(अथ प्रथमाष्टके सप्तमप्रपाठके सप्तमोऽनुवाकः)।
देव॑ सवितः॒ प्र सु॑व य॒ज्ञं प्र सु॑व य॒ज्ञप॑तिं॒ भगा॑य दि॒व्यो
ग॑न्ध॒र्वः। के॒त॒पूः केतं॑ न पुनातु वा॒चस्पति॒र्वाच॑म॒द्य स्व॑दाति
नः। इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒स्त्वया॒ऽयं वृ॒त्रं व॑ध्यात्।
वाज॑स्य॒ नु प्र॑स॒वे मा॒तरं॑ म॒हीमदि॑तिं॒ नाम॒ वच॑सा करामहे।
यस्या॑मि॒दं विश्वं॒ भुव॑नमावि॒वेश॒ तस्यां॑ नो दे॒वः स॑वि॒ता धर्म॑
साविषत्। अ॒प्सु (१) अ॒न्तर॒मृत॑म॒प्सु भे॑ष॒जम॒पामु॒त प्रश॑
स्ति॒ष्वश्वा॑ भवथ वाजिनः। वा॒युर्वा॑ त्वा॒ मनु॑र्वा त्वा गन्ध॒र्वाः
स॒प्तविँ॑शतिः। ते अग्ने॒ अश्व॑मायुञ्ज॒न्ते अ॑स्मिञ्ज॒वमाऽद॑धुः।
अपां॑ नपादाशुहेम॒न्य ऊ॒र्मिः क॒कुद्मा॒न्प्रतू॑र्तिर्वाज॒सात॑म॒स्तेना॒यं
वाजँ॑ सेत्। विष्णोः॒ क्रमो॑ऽसि॒ विष्णोः॑ क्रा॒न्तम॑सि॒ विष्णो॒-
र्विक्रा॑न्तमस्य॒ङ्कौ न्य॒वङ्काव॒भितो॒ रथं॒ यौ ध्वा॒न्तं वा॑ता॒ग्र-
मनु॑ सं॒चर॑न्तौ दू॒रेहे॑तिरिन्द्रि॒यावा॑न्पत॒त्री ते नो॒ऽग्नयः॒ पप्र॑यः
पारयन्तु (२)॥
(अ॒प्सु न्य॒ङ्कौ पञ्च॑दश च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके
सप्तमप्रपाठके सप्तमोऽनुवाकः॥१२॥
(अथ प्रथमकाण्डे सप्तमप्रपाठके सप्तमोऽनुवाकः)।
इत्थं षट्स्वनुवाकेषु दार्शिकयाजानब्राह्मशेषो वर्णितः। अथ देव सवितः प्र सुवेत्यादिषु षट्सु वाजपेयविषया आध्वर्यवमन्त्रा उच्यन्ते। तत्रास्मिन्सप्त-मेऽनुवाके रथविषया मन्त्राः कथ्यन्ते। तेषां वाजपेयमन्त्राणां व्याख्यानं ब्राह्मणग्रन्थे प्रथमकाण्डे तृतीयप्रपाठके द्वितीयमारभ्य नवमान्तेष्वष्टस्व-नुवाकेष्वाम्नातम्। तत्र वाजपेयविधिर्ग्रहविधिः पशुविधिश्चाऽऽद्येषु त्रिष्व-नुवाकेषु क्रमेणाऽऽम्नाताः अनयोर्वाजपेयविषययोर्मन्त्रब्राह्मणयोरत्यन्त-विप्रकृष्टदेशवर्तित्वेन बुद्धिसां-
[[746]]
Page No. ७४६
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — ( १ प्रथमकाण्डे
(वाजपेयोपयुक्तरथविषयमन्त्राभिधानम्)
निध्याभावाच्छ्रोतॄणां प्रतिपत्तिसौकर्याय पूर्वोक्तदार्शिसौमिककाण्डवद्ब्रा-ह्मणेन सहैव मन्त्रा व्याख्यायन्ते-
तस्य च ब्राह्मणस्य प्रथमानुवाके वाजपेयं विधातुं प्रस्तौति-
“देवा वै यथादर्शं यज्ञानाहरन्त। योऽग्निष्टोमम्। य उक्थ्यम्। योऽतिरात्रम्। ते सहैव सर्वे वाजपेयमपश्यन्। ते। अन्योन्यस्मै नातिष्ठन्त। अहमनेन यजा इति। तेऽब्रुवन्। आजिमस्य धावामेति (१) । तस्मिन्नाजिमधावन्। तं बृहस्पतिरुदजयत्। तेनायजत। स स्वाराज्यमगच्छत्। तमिन्द्रोऽब्रवीत्। मामनेन याजयेति। तेनेद्रमयाजयत्। सोऽग्रं देवतानां पर्यैत्। अगच्छत्स्वाराज्यम्। अतिष्ठन्तास्मै ज्यैष्ठ्याय (२)” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ २) इति।
देवानां मध्ये कश्चिदग्निष्टोमं ददर्श। अन्य उक्थ्यमपरोऽतिरात्रम्। ते च स्वस्वदर्शनमनतिक्रम्य तान्यज्ञानाहरन्तानुष्ठितवन्तः। ते देवाः सर्वे सहैव वाजपेयं दृष्ट्वाऽहमेव प्रथममनेन वाजपेयेन यजा इत्येवं विवदमानाः परस्परं प्रथमानुष्टातृत्वलक्षणाय ज्यैष्ठ्याय नातिष्ठन्त ज्यैष्ठ्यं नाङ्गी चक्रुः। तत एवं समयं चक्रुरस्माकं मध्य आजिं धावनेन यः कश्चिज्जयति स एव ज्येष्ठोऽस्त्विति। आजिर्धावनप्रदेशस्यावधिर्भूविशेषः। एवं समयं कृत्वा तस्मिन्वाजपेयविषये विजयायाऽऽजिमधावन्। तत्र तं वाजपेयं प्रति धावन्बृहस्पतिरुत्कर्षेणाजयत्। इतरेभ्यः प्रथममवधिं पस्पर्श। ततः प्रथमं स एव तेन वाजपेयेनेष्ट्वा स्वाराज्यमपारतन्त्र्यरूपं माहाराज्यमगच्छत्। तत इन्द्रस्तं बृहस्पतिं संप्रार्थ्य तेन वाजपेयेनेष्ट्वा देवानां मध्ये ज्येष्ठत्वमपारतन्त्र्येण स्वर्गाधिपत्यलक्षणं स्वाराज्यं चागच्छत्। अस्येन्द्रस्य ज्यैष्ठ्यमितरे सर्वे देवा मात्सर्यं परित्यज्याङ्गी चक्रुः।
स्वाराज्यादिकामिनो वाजपेयं विधत्ते-
“य एवं विद्वान्वाजपेयेन यजते। गच्छति स्वाराज्यम्। अग्रँ समानानां पर्येति। तिष्ठन्तेऽस्मै ज्यैष्ठ्याय” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ २) इति।
अधिकारविशेषविधिमुन्नयति।
“स वा एष ब्राह्मणस्य चैव राजन्यस्य च यज्ञः” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ २) इति।
[[747]]
Page No. ७४७
प्रपा॰ ७ अनु॰ ७ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(वाजपेयोपयुक्तरथविषयमन्त्राभिधानम्)
स बृहस्पतिनाऽनुष्ठितः। एष इन्द्रेणानुष्ठितः। देवानां मध्ये बृहस्पतिर्ब्रा-ह्मणजात्यभिमानी, इन्द्रः क्षत्रियजात्यभिमानी, ताभ्यामेवानुष्ठितत्वान्मनु-ष्येष्वपि ब्राह्मणराजन्ययोरेवात्राधिकारो न तु वैश्यस्य। अत एवाऽऽपस्तम्ब आह – “शरदि वाजपेयेन यजेत ब्राह्मणो राजन्यो वर्द्धिकामः” इति।
नामनिर्वचनं दर्शयति-
“तं वा एतं वाजपेय इत्याहुः। वाजाप्यो वा एषः। वाजँ ह्येतेन देवा ऐप्सन्” (ब्रा॰ का॰ २ प्र॰ २ अ॰ २) इति।
वाजो देवान्नरूपः सोमः पेयो यस्मिन्यागे स वाजपेय इत्येकं निर्वचनम्। यस्मादेतेन यज्ञेन देवा वाजं फलरूपमन्नमाप्तुमैच्छंस्तस्मादन्नरूपो वाजः पेयः प्राप्यो येन स वाजपेय इत्यपरं निर्वचनम्।
सोमस्यैतद्यागसाधनत्वात्तदभेदेन यागं तद्वेदनं च स्तौति –
“सोमो वै वाजपेयः। यो वै सोमं वाजपेयं वेद (३) वाज्येवैनं पीत्वा भवति। आऽस्य वाजी जायते” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ २) इति।
एनं वाजपेयगतं सोमम्।
फलभूतान्नाभेदोपचारेण स्तौति-
“अन्नं वै वाजपेयः। य एवं वेद। अत्त्यन्नम्। आऽस्यान्नादो जायते” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ २) इति।
यागप्रतिपादकवेदाभेदोपचारेण स्तौति-
“ब्रह्म वै वाजपेयः। य एवं वेद। अत्ति ब्रह्मणाऽन्नम्। आऽस्य ब्रह्मा जायते” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ २) इति।
ब्रह्मणा वेदाध्यापनसंपादितया गुरुदक्षिणयेत्यर्थः। ब्रह्मा वेदाध्यापकः।
मन्त्रोच्चारणसाधनभूतवागभेदोपचारेण स्तौति-
“वाग्वै वाजस्य प्रसवः। य एवं वेद। करोति वाचा वीर्यम्। ऐनं वाचा गच्छति। अपिवतीं वाचं वदति” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ २) इति।
देव सवितः प्र सुवेत्यादिमन्त्ररूपा वागेव वाजस्य वाजपेयस्य प्रसव उत्प-त्तिहेतुः। य एतद्वेदिता स तया सभायां पाण्डित्यरूपया वाचा वीर्यमतिशयं करोति। सभागतश्च विद्वत्संघः स्तुतिरूपया वाचा युक्त एनमागच्छति बहुधा प्रशंसतीत्यर्थः। पुनरपि वाजपेयवाक्यं श्रोष्यामि तदर्थं ज्ञास्याम्यनुष्ठास्यामीत्ये-तादृशीं पुनरपीत्यपिशब्दोपेतां वाचं सर्वदा वदति श्रद्धालुर्भवतीत्यर्थः।
