(अथ प्रथमाष्टके सप्तमप्रपाठके चतुर्थोऽनुवाकः)।
ब॒र्हिषो॒ऽहं दे॑वय॒ज्यया॑ प्र॒जावा॑न्भूयास॒मित्या॑ह ब॒र्हिषा॒ वै
प्रजाप॑तिः प्र॒जा अ॑सृजत॒ तेनै॒व प्र॒जाः सृ॑जते॒ नरा॒शँस॑स्या॒हं
दे॑वय॒ज्यया॑ पशु॒मान्भूयास॒मित्या॑ह॒ नरा॒शँसे॑न॒ वै प्रजाप॑तिः
प॒शून॑सृजत॒ तेनै॒व प॒शून्त्सृ॑जतेऽग्नेः स्वि॑ष्ट॒कृतो॒ऽहं दे॑वयज्य-
याऽऽयु॑ष्मान्य॒ज्ञेन॑ प्रति॒ष्ठां ग॑मेय॒मित्या॒हाऽऽयु॑रेवाऽऽत्मन्ध॑त्ते॒
प्रति॑ य॒ज्ञेन॑ तिष्ठति दर्शपूर्णमा॒सयोः॑ (१) वै दे॒वा उज्जि॑-
ति॒मनूद॑जयन्दर्शपूर्णमा॒साभ्या॒मसु॑रानपा॑नुदन्ता॒ग्नेर॒हमुज्जि॑ति-
मनूज्जे॑ष॒मित्या॑ह दर्शपूर्णमा॒सयो॑रे॒व दे॒वता॑नां॒ यज॑मान॒ उ-
ज्जि॑ति॒मनूज्ज॑यति दर्शपूर्णमा॒साभ्यां॒ भ्रातृ॑व्या॒नप॑ नुदते॒ वाज॑-
वतीभ्यां॒ व्यू॑ह॒त्यन्नं॒ वै वाजोऽन्न॑मे॒वाव॑ रुन्धे॒ द्वाभ्यां॒ प्रति॑ष्ठित्यै॒
यो वै य॒ज्ञस्य॒ द्वौ दोहौ॑ वि॒द्वान्यज॑त उभ॒य॑तः (२) ए॒व
य॒ज्ञं दु॑हे पु॒रस्ता॑च्चो॒परि॑ष्टाच्चै॒ष वा अ॒न्यो य॒ज्ञस्य॒ दो॒ह इडा॑-
याम॒न्यो यर्हि॒ होता॒ यज॑मानस्य॒ नाम॑ गृह्णी॒यात्तर्हि॑ ब्रूया॒देमा
[[735]]
Page No. ७३५
प्रपा॰ ७ अनु॰ ४ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(शेषाहुत्यनुमन्त्रव्याख्यानम् )
अ॑ग्मन्ना॒शिषो॒ दोह॑कामा॒ इति॒ सँस्तु॑ता ए॒व दे॒वता॑ दु॒हेऽथो॑
उभ॒यत॑ ए॒व य॒ज्ञं दु॑हे पु॒रस्ता॑च्चो॒परि॑ष्टाच्च॒ रोहि॑तेन त्वा॒ऽग्नि-
र्दे॒वतां॑ गमय॒त्वित्या॑है॒ते वै दे॑वा॒श्वाः (३) यज॑मानः प्रस्त॒रो
यदे॒तैः प्र॑स्त॒रं प्र॒हर॑ति देवा॒श्वैरे॒व यज॑मानँ सुव॒र्गं लो॒कं ग॑-
मयति॒ वि ते॑ मुञ्चामि रश॒ना वि र॒श्मीनित्या॑है॒ष वा अ॒ग्नेर्वि॑
मो॒कस्तेनै॒वैनं॒ वि मु॑ञ्चति॒ विष्णोः॑ शं॒योर॒हं दे॑वय॒ज्यया॑ य॒ज्ञेन॑
प्रति॒ष्ठां ग॑मेय॒मित्या॑ह य॒ज्ञो वै विष्णु॑र्य॒ज्ञ ए॒वान्त॒तः प्रति॑ ति
ष्ठति॒ सोम॑स्या॒हं दे॑वय॒ज्यया॑ सु॒रेताः॑ (४) रेतो॑ धिषी॒येत्या॑ह॒
सोमो॒ वै रे॑तो॒धास्तेनै॒व रेत॑ आ॒त्मन्ध॑त्ते॒ त्वष्ठु॑र॒हं दे॑वय॒ज्यया॑
पशू॒नाँ रू॒पं पु॑षेय॒मित्या॑ह॒ त्वष्टा॒ वै प॑शू॒नां मि॑थु॒नानाँ॑ रू-
प॒कृत्तेनै॒व प॑शू॒नाँ रू॒पमा॒त्मन्ध॑त्ते द॒वानां॒ पत्नी॑र॒ग्निर्गृ॒हप॑ति-
