(अथ प्रथमाष्टके सप्तमप्रपाठक एकादशोऽनुवाकः)।
अ॒ग्निरेका॑क्षरेण॒ वाच॒मुद॑यद॒श्विनौ॒ द्व्य॑क्ष-
रेण प्राणापा॒नावुद॑जयतां॒ विष्णु॒स्त्र्य॑क्षरेण॒ त्री-
ल्ँ लो॒कानुद॑जय॒त्सोम॒श्चतु॑रक्षरेण॒ चतु॑ष्पदः प॒शू-
नुद॑जयत्पू॒षा पञ्चा॑क्षरेण प॒ङ्क्तिमु॑दजयद्धा॒ता
षड॑क्षरेण॒ षडृ॒तूनुद॑जयन्म॒रुतः॑ स॒प्ताक्ष॑रेण स॒प्त-
प॑दाँ॒ शक्व॑री॒मुद॑जय॒न्बृह॒स्पति॑र॒ष्टाक्ष॑रेण गाय॒-
त्रीमुद॑जयन्मि॒त्रो नवा॑क्षरेण त्रि॒वृतँ॒ स्तोम॒-
मुद॑जयत् (१) वरु॑णो॒ दशा॑क्षरेण वि॒राज॒मु-
द॑जय॒दिन्द्र॒ एका॑दशाक्षरेण त्रि॒ष्टुभ॒मुद॑जय॒द्विश्वे॑
दे॒वा द्वाद॑शाक्षरेण॒ जग॑ती॒मुद॑जय॒न्वस॑व॒स्त्रयो॑-
दशाक्षरेण त्रयोद॒शँ स्तोम॒मुद॑जयन्रु॒द्राश्चतु॑-
र्दशाक्षरेण चतुर्द॒शँ स्तोम॒मुद॑जयन्नादि॒त्याः
पञ्च॑दशाक्षरेण पञ्चद॒शँ स्तोम॒मुद॑जय॒न्नदि॑तिः॒
षोड॑शाक्षरेण षोड॒शँ स्तोम॒मुद॑जयत्प्र॒जाप॑तिः
स॒प्तद॑शाक्षरेण सप्तद॒शँ स्तोम॒मुद॑जयत् (२)॥
(त्रि॒वृतँ॒ स्तो॒ममुद॑जय॒त्षट्च॑त्वारिँशच्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके सप्तमप्रपाठक एकादशोऽनुवाकः॥११॥
(अथ प्रथमकाण्डे सप्तमप्रपाठक एकादशोऽनुवाकः)।
दशमेऽन्नहोम उक्तः। एकादश उज्जितिमनन्त्रा उच्यन्ते।
कल्पः — “अथ यजमानमन्वास्थायोज्जितीर्वाचयत्यग्निरेकाक्षरेण वाचमुदजयदिति सप्तदश” इति।
[[794]]
७९४
पाठस्तु —
अग्निरेकाक्षरेणेति। आश्रावयेत्यादिके सप्तदशाक्षरे मन्त्रसंघ एकैकाक्षरवृद्धय तत्तन्मन्त्रं पठित्वा तत्सामर्थ्यादग्न्यादयो वागादीनुदजयन्। अथवा विध्यन्तर एकाक्षरो मन्त्रशास्त्रप्रसिद्ध्या वागग्निबीजं तेनैकाक्षरेण मन्त्रेणाग्नेर्वागुज्जयः। व्द्यक्षरेणाजपामन्त्रेण प्राणापानात्मकेनाश्विनोः प्राणापानोज्जयः। एवमन्येऽपि त्र्यक्षरादिमन्त्रा यथायोगमुन्नेयाः। मन्त्राक्षरसंख्यानुसारेण लोकत्रयादिजयो विज्ञेयः। त्रिवृत्स्तोमगतानामृचां नवसंख्योपेतत्वात्तज्जयो द्रष्टव्यः। त्रयोदशस्तोमादावपि तिसृणामृचामावृत्तिविशेषेण तत्तत्संख्या द्रष्टव्या। एतदुज्जितिविधिस्तु ता वा एता उज्जितयो व्याख्यायन्त इत्येतादृशः पूर्वमेवास्माभिर्व्याख्यातः सोऽयमत्रोत्कर्षणीयः।
अत्र विनियोगसंग्रहः —
“अग्निः सप्तदशाऽऽम्नाता उज्जितीर्वाचयेदमूः।
यजमानं रथेष्वेषु धावत्स्वध्वर्युरादरात् ॥१॥” इति
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदयितैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे सप्तमप्रपाठक एकादशोऽनुवाकः॥११॥