[[748]]
Page No. ७४८
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — ( १ प्रथमकाण्डे
(वाजपेयोपयुक्तरथविषयमन्त्राभिधानम् )
एकादशानुवाकगतानामुज्जितिमन्त्राणां पाठं विधातुं प्रस्तौति-
“प्रजापतिर्देवेभ्यो यज्ञान्व्यादिशत्। स आत्मन्वाजपेयमधत्त। तं देवा अब्रु-
वन्। एष वाव यज्ञः। यद्वाजपेयः (५) अप्येव नोऽत्रास्त्विति। तेभ्य एता उज्जितीः प्रायच्छत्” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ २) इति।
प्रजापतिरितरेभ्यो देवेभ्योऽग्निष्टोमादीन्यज्ञान्विभज्य दत्त्वा वाजपेयं स्वस्मिन्नेव स्थापितवान्। देवाश्च वाजपेय एव मुख्यो यज्ञोऽतोऽस्माकमप्यत्र भागोऽस्त्वित्यब्रुवन्, स च तेभ्य उज्जितिमन्त्रान्प्रायच्छत्।
विधत्ते-
“ता वा एता उज्जितयो व्याख्यायन्ते यज्ञस्य सर्वत्वाय। देवतानामनिर्भा-गाय” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ २) इति।
व्याख्यायन्ते व्याख्यायेरन्पठनीया इत्यर्थः। तत्पाठेन यज्ञस्य सर्वत्वमवैकल्यं भवति। देवताश्च भागयुक्ता भवन्ति। तेषु मन्त्रेष्वग्निरश्विनौ विष्णुः सोम इत्येवं तत्तद्भागभाजो देवता आम्नाताः। अयं विधिरापस्तम्बेन स्पष्टं दर्शितः — “अग्निरेकाक्षरेणेति धावति धावत्सूज्जितीर्यजमानं वाचयति” इति। उज्जितिमन्त्राणां रथधावनकाले पठनीयत्वाद्धावनविधिसमीप एवायं विधिरुत्क्रष्ठव्यः।
अस्य च विध्युत्कर्षस्य प्रसङ्गेन बुद्धिस्थं पुरुषार्थत्वेन क्रतुप्रकरणादुत्क्रष्ठव्यं कंचित्प्रतिग्रहनिषेधं विधित्सुः प्रस्तौति -
“देवा वै ब्रह्मणश्चान्नस्य च शमलमपाघ्नन्। यद्ब्रह्मणः शमलमासीत्। सा गाथा नाराशँस्यभवत्। यदन्नस्य। सा सुरा (६)” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ २) इति।
ब्रह्मणो वेदस्य शमलं मलिनभागमपाघ्नन्नपनीतवन्तः। नराणां राजामात्या-दीनामा समन्तात्प्रशंसनं नराशंसस्तद्विषया गीर्नाराशंसी।
प्रतिग्रहनिषेधं विधत्ते-
“तस्माद्गायतश्च मत्तस्य च न प्रतिगृह्यम्। यत्प्रतिगृह्णीयात्। शमलं प्रतिगृ-ह्णीयात्” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ २) इति।
यस्माल्लौकिकमनुष्यविषयगानसुरे मलरूपे तस्मात्तादृशगानपरस्य सुरापानमत्तस्य च धनं न प्रतिगृह्णीयात्।
प्रकारान्तरेण वाजपेयं प्रशंसति-
[[749]]
Page No. ७४९
प्रपा॰ ७ अनु॰ ७ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(वाजपेयोपयुक्तरथविषयमन्त्राभिधानम् )
“सर्वा वा एतस्य वाचोऽवरुद्धाः। यो वाजपेययाजी। या पृथिव्यां याऽग्नौ या रथंतरे। याऽन्तरिक्षे या वायौ या वामदेव्ये। या दिवि याऽऽदित्ये या बृहति। याऽप्सु यौषधीषु या वनस्पतिषु” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ २) इति।
पृथिव्यन्तरिक्षद्युरूपं यल्लोकत्रयं तदभिमानिदेवतात्रयं रथन्तरवामदेव्यबृहद्रूप-मुक्तलोकाभिमानिदेवताप्रियं यत्सामत्रयमबोषधिवनस्पतिरूपं यद्यागोपयुक्तद्रव्यत्रयं तस्य सर्वस्य संबन्धिन्यो या वाचस्ताः सर्वा एतस्य वाजपेययाजिनोऽवरुद्धः संपन्नाः। तत्र सामसंबन्धिन्यो वाचस्तदाश्रयभूता ऋच एव। पृथिव्यै त्वाऽन्तरिक्षाय त्वा दिवे त्वेत्येते यूपप्रोक्षणमन्त्राः। पृथिव्यादिविषया वाचः। अग्न आयूंषीत्यादिराग्नेयातिग्राह्यमन्त्रोऽग्निविषया वाक्। आ वायो भूषेति ग्रहान्तरमन्त्रो वायुविषवा वाक्। तुरीया-
ऽऽदित्य सवनं त इन्द्रियमित्यादिग्रहान्तरमन्त्र आदित्यविषया वाक्। सूपस्था देवो वनस्पतिरित्यादिर्वनस्पतिविषया वाक्। एवं पृथिवी दीक्षेत्यादयो बहव उदाहार्याः। तदेवं सर्ववागवरोधाद्वाजपेयः प्रशस्तः।
तामिमां प्रशंसामुपसंहरति-
“तस्माद्वाजपेययाज्यार्त्विजीनः। सर्वा ह्यस्य वाचोऽवरुद्धाः (७)” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ २) इति।
आर्त्विजीनो वाजेपयं यष्टुं प्रशस्तानृत्विजोऽर्हति। वाजपेयेनेष्ट्वा परार्थ-मार्त्विज्यं चार्हति।
इत्थमेकेनानुवाकेन वाजपेयो विहितः। अथान्येनानुवाकेन ग्रहविशेषा विधीयन्ते, तत्रातिग्राह्यान्विधातुं प्रस्तौति-
“देवा वै यदन्यैर्ग्रहैर्यज्ञस्य नावारुन्धत। तदतिग्राह्यैरतिगृह्यावारुन्धत। तद-तिग्राह्याणामतिग्राह्यत्वम्” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ३ इति।
अन्यैरैन्द्रवायवादिग्रहैर्यत्फलं न प्राप्नुवस्तंदप्राप्यं फलमतिग्राह्यसंज्ञकैर्ग्रहै-रतिशयेन गृहीत्वा स्वाधीनं कृतवन्तः। इतरग्रहानतिक्रम्य दुष्प्रापं फलं गृह्यत एभिरित्यतिग्राह्याः।
विधत्ते-
“यदतिग्राह्या गृह्यन्ते। यदेवान्यैर्ग्रहैर्यज्ञस्य नावरुन्धे। तदेव तैरतिगृह्याव-
रुन्धे” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ३ इति।
[[750]]
Page No. ७५०
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — ( १ प्रथमकाण्डे–
(वाजपेयोपयुक्तरथविषयमन्त्राभिधानम्)
प्रकृतिगतानामाग्नेयैन्द्रसौर्याणामतिग्राह्याणां चोदकादेव प्राप्तत्वात्तद्वि-धित्वभ्रान्तिव्युदासाय संख्याविशेषं विधत्ते-
“पञ्च गृह्यन्ते। पाङ्क्तो यज्ञः। यावानेव यज्ञः। तमाप्त्वाऽवरुन्धे (१)” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ३) इति।
धानाः करम्भ इत्यादिब्राह्मणोदाहरणेन यज्ञस्य पाङ्क्तत्वमसकृद्दर्शितम्।
वक्ष्यमाणैरिन्द्राय जुष्टं गृह्णामीत्येतादृशैरिन्द्रलिङ्गकैर्मन्त्रैरेव तद्ग्रहणं विधत्ते-
“सर्व ऐन्द्रा भवन्ति। एकधैव यजमान इन्द्रियं दधति” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ३) इति।
सर्वेषामेकदेवताकत्वेनैकविधेन्द्रियधारकत्वम्।
ग्रहान्तराणि विधत्ते-
“सप्तदश प्राजापत्य ग्रहा गृह्यन्ते। सप्तदशः प्रजापतिः प्रजापतेराप्त्यै” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ३) इति।
प्रजापतेः सप्तदशत्वं यो वै सप्तदशमित्यत्रोपपादितम्।
वक्ष्यमाणामया विष्ठा इत्यादिकामृचं कुविदङ्गेत्यादिकां च विषयविशेषेण व्यावस्थितां विधत्ते-
“एकयर्चा गृह्णाति। एकधैव यजमाने वीर्यं दधाति” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ३) इति।
तेषु ग्रहेषु द्रव्यद्वयं विधत्ते-
“सोमग्रहाँश्च सुराग्रहाँश्च गृह्णाति। एतद्वै देवानां परममन्नम्। यत्सोमः (२) एतन्मनुष्याणाम्। यत्सुरा। परमेणैवास्मा अन्नाद्येनावरमन्नाद्यमवरुन्धेः” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ३) इति।
