१३

(अथ प्रथमाष्टके सप्तमप्रपाठके त्रयोदशोऽनुवाकः)।
अन्वह॒ मासा॒ अन्विद्वना॒न्यन्वोष॑धी॒रनु॒ पर्व॑-
तासः। अन्विन्द्र॒ ँ रोद॑सी वावशा॒ने अन्वापो॑
अजिहत॒ जाय॑मानम्। अनु॑ ते दायी म॒ह
इ॑न्द्रि॒याय॑ स॒त्रा ते॒ विश्व॒मनु॑ वृत्र॒हत्ये॑। अनु॑
क्ष॒त्र्त्रमनु॒ सहो॑ यज॒त्रेन्द्र॑ दे॒वेभि॒रनु॑ ते नृ॒षह्ये॑।
इ॒न्द्रा॒णीमा॒सु नारि॑षु सु॒पत्नी॑म॒हम॑श्रवम्। न
ह्य॑स्या अप॒रं च॒न ज॒रसा॑ (१) मर॑ते॒ पतिः॑।
नाहमि॑न्द्राणि रारण॒ सख्यु॑र्वृ॒षाक॑पेर्ऋ॒ते। यस्ये॒-
दमप्य॑ ँ ह॒विः प्रि॒यं दे॒वेषु॒ गच्छ॑ति। यो जा॒त
ए॒व प्र॑थ॒मो मन॑स्वान्दे॒वो दे॒वान्क्रतु॑ना प॒र्यभू॑
षत्। यस्य॒ शुष्मा॒द्रोद॑सी॒ अर्भ्यसेतां नृ॒म्णस्य॑
म॒ह्ना स ज॑नास॒ इन्द्रः॑। आ ते॑ म॒ह इ॑न्द्रो॒त्यु॑ग्र॒
सम॑न्यवो॒ यत्स॒मर॑न्त॒ सेनाः॑। पता॑ति दि॒द्युन्न-
र्य॑स्य बाहु॒वोर्मा ते॑ (२) मनो॑ विष्व॒द्रिय॒ग्वि
चा॑रीत्। मा नो॑ मर्धी॒रा भ॑रा द॒द्धि तन्नः॒ प्र
दा॒शुषे॒ भूरि॒ यत्ते। नव्ये॑ दे॒ष्णे श॒स्ते

[[799]]

७९९
अ॒स्मिन्त॑ उ॒क्ये प्र ब्र॑वाम व॒यमि॑न्द्र स्तु॒वन्तः॑।
आ तू भ॑र॒ माकि॑रे॒तत्परि॑ ष्ठाद्वि॒द्मा हि त्वा॒
वसु॑पतिं॒ वसू॑नाम्। इन्द्र॒ यत्ते॒ माहि॑नं॒ दत्र॒म-
स्त्य॒स्मभ्यं॒ तद्ध॑र्यश्व (३) प्र य॑न्धि। प्र॒दा॒-
तारँ हवामह॒ इन्द्र॒मा ह॒विषा॑ व॒यम्। उ॒भा
हि हस्ता॒ वसु॑ना पृ॒णस्वाऽऽ प्र य॑च्छ॒ दक्षि॑-
णा॒दोत स॒व्यात्। प्र॒दा॒ता व॒ज्री वृ॑ष॒भस्तु॑रा॒-
षाट्च्छ॒मी राजा॑ वृत्र॒हा सो॑म॒पावा॑। अ॒स्मि-
न्य॒ज्ञे ब॒र्हिष्या नि॒षद्याथा॑ भव॒ यज॑मानाय॒ शं
योः। इन्द्रः॑सु॒त्रामा॒ स्ववा॒ ँ अवो॑भिः सुमृ-
डी॒को भ॑वतु वि॒श्ववे॑दाः। बाध॑तां॒ द्वेषो॒ अभ॑यं
कृणोतु सु॒वीर्य॑स्य (४) पत॑यः स्याम। तस्य॑
व॒य ँ सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से
स्या॑म। स सु॒त्रामा॒ स्ववा॒ ँ इन्द्रो॑ अ॒स्मे
आ॒राच्चि॒द्द्वेषः॑ सनु॒तर्यु॑योतु। रे॒वती॑र्नः सध॒-
माद॒ इन्द्रे॑ सन्तु तु॒विवा॑जाः। क्षु॒मन्तो॒ याभि॒-
र्मदे॑म। प्रो ष्व॑स्मै पुरोर॒थमिन्द्रा॑य शु॒षम॑र्चत।
अ॒भीके॑ चिदु लोक॒कृत्स॒ङ्गे स॒मत्सु॑ वृत्र॒हा।
अ॒स्मांक॑ बोधि चोदि॒ता नभ॑न्तामन्य॒केषा॑म्।
ज्या॒का अधि॒ धन्व॑सु (५)॥
(ज॒रसा॒ मा ते॑ हर्यश्व सु॒वीर्य॒स्याध्येकं॑ च)॥
इति कृष्णयजुर्वेदीयतैतिरीयसंहितायां प्रथमाष्टके
सप्तमप्रपाठके त्रयोदशोऽनुवाकः॥१३॥

