जुह्वा होममपवदितुं विधत्ते —
“अङ्गुष्टाभ्यां जुहोति (३)। अन्तत एव नितिं निरवदयते” (ब्रा. का.१ प्र. ६ अ.१) इति।
अन्तत एव हस्ताग्रेणैव नितिमपसारितवान्भवति।
मुख्यब्राह्मणे विहितां दश्रिणां प्रशंसति —
“कृष्णं वासः कृष्णतूषं दक्षिणा। एतद्वै नित्यै रूपम्। रूपेणेव नितिं निरवदयते”(ब्रा. का.१ प्र. ६ अ.१) इति।
राक्षस जातेः पापरूपाया नितेर्देहः कृष्णवर्णः१
पृष्ठभागदर्शनरहितं प्रत्यागमनं विधत्ते —
“अप्रतीक्षमायन्ति। नित्या अन्तर्हित्यै” (ब्रा. का.१ प्र. ६ अ.१) इति।अदर्शनायेत्यर्थः। तृतीयमन्त्रस्यायमर्थः — यो गार्हपत्य इदमस्माभिर्वीहीति शब्देन प्रार्थितमनुष्ठानं तथैव चकार, तस्मै स्वाहा हविर्दत्तं नमस्कारश्च कृतः। विधत्ते —
[[812]]
८१२
“स्वाहा नमो य इदं चकोरति पुनरेत्य मार्हपत्ये जुहोति। आहुत्यैव नमस्यन्तो गार्हपत्येमुपावर्तन्ते” (ब्रा. का.१ प्र. ६ अ.१) इति।
नैतप्रचारादूर्ध्वे लब्वावसरस्याऽऽनुमतहविषः प्रचारं विधत्ते —
“आनुमतेन प्रचरति। इयं वा अनुमतिः (४) । इयमेवास्मै राज्यमनुमन्यते” (ब्रा. का.१ प्र. ६ अ.१) इति।
सर्वसस्याढ्यायां भूमावयमनुमैतिशब्दोऽन्वर्थ इत्यभिप्रायः।
नवसूतिकाया गोर्दानं प्रशंसति —
“धेनुर्दक्षिणा। इमामेव धेनुं कुरुते” (ब्रा. का.१ प्र. ६ अ.१) इति। इमामेवानुमतिरूपां भूमिमेव।
आनुमतादिभिररष्टामिऱिति यदुदाहृतं तत्रैकस्मिन्दिनेऽनुष्ठितादानुमतादन्यान्क्रमेण दिनान्तरेष्वनुष्ठेयानादित्यादीन्सप्त मुख्यान्यागान्विधत्ते —
आदित्यं चरुमिति। गौर्वे वर इति सूत्रकारेणोदहृतत्वाद्वरो गौः। वही भारवाही बलीवर्दः। ऋषभः सेचनसमर्थः साण्डः आग्नेयैन्द्राभ्यां हविर्भ्यामुपेत एको यागः। ऐन्द्राग्नवैश्वदेवसौम्यैस्त्रिभिर्हविर्भिर्युक्त आग्रयणरूप एक एव यागः। सरस्वती —सरस्वद्देवताभ्यां हविर्भ्या युक्तो याग एकः। तदेवमादित्यादयः सप्त संपद्यन्ते। अदितिदेवताकं कर्म प्रशंसति —
“आदित्य चरुं निर्वपति। उभयीष्वेव प्रजास्वभिषिच्यते।दैवीषुच मानुषीषुच” (ब्रा. का.१ प्र. ६ अ.१) इति।
अनुमतिरर्मानुषभूमिः। अत एव राज्यमनुमन्यत इत्युक्तं भवति। अदितिर्देवभूमिरित्यभिप्रत्य दैविषु प्रजास्वभिषेकं दर्शयति। अतः पूर्वराज्येन सह समुच्चित्योमयीष्यित्युच्यते। श्रेष्ठस्य गोर्दानं प्रशंसति —
“वरो दक्षिणा। वरो हि राज्यँ समृदध्यै” (ब्रा. का.१ प्र. ६ अ.१) इति। वरः श्रेष्ठो गौस्तस्य राजगृहार्हत्वाद्राज्यत्वम्।
अग्निं विष्णुं च पृथक्प्रशंसति —
“आग्नावैष्णवमेकादशकपालं निर्वपति। अग्निः सर्वा देवताः (५)। विष्णुर्यज्ञः। देवताश्चैव यज्ञं चावरुन्धे” (ब्रा. का.१ प्र. ६ अ.१) इति।