मनुष्याणामधमजातीनामिति शेषः। शालिमुद्गादिकं परमान्नं यावनालप्रि-यंग्वादिकमवरम्। यदा परमान्नसंपत्तिस्तदानीमवरान्नसंपत्तिः किमु वक्तव्या। उक्तग्रहप्रकारश्चाऽऽपस्तम्बेन स्पष्टीकृतः — “ ऐन्द्रमतिग्राह्यं गृहीत्वोपयामगृ-हीतोऽसि नृषदं त्वेति पञ्चैन्द्रानतिग्राह्यान्गृह्णाति तेषां पूर्ववत्कल्पः, षोडशिनं गृहीत्वाऽया विष्ठा जनयन्कर्वराणीति सप्तदश प्राजापत्यान्गृह्णाति तेषां षोडशिवत्कल्पः, कुविदङ्गेत्यपरस्मिन्खरे प्रतिप्रस्थाता सप्तदशभिरुपयामः सुराग्रहान्गृह्णाति” इति।
द्विविधग्रहविधिमनूद्य प्रशंसति-
[[751]]
Page No. ७५१
प्रपा॰ ७ अनु॰ ७ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(वाजपेयोपयुक्तरथविषयमन्त्राभिधानम्)
“सोमग्रहान्गृह्णाति। ब्रह्मणो वा एतत्तेजः यत्सोमः। ब्रह्मण एव तेजसा तेजो यजमाने दधाति। सुराग्रहान्गृह्णाति। अन्नस्य वा एतच्छमलम्। यत्सुरा (३) अन्नस्यैव शमलेन शमलं यजमानादपहन्ति” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ३) इति।
ब्रह्मणो ब्राह्मणस्योचितं तेजः सोमः। अत एव तदभावे व्रात्यत्वमाम्नायते “यस्य पिता पितामहो वा सोमं न पिबेत्स व्रात्यः” इति।
प्रकारान्तरेण विधिद्वयं प्रशंसति-
सोमग्रहाँश्च सुराग्रहँश्च गृह्णाति। पुमान्वै सोमः। स्त्री सुरा। तन्मिथुनम्। मिथुनमेवास्य तद्दज्ञे करोति प्रजननाय। आत्मानमेव सोमग्रहैः स्पृणोति। जायाँ सुराग्रहैः। तस्माद्वाजपेययाज्यमुष्मिल्ँ लोके स्रियँ संभवति। वाजपयाभिजितँ ह्यस्य (४)” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ३) इति।
स्पृणोति प्रीणयति। तस्माज्जायाभिमानिदेवतायाः सुराग्रहैस्तोषितत्वा-त्स्वर्गलोके स्वापेक्षितां रम्भादिस्त्रियमनुभवति। तदेतत्सामर्थ्यमस्य युक्तं वाजपेयेन संपादितत्वात्।
वर्गद्वयस्य पूर्वोत्तरकालविशेषं स्थानविशेषं च विधत्ते-
“पूर्वे सोमग्रहा गृह्यन्ते। अपरे सुराग्रहाः। पुरोक्षँ सोमग्रहान्सादयति। पश्चादक्षँ सुराग्रहान्। पापवस्यसस्य विधृत्यै” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ३) इति।
पुरोक्षं शकटस्याधस्तादक्षस्य पुरः। पापं सुराग्रहरूपं निन्दितं कर्म, वस्यसं वसुमत्तरं सोमग्रहरूपं पुण्यं कर्म, तयोर्विधृत्यै विभागेन धारणाय।
व्यतिषङ्गं विधत्ते-
“एष वै यजमानः। यत्सोमः। अन्नँ सिरा। सोमग्रहाँश्च सुराग्रहाँश्च व्यतिषजति। अन्नाद्येनैवैनं व्यातिषजति (५)” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ३) इति।
व्यतिषङ्गप्रकार आपस्तम्बेन दर्शितः — “व्यतिषङ्गं सोमग्रहैः सुराग्रहा-न्गृह्णाति पूर्वोऽध्वर्युर्गृह्णाति जघन्यः प्रतिप्रस्थाता” इति। व्यतिषङ्गं सुरा ग्रहं गृह्णीयात्। ततो द्विताये द्वितीयं, सोऽयं व्यतिषङ्गः।
अध्वर्योरुद्द्रवणस्य विधास्यमानस्य मन्त्रमुत्पाद्य व्याचष्टे-
[[752]]
Page No. ७५२
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — ( १ प्रथमकाण्डे–
(वाजपेयोपयुक्तरथविषयमन्त्राभिधानम्)
“संपृचः स्था सं मा भद्रेण पृङ्क्तेत्याह। अन्नं वै भद्रम्। अन्नाद्यैवैनँ सँसृजति” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ३) इति।
हे सोमग्रहा यूयं संपृचः स्थ संपर्कयोग्याः स्थ। अतो मां भद्रेण श्रेयसाऽन्नेन संपृक्त संयोजयत।
प्रतिप्रस्थातुरुद्द्रवणस्य विधास्यमानस्य करणभूतं मन्त्रमुत्पादयितुं प्रस्तौति-
“अन्नस्य वा एतच्छमलम्। यत्सुरा। पाप्मेव खलु वै शमलम्। पाप्मना वा एनमेतच्छमलेन व्यातिषजति। यत्सोमग्रहाँश्च व्यतिषजति” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ३) इति।
पाप्मेव पापरूपमेव। लोकेवेदनिषिद्धत्वात्।
मन्त्रमुत्पाद्य व्याचष्टे-
“विपृचः स्थ वि पाप्मना पृङ्क्तेत्याह। पाप्मनैवैनँ शमलेन व्यावर्तयति (६) तस्माद्वाजपेययाजी पूतो मेध्यो दक्षिण्यः” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ३) इति।
हे सुराग्रहा यूयं विपृचः स्थ विभागयोग्याः स्थ। अतो मां पाप्मना विपृङ्क्त वियोजयत। तस्मात्पापव्यावृत्तत्वादयं शुद्धो युद्धो यष्टुं दक्षिणां दातुं च योग्यः।
अध्वर्युप्रतिप्रस्थात्रोरुद्द्रावणं विधत्ते-
“प्राङुद्द्रवति सोमग्रहैः। अमुमेव तैर्लोकमभिजयति। प्रत्यङ्सुराग्रहैः। इममेव तैर्लोकमभिजयति” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ३) इति।
तदेतदुद्द्रवणमापस्तम्बः स्पष्टी चकार – “संपृचः स्थ सं मा भद्रेण पृङ्क्तेति प्राङ्ङध्वर्युः सोमग्रहैरुद्द्रवति, विपृचः स्थ वि मा पाप्मना पृङ्क्तेति प्रत्यङ्प्रतिप्र-स्थाता सुराग्रहैराहवनीयं न्यङ्क्ते सोमग्रहैरवतिष्ठन्ते(ते) मार्जालीयं न्यङ्क्ते सुराग्रहैः” इति।
प्रचारं विधत्ते-
“प्रतिष्ठन्ति सोमग्रहैः। यावदेष सत्यम्। तेन सूयते” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ३) इति।
प्रतिष्ठन्ति प्रचरन्ति जुह्वतीत्यर्थः। सत्यमवश्यंभावि फलं तद्यावदस्ति तेन सर्वेणायं यजमानः सूयते प्रेर्यते कृत्स्नं फलमुद्दिश्य सोमग्रहैर्हुतवान्भवती-त्यर्थः।
विधत्ते-
“वाजसृद्भ्यः सुराग्रहान्हरन्ति। अनृतेनैव विशँ सँसृजति” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ३) इति।
[[753]]
Page No. ७५३
प्रपा॰ ७ अनु॰ ७ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(वाजपेयोपयुक्तरथविषयमन्त्राभिधानम्)
वाजसृतोऽन्नस्यार्जयितारो वैश्याः। तेभ्यः सुराग्रहान्सोमरहितान्दद्युः। सुरायाः शमलत्वेनानृतसदृशत्वाद्विशमधमजातिमनृतेनैव संयोजितवान्भवति।
दक्षिणाविशेषं विधत्ते-
“हिरण्यपात्रं मधोः पूर्णं ददाति। मधव्योऽसानीति” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ३) इति।
मधु माक्षिकम्। मध्वादिभोज्यद्रव्ययुक्तो भवानीत्यनेनाभिप्रायेण मधुपूर्णं सुवर्णपात्रं दद्यात्।
तद्दानस्य कृष्णलदानसाहित्यं विधत्ते-
“एकधा ब्रह्मण उपहरति। एकधैव यजमान आयुस्तेजो दधाति (७)” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ३) इति।
कृष्णलसाहित्यं चाऽऽपस्तम्बो दर्शयति — “ कृष्णलं कृष्णलं वाजसृद्भ्यः प्रयच्छति तानि प्रत्यादाय ब्रह्मणे ददाति मधुष्ठालं च सौवर्णं शतमानस्य कृतम्” इति।
ग्रहविधिमनेनानुवाकेन समाप्यानुवाकान्तरेण पशून्विधातुं प्रस्तौति-
“ब्रह्मवादिनो वदन्ति। नाग्निष्टोमो नोक्थ्यः। न षोडशी नातिरात्रः। अथ कस्माद्वाजपेये सर्वे यज्ञक्रतवोऽवरुध्यन्त इति पशुभिरितु ब्रूयात्” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ३) इति।