[[800]]

८००
(पा॒क॒य॒ज्ञ ँ स ँ श्र॑वाः प॒रोक्षँ॑ ब॒र्हिषो॑ ध्रु॒वामग॒न्मेत्या॑ह॒ देव॑ सवितर्देव॒-
स्या॒हं क्ष॒त्र्त्रस्योल्बं॒ वाज॑स्या॒रिका॑क्षरेणोपया॒मगृ॑हीतोऽसि नृ॒षद॒मन्व॑ह॒ त्रयो॑दश ॥१३॥
(पा॒क॒य॒ज्ञं प॒रोक्षं॑ ध्रु॒वां वि सृ॑जते च नः॒ सर्व॑वीरां॒ पत॑यः स्या॒मैक॑पञ्चा॒शत् ॥५१॥
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके
सप्तमः प्रपाठकः ॥७॥।
(अथ प्रथमकाण्डे सप्तमप्रपाठके त्रयोदशोऽनुवाकः)।
द्वादशे वाजपेयमन्त्राः समापिताः। त्रयोदशे काम्ययाज्या (पुरोनुवाक्या) उच्यन्ते।
काम्येष्टिकाण्डे काचिदिष्टिरेवमाम्नायते —
“इन्द्रायान्वृजवे पुरोडाशमेकादशकपालं निर्वपेद्ग्रामकाम इन्द्रमेवान्वृज ँ स्वेन भागधेयेनोप धावति स एवास्मै सजाताननुकान्करोति ग्राम्येव भवति” (सं. का. २ प्र.२ अ.८) इति।
अनुकूलश्चासावृजुश्चेत्यन्वृजुः, साहाय्यकरणमानुकूल्यम्। विरोधानाचारणमृजुत्वं तादृशम्। इन्द्रोऽस्मै यजमानाय सजाताञ्ज्ञातिप्रभृतिबन्धूननुकानेतस्मिन्ननुकूलान्कारोति। ततोऽयं ग्रामस्वामी भवत्येव।
तत्र पुरोनुवाक्यामाह —
अन्वहेति। अहशब्द इच्छब्दश्च समुच्चये। चैत्रादयो मासास्ते च जायमानमिन्द्रमनुसृत्याजिहतास्माननुग्रहीतुं प्राप्तवन्तः। एवं वनान्योषधयः पर्वता वावशाने अस्मान्कामयमाने रोदसी द्यावापृथिव्यावापश्चाजिहतेति योजना। षोढा वाक्यानि भेत्तुं षडनुशब्दाः। स च भेद आदरार्थः॥
अथ याज्यामाह —
अनु त इति। यजत्र यष्टव्य हे इन्द्र महे महते सर्वेभ्यो देवेभ्योऽधिकाय ते तुम्यं सत्रा सत्रेषु विश्वं सर्वं हविर्देवेभिरग्न्यादिभिरनुयायि अनुक्रमेण दीयते।

