(अथ प्रथमाष्टके सप्तमप्रपाठके नवमोऽनुवाकः )।
क्ष॒त्रस्योल्ब॑मसि क्ष॒त्रस्य॒ योनि॑रसि॒ जाय॒ एहि॒ सुवो॒
रोहा॑व॒ रोहा॑व॒ हि सुव॑र॒हं ना॑वु॒भयोः सुवो॑ रोक्ष्यामि॒
वाज॑श्च प्रस॒वश्चा॑पि॒जश्च॒ क्रतु॑श्च॒ सुव॑श्च मू॒र्धा च॒ व्यश्नि॑-
यश्चाऽऽन्त्याय॒नश्चान्त्य॑श्च भौव॒नश्च॒ भुव॑न॒श्चाधि॑पतिश्च।
आयु॑र्य॒ज्ञेन॑ कल्पतां प्रा॒णो य॒ज्ञेन॑ कल्पतामपा॒नः (१)
य॒ज्ञेन॑ कल्पतां व्या॒नो य॒ज्ञेन॑ कल्पतां॒ चक्षु॑र्य॒ज्ञेन॑ कल्प-
ताँ॒ श्रोत्रं॑ य॒ज्ञेन॑ कल्पतां॒ मनो॑ य॒ज्ञेन॑ कल्पतां॒ वाग्य॒-
ज्ञेन॑ कल्पतामा॒त्मा य॒ज्ञेन॑ कल्पतां य॒ज्ञो य॒ज्ञेन॑ कल्प-
ताँ॒ सुव॑र्दे॒वाँ अ॑गन्मा॒मृता॑ अभूम प्र॒जाप॑तेः प्र॒जा
अ॑भूम॒ सम॒हं प्र॒जया॒ सं मया॑ प्र॒जा सम॒हँ रा॒यस्पोषे॑ण॒
सं मया॑ रा॒यस्पोषोऽन्ना॑य त्वा॒न्नाद्या॑य त्वा॒ वाजा॑य त्वा
वाजजि॒त्यायै॑ त्वा॒ऽमृत॑मसि॒ पुष्टि॑रसि प्र॒जन॑नमसि (२)।
(अ॒पा॒नो वाजा॑य॒ नव॑ चः)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके
सप्तमप्रपाठके नवमोऽनुवाकः॥९॥
(अथ प्रथमकाण्डे सप्तमप्रपाठके नवमोऽनुवाकः)।
अष्टमे रथधावनमुक्तं नवमे यूपारोहणमुच्यते।
क्षत्रस्येति। कल्पः — “अथ यजमानं तार्प्यं परिधापयति क्षत्त्रस्योल्बमसीति दर्भमयं पत्नीम्” इति।
[[782]]
Page No. ७८२
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — ( १ प्रथमकाण्डे–
(वाजपेयोपयुक्तरथविषयमन्त्राभिधानम्)
घृताक्तं वस्त्रं तार्प्यम्। क्षत्त्रस्य राजस्थानीयस्य यजमानस्य गर्भत्वेनोपचर्य-माणस्योल्बमावरणमसि। उल्बवृतो गर्भ इति छन्दोगा आमनन्ति। हे दर्भमय पट क्षत्त्रस्य राजमहिषीस्थानीयस्य पत्नीशरीरस्य योनिरसि शीतनिवारणका-रणमसि।
तदेतत्परिधानद्वयं विधत्ते-
“तार्प्यं यजमानं परिधापयति। यज्ञो वै तार्प्यम्। यज्ञेनैवैनँ समर्धयति। दर्भमयं परिधापयति। पवित्रं वै दर्भाः। पुनात्येवैनम्। वाजं वा एषोऽवरुरुत्सते। यो वाजपेयेन यजते। ओषधयः खलु वै वाजः। यद्दर्भमयं परिधापयति” (१) वाजस्यावरुद्ध्यै” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ७) इति।
तार्प्यस्य यज्ञसाधनत्वाद्यज्ञत्वम्। एवं पत्नीदेहम्। वाजपेययाजिनोऽन्नाव-रोधकामिन ओषधिरूपदर्भमयेनान्नमवरुद्धं भवति।
जाय एहीति। कल्पः — “अथ जायमानमन्त्रयते जाय एहि सुवो रोहावोति, रोहाव हि सुवरितीतरा प्रत्याहाहं नावुभयोः सुवो रोक्ष्यामीति यजमानः” इति।
स्पष्टार्थो मन्त्रः।
एहीत्याह्वानस्य तात्पर्यमाह-
‘जाय एहि सुवो रोहावेत्याह। पत्निया एवैष यज्ञस्यान्वारम्भोऽनवच्छित्त्यै’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ७) इति।
आह्वानेन यजमानस्य यज्ञारम्भमनु पत्न्या अपि यज्ञारम्भे सति यज्ञोऽनव च्छिन्नो भवति।