यज्ञशब्देनोद्देशत्यागरूपाः प्रयाजादयः प्रत्येकमभिधीयन्ते। तत्समूहरूप एव फलसाधनात्मा कर्मविशेषः क्रतुः। वेदावादिनो मिलित्वा परस्परमेवं विचारयन्ति–यज्ञाश्च क्रतवश्च सर्वेऽपि वाजपेयोऽन्तर्भूता इत्यस्ति प्रसिद्धिः। तत्कथमुपपद्यते। तथा हि–प्रयाजादीनां दीक्षणीयादिद्वारा तत्रान्तर्भावेऽप्याग्निष्टोमादीनामनन्तर्भावात्। तेषां ब्रह्मवादिनां मध्ये कश्चिद्बुद्धिमानेवमुत्तरं ब्रूयात्–अग्निष्टोमादिगतैराग्नेयादिसवनीयपशुभिः क्रतवोऽन्तर्भूता इति।
पशून्विधत्ते-
“आग्नेयं पशुमालभते। अग्निष्टोममेव तेनावरुन्धे। ऐन्द्राग्नेनोक्थ्यम् ऐन्द्रेण शोडशिनः स्तोत्रम्। सारस्वत्याऽतिरात्रम् (१) मारुत्या बृहतः स्तोत्रम्। एतावन्तो वै यज्ञक्रतवः। तान्पशुभिरेवावरुन्धे” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ३) इति।
[[754]]
Page No. ७५४
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — ( १ प्रथमकाण्डे
(वाजपेयोपयुक्तरथविषयमन्त्राभिधानम्)
आग्नेयादयोऽग्निष्टोमादीनां व्यावर्तकाः पशवः। षोडशिनो ग्रहस्य स्तोत्रं, तेन स क्रतुरुपलक्ष्यते। सारस्वती मेषी, सा चातिरात्रस्य व्यावृत्तिहेतुः। मारुती वशा, तथाऽनुबन्ध्यया बृहत्सामसंबन्धि स्तोत्रमवरुन्धे, तेन च स्तोत्रेण वाजपेय उपलक्ष्यते, तस्य चासाधारणत्वात्।
तानेतान्पशुविधीन्बौधायन उदाहरति-
“आश्विनं गृहीत्वा षड्रशना आदाय यूपमभ्यैति स्वर्वन्तं यूपमुत्सृज्याथैना-न्पशूनुपाकरोत्याग्नेयमैन्द्राग्नेयमैन्द्राग्नमैन्द्रं मारुतीं वशां सप्तदश प्राजापत्या-ञ्श्यामानेकरूपान्सारस्वतीमन्ततः” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ३) इति।
आपस्तम्बस्त्वाग्नेयादीनां चोदकप्राप्तानामनुवादं मत्वा मेषीमारुत्योर्विधिमुदा-हरति-
“पशुकाले त्रीन्क्रतुपशूनुपाकृत्य मारुतीं वशामुपाकरोति सारस्वतीं च मेषाम्” इति।
आत्मादिप्रीतिहेतुत्वेन भूम्यादिलोकजयहेतुत्वेन तेजःप्रभृतिधारणहेतुत्वेन च क्रतुपशून्प्रशंसति-
“आत्मानमेव स्पृणोत्यग्निष्टोमेन। प्राणापानावुक्थ्येन। वीर्यँ षोडशिनः स्तोत्रेण। वाचमतिरात्रेण। प्रजां बृहतः स्तोत्रेण। इममेव लोकमभिजयत्यग्नि-ष्टोमेन। अन्तरिक्षमुक्थ्येन २। सुवर्गं लोकेँ षोडशिनः स्तोत्रेण। देवयानानेव पथ आरोहत्यतिरात्रेण। नाकँ रोहति बृहतः स्तोत्रेण। तेज एवाऽऽत्मन्धत्त आग्नेयेन पशुना। ओजो बलमैन्द्राग्नेन। इन्द्रियमैन्द्रेण। वाचँ सारस्वत्या। उभावेव देवलोकं चाभिजयति मारुत्य वशया” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ४) इति।
अत्राग्निष्टोमेनेत्यादिशब्दैस्तन्निष्पादका आग्नेयादिपशवो विवक्षिताः पशुविधेः प्रस्तुतत्वात्, आग्नेयेन पशूनेत्यन्तिमपर्याय (ये) विधानाच्च।
विधत्ते-
“सप्तदश प्राजापत्यान्पशूनालभते। सप्तदशः प्रजापतिः ३ प्रजापतेराप्त्यै” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ४) इति।
तेषु पशुषु गुणद्वयं वाक्यभेदमङ्गीकृत्य विधत्ते-
“श्यामा एकरूपा भवन्ति। एवमिव हि प्रजापतिः समृद्ध्यै” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ४) इति।
[[755]]
Page No. ७५५
प्रपा॰ ७ अनु॰ ७ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(वाजपेयोपयुक्तरथविषयमन्त्राभिधानम्)
पशूनामेकरूपत्वं नामैकविधशृङ्गपुच्छादिभिर्युक्तत्वम्। प्रजापतिशब्देनात्रेश्व-रस्य हिरण्यगर्भशरीराद्यभिव्यक्तेः प्रागवस्था विवक्ष्यते। सा चावस्था श्यामेव भवति। “तम आसीत्तमसा गूढम्” इति श्रुतेः। जगद्रूपस्य नानात्वस्यानुत्प-त्तेरेकरूपत्वम्, “एकमेवाद्वितीयम्” इति श्रुतेः। पशूनां जगदीश्वरेण साम्ये सति समृद्धिर्भवति।
प्रकृतिभूतेऽग्नीषोमीये पशौ पर्यग्निकरणादूर्ध्वमविलम्बेनाऽऽलम्भस्य विहितत्वादत्रापि चोदकपरम्परया तत्प्राप्तौ सहसाऽऽलम्भनं निषेधति –
“तान्पर्यग्निकृतानुत्सृजति” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ४) इति।
तदानीं नाऽऽलभेतेत्यर्थः।
आलम्भस्य व्यवधाने कारणमाह-
“मरुतो यज्ञमजिघाँसन्प्रजापतेः। तेभ्य एतां मारुतीं वशामालभत। तयैवैनानशमयत्” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ४) इति।
सप्तदशप्रजापतिरूपो यः प्रजापतेर्यज्ञस्तं यज्ञं मरुतः पर्यग्निकरणादूर्ध्वं हन्तुमुद्यताः। तदानीमुत्कोचरूपेण प्रजापतिर्मरुद्भ्यो वशामालभत, क्रुद्धान्मरुतस्तया वशया शमितवान्।
प्राजापत्यानां संज्ञपनकालं विधत्ते-
“मारुत्या प्रचर्य। एतान्त्संज्ञपयेत्। मरुत एव शमयित्वा (४) एतैः प्रचरति। यज्ञस्याघाताय” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ४) इति।
प्रचर्य मारुत्या वशाया वपां हुत्वेत्यर्थः।
सप्तदशानां वपानां सह प्रचारं विदधाति-
“एकधा वपां जुहोति। एकदेवत्या हि। एते। अथो एकधैव यजमाने वीर्यं दधाति” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ४) इति।
विधत्ते-
“नैवारेण सप्तदशशरावेणैतर्हि प्रचरति। एतत्पुरोडाशा ह्येते। अथो पशूनामेव छिद्रमपिदधाति” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ४) इति।
नीवारैर्निष्पन्नश्चरुर्नैवारः, सप्तदसंख्यातैः शरावैर्निरुप्तः सप्तशशरावः, तेनैव चरुणैतर्हि प्राजापत्यवपाहोमादूर्ध्वं प्रचरेत्। एष एव चरुः पशुपुरोडाश तेनैव चरुणैतर्हि प्राजापत्यवपाहोमादूर्ध्वं प्रचरेत्। एष एव चरुः पशुपुरोडाश-
[[756]]
Page No. ७५६
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — ( १ प्रथमकाण्डे-
(वाजपेयोपयुक्तरथविषयमन्त्राभिधानम्)
स्थानीयो येषां प्राजापत्यपशूनां त एतत्पुरोडाशा अतः प्रकृतौ यथा वपया प्रचर्य पुरोडाशेन प्रचरति तद्वदत्रापि। किंच वपोत्खेदात्पशूनां यच्छिद्रं कर्मवैकल्यं भवति तदेतेन चरुणाऽपिहितं भवति।
सारस्वत्या मेष्याऽङ्गप्रचरस्य कालविशेषं विधत्ते-
“सारस्वत्योत्तमया प्रचरति। वाग्वै सरस्वती। तस्मात्प्राणानां वागुत्तमा। अथो प्रजापतावेव यज्ञं प्रतिष्ठापयति। प्रजापतिर्हि वाक्” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ४) इति।
सारस्वती यथोत्तमा चरमा भवति तथा प्रचरेत्। सप्तदशपश्वङ्गप्रचारादूर्ध्वं प्रचरेदित्यर्थः। यस्मात्सारस्वत्या उत्तमत्वं तस्माल्लोकेऽपि सरस्वतीरूपा वाक्प्राणानां चक्षुःश्रोत्रादीनां मध्य उत्तमा, सभामध्ये विद्वदमात्यादेर्वाग्ग्मिनः प्रागल्भ्यदर्शनात्। किंच प्रजापतेः सरस्वतीपतित्वात्तदभेदोपचारेण वाग्रूपत्वे सति सारस्वत्या समापनेन प्रजापतावेव यज्ञः समापितो भवति।
सारत्वत्या मेष्याः कंचिद्गुणं विधत्ते।
“अपन्नदती भवति। तस्मान्मनुष्याः सर्वा वाचं वदन्ति (५)” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ४) इति।
अपतितदन्तोपेता मेषी कार्या। लोकेऽप्यपतितदन्ताः पुरुषाः सर्वाण्यक्षराणि यथोक्तस्थानप्रयत्नोपेतान्येवोच्चारयन्ति।