[[801]]

८०१
(काम्ययाज्यापुरोनुवाक्याभिधानम्)
किमर्थम्। वृत्रहत्ये वृत्रवधमनु ते तवेन्द्रियाय बलसिद्ध्यर्थम्। न केवलं वृत्रवधमनुसृत्य क्षत्रमनु त्वदीयं क्षत्रियत्वजात्यभिमानं चानुसृत्य, सहोऽनु त्वदीयमेव बलमनुसृत्य, नृषह्ये वैरिमनुष्यतिरस्कारशीलमनुसृत्य, त्वयी यथोक्तान्गुणानवेक्ष्य ते तुभ्यं पुनः पुनर्दीयत इति शेषः।
इष्ट्यन्तरं विधत्ते —
“इन्द्राण्यै चरुं निर्वपेद्यस्य सेनाऽस शिँतेव स्यादिन्द्राणी वै सेनायै देवलेन्द्राणीमेव स्वेन भागघेयेनोप धावति सैवास्य सेनाँ सँ श्यति (सं. का. २ प्र.२. अ.८)” इति।
असंशिता तीक्ष्णा न भवति (वेत्) स्वकार्यक्षमा नैव भवेदित्यर्थः।
तस्यामिष्टौ कंचिदङविशेषं विधत्ते —
“बल्बजानपीध्मे सं नह्येद्गौर्यत्राधिष्कन्ना न्येमहत्ततो बल्बजा उदतिष्ठन्गवामेवैनं न्यायमपिनीय गा वेदयति” (सं. का. २ प्र. २ अ. ८) इति।
बल्बजास्तृणविशेषः। तानपि चोदकप्राप्त इध्मे सम्यग्बध्नीयात्। अधिष्कन्नाऽधिकं पुरीषं प्राप्ता गौर्यत्र देशे न्यमेहन्नितरां मूत्रं करोति, ततो देशाद्वल्बजा उत्पद्यन्ते। तेषां च बल्बजानां बन्धत्वेन यजमांन गवामेव न्यायमपिनीय प्रापय्य गा वेदयति लम्भयति। गवां न्यायः स्वाधीनतया शिक्षितत्वम्। यथा धेनवः शिक्षिताः प्रतिदिनमरण्ये गत्वा यत्र क्वापि पलायनलक्षणं चापलं परित्यज्य काले स्वगृहमेवाऽऽयान्त्यनायासेन दुह्यन्ते यथा वा बलीवर्दाःशिक्षिताः सन्तो रथादीन्स्वामिन इच्छानुसारेण वहन्ति, तथा सेनायाः स्ववशत्वेन कार्यकारित्वं गोन्यायः। गा वेदयति गोवद्धितां स्वाधीनां कार्यकारित्वेन प्रापयतीत्यर्थः।
तत्र पुरोनुवाक्यामाह —
इन्द्राणीमिति। आसु नारिषु देवस्त्रीषु मध्ये सेनास्वामिभूतामिन्द्राणीं सुपत्नीं पतिव्रतामहमश्रवम्। अपरं चनान्यदप्येकमस्ति, अस्या इन्द्राण्याः पतिर्जरसा नहि मरते नैव त्रियते।
तत्रैव याज्यामाह —

[[802]]