पूर्वमन्त्रैः स्वर्गत्वेन निरूपितस्याऽऽरोहणीयस्य यूपस्य चोदकप्राप्तं परिमाणमपवदितुं परिमाणान्तरं विधत्ते-
‘सप्तदशारत्निर्यूपो भवति। सप्तदशः प्रजापतिः। प्रजापतेराप्त्यै’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ७) इति।
चतुर्विंशत्यङ्गुलीपरिमितोऽरत्निः। सप्तदशसंख्याका अरत्नयः परिमाणं यस्य यूपस्येति विग्रहः।
अन्यद्गुणद्वयं विधत्ते –
‘तूपरश्चतुरश्रिर्भवति’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ७) इति।
इतेरषां यूपानामग्रे शृङ्गस्थानीयः काष्ठशेषोऽणीयांश्चषालप्रतिमोकायाव-शेष्यते, सोऽस्य नास्तीति तूपरत्वम्। अष्टाश्रित्वमपवदितुं चतुरश्रित्वम्।
[[783]]
Page No. ७८३
प्रपा॰ ७ अनु॰ ९ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(वाजपेयोपयुक्तरथविषयमन्त्राभिधानम् )
चषालनामकस्य यूपकटकस्य दारुमयत्वापवादाय विधत्ते-
‘गौधूमं चषालम्। न वा एते व्रीहयो न यवाः। यद्गोधूमाः (२)। एवमिव हि प्रजापतिः समृद्ध्यै। अथो अमुमेवास्मै लोकमन्नवन्तं करोति’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ७) इति।
गौधूमं कुर्यादिति शेषः। यथा व्रीहिभ्यो यवेभ्यश्च गोधूमानां लोके प्रश-स्तत्वमेवमेवान्येभ्यो देवेभ्यः प्रशस्तः प्रजापतिः। किंच गोधूमसंपत्त्या स्वर्गोऽन्नवान्भवति।
यूपस्य वेष्टनं विधत्ते-
“वासोभिर्वेष्टयति। एष वै यजमानः। यद्यूपः सर्वदेवत्यं वासः। सर्वाभि-रेवैनं देवताभिः समर्धयति। अथो आक्रमणमेव तत्सेतुं यजमानः कुरुते सुवर्गस्य लोकस्य समष्ट्यै” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ७) इति।
वाससां संख्यामापस्तम्ब आह – “रशनाकाले सप्तदशभिर्वासोभिर्यूपं वेष्टयति” इति।
वाससां सर्वदेवत्यत्वमग्नेस्तूषाधानमित्यादौ सौमिकदीक्षाप्रकरणे विस्पष्टम्। आक्रमणं स्वर्गारोहणं सोपानसदृशम्।
कल्पः – ‘आहवनीये जुहोत्यन्वारब्धे यजमाने वाजश्च प्रसवश्चेति द्वादश स्रुवाहुतीः’ इति।
पाठस्तु –
वाजश्चेति। वाजादयः सर्वे मम सन्त्विति शेषः। वाजोऽन्नं, प्रसवस्तस्यो-त्पत्तिः। अपिजस्तस्यैव पुनः पुनरुत्पत्तिः। क्रतुः संकल्पो भोगादिविषयो यागो वा। सुवस्तस्यैवोत्पत्तौ हेतुरादित्यः। अथवा वाजादयश्चैत्रादिमासानां नामविशेषाः। तदानीं सर्वे ते प्रीणन्त्विति वाक्यशेषः। चकाराः परस्परसमु-च्चयार्था अनुक्तकालादिदेवतासमुच्चयार्था वा।
विधत्ते-
‘द्वावश वाजप्रसवीयानि जुहोति (३)। द्वादश मासाः संवत्सरः। संवत्सरमेव प्रीणाति। अथो संवत्सरमेवास्मा उपदधाति। सुवर्गस्य लोकस्य समष्ट्यै’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ७) इति।
[[784]]
Page No. ७८४
