०८

(अथ प्रथमाष्टके सप्तमप्रपाठकेऽष्टमोऽनुवाकः)।
दे॒वस्या॒हँ स॑वि॒तुः प्र॑स॒वे बृह॒स्पित॑ना वाज॒जिता॒ वाजं॑
जेषं दे॒वस्या॒हँ स॑वि॒तुः प्र॑स॒वे बृह॒स्पित॑ना वाज॒जिता॒ वर्षि॑ष्ठं॒
नाकँ॑ रुहेय॒मिन्द्रा॑य॒ वाचं॑ वद॒तेन्द्रं॒ वाजं॑ जापय॒तेन्द्रो॒ वाज॑
मजयित्। अश्वा॑जनि वाजिनि॒ वाजे॑षु वाजिनीव॒त्यश्वा॑न्त्स॒-
मत्सु॑ वाजय। अर्वा॑ऽसि॒ सप्ति॑रसि वा॒ज्य॑सि॒ वाजि॑नो॒ वाजं॑
धावत म॒रुतां॑ प्रस॒वे ज॑यत॒ वि योज॑ना मिमीध्व॒मध्व॑नः
स्कभ्नीत॒ (१) काष्ठां॑ गच्छत॒ वाजे॑वाजेऽवत वाजिनो
नो॒ धने॑षु विप्रा अमृता ऋतज्ञाः। अ॒स्य मध्वः॑ पिबत
मा॒दय॑ध्वं तृ॒प्ता या॑त प॒थिभि॑र्देव॒यानैः॑। ते नो॒ अर्व॑न्तो
हवन॒श्रुतो॒ हवं॒ विश्वे॑ शृण्वन्तु वा॒जिनः॑। मि॒तद्र॑वः
सहस्र॒सा मे॒धसा॑ता सनि॒ष्यवः॑। म॒हो ये रत्नँ॑ समि॒-
थेषु॑ जभ्रि॒रे शं नो॑ भवन्तु वा॒जिनो॒ हवे॑षु। दे॒व-
ता॑ता मि॒तद्र॑वः स्व॒र्काः। ज॒म्भय॒न्तोऽहिं॒ वृकँ॒ रक्षाँ सि
सने॑म्य॒स्मद्यु॑यवन् (२) अमी॑वाः। ए॒ष स्य वा॒जी
क्षि॑प॒णिं तु॑रण्यति ग्नीवा॒यां॑ बध्दो॒ अ॑पिकक्ष॒ आस॒नि॑।

[[769]]

Page No. ७६९
प्रपा॰ ७ अनु॰ ७ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(वाजपेयोपयुक्तरथविषयमन्त्राभिधानम् )
क्रतुं॑ दधि॒क्रा अनु॑ सं॒तवी॑त्वत्प॒थामङ्काँ॒ स्यान्व॒मनी॑फण-
त्। उ॒त स्मा॑स्य॒ द्रव॑तस्तुरण्य॒तः प॒र्णं न वेरनु॑ वाति
प्रग॒र्धिनः॑। श्ये॒नस्ये॑व ध्रज॑तो अङ्क॒सं परि॑ दधि॒-
क्राव्णः॑ स॒होर्जा तरि॑त्रतः। आ मा॒ वाज॑स्य प्रस॒वो
ज॑गम्या॒दा द्यावा॑पृथि॒वी वि॒श्वशं॑भू। आ मा॑ गन्तां
पि॒तरा॑ (३) मा॒तरा॒ चाऽऽ मा॒ सोमो॑ अमृत॒त्वाय॑
गम्यात्। वाजि॑नो वाजजितो॒ वाजँ॑ सरि॒ष्यन्तो॒ वाजं॑
जे॒ष्यन्तो॒ बृह॒स्पते॑र्भा॒गमव॑ जिघ्रत॒ वाजि॑नो वाजजितो॒
वाजँ॑ ससृ॒वाँसो॒ वाजं॑ जिगि॒वाँसो॒ बृह॒स्पते॑र्भागे नि
मृ॑ड्ढ्वमि॒यं वः॒ सा स॒त्या सं॒धाऽभू॒द्यामिन्द्रे॑ण स॒मध॑द्-
ध्व॒मजी॑जिपत वनस्पतय॒ इन्द्रं॒ वाजं॒ वि मु॑च्यध्वम् (४)॥
(स्क॒भ्नी॒त॒ यु॒य॒व॒न्पि॒तरा॒ द्विच॑त्वारिँशच्‍च)।

इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके
सप्तमप्रपाठकेऽष्टमोऽनुवाकः॥४॥

(अथ प्रथमकाण्डे सप्तमप्रपाठकेऽष्टमोऽनुवाकः)।
सप्तमे रथमन्त्रा वर्णिताः। अष्टमे रथस्य धावनमन्त्रा वर्ण्यन्ते।
देवस्याहमिति। कल्पः — “रथमातिष्ठति देवस्याहँ सवितुः प्रसवे बृहस्प-तिना वाजजिता वाजं जेषमिति” इति।
आतिष्ठत्यारोहेदित्यर्थः। वाजजिताऽन्नजयकारिणा बृहस्पतिनाऽनुगृहीतोऽहं वाजं जेषमन्नं जेष्यामि।
एतन्मन्त्रगतं बृहस्पतिशब्दं ब्राह्मणजात्यभिमानिदेवपरत्वेन व्याचष्टे-
“देवस्याहँ सवितुः प्रसवे बृहस्पतिना वाजजिता वाजं णेषमित्याह। सवितृप्रसूत एव ब्रह्मणा वाजमुज्‍जयति” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।