८०२
नाहमिति। हे इन्द्राणि अहं सख्युर्वृषाकपेऋते त्वत्प्रियमिन्द्रं विना यं कमप्यन्यं देवं न रारण नैव कीर्तयामि। यस्य ममाप्यमप्सु भवमिदं हविः सोमपुरोडाशादिकं प्रियमिष्टं भूत्वा देवेषु गच्छति सर्वान्देवान्प्राप्नोति, तादृशोऽहमिति पूर्वत्रान्वयः।
इष्ट्यन्तरं विधत्ते —
“इन्द्राय मन्युमते मनस्वते पुरोडाशमेकादशकपालं निर्वषेत्संग्रामे संयत्त इन्द्रियेण वै मन्युना मनसा सङ्ग्रामं जयतीन्द्रमेव मन्युमन्तं मनस्वन्तँ स्वेन भागधेयेनोप धावति स एवास्मिन्निन्द्रियं मन्युं मनो दधाति जयति त ँ संग्रामम्” (सं. का. २ प्र. २ अ.८) इति।
मनस्वते धैर्योपेताय, संग्रामे युद्धे संयत्ते सम्यक्प्रवृत्ते सति, इन्द्रियेण पाणिपादादीन्द्रियपाटवेन, मन्युना वैरिविषयकोपाधिक्येन, मनसा पलायनभीत्यादिवर्जनरूपेण धैर्येण।
तत्र पुरोनुवाक्यामाह —
यो जात इति। यो देव इन्द्रो जात एवोत्पन्नमात्र एव प्रथमो देवानो मध्ये मुख्यो मनस्वान्धैर्यवाश्च भूत्वा ऋतुना वृत्रवधादिकर्मणा देवानन्यानग्न्यादीन्पर्यभूषदतिक्रान्तवान्। यस्येन्द्रस्य शुष्माद्बलांद्रोदसी द्यावापृथिव्यावभ्यसेतामविभीताम्। भ्यस, भय इति धातुः। जनासो हे जनाःस इन्द्रो नृम्णस्य स्वकीयबलस्य मह्ना महिम्ना युष्मानवत्विति शेषः।
याज्यामाह —
आ त इति। उग्र हे इन्द्राऽऽसमन्तात्ते तवोती रक्षणं महोऽधिकम्। यद्यस्माद्रक्षणादस्मदीयाः सेनाःसमन्यवो वैरिविषयकोपयुक्ताः सत्यः समरन्त सम्यगरमन्त क्रीडा अकुर्वन्परबलं नैवागणयन्नित्यर्थः। स(किं)च नर्यस्य मनुष्यहितस्य ते तव बाहुवोर्दिद्युत्खड्गदिदीप्तिः पताति सर्वत्र प्रसरति।
ते मनो विष्वद्रियग्बहुमुखं सन्मा विचारीन्मा विचरतु।
पूर्वोक्तामेवेष्टिं फलान्तराय विधत्ते —
“एतामेव निर्वपेद्यो हतमनाः स्वयंपाप इव स्यादेतानि हि वा एतस्मादपक्रान्तान्यथैष हतमनाः स्वयंपाप इन्द्रमेव मन्युमन्तं मनस्वन्त ँ स्वेन भागदेयेनोप धावति स एवास्मिन्निन्द्रियं मन्युं मनो दधाति न हतमनाः स्वयंपापो भवति” (सं. का. २ प्र.२ अ.८) इति।

[[803]]