देव सवितरिति। तदेवं ब्राह्मणगतेनानुवाकत्रयेण वाजपेयगता विधयो निरूपिताः। अथ मन्त्रव्याख्यानरूपान्ब्राह्मणानुवाकांस्तत्तन्मन्त्रैः सहैवोदाह-रामः।
तत्र प्रथमन्त्रस्य विनियोगं बौधायन आह – “दीक्षणीयां निर्वप्स्यन्सावित्रं जुहोति देव सवितः प्र सुव यज्ञं प्र सुव यज्ञपतिं भगाय दिव्यो गन्धर्वः। केतपूः केतं नः पुनातु वाचस्ततिर्वाचमद्य स्वदाति नः स्वाहेति, दीक्षाहुतीर्होष्यन्सावित्रं जुहोति, प्रायणीयां निर्वप्स्यन्सावित्रं जुहोति” इति।
हे सवितर्देव प्रेरकान्तर्यमिन्नस्मदीयं वाजपेययज्ञं प्रवर्तय। यज्ञपतिं यजमानं, भगायानुष्ठानरूपायैश्वर्याय। दिवि भवो यो गन्धर्वः सवितुरनुग्रहात्केतान्पुनाति प्राणिनां विज्ञानानि शोधयति सोऽस्माकं केतं वाजपेयविज्ञानं पुनातु शोधयेत्। वाचस्पतिश्च सवित्राऽनुज्ञातोऽद्यास्मिकर्मणि वाचमस्माभिः पठितान्वाजपेयमन्त्रान्स्वदाति स्वदयतु यथावत्पाठयतु।
[[757]]
Page No. ७५७
प्रपा॰ ७ अनु॰ ७ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(वाजपेयोपयुक्तरथविषयमन्त्राभिधानम्)
अनेन मन्त्रेण होमं विधत्ते-
“सावित्रं जुहोति कर्मणः कर्मणः पुरस्तात्” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ५ ) इति।
तदेतद्बौधायनेनैवोदाहृतम्।
तत्तत्कर्मादौ होममुपपायति-
“कस्तद्वेदेत्याहुः। यद्वाजपेयस्य पूर्वं यदपरमिति। सवितृप्रसूत एव यथापूर्वं कर्माणि करोति” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ५) इति।
बद्धक्रमैरङ्गैश्चोदकप्राप्तैः प्रत्यक्षविहितैश्चोपेतस्य वाजपेयस्य यदङ्गं पूर्वभावि यच्च पश्चाद्भावि तन्मनुष्यः को वेदेति बुद्धिमन्त आहुः। सावित्रहोमे तु कृते सवित्रा प्रेरित एव सन्क्रममनुल्लङ्घ्य कृतवान्भवति।
प्रतिकर्म तमेतं होमं कर्तुमशक्तं प्रति पक्षान्तरं विधत्ते-
“सवने सवने जुहोति। आक्रमणमेव तत्सेतुं यजमानः कुरुते। सुवर्गस्य लोकस्य समष्ट्यै” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ५) इति।
उक्तेन त्रयाणां सवनानामादौ होमेन स्वर्गं प्राप्तुं सेतुस्थानीयमाक्रमणं कृतवान्भवति।
अस्य मन्त्रस्य चतुर्थपादे स्वदनस्यान्नविषयस्य वाग्विषयत्वमनुपयुक्तमिति शङ्कां निराकर्तुं व्याचष्टे-
“वाचस्पतिर्वाचमद्य स्वदाति न इत्याह। वाग्वै देवानां पुराऽन्नमासीत्। वाचमेवास्मा अन्नँ स्वदयति (१)” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ५) इति।
स्तुत्या देवैस्तृ(वानां तृ)प्तत्वाद्वाचो देवान्नत्वम्।
इन्द्रस्येति। कल्पः — “रथ एष दक्षिणे श्रोण्यन्ते रथवाहन आहितो भवति तमुपसादयतीन्द्रस्य वज्रोऽसि वार्त्रघ्नस्त्वयाऽयं वृत्रं वध्यादिति” इति।
वार्त्रघ्नो वैरिघाती योऽयमिन्द्रस्य वज्रः, हे रथ स एव त्वमसि। त्वया सहकारिणा सहितोऽयं यजमानो वृत्रं वैरिणं वध्यात्।
रथवाहने काष्ठविशेषे स्थापिते गमनाय सज्जीकर्तुं तस्य रथस्य तस्मात्का-ष्ठादवरोहणं विधत्ते-
“इन्द्रस्य वज्रोऽसि वार्त्रघ्न इति रथमुपावहरति विजित्यै” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ५) इति।
[[758]]
Page No. ७५८
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — ( १ प्रथमकाण्डे
(वाजपेयोपयुक्तरथविषयमन्त्राभिधानम्)
वाजस्येति। कल्पः — “अथैनं धर्मगृहीतमन्तर्वेद्यभ्यावर्तयन्ति वाजस्य नु प्रसवे मातरं महीमदितिं नाम वचसा करामहे। यस्यामिदं विश्वं भुवनमाविवेश तस्यां नो देवः सविता धर्म साविषदिति” इति।
दक्षिणवेदिश्रोण्यन्ते रथवाहनादवरोपितं रथं सौमिकवेदिमध्ये प्रदक्षिण्ये-वाऽऽनयेदित्यर्थः। वाजस्य नु अन्नस्यैव प्रसव उत्पत्तिनिमित्तं मातरमन्नस्य निर्मात्रीं महीं वेदिरूपां पृथिवीमदितिं नामाखण्डनीयामेव वचसा स्तुत्या करामहे कुर्मः। यस्यां पृथिव्यामिदं सर्वं भूतजातं प्रविश्यावतिष्ठते तस्यां पृथिव्यां नोऽस्माकं धर्म धारणं सविता देवः साविषदनुजानातु।
अनेन मन्त्रपाठेन भूमिं तदाश्रितं जगच्च स्वाधीनत्वेन संपादयतीत्येवं व्याचष्टे-
“वाजस्य नु प्रसवे मातरं महीमित्याह। यच्चैवेयम्। यच्चास्यामधि। तदेवावरुन्धे। अथो तस्मिन्नेवोभयेऽभिषिच्यते” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ५) इति।
न केवलं तयोः स्वाधीनत्वं किंत्वेतस्मिन्नुभयस्मिन्भूभ्यां तदाश्रितजने च राजत्वेनाभिषिक्तो भवति।
अप्स्वन्तरिति। कल्पः — “अथाश्वान्पल्पूलयति अप्स्वन्तरमृतमप्सु भेषज-मपामुत प्रशस्तिष्वश्वा भवथ वाजिन इति” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ५) इति।
पल्पूलयति जले प्लावयति शरीरं प्रक्षालयतीत्यर्थः। अप्सु मध्येऽपमृत्युनि-वारकं रोगनिवारकं च सारं वर्तते। हे वाजिनोऽन्नवन्तोऽश्वा अपां संबन्धि-नीषूत प्रशस्तिष्वमृतत्वभेषजत्वसदृशीष्वन्यास्वपि गुणवत्त्वप्रशंसासु यूयं संबद्धा भवथ।
विधत्ते-
“अप्स्वन्तरमृतमप्सु भेषजमित्यश्वान्पल्पूलयति। अप्सु वा अश्वस्य तृतीयं प्रविष्टम्। तदनु वेनन्न्ववप्लवते। यदप्सु पल्पूलयति (२) यदेवास्याप्सु प्रविष्टम्। तदेवावरुन्धे” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ५) इति।
स्नपयितुं प्रवेशितोऽप्यश्वः स्वेच्छया क्रीडञ्जलस्योपरि प्लवते तत्रेदमुत्प्रेक्षते -अप्सुयोनिर्वा अश्व इति श्रुतेरश्वजन्मकाले गर्भसंबन्धि तृतीयमंशजातं ज-लेऽवस्थितं भवति, यथा मनुष्यगर्भे तद्वत्। अत एव हि मनुष्या नवप्रसूताया योषितो गर्भस्थानं समाधातुं बहुभिरौषधैश्चिकित्सां कुर्वन्ति। एवं च सत्ययम-प्यश्वस्तदंशजातमनु वेनन्नु कामयमानो नु प्रायेणावप्लवते, यथा विनष्टद्रव्यमन्वि-
[[759]]
Page No. ७५९
प्रपा॰ ७ अनु॰ ७ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(वाजपेयोपयुक्तरथविषयमन्त्राभिधानम्)
च्छन्पुरुषो जले पुनः पुनर्मज्जन्नुत्तिष्ठति तद्वत्। एवं च सत्यध्वर्युः प्लावयतीति यत्तेनाप्सु प्रविष्टमश्वावयवजातं तत्सर्वं संपादितवान्भवति।
प्रकारान्तेण प्लावनविधिं स्तौति-
“बहु वा अश्वोऽमेध्यमुपगच्छति। यदप्सु पल्पूलयति। मेध्यानेवैनान्करोति” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ५) इति।
अश्वः खलु पृथिव्यां यत्र क्वाप्यशुचिप्रदेशे विपरिवर्तमानो बहुविधममेध्य-मयज्ञार्हमुच्छिष्ठादिकमुपगच्छति। अतोऽध्वर्युः प्रक्षालनेनाश्वान्यज्ञयोग्यानेव करोति।
वायुर्वेति कल्पः — “अथ दक्षिणं योग्यं युनक्ति वायुर्वा त्वा मनुर्वा त्वा गन्धर्वाः सप्तविँशतिः। ते अग्ने अश्वमायुञ्जन्ते अस्मिञ्जवमादधुरिति” इति।