[[813]]
८१३
अग्नेः सर्वदेवतारूपत्वमन्यत्रोपपादितम् — ते देवा अग्नौ तनूः संन्यदधत। तस्मादाहुः। अग्नि सर्वा देवताः इति। पुनरप्यन्यत्राऽऽम्नातम् — ते देवा बिभ्यतोऽग्निं प्राविशन्तस्मादाहुरग्निः सर्वा देवताः इति।
फलव्यापित्वाद्यज्ञस्य विष्णुत्वम्।
अग्नेर्विष्णोश्च प्रीतिकरं वहित्वं वामनत्वं च दर्शयति —
वामनो वही दक्षिणा। यद्वही। तेनाऽऽग्नेयः। यद्वामनः। तेन वैष्णवः समृद्ध्यै (ब्रा. का.१ प्र. ६ अ.१) इति।
अग्नीषोमीस्य वैरिघातित्वं याजमानमन्त्रब्राह्मणयोर्वृत्रवधब्राह्मणे च प्रसिद्धमित्यभिप्रेत्याऽऽह —
अग्नीषोमीयमेकादशकपालं निर्वपति। अग्नीषोमाभ्यां वा इन्द्रो वृत्रमहन्निति। यदग्नीषोमीयमेकादशकपालं निर्वपति(६)। वार्त्रघ्रमेव विजित्यै (ब्रा. का.१ प्र. ६ अ.१) इति।
तत्कर्म शत्रुघ्नमेव भूत्वा विजयाय पर्याप्तं भवति।
हिरण्यस्य समृद्धिहेतुत्वं लोकप्रसिद्धमेव दर्शयति —
हिरण्यं दक्षिणा समृद्ध्यै (ब्रा. का.१ प्र. ६ अ.१) इति।
मुख्यब्राह्मण गतेनेन्द्रेण सह विकल्पितमैन्द्राग्नं प्रस्तौति —
इन्द्रो वृत्र ँ हत्वा। देवताभिश्चेन्द्रियेण च व्यार्ध्यत। स एतमैन्द्राग्नमेकादशकपाल पश्यत। तं निरवपत्। तेन वै स देवताश्चेन्द्रियं चावारुन्ध (ब्रा. का.१ प्र. ६ अ.१) इति।
व्यार्ध्यत व्यृद्धो वियुक्तोऽभूत्। विधत्ते —
यदैन्द्राग्नमेकादशकपालं निर्वपति। देवताश्चैव तेनेन्द्रियं च यजमानोऽवरुन्धे (ब्रा. का.१ प्र. ६ अ.१) इति।
देवद्वयप्रित्यर्थ गुणद्वयमित्येतद्दर्शयति —
ऋषभो वही दक्षिणा()। यद्वही। तेनोऽऽग्नेयः। यदृषभः। तेनैन्द्रः समृद्ध्यै (ब्रा. का.१ प्र. ६ अ.१) इति।
एकस्मिन्यागे विहितं हविर्द्वयं गोगतं गुणद्वयं च पृथक्प्रशंसति —
आग्नेयमष्टाकपालं निर्वपति। ऐन्द्रं दधि। यदाग्नेयो भवति। अग्निर्वै यज्ञमुखम्। यज्ञमुखमेवर्द्धिं पुरस्ताद्धत्ते। यदैन्द्रं दधि(८)। इन्द्रियमेवावरुन्धे।
[[814]]
८१४
“ऋषभो वही दक्षिणा। यद्वही। तेनोऽऽग्नेयः। यदृषभः। तेनैन्द्रः समृद्ध्यै” (ब्रा. का.१ प्र. ६ अ.१) इति।
अग्निमन्तरेण यज्ञस्थाप्रवृत्तेरग्नेर्यज्ञमुखत्वं, तादृशाग्नेः प्रथमहविःप्रदानेन यागस्याऽऽदावेव समृद्धिं धृतवानन्भवनि।
हविर्द्व (ख) ये दक्षिणाद्वये श्रूयमाणेऽपि कर्मैकत्वसिद्ध्यर्थमाग्रयणतां संघरूपां विधातुं प्रस्तौति —
“यावतीर्वै प्रजा ओषक्धीनामहुतानामाश्नन्। ताः पराभवन्” (ब्रा. का.१ प्र. ६ अ.१) इति।
यावत्य ओषधीनां संबन्धिन्य इति शेषः। विधत्तेः