८०३
यः पुरुषो रोगेण द्रव्यहान्यादिना वा हतमना नष्टचित्तः सन्स्वयंपाप इव भ्रान्त इव स्यात्, एतस्मात्पुरुषादेतानीन्द्रियमन्युधैर्याणि अपक्रान्तानि। अथेदानीमेष पुरुषो नष्टचित्तः स्वयं भ्रान्तो भवति तादृश एतामेव निर्वपेदिति पूर्वेत्रान्वयः। एतस्यामपीष्टौ पूर्वोक्ते एव याज्यानुवाक्ये।
इष्ट्यन्तरं विधत्ते —
“इन्द्राय दात्रे पुरोडाशमेकादशकपालं निर्वपेद्यः कामयेत दानकामा मे प्रजाः स्युरितीन्द्रमेव दातारँ स्वेन भागधेयेनोप धावति स एवास्मै दानकामाः प्रजाः करोति दानकामा अस्मै प्रजा भवन्ति” (सं. का. २ प्र. २ अ. ८) इति।
तत्र पुरोनुवाक्यामाह —
मा न इति। हे इन्द्र नोऽस्मानस्मदीयाः प्रजाश्च मा मर्धीः कलहार्थिनार्मा कार्षीः। किंतु प्रकर्षेण दाशुषे हव्यं दत्तवत्ते यजमानाय दातवे दातुं ते त्वदीयं यद्भूरि धनं संचितमस्ति तदाभर तदाहर। आहृत्य च नोऽस्मभ्यं दद्धि देहि। हे इन्द्र नव्ये नूतने देष्णे त्वद्दानसाधने शस्ते प्रशस्तेऽस्मिन्कर्मणि त उक्थे त्वदीये शस्त्रे स्तुवन्तो वयं प्रब्रवाम प्रकर्षेण प्रार्थयामहे।
तत्रैव याज्यामाह —
आ तू भरेति। हे इन्द्र त्वमा तू भर धनमाहरैव। एतत्त्वदाहृतं धनं माकिर्मैव परिष्ठात्परत्र मा तिष्ठतु। यस्मात्त्वां वसूनां वसुपतिरिति विद्म। कस्यचिदेव धनस्य पतिर्न भवसि, किंतु सर्वेषामिति विवक्षया वसूनां वसुपतिमित्युक्तम्। यस्मादेवं विद्म तस्मादाहरेत्यन्वयः। हे इन्द्र त्वदीयं माहिनं महनीयं दत्रं दातव्यं यद्धनमस्ति हे हर्यश्व हरिनामकाभ्यामश्वाभ्यामुपेतेन्द्र तद्धनमस्मभ्यं प्रयन्धि प्रयच्छ।
इष्ट्यन्तरं विधत्ते —
“इन्द्राय प्रदात्रे पुरोडाशमेकादशकपालं निर्वपेद्यस्मै प्रत्तमिव सन्न प्रदीयेतेन्द्रमेव प्रदातार ँ स्वेन भागघेयेनोप धावति स एवास्मै प्र दापयति” (सं. का २ प्र. २ अ. ८) इति।
प्रदात्रे प्रदापयित्रे। वाक्यस्यान्ते प्रदापयतीति श्रवणात्। यस्मा उत्तमर्णाय प्रतिग्रहीत्रे दायादाय वाऽधमर्णादिः पुरैव प्रकर्षेण दत्तमित्येवं दातव्यं धनमपलपति तद्धनं स्वत्वेन व्यवहिते। वस्तुतस्तु नैव प्रत्तं, तादृश उत्तमर्णादिर्निर्वपेत्।

[[804]]

८०४
तत्र पुरोनुवाक्यामाह —
प्रदातारमिति। प्रकर्षेण दातारं दापयितारमिन्द्रं हविषा युक्ता वयमाहवामह आह्वयामः। हे इन्द्र, उभावपि हस्तौ धनेन पृणस्व पूरय। ततो ममाऽऽभिमुख्येन दक्षिणाद्धस्तात्प्रयच्छ, सव्यादप्याभिमुख्येन प्रयच्छ।
तत्र याज्यामाह —
प्रदातेति। प्रदाता प्रकर्षेण दाता। वज्त्री वज्रवान्। वृषभोऽभिमतानां धनानां वर्षिता। तुराषाट् शत्रूणां शीघ्रमभिभविता। शुष्मी बलवान्। राजा दीप्यमानः। वृत्रहा वृत्रं हतवान्। सामपावा सोमस्य पाता। ईदृशस्त्वमस्मिन्यज्ञे बर्हिषि वेद्यां स्तीर्णदर्भ आनिषद्याऽऽगत्योपविश्याथानन्तरं शं सुखकरो योरनिष्टवियोजयिता भव।
इष्य््न्तरं विधत्ते —
“इन्द्राय सुत्राम्णे पुरोडाशमेकादशकपालं निर्वपेदपरुद्धे। वाऽपरुध्यमानो वेन्द्रमेव सुत्रामाणँ स्वेन भागधेयेनोप धावति स एवैनं त्रायतेऽनरुपध्यो भवति” (सं.का. २ प्र. २ अ. ८) इति।
सुत्राम्णे सुष्ठु त्रात्रे। अपरुद्धश्चिरं राज्याद्भ्रष्टः। अपरुध्यमान इदानीमेव भ्रश्यमानः। अनपरुध्यो भ्रंशाविषयः।
तत्र पुरोनुवाक्यामाह —
इन्द्र इति। अयमिन्द्रः सुत्रामा सुष्ठु त्राता स्ववान्धनवानवोभी रक्षणैः सुमृडीकः सुखकरो विश्ववेदा अस्मदनुष्ठितकृत्स्नपरिचर्याभिज्ञो भवतु।
बाधतामस्मान्बाधमानानां वैरिणां द्वेषो विद्वेषी स इन्द्रोऽस्माकमभयं कृणोतु करोतु। तत्प्रसादाद्वयं सुवीर्यस्य वैर्यभिभवसामर्थ्यस्य पतयः स्याम स्वामिनो भवेम।
याज्यामाह —
तस्य वयमिति। वयं यज्ञियस्य यज्ञसंबन्धिनस्तस्येन्द्रस्य सुमतावनुग्रहयुक्ते चित्त स्थिता भवेम। अपि च भद्रे परममङ्गले सौमनसे मनःसमाधानेऽवस्थिताः स्याम। सुत्रामा सुष्ठु त्राता स्ववान्धनवान्स इन्द्रोऽस्मे अस्याकं द्वेषो द्वेष्यानाराच्चद्दूरादेव युयोतु पृथक्करोतु। कीदृशानामस्यांक सनुतः सनुतां हविर्दातृणाम्।
इष्ट्यन्तरं विधत्ते —