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — ( १ प्रथमकाण्डे-
(वाजपेयोपयुक्तरथविषयमन्त्राभिधानम्)
वाजशब्दप्रसवशब्दौ येषु कर्मसु मन्त्रत्वेन श्रूयेते तानि कर्माणि वाजप्रसवी-यानि। अन्नोत्पत्तिहेतुत्वाद्वा वाजप्रसवीयत्वम्। न केवलमनेन होमेन संवत्स-रदेवतायाः प्रीतिः, किंत्वस्य यजमानस्य स्वार्गप्राप्तये संवत्सरदेवतां निःश्रेणि-वदुपधानमाधारमपि करोति।
कल्पः — तं दशभिः कल्पै रोहत्यायुर्यज्ञेन कल्पतामिति’ इति।
तं यूपम्। कल्पैः कल्पशब्दोपेतैः।
पाठस्तु-
आयुर्यज्ञेति। आत्मा जीवः। यज्ञेन यज्ञसंबन्धिना यूपारोहणेन। आयुरादयः स्वस्वप्रयोजनसमर्था भवन्तु।
विधत्ते-
‘दशभिः कल्पै रोहति। नव वै पुरुषे प्राणाः।नाभिर्दशमी। प्राणानेव यथास्थानं कल्पयित्वा। सुवर्गं लोकमेति। एतावद्वै पुरुषस्य स्वम् (४)। यावत्प्राणाः। यावदेवास्यास्ति। तेन सह सुवर्गं लोकमेति’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ७) इति।
अन्यत्र सप्त वै शीर्षण्याः प्राणा द्वाववाञ्चाविति श्रुतत्वादिहापि छिद्राभि-प्रायः प्राणशब्दः। अनेन कल्पमन्त्रपाठेन प्राणापानचक्षुःश्रोत्रादीन्प्राणान्स्व-स्वस्थाने स्थापयित्वा तैस्तदीयस्थानैः सह स्वर्गं प्राप्तो भवति।
सुवर्देवानिति। कल्पः – ‘बाहू उद्गृह्णाति सुवर्देवाँ अगन्मामृता अभूम प्रजापतेः प्रजा अभूमेति’ इति।
उद्गृहीताभ्यां बाहुभ्यां स्वर्गप्राप्तिमभिनयता यजमानेनेदमुच्यते वयं स्व-र्गावस्थितदेवान्प्रत्यगन्म प्राप्ताः स्मः। प्राप्य चामृता देवा अभूम। अतः प्रजा-पतेः प्रीतिविषयाः प्रजा अस्मिन्भूलोके यज्ञानुष्ठानपरा अभूम।
मन्त्रस्य त्रीन्भागान्पृथग्व्याचष्टे-
‘सुवर्देवाँ अगन्मेत्याह। सुवर्गमेव लोकमेति। अमृता अभूमेत्याह। अमृतमिव हि सुवर्गो लोकः। प्रजापतेः प्रजा अभूमेत्याह। प्राजापत्यो वा अयं लोकः। अस्मादेव तेन लोकान्नैति’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ७) इति।
तेन तृतीयभागपाठेन भूलोकात्सर्वात्मना निर्गतो न भवति।
[[786]]
७८६
आनन्दाश्रमसंस्कृतग्रन्थावलिः।
ग्रन्थाड्कः ४२
कृष्णयजुर्वेदीयतैत्तिरीयसंहिता
(प्रथमकाण्डगतसप्तमप्रपाठकान्तर्गदशमानुवाकमारभ्य प्रथमकाण्डसमाप्तिपर्यन्तस्तृतीयो भागः।)
एतत्पुस्तकम्
आनन्दाश्रमविश्वस्तैः
पुण्याख्यपत्तने
आनन्दाश्रममुद्रणालये
आनन्दाश्रमे मुद्रितं प्रकाशितं च।
नूतनेयमड्कनावृत्तिः। इ.स. १९९१
(शकाब्दाः १९१२)
अस्य सर्वेऽधिकाराः राजशासनानुसारेणण स्वायत्तीकृताः।
मूल्यं— मूल्यम् ८५ पचाशीतिः रुप्यकाणि
[[787]]
७८७
ॐ तत्सद्ब्रम्हणे नमः।
श्रीमत्सायणाचार्यविरचितभाष्यसमेता-
कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
तस्यास्तृतीयो भागः।