“आग्रयणं भवति हुताद्याय। यजमानस्यापराभावाय(९)”। (ब्रा. का.१ प्र. ६ अ.१) इति।
तस्मिन्संये स्थितस्यैन्द्राग्नस्योपाख्यानेन जयहेतुत्वं दर्शयति—
“देवा वा ओषधीष्वाजिमयुः। ता इन्द्राग्नी उदजयताम्। तावतेमैन्द्राग्नं “द्वादशकपालं निरवृणाताम्। यदैन्द्राग्नो भवत्युज्जित्यै” (ब्रा. का.१ प्र. ६ अ.१) इति।
माससामान्येन कपालसंख्यां प्रशंसति—
द्वादशकपालो भवति। द्वादश मासा संवत्सरः।संवत्सरेणैवास्मा अन्नमवरुन्धे (ब्रा. का.१ प्र. ६ अ.१)
वैश्वदेवमन्नं रुचिहेतुरित्येतद्दर्शयति —
“वैश्वदेवश्चरुर्भवति। वैश्वदेवं वा अन्नम्। अन्नमेवास्यै स्वदयति (१०)”। (ब्रा. का.१ प्र. ६ अ.१) इति।
प्रश्चमजस्य जनिष्यमाणवत्सापेक्षया समृद्धिहेतुत्वमित्याह —
“प्रथमजो वत्सो दक्षिणा समृद्ध्यै” (ब्रा. का.१ प्र. ६ अ.१) इति।
तृतीयहविषः सोमदेवतायाः स्वीकारे कारणमाह—
“सौम्यँ श्यामाकं चरुं निर्वपति। सोमो वा अकृष्टपच्यस्य राजा। अकृष्टपथ्यमेवास्मै स्वदयती” (ब्रा. का.१ प्र. ६ अ.१) इति।
प्रतिग्रहमन्त्रे सोमाय वास इति श्रुतिमभिसंधाय दक्षिणां प्रशंसति —
[[815]]
८१५
“वासो दक्षिणा। सौम्यँ हि देवतया वासः समृद्ध्यै” (ब्रा. का.१ प्र. ६ अ.१) इति।
समृद्धिहेतुत्वेन सरस्वतीसरस्वतौ चरुमथुनदक्षिणां च प्रशंसति
“सरस्वतै यरुं निर्वपति।सरस्वते चरुम। मिथुनमेवावरुन्धे। मिथुनौ गावौ दक्षिणा समृद्ध्यै” (ब्रा. का.१ प्र. ६ अ.१) इति।
अत्र द्रव्यदेवतासंबन्धानामष्टभ्योऽधिकत्वाद्यागेष्वप्याधिक्यशङ्काभ्रमवारणायाष्टसंख्या विधातुं प्रस्तौति —
“एति वा एष यज्ञमुखादृद्ध्याः। योऽग्नेर्देवताया एति” (ब्रा. का.१ प्र. ६ अ.१) इति।
एति पृथग्भवति। अपगच्छतीत्यर्थः। वक्ष्यमाणप्रकारेणाग्नेरष्टत्वसंख्यात्मकत्वात्तत्संख्याया अपगम एवाग्निसकाशादपगमः। योऽग्नेरपगच्छति स यज्ञमुखाद्यज्ञप्रारम्भ्यादृद्ध्या यज्ञसमाप्तेश्चापगच्छति। विधत्ते —
“अष्टावेतानि हवीँषि भवन्ति। अष्टाक्षरा गायत्रि। गायत्रोऽग्निः। तेनैव यज्ञमुखादृद्ध्या अग्नेर्देवतायै नैति (११)”। (ब्रा. का.१ प्र. ६ अ.१) इति।
गायत्र्या अग्नेश्च मुखजत्वेन सहोत्पन्नत्वलक्षणः संबन्धः। तेनैव तेषां इविःशब्दवाच्यानां कर्मणामष्टत्वेन यज्ञपारम्भसमाप्तिभ्यामाग्निदेवतायाश्च नापगच्छति। तत्र विधिविवेकसहितो विनियोगसंग्रहः —
आदावानुमतं तस्य मध्ये नैतमत्र च।
वीहीत्याद्यास्त्रयो मन्त्रा विनियोगस्तु वर्ण्यते॥
वीह्येष नम इत्यग्निप्रदराग्निषु हूयते।
सहैवाऽऽनुमतेनाष्टौ यागाः प्रथम ईरिताः॥ इति।
अत्र मीमासा।
चतुर्थाध्यायस्य चतुर्थपादे चिन्तितम् —