८०५
“इन्द्रो वै सदृङ् देवताभिरासत्सि न व्यावृतमगच्छत्स प्रजापतिमुपाधावत्तस्मा एतमैन्द्रमेकादशकपालं निरवपत्तेनैवास्मिन्निन्द्रियमदधाच्छक्वरी याज्यानुवाक्ये अकरोद्वज्रो वै शक्वरी स एनं वज्रो भूत्या ऐन्ध सोऽभवत्सोऽबिभेद्भूतः प्र मा धक्ष्यतीति स प्रजापतिं पुनरुपाधावत्स प्रजापतिः शक्वर्या अधि रेवतीं निरमिमीत शान्त्या अप्रदाहाय” (सं. का.२ प्र. २ अ. ८) इति।
पुरा कदाचिदिन्द्रो देवताभिरितराभिर्हि सदृश आसीत्तदाधिपत्यलक्षणां व्यावृत्तिं न प्राप्तवान्। कश्चिदपि देव एतदीयं भृत्यत्वं नाङ्गीचकार। स इन्द्रः खिन्नः प्रजापतिमुपाजगाम। स प्रजापतिर्व्यावृत्तिकामाय तस्मा इन्द्रायातीतसृष्टिगतेन्द्रदेवताकमेकादशकपालं पुरोडाशं निरवपत्। स प्रजापतिः स्वयमिन्द्रस्य यजमानस्य याग आघ्वर्यवमकरोत्। तेनैव यागेनास्मिन्व्यावृत्तिकाम इन्द्रे सामर्थ्ये स्थापितवान्। तत्सिद्धयर्थ शक्वरीच्छन्दसा युक्ते द्वे ऋचौ याज्यानुवाक्ये अकरोत्। यद्यप्यत्र प्रो ष्वस्मा इत्येकैव शक्वरी तथाऽप्यावृत्ता सती सैव शक्वरी याज्या पुरोनुवाक्या च भविष्यतीति। सा शक्वरी वज्ररूपा।स वज्र एनं व्यावृत्तिकामिनमिन्द्रं भूत्या आधिपत्यलक्षणायैश्वर्यायैन्ध प्रकाशितवान्। स चेन्द्रोऽधिपतिरभवत्। भूत ऐश्वर्यं प्राप्तः स इन्द्रः पुनरविभेदियमत्युग्रा शक्वरी मां प्रधक्ष्यतीति विचार्य, तच्छान्तये स इन्द्रः प्रजापतिं पुनरुपाधावत्। स प्रजापतिः शक्वर्या अधि अधिकत्वेन रेवतीं रेवतीर्नः सधमाद इत्येतामृचं निर्मितवान्। किमर्थम्। शक्वर्या उग्रत्वशान्त्या इन्द्रस्याप्रदाहाय च।
ऐश्वर्ययोग्यराजकुमारादेरैश्वर्याप्राप्तावैश्वर्यप्राप्त्यर्थमिष्टिमिदानीं विधत्ते —
“योऽलँ श्रियै सन्त्सदृङ्समानैः स्यात्तस्मा एतमैन्द्रमेकादशकपालं निर्वपेदिन्द्रमेव स्वेन भागधेयोनोप धावति स एवास्मिन्निन्द्रियं दधाति” (सं. का. २ प्र.२ अ. ८) इति।
यः पुमान्राजकुमारादिः श्रिया ऐश्वर्यायालं सन्समर्थः सन्नपि तदैश्वर्यमप्राप्य समानैः साधारणैरैश्वर्यरहितैः प्राणिभिः सदृशः स्यात्तस्मै तदर्थमियमिष्टिः।
तामेतामिष्टिं विधाय याज्यानुवाक्ये विधत्ते —
“रेवती पुरोनुवाक्या भवति शान्त्या अप्रदाहाय शक्वरी याज्या वज्रो वै शक्वरी स एनं वज्रो भूत्या इन्धे भवत्येव” (सं. का. २ प्र. २ अ. ८) इति।