[[770]]

Page No. ७७०
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — ( १ प्रथमकाण्डे–
(वाजपेयोपयुक्तरथविषयमन्त्राभिधानम्)
देवस्याहमिति। कल्पः — “ चात्वाले रथचक्रं निमितं ब्रह्माऽऽरोहति तमत एवानुमन्त्रयते देवस्याहँ सवितुः प्रसवे बृहस्पतिना वाजजिता वर्षिष्ठं नाकँ रुहेयमिति” इति।
निमितं निखातस्य काष्ठस्याग्रे स्थापितं, वर्षिष्ठमतिशयेन प्रवृद्धम्।
पूर्वमन्त्रवद्व्याचष्टे-
‘देवस्याहँ सवितुः प्रसवे बृहस्पतिना वाजजिता वर्षिष्ठं नाकँ रुहेयमि-त्याह। सवितृप्रसूत एव ब्रह्मणा वर्षिष्ठं नाकँ रोहति’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति। विधत्ते –
‘चात्वाले रथचक्रं निमितँ रोहति अतो वा अङ्गिरस उत्तमः स्वर्गं लो-कमायन्। साक्षादेव यजमानः सुवर्गं लोकमेति’ ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
अत उपरि स्थिताद्रथचक्रात्, उत्तमा उद्गततमाः, साक्षादेवाव्यवधानेनैव।
विधत्ते-
‘आवेष्टयति। वज्‍रो वै रथः। वज्‍रेणैव दिशोऽभिजयति १’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
ऊर्ध्वकाष्ठाग्रे स्थापितं ब्रह्मणा समारूढं रथचक्रं त्रिः प्रदक्षिणं पर्यावर्तयेत्। रथस्य वज्‍रांशत्वाद्वज्‍रत्वम्। तच्‍चान्यत्राऽऽम्नातम् - ‘स्फ्यस्तृतीयँ रथस्तृतीयं यूपस्तृतीयम्’ इति।
विधत्ते-
‘वाजिनाँ साम गायते। अन्नं वै वाजः। अन्नमेवावरुन्धे’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
वाजिनामन्नार्थिनां संबन्धि यत्साम तद्ब्रह्मा गायेत्। अन्नप्रदस्तु सामविशेषः शाखान्तरे द्रष्टव्यः।
ब्रह्मण इदं गानमित्यापस्तम्बः स्पष्टयति- ‘औदुम्बरँ रथचक्रं ब्रह्माऽऽरोहति तमाह वाजिनाँ साम गायेति तस्य चक्रं त्रिः प्रदक्षिणमावर्तयति तत्रऽऽवर्त(र्त्य)माने ब्रह्मा गायति’ इति।

[[771]]

Page No. ७७१
प्रपा॰ ७ अनु॰ ८ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(वाजपेयोपयुक्तरथविषयमन्त्राभिधानम् )
इन्द्रायेति। कल्पः — ‘आघ्नन्ति दुंदभीन्संप्रवदन्ति वाचः संप्रवदिता वाचो-ऽनुमन्त्रयत इन्द्राय वाचं वदतेन्द्रं वाजं जापयतेन्द्रो वाजमजयिदिति’ इति।
यागलक्षणेन परमैश्वर्येण योगाद्यजमान इन्द्रस्तस्मा इन्द्राय हे सभ्या ब्राह्मणा आशीर्वादरूपां श्रुतां वाचं वदत। इन्द्रं यजमानं वाजं जापयत। अन्नविषये जयं प्रापयत। अयमिन्द्रो यजमानो वाजमन्नमजयिज्जयतु।
सोऽयं मन्त्र आपस्तम्बेन दुंदुभिवादने विनियुक्तः — ‘इन्द्राय वाचं वदतेति दुंदुभीन्सँ ह्लादयन्ति’ इति।
तमेतं दुंदुभिघातं विधातुं प्रस्तौति-
‘वाचो वर्ष्म देवेभ्योऽपाक्रामत्। तद्वनस्पतीन्प्राविशत्। सैषा वाग्वास्पतिषु वदति। या दुंदुभौ। तस्माद्दुंदुभिः सर्वा वाचोऽतिवदति’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
वाग्देवताया वर्ष्म नादात्मकं प्रधानशरीरं, तस्य प्रवेशादयं दुंदुभिः सर्वा मनुष्यवाचोऽतिक्रम्य ध्वनिं करोति।
विधत्ते-
‘दुंदुभीन्समाघ्नन्ति। परमा वा एषा वाक् २ या दुंदुभौ। परमयैव वाचाऽवरां वाचमवरुन्धे। अथो वाच एव वर्ष्म यजमानोऽवरुन्धे।’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
मन्त्रगतमिन्द्रियपदं वाजमजयिदित्येतच्च व्याचष्टे-
‘इन्द्राय वाचं वदतेन्द्रं वाजं जापयतेन्द्रो वाजमजयिदित्याह। एष वा एतर्हीन्द्रः। यो यजते। यजमान एव वाजमुज्जयति’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
अश्वाजनीति। कल्पः - ‘अथास्मा अश्वाजनिं प्रयच्छति अश्वाजनि वाजिनि वाजेषु वाजिनीत्यश्वान्त्समत्सु वाजयेति’ इति।
अस्मै यजमानाय। अश्वमजति क्षिपतीत्यश्वाजनी कशा। सा च विजयेनान्न-प्रदत्वाद्वाजिनी। वाजिन्यो वेगवत्योऽश्वगतयस्ता अस्याः कशाया इति वाजि-नीवती। यथोक्तगुणत्रयोपेते हे कशे वाजेष्वन्नेषु निमित्तभूतेषु सत्सु त्वमश्वान्समत्सु युद्धेषु वाजय गमय। (ब्राह्मणेन) अयं मन्त्रः स्पष्टत्वबुद्ध्यो-पेक्षितः।
त्रीन्विधेयान्विधत्ते-