राजसूयेऽनुमत्यादि देवनादि च ते उभे।
मुख्ये उतैकमुख्यत्वं स्यादाद्यः प्रक्रियैक्यतः॥
[[816]]
८१६
यागानां राजसूयत्वादङ्गित्वं फलवत्त्वतः।
देवनाद्यफलं यत्तदङ्गं फलवतो यजेः॥
राजसूयप्रकरणे यागरूपा अनुमत्यादयो बहवः क्षुताः — “अनुमत्यै पुरोडाशमष्टाकपालं निर्वपति” “नैतमेककपालम्” “आदित्यं चरुं निर्वपति” “आग्नावैष्णवमेकादशकपालम् इत्यादयः” (इति)। यथैता इष्टयस्तथा पशवोऽपि श्रुताः—“आदित्यां मल्हां गर्भिणीमालभते मारुतीं पृश्निं पष्ठौहीम्” इति। मल्हा मणिला गले स्तनयुक्तेत्यर्थः। तस्या अदितिर्देवता। पृश्निरल्पतनुस्तस्या मरुतो देवता। यावता वयसा वर्षवयरुपेण पृष्ठे भारं वोढुं शक्तिर्भवति तावद्वयस्का पष्ठौही। एवमभिषेचनीयादयः सोमयागाः श्रुताः। तथा ववल्मीकवपायां होम इत्यादयो दर्विहोमाः श्रुताः। यथैत इष्टिपशुस्त्रोमदर्विहोमाश्चतुर्विधा यागरुपा एवमयागरूपा अपि द्यूतादयः श्रुताः — “पष्ठौही दीव्यति, अक्षैर्दीव्यति, राजन्यं जिनाति, शौनःशेपमाख्यापयते” इत्येवमादयः। तत्र यागा तथा मुख्यास्तथा देवनादीनामपि मुख्यत्वं युक्तं, प्रकरणपाठस्योभयत्र समानत्वादिति प्राप्ते ब्रूमः — राजा स्वाराज्यकामो राजसूयेन यजेतेत्यत्राऽऽख्यातवाच्यायां भावनायां धातुवाच्यो यागः करणम्। राजसूयशब्दश्चाप्रसिद्धार्थत्वाद्यागसामानाधिकरण्येन तन्नामधेयं भवति। तथा सतिराजसूयेन यागेन स्वाराज्यं भावयेदिति वाक्यार्थपर्यवसानात्। अनुमत्यादीनां यागानामेव फलत्त्वादङ्गित्वं, तत्संनिधौ श्रूयमाणमफलं देवनादिकं यागाङ्गम।
दशमाध्यायस्य प्रथमपादे चिन्तितम् —
सा किमस्त्यनुमत्यादौ न वाऽस्त्याङ्गिन्युपक्रमात्।
संघस्योपक्रमो नेष्टो द्वारलोपान्न सा भवेत्॥
अनुमत्यै पुरोडाशमष्टाकपालं निर्वपतीत्यादिना राजसूये दर्शपूर्णमासेष्टिविकृतयो बहूव्यो विहितास्तास्वारम्भणीयाऽस्ति न वेति संदेहः। दीक्षणीयादिवदनुमत्यादीनामन्याङ्गत्वाभावात्सोमयागवत्सर्वासामङ्गित्वेनोपक्रमसंभवात्तदद्वारेणाऽऽरम्भणीयाऽस्तीति पूर्वः पक्षः। यद्यप्यङ्गिभूता अनुमत्यादयस्तथाऽप्येकैकस्या इष्टेः पृथगारम्भो नास्ति। अन्यथा प्रधानेष्वाग्नेयादिष्वन्वारम्भणीयायाः षट्कृत्वोऽनुष्ठानं प्रसज्येत। अथोच्यते। प्रधानानां षण्णामाग्नेयादीनां संघस्य दर्शपूर्णमासे —
[[817]]
८१७
ष्टित्वात्तस्यैक आरम्भ इति, तर्ह्यत्रापीष्टिपशुसोमदर्विहोमरूपाणामनेकेषां प्रधानानां संघस्य राजसूयत्वात्संघस्योपक्रमोऽस्तु। न चासौ संघो दर्शपूर्णमासविकृतिर्येन तत्राऽऽरम्भणीयाऽऽशङ्येत्त। अस्ति चात्रापरः सर्वारम्भार्थो यागः। अग्निष्टोममग्रे ज्योतिष्टोममाहरतीति ज्योतिष्टोमावान्तरसंस्थाभेदरूपस्याग्निष्टोमस्याऽऽम्नातत्वात्। तस्मादनुमत्यादिष्विष्टिष्वारम्भद्वारलोपात्साऽऽरम्भणीया न भवेत्।