[[805]]

८०५
“इन्द्रो वै सदृङ् देवताभिरासत्सि न व्यावृतमगच्छत्स प्रजापतिमुपाधावत्तस्मा एतमैन्द्रमेकादशकपालं निरवपत्तेनैवास्मिन्निन्द्रियमदधाच्छक्वरी याज्यानुवाक्ये अकरोद्वज्रो वै शक्वरी स एनं वज्रो भूत्या ऐन्ध सोऽभवत्सोऽबिभेद्भूतः प्र मा धक्ष्यतीति स प्रजापतिं पुनरुपाधावत्स प्रजापतिः शक्वर्या अधि रेवतीं निरमिमीत शान्त्या अप्रदाहाय” (सं. का.२ प्र. २ अ. ८) इति।
पुरा कदाचिदिन्द्रो देवताभिरितराभिर्हि सदृश आसीत्तदाधिपत्यलक्षणां व्यावृत्तिं न प्राप्तवान्। कश्चिदपि देव एतदीयं भृत्यत्वं नाङ्गीचकार। स इन्द्रः खिन्नः प्रजापतिमुपाजगाम। स प्रजापतिर्व्यावृत्तिकामाय तस्मा इन्द्रायातीतसृष्टिगतेन्द्रदेवताकमेकादशकपालं पुरोडाशं निरवपत्। स प्रजापतिः स्वयमिन्द्रस्य यजमानस्य याग आघ्वर्यवमकरोत्। तेनैव यागेनास्मिन्व्यावृत्तिकाम इन्द्रे सामर्थ्ये स्थापितवान्। तत्सिद्धयर्थ शक्वरीच्छन्दसा युक्ते द्वे ऋचौ याज्यानुवाक्ये अकरोत्। यद्यप्यत्र प्रो ष्वस्मा इत्येकैव शक्वरी तथाऽप्यावृत्ता सती सैव शक्वरी याज्या पुरोनुवाक्या च भविष्यतीति। सा शक्वरी वज्ररूपा।स वज्र एनं व्यावृत्तिकामिनमिन्द्रं भूत्या आधिपत्यलक्षणायैश्वर्यायैन्ध प्रकाशितवान्। स चेन्द्रोऽधिपतिरभवत्। भूत ऐश्वर्यं प्राप्तः स इन्द्रः पुनरविभेदियमत्युग्रा शक्वरी मां प्रधक्ष्यतीति विचार्य, तच्छान्तये स इन्द्रः प्रजापतिं पुनरुपाधावत्। स प्रजापतिः शक्वर्या अधि अधिकत्वेन रेवतीं रेवतीर्नः सधमाद इत्येतामृचं निर्मितवान्। किमर्थम्। शक्वर्या उग्रत्वशान्त्या इन्द्रस्याप्रदाहाय च।
ऐश्वर्ययोग्यराजकुमारादेरैश्वर्याप्राप्तावैश्वर्यप्राप्त्यर्थमिष्टिमिदानीं विधत्ते —
“योऽलँ श्रियै सन्त्सदृङ्समानैः स्यात्तस्मा एतमैन्द्रमेकादशकपालं निर्वपेदिन्द्रमेव स्वेन भागधेयोनोप धावति स एवास्मिन्निन्द्रियं दधाति” (सं. का. २ प्र.२ अ. ८) इति।
यः पुमान्राजकुमारादिः श्रिया ऐश्वर्यायालं सन्समर्थः सन्नपि तदैश्वर्यमप्राप्य समानैः साधारणैरैश्वर्यरहितैः प्राणिभिः सदृशः स्यात्तस्मै तदर्थमियमिष्टिः।
तामेतामिष्टिं विधाय याज्यानुवाक्ये विधत्ते —
“रेवती पुरोनुवाक्या भवति शान्त्या अप्रदाहाय शक्वरी याज्या वज्रो वै शक्वरी स एनं वज्रो भूत्या इन्धे भवत्येव” (सं. का. २ प्र. २ अ. ८) इति।