योग्यं रथे योक्तुमर्हमश्वं वायुश्च मनुश्च पञ्चविंशतिसंख्याका गन्धर्वाश्चेति मिलित्वा सप्तविंशतिसंख्याका ये पुरुषास्ते सर्वेऽग्रेऽस्मत्तः पूर्वं रथे संयोजि-तवन्तः। ते पुनः सर्वे पृष्ठसंमार्जनाद्युपचारेणास्मिन्नश्वे वेगं संपादितवन्तः। वायुस्त्वामयोजयन्मनुस्त्वामयोजयदिति पृथग्वाक्यकरणं तयोर्मुख्यत्वज्ञाप-नार्थम्। अहं युनज्मीत्यभिप्रायः।
अहं युनज्मीति पाठं परित्यज्य वायुर्वा त्वेति पाठस्याभिप्रायमाह-
“वायुर्वा त्वा मनुर्वा त्वेत्याह। एता वा एतं देवता अग्ने अस्वमयुञ्जन्। ताभिरेवैनान्युनक्ति। सवस्योज्जित्यै” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ५) इति।
योजयितॄणां देवानामनुग्रहाद्यज्ञस्योत्कर्षेण जयो भवति।
विधत्ते-
“यजुषा युनक्ति व्यावृत्त्यै ३” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ५) इति।
अनुष्टुप्छन्दस्त्वादृग्रूपोऽपि वायुर्वा त्वेति मन्त्रो यजुर्वेदपठितत्वाद्यजुरि-त्युपचर्यते। लौकिके रथे मन्त्रमन्तरेणाश्वयोजनादत्र समन्त्रकत्वेन व्यावृत्तिर्भवति।
अपां नपादिति। कल्पः — “ अथास्य पृष्ठं मर्मृज्यते–अपां नपादाशुहेमन्य ऊर्मिः ककुद्मान्प्रतूर्तिर्वाजसातमस्तेनायं वाजँ सेदिति” इति।
मर्मृज्यते पुनः पुनः संमर्ष्टि। हेऽपां नपात्प्लवनकाले जलस्य कालुष्याना-पादनादविनाशयितः, आशुहेमंस्तीव्रगन्तः, तादृश हेऽश्व जले य ऊर्मिः ककुद्मान्ककुदिवोन्नतःप्रतूर्तिर्निमज्जनेन प्रसक्तस्योपद्रवस्य प्रकर्षेण हिंसको वाजसातमः सस्योपकारित्वेनातिशयेनान्नप्रदस्तेन त(त्व)त्पृष्ठलग्नेनोर्मि-णाऽस्माकं वाजमन्नं सेत्साधय।
[[760]]
Page No. ७६०
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — ( १ प्रथमकाण्डे
(वाजपेयोपयुक्तरथविषयमन्त्राभिधानम्)
विधत्ते-
“अपां नपादाशुहेमन्निति संमार्ष्टि। मेध्यानेवैनान्करोति। अथो स्तौत्येवै-नानाजिँ सरिष्यातः” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ३) इति।
पृष्ठसंमार्जनेन शोधितत्वाद्यागयोग्यत्वम्। किंच धावनार्थायाः सप्तदशश-रपातपरिमिताया भूमेरवधिराजिस्तं प्रति सरिष्यन्ति गमिष्यन्ति, तान्गमिष्य-तोऽश्वान्पृष्ठसंमार्जनरूपेणोपलालनेन स्तौत्येव प्रोत्साहयत्येव।
विष्णोः क्रम इति। कल्पः — “अथ रथमभिप्रैति विष्णोः क्रमोऽसि विष्णोः क्रान्तमसि विष्णोर्विक्रान्तमसीति” इति।
तदेतद्यजमानकर्म।
तथा चाऽऽपस्तम्बः — “विष्णोः क्रमोऽसीति रथं यजमानोऽभ्यैति” इति।
यजमानस्य मम हे प्रथमप्रक्रम त्वं विष्णोर्व्यापनशीलस्य जगदीश्वरस्य त्रिविक्रमावतारस्य क्रमोऽसि प्रथमपदप्रक्षेपेण जितो भूलोकोऽसि। हे द्वितीयप्रक्रम त्वं क्रान्तं विष्णोर्द्वितीयपदप्रक्षेपेण जितमन्तरिक्षमसि। हे तृतीयप्रक्रम त्वं विक्रान्तं विष्णोः पराक्रमेण जितं त्रिविष्टमपसि।
विधत्ते-
‘विष्णुक्रमान्क्रमते। विष्णुरेव भूत्वेमाल्ँ लोकानभिजयति’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ५) इति।
कल्पः — ‘अथ रथस्य पक्षसी संमृशत्यङ्ककावभितो रथं याविति’ इति। पक्षसी पार्श्वौ।
पाठस्तु-
अङ्कौ न्यङ्काविति। रथमभितो यावङ्कौ लक्षणभूतौ पार्श्वविशेषौ, न्यङ्कौ नितरां लक्षणभूतौ चक्रविशेषौ। अत एवाऽऽपस्तम्ब आह- ‘अङ्कौ न्यङ्काविति। रथचक्रे अभिमृशति पक्षसी वा’ इति। ध्वान्तं ध्वन्युपेतं, वाताग्रं वायोरपि पुरोदेशं शीघ्रतया वायुमप्यतिलङ्घ्यानुक्रमेण संचरन्तौ, तादृग्भ्यामुभाभ्यामग्नयो नोऽस्मान्पारयन्तु धावनावधिं पारयन्तु। कीदृशा अग्नयः। पप्रयोऽपेक्षितमर्थं पूरयितारः। येऽग्नयो दुरेहेतिरित्यादिनामोपेतास्ते।
एतन्मन्त्रगतमग्निपदं रथावस्थितदेवतापरत्वेन व्याचष्टे-
[[761]]
Page No. ७६१
प्रपा॰ ७ अनु॰ ७ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(वाजपेयोपयुक्तरथविषयमन्त्राभिधानम्)
‘वैश्वदेवो वै रथः। अङ्कौ न्यङ्कावभितो रथं यावित्याह। या एव देवता रथे प्रविष्टाः। ताभ्य एव नमस्करोति। आत्मनोऽनार्त्यै’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ५) इति।
दूरेहेतिरित्यादिनामका अग्नेयोऽत्र विश्वे देवाः। तद्वाहनरूपोऽयं रथः। पारयन्त्विति प्रार्थनैव नमस्कारस्तेन नमस्कारेण तदीयं रथमारूढस्यापि स्वस्याऽऽर्तिर्न भवति।
वेदनं प्रशंसति-
‘अशमरथंभावुकोऽस्य रथो भवति। य एवं वेद (४)’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ५) इति।
शमयुक्तो रथः शमरथो मन्दगतिः। अशमरथः शीघ्रगती रथः तच्छीलोऽस्य वेदितू रथो भवति।
अत्र विनियोसंग्रहः —
“देवहोमोऽत्र कर्मादाविन्द्रस्य रथमाहरेत्।
याजस्य वेदिध्ये तमभ्यावर्तयते रथम्॥१॥
अप्स्वश्वान्प्लावयेद्वायुर्युनक्ति तुरगं रथे।
अपां तदश्वपृष्ठानि मार्ष्टि विष्णो रथं व्रजेत्॥
अङ्कौ रथे मृशेत्पक्षावष्टौ मन्त्रा इहोदिताः॥२॥” इति।
अथ मीमांसा।
प्रथमाध्यायस्य चतुर्थपादे चिन्तितम्-
“यजेत वाजपेयेन स्वाराज्यर्थीत्यसौ गुणः।
नाम वा गुणता तन्त्रयोगाद्गुणफलद्वये॥
साधारणयजेः कर्मकरणत्वेन तन्त्रता।
त्रिकद्वयं विरुद्धं स्यात्तन्त्रतायां फलं प्रति॥
उपादानविधेयत्वगुणत्वाख्यत्रिकं यजेः।
उद्देशानूक्तिमुख्यत्वत्रिकं तस्य गुणं प्रति॥
त्यक्त्वा तन्त्रं तदावृत्तौ वाक्यं भिद्येत तेन सः।
वाजपेयेतिशब्दोऽपि कर्मनामाग्निहोत्रवत्॥”
[[762]]
Page No. ७६२
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — ( १ प्रथमकाण्डे–
(वाजपेयोपयुक्तरथविषयमन्त्राभिधानम् )
‘वाजपेयेन स्वाराज्यकामो यजेत’ इत्यत्र वाजपेयशब्देन गुणो विधीयते। अन्नवाची वाजशब्दः। तच्चान्नं पेयं सुराद्रव्यं तच्चात्र गुणः। सुराग्रहाणामनुष्ठे-यत्वात्। ननु गुणत्वे वाजपेयद्रव्यवता यागेन स्वाराज्यं भावयेदित्येवं मत्वर्थलक्षणा प्रसज्येत। मैवम्। सकृदुच्चरितस्य यजेतेत्याख्यातस्य वाजपे-यगुणे स्वाराज्यफले च तन्त्रेण संबन्धाङ्गीकारात्। वाजपेयद्रव्येण स्वारा-ज्याय यजेतेत्येवमुभयसंबन्धः। ननु गुणसंबन्धे सति वाजपेयेन गुणेन यागं कुर्यादिति यजेः कर्मकारकत्वं भवति, फलसंबन्धे तु यागेन स्वाराज्यं संपाद-येदिति करणकारकत्वं, ततः कथमुभयसंबन्ध इति चेन्नायं दोषः। यजेः साधारणत्वेन द्विरूपत्वसंभवात्। यजेतेत्यत्र प्रकृत्या याग उक्तः, प्रत्ययेन भावनोक्ता, तयोस्तु समभिव्याहारात्संबन्धमात्रं गम्यते। तच्च कर्मत्वकरण-त्वयोः साधारणम्। न खलु तत्र कर्मत्वस्यैव करणत्वस्यैव वा साक्षादभिधा-यिका काचिदसाधारणा विभक्तिः श्रूयते। अतः साधारणस्य यजेरुभाभ्यां गुणफलाभ्यां युगपत्संबन्धे सति यथोचितं संबन्धविशेषः पर्यवस्यति। एवं तन्त्रेण संबन्धाङ्गीकरणे वाजपेयद्रव्येण