[[772]]

Page No. ७७२
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — ( १ प्रथमकाण्डे
(वाजपेयोपयुक्तरथविषयमन्त्राभिधानम्)
‘सप्तदश प्रव्याधानाजीं धावन्ति। सप्तदशँ स्तोत्रं भवति। सप्तदश सप्तदश दीयन्ते ३ सप्तदशः प्रजापतेराप्त्यै’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
प्रकर्षेण बलाधिक्येन विध्यन्ते मुच्यन्ते बाणा यावत्परिमाणेषु देशविशेषेषु तावत्परिमाणा देशाः प्रव्याधाः। ते च सप्तदशसंख्याकाः। तेषामन्तेऽवधित्व-द्योतनाय काचिदौदुम्बरी शाखा निखन्यते तत्काष्ठयुक्तोऽवधिराजिः। तत्पर्य-न्तं रथारूढा धावेयुः। अस्मिन्वाजपेये सामवेदप्रसिद्धं यत्स्तोत्रं तत्सप्तदशसं-ख्याकावृत्तियुक्तं भवेत्। तदावृत्तिप्रकारस्त्वष्टमप्रपाठके समिधमातिष्ठेत्यस्मिन्न-नुवाके ब्राह्मणोदाहरणेन स्पष्टी करिष्यते। दक्षिणात्वेन दातव्यानां रथादीनां गोशतान्तानां द्रव्याणां मध्य एकैकद्रव्यं सप्तदशसंख्यायुक्तं दद्यात्। तच्चाऽ-ऽपस्तम्बो दर्शयति - ‘दक्षिणाकाले सप्तदश रथान्ददाति सप्तशानांसि सप्तद-शाश्वान्सप्तदश हस्तिनः सप्तदश निष्कान्सप्तदश दास्यः(सीः) सप्तदशाजाः सप्तदशावीः सप्तदश वासांसि सप्तदश गवां शतानि’ इति। यद्यपि स्तोमवि-शेषविधेर्देयद्रव्यसंख्याविधेश्च नायमवसरस्तथाऽपि गन्तव्यदेशविशेषसंख्या-विधिप्रसङ्गेन तदुभयं विहितम्। तथा सत्येकेनैव सप्तदशः प्रजापतिरित्यनेना-र्थवादेन विधित्रयस्य स्तोतुं शक्यत्वात्।
अर्वाऽसीति। कल्पः — ‘तथा यथायुक्तमश्वान्क्षिपति अर्वाऽसीति दक्षिणां सप्तिरसीति मध्यमं वाज्यसीत्युत्तरम्’ इति।
अर्वादयोऽश्वजातिविशेषाः। तदेवाभिप्रेत्यान्यत्राऽऽम्नायते - ‘हयो देवा-नवहदर्वाऽसुरान्वाजी गन्धर्वानश्वो मनुष्यान्’ इति। वामदक्षिणयोरश्वयोर्मध्य ईषाद्वयं प्रसार्य तयोर्मध्ये सप्त्याख्यजातिविशेषोपेतमश्वं युञ्‍ज्यात्।
त्रींस्तान्देवतात्रयरूपेण स्तौति-
‘अर्वाऽसि सप्तिरसि वाज्यसीत्याह। अग्निर्वा अर्वा। वायुः सप्तिः। आदित्यो वाजी। एताभिरेवास्मै देवताभिर्देवरथं युनक्ति’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
पूर्वं यजुषा युनक्तीत्यत्र मन्त्रो विहितः इदानीं रथयोगं विधत्ते-
‘प्रष्टिवाहिनं युनक्ति। प्रष्टिवाही वै देवरथः। देवरथमेवास्मै युनक्ति (४)’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।

[[773]]