तत्रैव तृतीयपादेऽन्यच्चिन्तितम् —
वासो वत्सं समुच्चेयमन्वाहार्येण वा न वा।
अविरोधात्समुच्चेयं न कार्यैक्याद्विरोधतः॥
आग्रयणे श्रूयते — “वासो दक्षिणा, वत्सं प्रथमजो दक्षिणा” इति। तदेतत्प्राकृतेनान्वाहार्येण सह विरोधाभावात्समुच्चीयत इति मन्दः पूर्वपक्षः।
एककार्यत्वेन विरोधित्वान्न समुच्चयः, किंतु बाध इति राद्धान्तः।
अत्रैवान्यच्चिन्तितम् —
अन्वाहार्यस्य धर्मऽत्र न कार्यः क्रियतेऽथवा।
न तद्धर्मत्वतो मैवं साधनत्वप्रयुक्तितः॥
सन्त्यन्वाहार्यधर्मास्तान्कल्पसूत्रकार उदाजहार — “दक्षिणासद्भ्य उपहतेवा इति संप्रेष्यति ये ब्राह्मणा उत्तरतस्तान्यजमान आह दक्षिणत एतेति तेभ्योऽन्वाहार्ये ददाति अयं व ओदन इति प्रतिगृहीतोत्तरतः परीतेति संप्रेष्यति इति। सोऽयं धर्मो वासोवत्से न कार्यस्तस्यान्वाहार्यनिमित्तत्वात्। मैवम्। अन्वाहार्यस्य दक्षिणारूपत्वेनाऽऽनतिसाधनत्वप्रयुक्त्या तद्धर्म क्रियन्ते। तत्साधनत्वं वासोवत्सेऽपि समानम्। तस्मादत्रापि सन्ति ते धर्माः।
अत्रैवान्यच्चिन्तितम्–
पाकोऽस्ति नो वा वत्से स्यादन्वाहार्यस्य दर्शनात्।
न वत्सनाशादश्नौति दक्षिणा मांसदानतः॥
अन्वाहार्ये पाकोऽस्ति, पूर्वन्यायेन तद्धर्मातिदेशाद्वत्सेऽपि पाकः स्यादिति चेन्न। वत्सनाशप्रसङ्गात्। अस्त्विति चेन्न। तथा सति मांसदानेन श्रुतहान्यश्रुतकल्पने प्रसज्येयाताम्। तस्मान्नास्ति वत्सपाकः। तत्रैवान्यच्चिन्तितम्—
वाससोऽस्ति न वा पाको विनाशाभावतोऽस्त्यसौ।
वैयर्थ्यादप्यशक्यत्वात्पको वाससि नोचितः॥
वासस उष्णोदकभाण्डप्रक्षेपेण वत्सस्येव विनाशो नास्ति। तस्मादन्वाहार्य-
[[818]]
८१८
वत्पाकोऽस्तीति चेन्मैवम्। ओदनत्वार्थो हि पाकः। नहि वाससः सहस्त्रवा पच्यमानस्यौदनता संभवति। न च पाकः कर्तुं शक्यते। नह्युष्णोदकसंबन्धः पाकशब्दार्थः, किंतु तण्डलादीनां विक्लित्तिं जनयितुं कृतः पुरुषप्रयत्नः। न च विक्लित्तिर्वाससोऽस्ति। तस्मादतिदिष्टः पाको बाध्यते।
तत्रैवान्यच्चिन्तितम् —
अभिघारोऽस्ति नो वाऽत्र शक्यत्वाद्वत्सवाससोः।
अस्त्यन्वाहार्यवन्मैवं स्वादुताया असंभवात्॥
स्पष्टोऽर्थः। सप्तमाध्यायस्य तृतीयपादे चिन्तितम् —
वासोनसी वानताक्षणातिदेशकरे न वा।
आद्यः क्रियानिमित्तत्वाज्जातिवाचित्वतोऽन्तिमः॥