यागं कुर्यादित्यस्यार्थस्य लभ्यमान-त्वाद्गुणविधित्वेऽपि नास्ति मत्वर्थलक्षणा। यद्युद्भिदादिष्वप्येवं गुणविधिः स्यात्तर्हि तान्यपि वाक्यान्यत्रोदाहृत्य तदीयः सिद्धान्तः पुनराक्षिप्यतामिति प्राप्ते ब्रूमः — यजेस्तन्त्रेणोभयसंबन्धे सति विरुद्धत्रिकद्वयापत्तिः स्यात्। उपादेयत्वं विधेयत्वं गुणत्वं चेत्येकं त्रिकम्, उद्देश्यत्वमनुवाद्यत्वं मुख्यत्वं चेत्यपरं त्रिकम्। तत्रोद्देश्यत्वादयः स्वाराज्यफलनिष्ठा धर्मा उपादेयत्वादयस्त्रयः साधनभूतयजिनिष्ठाः। फलमुद्दिश्य यजिरुपादीयते, फलमनूद्य यजिर्विधीयते। फलं प्रधानं यजिरुपसर्जनम्। फलस्योद्देश्यत्वं नाम मानसापेक्षाविषयत्वाकारो यजेरुपादेयत्वं नामानुष्ठीयमानत्वाकारः, तावुभौ मनःशरीरोपाधिकौ धर्मौ। अनुवाद्यत्वविधेयत्वधर्मौ तु शब्दोपाधिकौ। ज्ञातस्य कथनमनुवादः। अज्ञातस्यानुष्ठेयस्य कथनं विधिः। फलयागयोः साध्यसाधनरूपतया प्रधानत्वोपसर्जनत्वे। एवं सति फलतत्साधनयोः स्वाराज्ययागयोः स्वभावपर्यालोचनायां फलस्योद्देश्यत्वादित्रिकं यागस्योपादेयत्वादित्रिकं व्यवतिष्ठते। तथा यागस्य वाजपेयद्रव्यस्य च साध्यसाधनभावपर्यालोचनायां यागस्योद्देश्यत्वादित्रिकं द्रव्यस्योपादेयत्वादित्रिकं पर्यवस्यति। ततो यागस्य फलद्रव्याभ्यामुभाभ्यां प्रतियोगिभ्यां युगपत्संबन्धे सति विरुद्धत्रिकद्वयमापद्येत। ननु तर्हि मा भूत्तन्त्रणोभय
[[763]]
Page No. ७६३
प्रपा॰ ७ अनु॰ ७ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(वाजपेयोपयुक्तरथविषयमन्त्राभिधानम्)
संबन्धः पृथक्संबन्धाय यजिरावर्त्यतामिति चेन्न। वाक्यभेदप्रसङ्गात्। द्रव्येण यागं कुर्यादित्येकं वाक्यम्, यागेन फलं कुर्यादित्यपरम्। तस्माद्वाजपेयशब्दो न गुणविधायकः, किंतु यथोक्तं द्रव्यं निमित्तीकृत्याग्निहोत्रशब्दवत्कर्मनाम-धेयम्।
द्वितीयाध्यायस्य द्वितीयपादे चिन्तितम् —
“आहुतीस्तिस्र इत्यत्र कर्मैक्यमुत भिन्नता।
एकत्वं सकृदाख्यानात्संख्यावृत्त्या प्रयाजवत्।
आख्यातमात्रं नो मानं संख्यया बहुकर्मता।
आवृत्त्यैकादशत्वं तु प्रयाजे गत्यभावतः॥
पशून्सप्तदश प्राजापत्यानित्यत्र भष्यकृत्।
विचारमाह पूर्वत्र क्रियात्रित्वस्फुटत्वतः॥
बहुत्वोपेतपशुभिर्देवयोगादभिन्नता।
रूपस्य तेन कर्मैक्यं संख्या नात्र क्रियागता।
देवतासंगतस्यैव तद्धितार्थस्य पश्चिमः।
बहुत्वसंगमो रूपसंख्ययाऽतः क्रियाभिदा” ॥
तिस्र आहुतीर्जुहोतीति श्रूयते। तत्र जुहोतीत्येतदाख्यातं समिधो यजती-त्यादिवन्नाभ्यस्तं, किंतु सकृदेवाऽऽम्नातम्। तत एकमिदं कर्म त्रित्वसंख्या तु तस्यैव कर्मण आवृत्त्या नेतव्या। यथा प्रयाजेष्वेकादशत्वसंख्या पञ्चानामेव प्रयाजानामावृत्त्या नीता तद्वदिति प्राप्ते ब्रूमः — किमिदमाख्यातं पदान्तरनिर-पेक्षमेव कर्मैक्ये प्रमाणम्, उत पदान्तरान्वितम्। नाऽऽद्यः। वाक्यांशस्य पदमात्रस्य प्रमितिजनकत्वाभावात्। द्वितीये त्रित्वसंख्यया विशेषितेनाऽऽ-ख्यातेन कर्मबहुत्वं गम्यते। प्रयाजानां तु पूर्वमेव संख्यावरुद्धत्वादावृत्तिम-न्तरेणैकादशत्वं दुःसंपादम्। इह त्वेतद्विधितः पूर्वं कर्मण एकत्वसंख्यावरोधो नास्तीति वैषम्यम्। तदेतद्वृत्तिकारोदाहरणं भाष्यकारो नानुमन्यते। कर्मवाचिन आहुतिशब्दस्य विशेषणेन त्रिशब्देन कर्मबहुत्वस्य स्फुटतया पूर्वपक्षानुत्थानात्। इदं त्वत्रोदाजहार – सप्तदश प्राजापत्यान्पशूनालभत इति। अत्र प्रजापतिर्देवता येषां पशूनां ते प्राजापत्या इति तद्धितव्युत्पत्तौ बहुत्वोपेताः पशव एकं द्रव्यम्। ततो द्रव्यैक्याद्देवतैक्याच्च यागस्य रूपमभिन्नमित्येकमिदं कर्म। या तु सप्तदशेति संख्या सा
[[764]]
Page No. ७६४
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — ( १ प्रथमकाण्डे
(वाजपेयोपयुक्तरथविषयमन्त्राभिधानम् )
पशुद्रव्यगता, न तु पूर्वोदाहृतत्रित्वसंख्येव क्रियागता। तस्मान्न कर्मभेदमा-पादयतीति प्राप्ते ब्रूमः — अत्र प्रजापतिर्देवता यस्य पशोः स प्राजापत्य इति तद्धितान्तं प्रातिपदिकं व्युत्पाद्य पश्चात्तद्धिजातान्तप्रातिपदिकार्थस्य प्रजापति-देवताविशिष्टपशोः कर्मत्ववहुत्वविवक्षायामुत्पन्नो इमे द्वितीयाविभक्तिबहु-वचने। तत्र प्रथमभाविन्या द्वितीयाविभक्तेरेव तावत्तद्धितोत्पत्तिवेलायामन्वयो नास्ति, कुतः पश्चाद्भाविनो बहुवचनस्यान्वयः। एवं सति प्राजापत्येत्यनेन तद्धितान्तप्रातिपदिकेनैकपशुद्रव्यकमेकदेवतोपेतं यादस्य रूपं समर्थ्यते। तादृशानां च रूपाणां बहुत्वाय बहुवचनम्। बहुत्वविशेषश्च सप्तदशेति निर्दिश्यते। तस्मादत्र संख्यया कर्मभेदः। एवं च सत्यष्टमे वक्ष्यमाणं सप्तदशपशूनामैकादशिनपशुगणविकृतित्वमुपपद्यते।
पञ्चमाध्यायस्य प्रथमपादे चिन्तितम् —
“उपाकृतानां किं सप्तदशानां यूपबन्धने।
क्रमो नास्त्यस्ति वा नियामकविवर्जनात्॥
आद्यसंस्कृत्यनुष्ठानं यत्क्रमेण स एव हि।
क्रमोऽन्यत्र प्रवृत्तिस्तु क्रमस्यात्र नियामिका॥
वाजपेये ‘सप्तदश प्राजापत्यान्पशूनालभते’ इति विहितानां पशूनामुपाक-रणनियोजनादयः संस्काराः कर्तव्याः। तत्रेदृशे पशावुपक्रम ईदृशे च समाप्ति-रिति नियमकारिणः शास्त्रस्याभावादैच्छिकेन क्रमेणोपाकरणरूपः प्रथमः संस्कारोऽनुष्ठितः। उपाकृतानां यूपे नियोजनं संस्कारान्तरं कर्तव्यम्। तदानी-मीदृशः पशूः प्रथमं नियोक्तव्य इति क्रमनियमकारिणां श्रुत्यर्थपाठानामभावा-न्नास्ति क्रमनियम इति चेन्मैवम्। उपाकरणे यः क्रमः स्वीकृतस्तस्यैव नियो-जनादिसंस्कारेषु स्वीकर्तव्यत्वात्। श्रुत्यर्थपाठा इव प्रथमप्रवृत्तिरपि क्रमं निय-न्तुमर्हति। प्रवृत्त्या बुद्धिस्थस्य क्रमस्य त्यागकारणाभावात्। प्रावृत्तिकक्रम-स्वीकारे प्रथमपशावुपाकरणनियोजनयोः प्रथमद्वितीयसंस्कारयोर्मध्ये पश्वन्त-रेष्वनुष्ठितैः षोडशभिरेवोपाकरणपदार्थैर्व्यवधानं भवति। तच्च व्यवधानं सप्त-दशेतिविधिबलादभ्यनुज्ञातम्। प्रावृत्तिकं क्रमं परित्यज्य पश्वन्तराणां पूर्वं नियोजनं कृत्वा पश्चात्प्रथमपशोर्यदि नियोजनं क्रियेत तदा द्वात्रिंशद्भिः पदार्थैर्व्यवधानं स्यात्। तत्तु नाभ्यनुज्ञातम्। तस्मात्प्रवृत्त्या क्रमो नियम्यते।
तत्रैव द्वितीयपादे चिन्तितम्-
[[765]]
Page No. ७६५
प्रपा॰ ७ अनु॰ ७ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(वाजपेयोपयुक्तरथविषयमन्त्राभिधानम् )
“वाजपेये किमेकैकपशोः सर्वसमापनम्।
सर्वेषु वैकैकधर्मा आद्यः साहित्यसिद्धये॥
वचनात्पशुसाहित्यं प्रयोगोक्त्या तु कल्प्यते।
धर्मसाहित्यमेतच्च सिद्धान्तेऽपि न हीयते॥”