Page No. ७७३
प्रपा॰ ७ अनु॰ ८ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(वाजपेयोपयुक्तरथविषयमन्त्राभिधानम्)
पादत्रयोपेतो भोजनपात्रस्याऽऽधारस्तद्वदश्वैस्त्रिभिर्वहतीति प्रष्टिवाही। अत एवोपरिष्टाद्वक्ष्यते - ‘त्रयोऽश्वा भवन्ति रथश्चतुर्थः’ इति।
वाजिन इति। कल्पः — ‘अथैतानाजिसृतो विख्यापयति वाजिनो वाजं धावत मरुतां प्रसवे जयत वि योजना मिमीध्वमध्यनः स्कभ्नीत काष्ठां गच्छ-तेति।
हे वाजिनोऽश्वा वाजमन्नं संपादयितुं त्वरया धावत। मरुतामनुज्ञायां सत्या-मन्नं जयत। विशेषेण बहून्यपि योजनानि मिमीध्वं शीघ्रधावनेन परिमिता-न्यल्पानीव कुरुत। किंचाध्वनो मार्गान्स्कभ्नीत स्कम्भयत शीघ्‍रगत्या पीडि-तान् कुरुत। काष्ठामध्वसमाप्तिमाजिशिरो गच्छत।
अस्मिन्मन्त्रे प्रथमभागं प्रतीकत्वेनोपादाय चतुर्थभागे काष्ठाशब्दं व्याचष्टे-
‘वाजिनो वाजं धावत काष्ठां गच्छतेत्याह। सुवर्गो वै लोकः काष्ठा। सुवर्गमेव लोकं यन्ति’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
दिग्विशेषं विधातुं प्रस्तौति-
‘सुवर्गं वा एते लोकं यन्ति। य आजिं धावन्ति’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
विधत्ते-
‘प्राञ्चो धावन्ति। प्राङिव हि सुवर्गो लोकः’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
प्राञ्चः पूर्वाभिमुखाः। ऐन्द्रत्वात्स्वर्गस्य प्राग्दिग्वर्तित्वम्।
कल्पः - ‘अथ रथान्धावतोऽनुमन्त्रयते वाजेवाजेऽवत वाजिनो न इति चतसृभिरनुच्छन्दसम्’ इति।
तत्रेयमृक्प्रथमा-
वाजेवाज इति। हे वाजिनोऽश्वा वाजेवाजे तत्तदन्ननिमित्तं धननिमित्तं च नोऽस्मानवत। विप्रा ब्राह्मणवत्स्नानेन शुद्धा अमृता मरणरहिताः श्रमरहिता ऋतज्ञा ऋतं सत्यमस्य गन्तव्यदेशं जानन्तः। तादृगश्वाभिमानिनो हे देवा अस्य मध्व पिबत, धावनात्पूर्वं पश्चाच्‍चावघ्‍राप्यामाणं मधुसमानं नैवारचरुरसं पिबत। पीत्वा त मादयध्वं हृष्टा भवत। ततस्तृप्ताः सन्वो देवयानैः पथिभिराजिं प्रति यात।

[[774]]

Page No. ७७४
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — ( १ प्रथमकाण्डे-
(वाजपेयोपयुक्तरथविषयमन्त्राभिधानम्)
अथ द्वितीया-
ते न इति। तेऽश्वा अर्वन्तो गतिकुशला हवनश्रुतोऽस्मदाह्वानश्रोतारो वाजिनोऽन्नवन्तो विश्वे सर्वेऽपि हवमाह्वानमस्मद्वचनं शृण्वन्तु।
अथ तृतीया-
मितद्रव इति। महान्तमपि पन्थानं मितमल्पमिव द्रवन्ति गच्छन्तीति मितद्रवः। सहस्रसाः सहस्रस्य महतोऽन्नराशेः सनितारो दातारः। मेधसाता यज्ञस्य प्रदातारः सनिष्यवः सनिं द्रव्यदानमस्मास्विच्छन्तः। ईदृशा येऽश्वाः समिथेषु संग्रामेषु महो रत्नमत्यधिकं शत्रोर्धनं जभ्रिरे हृतवन्तस्ते वाजिनो नोऽस्माकं शं भवन्तु सुखकरा भवन्तु।
अथ चतुर्थी-
देवताता इति। देवताता देवानर्हन्तीति देवतातयः। मितद्रवः पूर्ववत्। स्वर्काः शीघ्रधावनेन सुष्ट्वर्चनीयाः, ते वाजिनोऽहिं वृकं रक्षांसि सर्पवदरण्यश्ववत्बाधकान्‍राक्षसाञ्जम्भयन्तः, वर्णव्यत्ययः। सनेमि क्षिप्रमेवामीवा रोगानस्मद्युयवन्नस्मत्तो वियोजितवन्तः।
तदेवमध्यापकसंप्रदायमनुसृत्य मन्त्रचतुष्टयं विभक्तम्। बौधायनाचार्यस्तु ते नो अर्वन्त इत्यादिर्वाजिनो हवेष्वित्यन्त एक एव मन्त्र इत्यभिप्रेत्य चतुर्थीमेष स्य वाजीत्यादिकामृचं चतुष्टयेऽन्तर्भावयामास। तदीयपाठस्तु -
एष स्य इति। ग्नीवायां कक्ष आस्ये च तत्तदुचितरज्जुविशेषैर्बद्धः सन्नेष स्य वाज्येषोऽश्वः क्षिपणिं तुरण्यति कशां त्वरयति, बहुधा बद्धत्वाद्रथं भञ्जयितु-मितस्ततो न गच्छति, कशयाऽश्वः शीघ्‍रं धावतीत्यर्थः। दधिक्रा धारका-न्मार्गावरोधकान्पाषाणादीनप्यतिक्रामन्क्रतुं सादिनोऽभिप्रायमनु संतवीत्वत्स-म्यगनुसंदधानः पथां मार्गाणामङ्कांसि लक्षणानि कुतिलानि निम्नोन्नतानि च वाज्यन्वापनीफणदनुक्रमेणर्जुत्वं समत्वं चाऽऽपादयंस्तुरण्यतीति पूर्वत्रान्वयः।
कल्पः — ‘स यद्यस्मै रथभ्रेषमाचक्षत आग्नीध्र एतां जुहोत्युत स्मास्यद्रवत-स्तुरण्यत इति’ इति।
पाठस्तु-