[[806]]

८०६
रेवत्याः पाठस्तु —
रेवतीर्न इति। रेवतीर्धनवत्यः सधमादोऽस्माभिः सह मादयन्त्यो हर्षयुक्तास्तुविवाजा बहून्नोपेताः शक्वरीप्रापितदाहशान्तिप्रदा आपो नोऽस्मांक स्मामिनीन्द्रे सन्त्वस्मत्सुखाय तिष्ठन्तु। याभिरद्भिः सह वयं क्षुमन्तः शब्दायन्त इन्द्रं स्तुवन्तो मदेम हृष्याम।
शक्वर्याः पाठस्तु —
प्रो ष्वस्मा इति। अस्मा इन्द्रायास्येन्द्रस्य पुरोरथं रथस्य पुरोभागे शूषं बलं प्रोष्वर्चत प्रकर्षेण सुष्ठु पूजयत। कथं बलस्य पूजेत्युच्यते। अयमिन्द्रो वृत्रहा वैरिघाती समत्सु सँग्रामेषु सङ्गे योद्धृभिर्वैरिभटैः सङ्गे सति सयोगे सति अभीके चिदु हन्तुं कामयमानेऽपि वैरिणि लोककृत्स्थिति करोत्येव न तु पलायते। इत्थं बलस्य पूजा। तथा पूजित इन्द्रोऽस्माकमितरव्यावृत्तये चोदिता प्रेरयिता सन्बोधि बुध्यतां सावधानो भवतु। अन्यकेषां कुत्सितानां वैरिणां धन्वसु अधिश्रित्य वर्तमाना ज्याकाः कुत्सिता ज्या नमन्तां नश्यन्तु त्रुट्यन्त्वित्यर्थः।
अत्र विनियोगसंग्रहः —
“अन्वहान्वृजुमत्यैन्द्र इन्द्राणीति तु (मिति) तच्चरौ।
यो जातो मन्युमत्यैन्द्रे मा नो दातृमदैन्द्रके ॥१॥
प्रदा प्रदातृमत्यैन्द्र इन्द्रः सुत्रामसंयुते।
रेवतीः श्रीप्रदैन्द्रे स्यादव मन्त्राश्चतुर्दश ॥२॥” इति।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे सप्तमप्रपाठके
त्रयोदशोऽनुवाकः ॥१३॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥१॥
इति श्रीमद्विद्यातीर्थमहेश्वरापरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन माधवाचार्येण विरचिते वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे सप्तमःप्रपाठकः॥७॥

[[807]]

८०७