वाजपेये सप्तदशसु प्राजापत्येषु पशुष्वेकैकस्मिन्पशावपाकरणानियोजनादि-संस्काराः सर्वे समापनीयाः। तथा सति साङ्गं प्रधानं कर्तव्यमिति प्रयोगवच-नेनावगतं धर्माणां साहित्यं प्रसिध्यति। चोदकोऽपि धर्मसाहित्यं प्रापयति। प्रकृतावुपाकरणनियोजनादीनां साहित्यदर्शनात्। तस्मादत्र काण्डानुसमयो न तु पदार्थानुसमय इति प्राप्ते ब्रूमः — सप्तवश प्राजापत्यान्पशूनालभत इति वचनात्पशुसाहित्यमवगतं, तच्च प्रबलं, प्रत्यक्षेण पशूनित्यनेनैकशब्देन प्रापि-तत्वात्। धर्मसाहित्यं तु न प्रत्यक्षशब्देन प्रापितं, किंतु प्रयोगवचनेन परि-कल्प्यते। यदैकस्मिन्प्रयोगे धर्मसाहित्यं न स्यात्तदा कतिपयधर्मवैकल्येन सा-ङ्गप्रधानानुष्ठानविधिर्नोपपद्येतेत्यर्थापत्तेश्चोदकेनापि विकृतौ धर्मसाहित्यवचन-मनुष्ठीयते। तदुभयं प्रत्यक्षात्पशुसाहित्यवचानाद्दुर्बलम्। तस्माद्वैश्वदेवीं कृत्वा प्रजापत्यैश्चरन्तीत्यनेन प्रत्यक्षवचनेनावगतं पशुसाहित्यमबाधितुं सर्वेषु पशुष्वेकैक उपाकरणादिधर्मः कर्तव्य इत्येवं पदार्थानुसमयोऽभ्युपेतव्यो न तु काण्डानुसमयः। अस्मिन्नपि पक्षे प्रयोगवचनचोदकाभ्यामवगतं धर्मसाहित्यं न विरुध्यते। एकस्मिन्नेव प्रयोगे कृत्स्नधर्माणामनुष्ठितत्वात्।
दशमाध्यायस्य चतुर्थपादे चिन्तितम् –
“प्राजापत्यैः पशूनां किं बाधो यद्वा समुच्चयः।
अक्रियार्था पशूक्तिः स्याल्लिङ्गं तेनास्तु बाधनम्॥
पशूनुद्दिश्य संख्याया देवस्य च विधौ भिदा।
कर्मान्यत्वे ग्रहन्यायाद्रोधनाच्च समुच्चयः॥”
वाजपेये श्रूयते - ‘सप्तदश प्राजापत्यान्पशूनालभते’ इति। तैरेतैः प्राकृत-पशूनामाग्नेयादीनां बाधः स्यात्। कुतः। पशूत्वलिङ्गात्। नहि पशुशब्दो ग्रह-शब्दवदपूर्वां विधेयक्रियां ब्रूते, येन लिङ्गत्वं हीयेतेति प्राप्ते ब्रूमः किमत्र प्राकृ-तपश्वनुवादेन सप्तदशसंख्या प्रजापतिदेवता चेति गुणद्वयं विधीयते, आहो-स्विद्विशिष्ठमन्यत्कर्म। नाऽऽद्यो वाक्यभेदापत्तेः। द्वितीये तु न पशुशब्दो लिङ्गं,
[[766]]
Page No. ७६६
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — ( १ प्रथमकाण्डे
(वाजपेयोपयुक्तरथविषयमन्त्राभिधानम् )
ततोऽत्र ग्रहन्यायो योजनीयः। किंचावरोधनमेवमाम्नायते- ‘ब्रह्मवादिनो वद-न्ति। नाग्निष्ठोमो नोक्थ्यः। न षोडशी नातिरात्रः। अथ कस्माद्वाजपेये सर्वं यज्ञक्रतवोऽवरुध्यन्त इति। पशुभिरिति ब्रूयात्। आग्नेयं पशुमालभते। अग्नि-ष्टोममेव तेनावरुन्धे। ऐन्द्राग्नोक्थ्यम्। ऐन्द्रेण षोडशिनः स्तोत्रम्। सारस्वत्या-ऽतिरात्रम्। मारुत्या बृहतः स्तोत्रम्। एतावन्तो वै यज्ञक्रतवः। तान्पशुभिरेवा-वरुन्धे’ इति। अस्मिन्नवरोधनाम्नाये चोदकप्राप्ताग्नेयादिपशुसद्भावस्य सिद्धव-दनुवादात्समुच्चयोऽवगम्यते।
एकादशाध्यायस्य द्वितीयपादे चिन्तितम् —
“प्राजापत्यवसानां किं भेदस्तन्त्रमुताग्रिमः।
पशुभेदाद्देवपाककालैक्याच्छक्तितोऽन्तिमः॥”
वाजपेये सप्तदशसु प्रजापतिदेवताकेषु पशुषु तद्भेदानुसारेण वसाहोमो भि-द्यत इति चेन्मैवम्। प्रजापतिरेक एव सप्तदशानां पशूनां देवता। तथा पाको-ऽपि सहैव क्रियते। प्रदानस्यापि पाक उपलक्षणम्। प्रदानेऽपि साहित्यमस्ति। कालश्चैकः, याज्याया अर्धर्चान्तस्य तत्कालत्वेन चोदकातिदेशात्। शक्यते च सह होमः। तस्मात्तन्त्रम्।
तत्रैव चतुर्थपादे चिन्तितम् —
“प्राजापत्येषु कुम्भ्यादेर्भेदो नो वाऽङ्गभेदतः।
भेदो मैवमशेषाङ्गश्रपणादौ प्रभुत्वतः॥”
वाजपेये सप्तदशसु प्राजापत्यपशुषु कुम्भ्या हृदयशूलस्य वपाश्रवण्याश्च भेदः स्यात्। कुतः। तत्तत्पश्वङ्गानां भिन्नत्वात्। मैवम्। पश्वङ्गानां बहुत्वेऽपि प्रौढकुम्भ्यादेर्दृष्टार्थश्रपणादौ प्रभुत्वात्। तस्मात्तन्त्रम्।
तत्रैव तृतीयपादे चिन्तितम् —
“प्राजापत्यप्रचारः किमार्भवे शस्त्रिसोमतः।
ऊर्ध्वं वा विकृतौ वोत परस्तात्सर्वसोमतः।
आर्भवे चोदकादुक्त्यासत्तिभ्यां तदनन्तरः।
श्रुतिबाधस्तदा तस्मात्तृतीयो विकृतित्वतः॥
पशवो नहि सोमस्य विकारा अविशेषतः।
उक्तत्वात्सर्वसोमानामुपरिष्टात्प्रचर्यताम्॥”
[[767]]
Page No. ७६७
प्रपा॰ ७ अनु॰ ७ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(वाजपेयोपयुक्तरथविषयमन्त्राभिधानम् )
वाजपेये सप्तदशप्राजापत्यपशुप्रचारस्य काले चतुर्धा संशयः। तत्र तावदयं प्रयोगक्रमः – तृतीयसवने प्रथममार्भवः पवमानः, ततो वैश्वदेवग्रहपर्यन्ताः शस्त्रवन्तः सोमाः, ततोऽशस्त्रेष्ववशिष्टेषु सोमग्रहेषु प्रचीर्णेष्वग्निष्टोमसाम्न ऊर्ध्वमुक्थ्यादयः सोमविकारा इति। एवं स्थिते प्राजापत्यपशूनामार्भवकाले प्रचारः। कुतः। प्रकृतौ तस्य पशुप्रचारकालत्वेन चोदकप्राप्तेरित्याद्यः पक्षः। उपरिष्टात्सोमानां प्राजापत्यैश्चरन्तीति वचनेन सोमग्रहप्रचारादूर्ध्वः कालो विधीयते। यदि प्रातःसवनमाध्यंदिनसवनसोमेभ्य ऊर्ध्वत्वमार्भवकालस्या-स्तीति योज्येत तदा चोदकेनैव तत्कालप्राप्तेर्वचनमिदमनर्थकं स्यात्। अतस्तृतीयसवनगतसोमानामुपरीति वक्तव्यम्। यदि तत्र सर्वसोमानामुप-रीति विवक्ष्येत तदा चोदकप्राप्तः कालो विप्रकृष्येत। ततः प्रत्यासत्तये शस्त्रिणां वैश्वदेवग्रहान्तानां सोमानामुपरीति द्वितीयः पक्षः। उपरिष्टात्सो-मानामित्यविशेषप्रवृत्ता श्रुतिः कतिपयसोमोर्ध्वत्वविवक्षायां बाध्येत, तस्माच्छस्त्रवतां तद्रहितानां च सोमानामुपरिष्टादग्निष्ठोमे यज्ञायज्ञीय-
साम्ना संस्थिते सति तत्प्रचारः कार्यः, तस्य विकृतिकालत्वात्प्राजापत्यपशूनां च विकृतिरूपत्वादिति तृतीयः पक्षः। सोमविकाराणामेवायं कालः, पशवस्तु न सोमविकाराः, तस्मादविशेषवचनानुसारेण प्राकृतानां च सर्वेषां सोमा-नामुपरिष्टात्प्राजापत्यपशुप्रचार इति राद्धान्तः।
तत्रैव द्वितीयपादे चिन्तितम् —
“पर्यग्निकरणे त्याग आलम्भो ब्रह्मसामनि।
कर्मशेषनिषेधश्च कर्मान्तरविधिर्भवेत्॥
किंवोत्कर्षोऽवशिष्टस्य ह्यारण्योक्तिवदादिमः।
अदृष्टवाक्यभेदाप्तेर्द्रव्याभावेन चान्तिमः॥”
वाजपेये सप्तदश प्राजापत्यान्पशून्प्रकृत्य श्रूयते – “तान्पर्यग्निकृतानुत्सृजति, ब्रह्मसाम्न्यालभते” इति। तेषु सप्तदशसु पशुषु पर्यग्निकरणेऽनुष्ठिते सत्युत्तर-कालभावी कर्मशेष उत्सर्गशब्देन निषिध्यते। अश्वमेधे ‘पर्यग्निकृतानारण्या-नुत्सृजन्ति’ इत्वत्र कर्मशेषनिषेधस्य संप्रतिपन्नत्वादत्रापि तथात्वेन सप्तदश पशवः पर्यग्निकरणान्ताः समापनीयाः। आलभतिना च ब्रह्मसामकाले कर्मान्तरं विधीयत इति प्राप्ते ब्रूमः - कर्मान्तरविधौ सप्तदशपशुजन्यादृष्टाद्भिन्नं किंचिददृष्टं कल्प्येत, वाक्यभेदश्च प्राप्नुयात्। किंच ब्रह्मसाम्न्यालभत इत्यत्र द्रव्यदेवतयो-
[[768]]