[[775]]

Page No. ७७५
प्रपा॰ ७ अनु॰ ८ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(वाजपेयोपयुक्तरथविषयमन्त्राभिधानम् )
उत स्मास्येति। उत स्मापि च द्रवतो गच्छतस्तुरण्यतस्त्वरयतः प्रगर्धिनोऽ-वधिं प्राप्तुं काङ्क्षतोऽस्याश्वस्याङ्कसं शृङ्गारचिह्नं वस्त्रचामरादिकं परि सर्वस्मिन्नपि देहे वर्तमानमनु वाति गच्छन्तमश्वमनूत्क्षिप्तत्वेन दृश्यमानं गच्छति। कस्य किमिव। वेः पक्षिणः पर्णं न पक्ष इव। यथा त्वरया गच्छतः पक्षिणः पक्ष उत्क्षिप्तो गच्छन्नवलोक्यते तथा धावतोऽश्वस्यालंकाररूपं वस्त्रचामरादिकं विस्पष्टमवलोक्यते। पक्षिमात्रस्य पर्णमङ्कसस्य दृष्टान्तत्वे-नाभिहितम्। शीघ्‍रधावने श्येनदृष्टान्त उच्यते। ध्रजतो गच्छतः श्येनस्येव दधिक्राव्णो धारकपर्वताद्यतिक्रामिण ऊर्जा सहात्यन्तबलेन सह तरित्रतो भृशं तरतोऽश्वस्येति योज्यम्।
आपस्तम्बस्त्वेवमाह- ‘वाजिनो वाजं धावतेति चतसृभिर्धावतोऽनुमन्त्र-यतेऽग्निरेकाक्षरेणेति धावत्सूज्जितीर्यजमानं वाचयति लक्षणं प्राप्योदञ्च आवृत्य प्रदक्षिणमावर्तन्ते मितद्रव इति चतसृभिः इत्याधावतोऽनुमन्त्रयते’ इति। वाजिनो वि योजना वाजेवाजे ते नो अर्वन्त इति चतस्रः।
प्रधावतोऽनुमन्त्रणं विधत्ते-
‘चतसृभिरनुमन्त्रयते। चत्वारि छन्दाँसि। छन्दोभिरैवैनान्त्सुवर्गं लोकं गमयति (५)’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
गायत्री त्रिष्टुब्जगत्यनुष्ठुबिति च्छन्दसां चतुष्टयम्। उदङ्मुखत्वेनाऽऽवृत्तिं विधत्ते-
‘प्र वा एतेऽस्माल्लोकाच्‍च्यवन्ते। य आजिं धावन्ति। उदञ्च आवर्तन्ते। अस्मादेव तेन लोकान्नयन्ति’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
कल्पः — ‘रथविमोचनीयं जुहोत्या मा वाजस्य प्रसवो जगम्यादिति’ इति।
पाठस्तु-
आ मा वाजस्येति। वाजस्यान्नस्य प्रसव उत्पत्तिर्मां प्रत्याजगम्यादागच्छतु। द्यावापृथिव्यौ च विश्वशंभू कृत्स्नस्य जगतः सुखं भावयन्तौ(न्न्यौ) मामागच्छ-ताम्। पितरा मातराऽस्मदीयः पिता माता च मां प्रत्यागम्यादागच्छतु।
‘अपाम सोमममृता अभूम’ इति ह्यन्यत्र श्रुतम्।
विधत्ते-
‘रथविमोचनीयं जुहोति प्रतिष्ठित्यै’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।

[[776]]