वासो ददात्यनो ददातीति श्रूयते। तत्र यूपशब्दस्य यथा शास्त्रीयच्छेदनतक्षणादिक्रिया प्रवृत्तिनीमित्तं तथा वासःशब्दस्य लौकिकी कुविन्दकर्तृका तन्तुवानक्रिया। अनःशब्दस्य वर्धकिकर्तृता दारुतक्षणादिक्रिया। तस्माद्वासोनः शब्दयोः क्रियातिदेशकत्वाद्वानतक्षणे कारयित्वा तदुभयं दातव्यमिति चेन्न। गवाश्वादिशब्दवज्जातिवाचित्वान्। पाचकादिशब्दानां क्रियामुपलक्ष्य प्रयुज्यमानत्वात्क्रियैव प्रवृत्तिनिमित्तम्। वासःशकटादिषु क्रियामनुपलक्ष्यापि जातिमुपलक्ष्ये शब्दं प्रयुज्जते। तस्माद्वासोनःशब्दौ न क्रियामतिदिशतः।
द्वादशाध्यायस्य द्वितीयपदे चिन्तितम्—
बर्हिराग्रयणे किंचित्प्रसूनं बहुलत्वतः।
प्राथम्याच्चाग्रिमो मैवमलोपात्कांस्येभोजिवत्॥
ऐन्द्राग्नवैश्वदेवद्यावापृथिव्ययागा आग्रयणेष्टौ सह प्रयुज्यन्ते। तत्रैन्द्राग्नवैश्वदेवयोर्बर्हिर्मात्रं चोदकप्राप्तम्। तत्प्रकृतौ बर्हिर्विशेषस्यानुक्तत्वात्। द्यावापृथिव्ये तु स्वप्रकृत्यनुसारेण प्रसूनं बर्हिरतिदिश्यते। प्रसूनं पुष्पितं लूनशेषान्मूलात्पुनरुत्पन्नं वा। तत्राऽऽग्रयणे यत्किंचिर्द्वार्हिर्मात्रमाहर्तव्यम्। ऐन्द्राग्नवैश्वदेवयोरनेकत्वेन प्रथमत्वेन च तदानुगुण्यस्य न्याय्यत्वादिति प्राप्ते ब्रूमः — बर्हिरन्तरस्वीकरे द्यावापृथिव्ये प्रमाणप्राप्तः प्रसूननियमो लुप्येत। प्रसूनस्वीकारे त्वैन्द्राग्ववैश्वदेवयोर्न किंचिल्लुप्यते। तस्मादलोपाय कांस्यभोजिन्यायेन प्रसूनमेव क(वाऽऽह) र्तव्यम्। शिष्यस्य कांस्यभोजनव्रतमस्ति। गुरोस्तु तन्नास्ति। वयोस्तु सहभोजने
[[819]]
८१९
यथोपसर्जनमपि शिष्यमनुसृत्य व्रतमलोपयितुं कांस्यमाद्रियते। तथाऽत्रापि द्रष्ठव्यम्। तत्रैवान्यच्चिन्तितम्—
द्यावापृथिव्यस्तन्त्री स्यात्सर्वे वा तन्त्रिणोऽग्रिमः।
प्रैषन्यायात्प्रसूनस्य तन्त्रित्वापादकत्वतः।
प्रसूनत्वं नोपदिष्ठमविरोधात्समाश्रितम्।
तन्त्रित्वं (त्व) नियतौ शक्तं नातः सर्वेऽत्र तन्त्रिणः॥
यथा मैत्रावरुणप्रैषमन्त्रविकारः पशुसंबन्धात्पशोस्तन्त्रित्वमापादयति तथा प्रसूनं(नत्वं) द्यावापृथिव्यसंबन्धित्वाद्द्यावापृथिव्यस्य तन्त्रित्वमापादयतीति प्राप्ते ब्रूमः — उक्तप्रैषमन्त्रविकारः प्रत्यक्षश्रुतः। इह तु प्रसूनत्वमतिदिष्टत्वान्न तन्त्रित्वमापादयितुं क्षमम्। न च प्राबल्याभावे कथं तदाश्रयणमिति वाच्यम्। ऐन्द्राग्नादिना सह विरोधाभावमात्रेण तदाश्रयणात्। तस्मादेकस्य तन्त्रित्वनियमाभाव आग्नेयादिवत्सर्वेऽप्यत्र तन्त्रिणः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-
तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डेऽष्टमप्रपाठके
प्रथमोऽनुवाकः॥१॥