Page No. ७७६
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — ( १ प्रथमकाण्डे-
(वाजपेयोपयुक्तरथविषयमन्त्राभिधानम् )
रथविमोकेनाश्वानामायासं परिहृत्य स्वयं प्रतिष्ठितो भवति।
मन्त्रे वाजप्रसवोक्तेरभिप्रायमाह-
‘आ मा वाजस्य प्रसवो जगम्यादित्याह। अन्नं वै वाजः। अन्नमेवावरुन्धे’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
इतरैः षोडशरथैर्धावद्भ्यः कृष्णलदानं विधातुं प्रस्तौति-
‘यथालोकं वा एत उज्जयन्ति। य आजिं धावन्ति (६)’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
ये रथान्तरवर्तिन आजिं धावन्ति, एते यथालोकं यथास्थानमुज्जयन्ति। यस्मिन्यस्मिन्स्थाने यो यो धावत्यसावसौ तत्तत्स्थानं जयतीत्यर्थः।
विधत्ते-
‘कृष्णलं कृष्णलं वाजसृद्भ्यः प्रयच्छति। यमेव ते वाजं लोकमुज्जयति। तं परिक्रीयावरुन्धे’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
यवत्रयपरिमितं सुवर्णं कृष्णलम्। वाजमन्नमुद्दिश्य सरन्ति धावन्तीति वाजसृतो रथान्तरवर्तिनः।
अत एवाऽऽपस्तम्बः —
‘यजुर्युक्तं यजमान आरोहति वाजसृत इतरान्‍रथान्’ इति।
एकैकस्मै वाजसृत एकैकं कृष्णलं दद्यात्तेन तैः संपादितमन्नं निवासस्थानं च परिक्रीय स्वाधीनं करोति।
तान्षोडश कृष्मलान्पुनरादायैकीकृत्य ब्रह्मणे तद्दानं विधत्ते –
‘एकधा ब्रह्मण उपहरति। एकधैव यजमाने वीर्यं दधाति’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
चरुं विधातुं प्रस्तौति-
‘देवा वा ओषधीष्वाजिमयुः। ता बृहस्पतिरुजयत्। स नीवारान्निरवृणीत। तन्नीवाराणां नीवारत्वम्’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
यथा पूर्वं प्रथमतो वाजपेययागार्थमाजिं धावतो बृहस्पतेर्जयस्तद्वदत्राप्यो-षधीषु सारस्वीकारायाऽऽजिप्राप्तौ बृहस्पतिर्जयं प्राप्यौषधीषु सारत्वेन नीवारानन्याभ्य ओषधीभ्यो निष्कृष्यावृणीत। निःशेषेण वृतत्वान्नीवारत्वं संपन्नम्।
विधत्ते-

[[777]]

Page No. ७७७
प्रपा॰ ७ अनु॰ ८ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(वाजपेयोपयुक्तरथविषयमन्त्राभिधानम् )
‘नैवारश्चरुर्भवति (७) एतद्वै देवानां परममन्नम्। यन्नीवाराः। परमेणैवास्मा अन्नाद्येनावरमन्नाद्यवरुन्धे’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
शाल्यादिभ्योऽत्यन्तपूतत्वेन नीवाराणां देवान्नत्वम्।
चरोः परिमाणं विधत्ते-
‘सप्तदशशरावो भवति। सप्तदशः प्रजापतिः। प्रजापतेराप्त्यै’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
चरोः सप्तदशशरावपरिमितत्वं पूर्वं तत्प्रचारविधौ व्याख्यातम्।
चरुनिष्पादनोपयुक्तं द्रव्यविशेषं विधत्ते-
‘क्षीरे भवति। रुचमेवास्मिन्दधाति’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
रुचं स्वादुत्वम्।
निष्पन्ने चरौ घृतप्लावनं विधत्ते-
‘सर्पिष्वान्भवति मेध्यत्वाय’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
एतदेवाभिप्रेत्याश्वदेवानुद्दिश्यास्य मध्वः पिबत मादयध्वमित्यस्य मन्त्रस्यार्थो व्याख्यातः।
चरोर्देवतां विधत्ते-
‘बार्हस्पत्यो वा एष देवतया (८)। यो वाजपेयेन यजते। बार्हस्पत्य एष चरुः’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
कर्तव्य इत्याध्याहारः। वाजपेययाजिनो बृहस्पतिर्देवतेति तत्रत्यचरोरपि सा देवता युक्ता।
वाजिन इति। कल्पः – ‘तमेतान्यजुर्युजोऽश्वानवघ्‍रापयति– वाजिनो वाज-जितो वाजँ सरिष्यन्तो वाजं जेष्यन्तो बृहस्पतेर्भागमव जिघ्‍रापयति’ इति।
वाजजितोऽन्‍नं जेतुमुद्यता वाजिनो हेऽश्वा वाजमन्‍नं जेतुमाजिमुद्दिश्य सरिष्यन्तो धावनं करिष्यन्तो वाजमन्‍नं जेष्यन्तो यूयं बृस्पतेर्भागमिमं चरुमवजिघ्रत।
वाजिन इति। कल्पः – “युजुर्यजोऽश्वान्प्रत्याधावतोऽवध्‍रापयति–वाजिनो वाजजितो वाजँ ससृवाँसो वाजं जिगिवाँसो बृहस्पतेर्भागे नि मृड्ढ्वमिति” इति।
यजमानार्थे रथे यजुर्भिर्मन्त्रैर्योजनीया अश्वा यजुर्युजः। ससृवांसो धावनं कृतवन्तः। जिगिवांसो जयं कृतवन्तः। निमृड्ढ्वं शुद्धा भवत। आपस्तम्बमते तु जिगिवाँस इत्यन्तो मन्त्रः। तदर्थपूरणाय बृहस्पतेर्भागमवजिघ्रतेति पूर्व-

[[778]]

Page No. ७७८
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — ( १ प्रथमकाण्डे–
(वाजपेयोपयुक्तरथविषयमन्त्राभिधानम्)
स्मान्मन्त्रादनुवर्तनीयम्। अवशिष्टभागो मन्त्रान्तरं, तस्य विनियोगं स
एवाऽऽह – ‘बृहस्पतेर्भागे निमृड्ढ्वमिति प्रप्रोथेषु च लेपान्निमार्ष्ठि’ इति। प्रप्रोथा ओष्ठाग्राणि।
आजिधावनात्पुरा पश्चाच्चावघ्‍रापणं विधत्ते-
‘अश्वान्त्सरिष्यतः सस्रुषश्चावघ्‍रापयति। यमेव ते वाजं लोकमुज्जयन्ति। तमेवावरुन्धे’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
इयं व इति। कल्पः — ‘अथ रथान्विमुच्‍यमानाननुमन्त्रयते–इयं वः सा सत्या संधाऽभूद्यामिन्द्रेण समधद्ध्वमिति’ इति।
हे रथा वो युष्मकमियं संधाऽऽजिधावनप्रतिज्ञा सा सत्याऽभूत्। यां प्रति-ज्ञामिन्द्रेणेन्द्रानुग्रहेण समधद्ध्वं सम्यग्धारितवन्तः। इन्द्रानुग्रहायैवेन्द्रस्य वज्‍रोऽसीति रथमन्त्र आम्नातः।
अजीजिपतेति। कल्पः - ‘दुंदुभीनवस्यातोऽनुमन्त्रयते–अजीजिपत वनस्पतय इन्द्रं वाजं वि मुच्यध्वमिति’ इति।
हे वनस्पतयो वनस्पतिविकारा दुंदुभय इन्द्रं यागस्वामिनं वाजमन्नमनुद्दि-श्याजीजिपत यथा जितवान्भवति तथा जितवन्तः। तादृशा यूयं पूर्वं यत्र बद्धास्ततो विमुच्यध्वं विमुक्ता भवत। बन्धनप्रदेशस्त्वापस्तन्बेन दर्शितः — दक्षिणस्यां वेदिश्रोण्यां सप्तदश दुंदुभीन्प्रबध्नातीति’ इति।
विधत्ते-
‘अजीजिपत वनस्पतय इन्द्रं वाजं विमुच्यध्वमिति दुंदुभीन्विमुञ्चति। यमेव ते वाजं लोकमिन्द्रियं दुंदुभय उज्‍जयन्ति। तमेवावरुन्धे (८)’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
अत्र विनियोगसंग्रहः —
“देवाऽऽरोहेद्रथं स्वामी ब्रह्मारोहणमन्त्रणम्।
देवेतीन्द्रा दुंदुभीनां घोषोऽश्वाज कशाग्रहः॥१॥
अर्वाऽसीति त्रिभिर्मन्त्रैर्युनक्त्यश्वत्रयं रथे।
वाजीत्येतैर्मन्त्रयेत चतुर्भिर्धावतो रथान्॥२॥
मितेत्याभिश्चतसृभिस्तान्प्रत्याधावतो रथान्।
आ मा रथविमुक्त्याख्यं जुहुयाद्वाजिनद्वयात्॥३॥
गतेः पुरोपरिष्टाच्च घ्रापयेच्‍चरुमश्वकान्।
बृहादिजिघ्रतेत्यन्तो द्वितीयेऽप्युनुषज्यते॥४॥

[[779]]

Page No. ७७९
प्रपा॰ ७ अनु॰ ८ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(वाजपेयोपयुक्तरथविषयमन्त्राभिधानम् )
बृहेति मार्ष्टि घोणायामियं तु रथमन्त्रणम्।
अजी दुंदुभिन्त्रः स्यादेकविंशतिरीरिताः॥५॥” इति।
अथ मीमांसा।
दशमाध्यायस्य तृतीयपादे चिन्तितम् —
“यजुर्युक्तोऽध्वर्युभागं बाधते यमयत्युत।
बाधः प्राकाशवन्मैवं पक्षे प्राप्तो नियम्यते॥”
वाजपेये श्रूयते – “यजुर्युक्तं रथमध्वर्यवे ददाति” इति। तस्यायमर्थः — रथशकटदासीनिष्कादीनि सप्तदश द्रव्याणि प्राकृतगवाश्वादिदक्षिणाद्रव्यबाध-कान्यत्र विहितानि। तेषु च प्रतिद्रव्यं सप्तदशसंख्या विहिता। ततो रथाः सप्तदश। तेषु मुख्यं रथं यजमानारोहणायेन्द्रस्य वज्‍रोऽसीत्यादिभिर्यजुर्वेदो-क्तैर्मन्त्पैः सज्जी करोति। सोऽयं यजुर्युक्तो रथः। तं च दक्षिणाकालेऽध्वर्यवे दद्यादिति। प्राकाशावध्वर्यवे ददातीत्यत्र यथा चोदकप्राप्तस्याध्वर्युभागस्य बाध एवमत्रापि। ननु सप्तदशद्रव्यविधानेनैव प्राकृतद्रव्यबाधः सिद्धः। बाढम्। त-थाऽप्यर्धिनः पादिन इत्यादिसमाख्याप्रापिता विषमविभागविशेषकॢप्तिर्न द्रव्या-न्तरविधिमात्रेण बाधितुं शक्या। विरोधिनो विधान्तरस्याधानात्। अतश्चोदक-प्राप्ता येयमध्वर्योर्भागविशेषकॢप्तिः सा यजुर्युक्तरथरूपभागविशेषविधिना बाध्यते। तस्मादध्वर्योर्न रथान्तरभागोऽस्ति नापि शकटदास्यादिभाग इति पूर्वः पक्षः। नैतद्युक्तम्। प्राकाशदृष्टान्तवैषम्यात्। अत्यन्तमप्राप्तौ हि प्राकाशौ तत्र विधेयौ। यजुर्युक्तरथस्तु पक्षे प्राप्तः। तथा हि – सप्तदश रथान्ददातीत्युक्ते कस्य को रथ इति विवक्षायां यजमानेच्छाया नियामकत्वाद्यदाऽध्वर्यवे तं दातुमिच्छति तदा प्राप्नोति, यदा नेच्छति तदा न प्राप्नोतीति पक्षे प्राप्तिः। ततो यजुर्युक्तो यो रथः सोऽध्वर्यवेऽवश्यं देय इति नियम्यते। अतो न कस्याप्यनेन बाधः।
तत्रैव द्वितीयपादे चिन्तितम् —
“शरावैः सप्तदशभिर्यश्चरुस्तत्र मुष्टयः।
चत्वारः सन्ति नो वोत स्यादेकं मुष्टिसंख्ययोः।

[[780]]

Page No. ७८०
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — ( १ प्रथमकाण्डे
(वाजपेयोपयुक्तरथविषयमन्त्राभिधानम्)
तत्किमाद्यश्चोदितत्वाच्छरावापूरणान्न सः।
द्वितीयोऽस्त्विति चैन्मैवं द्विलोपे बाधगौरवात्॥
तृतीयोऽस्त्वेकलोपे(पोऽ)त्र धर्मः संख्यैव लुप्यताम्।
क्रियायोगान्न तद्धर्मः प्राथम्यात्साऽनुगृह्यताम्॥”
प्रकृतौ ‘चतुरो मुष्टीन्निर्वपति’ इति मुष्टितत्संख्ये श्रुते। तथा वाजपेये विकृतिरूपः सप्तदशशरावश्चरुः श्रुतः। तत्र चरौ किं मुष्टिसंख्ये द्वे अपि विद्येते किंवा द्वे अपि न विद्येते। आहोस्मिदुभयोरेकमस्त्यन्यन्नास्ति। यदैकं तदाऽपि किं मुष्टिरेव किंवा संख्यैवेति संशयः। चोदकप्राप्तमुभयमस्तीत्याद्यः पक्षः प्राप्नोति। चतुर्भिर्मुष्टिभिः सप्तदशशरावपूरणे समर्थस्य चरोरनिष्पत्तेः स पक्षो न युक्तः। तर्हि मुष्टिसंख्ये द्वे अपि बाध्येते इति द्वितीयः पक्षोऽस्त्विति चेन्मैवम्। एकतरबाधेनैव पूरणाभावपरिहारे सिद्धे सति द्वयोर्बाधे गौरवप्रसङ्गात्। नन्वत्रोपदिष्टेन शरावद्रव्येणातिदिष्टं मुष्टिद्रव्यं बाध्यते, तथा सप्तदशसंख्यया चतुःसंख्या बाध्यत इत्युभयबाधोऽवश्यंभावी। मैवम्। भिन्नविषयत्वेन बाधासंभवात्। शरावसप्तदशसंख्ये यागसंबद्धे मुष्टिचतुःसंख्ये तु निर्वापसंबद्धे इतिविषयभेदः। कथं तर्ह्यत्र बाधप्रसङ्गः। अन्यथाऽनुपपत्त्ये-ति वदामः। अनुपपत्तिश्च पूरणासंभवेन दर्शिता। पूरणं चैकबाधेनाप्युपपद्यते। मुष्टिबाधे यथोचितं चतुःसंख्योपेतैः कुडवादिभिः पूर्तिः स्यात्। चतुःसंख्याबाधे यथोचितमधिकसंख्योपेतैर्मुष्टिभिः पूर्तिर्भविष्यति। एवं तर्ह्येकलोप इति तृतीयः पक्षोऽस्तु। तत्र संख्या धर्मः, मुष्टिर्धर्मी। तथा सति मुष्टौ लुप्ते सति निराश्रयस्य धर्मस्यासिद्धेः संख्यालोपोऽप्यवश्यंभावी। संख्यायां तु लुप्तायां मुष्टिः शक्नोत्यवस्थातुम्। तस्मात्संख्यैव लुप्यतामिति प्राप्ते ब्रूमः — चतुःसंख्या तावन्न मुष्टिमात्रेऽन्वेति, कर्मकारकवाचिद्वितीयाविभक्त्यन्तस्य चतुःशब्दस्य सह कर्मकारकेण निर्वपतिधातुना सहान्वयात्। अतः संख्या न मुष्टिधर्मः। पार्ष्णिकान्वयेन तु मुष्टिविशेषणं भविष्यति। संख्यामुष्टयोः क्रियासंबन्धे समाने सत्यपि प्रथमश्रुतत्वात्साऽनुगृह्यते, चरमश्रुतत्वे दुर्बलो मुष्टिर्बाध्यत इति राद्धान्तः॥

[[781]]

Page No. ७८१
प्रपा॰ ७ अनु॰ ९ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(वाजपेयोपयुक्तरथविषयमन्त्राभिधानम् )
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजु-र्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे सप्तमप्रपाठकेऽ
ष्टमोऽनुवाकः॥८॥