र्य॒ज्ञस्य॑ मिथु॒नं तयो॑र॒हं दे॑वय॒ज्यया॑ मिथु॒नेन॒ प्र भू॑यास॒मित्या॑-
है॒तस्मा॒द्वै मि॑थु॒नात्प्र॒जाप॑तिर्मिथु॒नेन॑ (५) प्राजा॑य॒त तस्मा॑-
दे॒व यज॑मानो मिथु॒नेन॒ प्र जा॑यते वे॒दो॑ऽसि॒ वित्ति॑रसि वि॒दे-
येत्या॑ह वे॒देन॒ वै दे॒वा असु॑राणां वि॒त्तं वेद्य॑मविन्दन्त॒ तद्वे॒दस्य॑
वेद॒त्वं यद्य॒द्भ्रातृ॑व्यास्याभि॒ध्याये॒त्तस्य॒ नाम॑ गृह्णीया॒त्तदे॒वास्य॒
सर्वं॑ वृङ्क्ते घृ॒तव॑न्तं कुला॒यिनँ॑ रा॒यस्पोषँ॑ सह॒स्रिणं॑ वे॒दो
द॑दातु वा॒जिन॒मित्या॑ह॒ प्र स॒हस्रं॑ प॒शूना॑प्नो॒त्याऽस्य॑ प्र॒जायां॑
वा॒जी जा॑यते॒ य ए॒वं वेद॑ (६)।
( द॒र्श॒पूर्ण॒मा॒सयो॑रुभ॒यतो॑ देवा॒श्वाः सुरे॒ताः॑ प्र॒जाप॑तिर्मिथु॒नेना॑ऽऽप्नोत्य॒ष्टौ च॑ )।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके
सप्तमप्रपाठके चतुर्थोऽनुवाकः॥४॥
[[736]]
Page No. ७३६
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — ( १ प्रथमकाण्डे
(शेषाहुत्यनुमन्त्रव्याख्यानम् )
(अथ प्रथमकाण्डे सप्तमप्रपाठके चतुर्थोऽनुवाकः )।
…
…
…
…
…
…
…
…
…
…
…
…
…
[[737]]
Page No. ७३७
प्रपा॰ ७ अनु॰ ५ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(शेषाहुत्यनुमन्त्रव्याख्यानम् )
…
…
…
…
…
…
…
अथ प्रथमाष्टके सप्तमप्रपाठके पञ्चमोऽनुवाकः
ध्रु॒वां वै रिच्य॑मानां य॒ज्ञोऽनु॑ रिच्यते य॒ज्ञं यज॑मानो॒
यज॑मानं प्र॒जा ध्रु॒वामा॒प्याय॑मानां य॒ज्ञोऽन्वा प्या॑यते य॒ज्ञं
यज॑मानो॒ यज॑मानं प्र॒जा आ प्या॑यतां ध्रु॒वा घृ॒तेनेत्या॑ह
[[738]]
Page No. ७३८
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — ( १ प्रथमकाण्डे
(आप्यायनादिमन्त्रव्याख्यानम्)
ध्रु॒वामे॒वाऽऽ प्या॑ययति॒ तामा॒प्याय॑मानां य॒ज्ञोऽन्वा प्या॑यते
य॒ज्ञं यज॑मानो यज॑मानं प्र॒जाः प्र॒जाप॑तेर्वि॒भान्नाम॑ लो॒कस्त-
स्मिँ॑स्त्वा दधामि स॒ह यज॑माने॒नेति॑ (१) आ॒हा॒यं वै
प्र॒जाप॑तेर्वि॒भान्नाम॑ लो॒कस्तस्मि॑न्ने॒वैनं॑ दधाति स॒ह यज॑मानेन॒
रिच्य॑त इव॒ वा ए॒तद्यद्यज॑ते॒ यद्य॑जमानभा॒गं प्रा॒श्नात्या॒त्मान॑मे॒व
प्री॑णात्ये॒तावा॒न्वै य॒ज्ञो यावा॑न्यजमानभा॒गो य॒ज्ञो यज॑मानो॒
यद्य॑जमानभा॒गं प्रा॒श्नाति॑ य॒ज्ञ एव य॒ज्ञं प्रति॑ ष्ठापयत्ये॒तद्वै सू
यव॑सँ॒ सोद॑कं॒ यद्बर्हिश्चाऽऽप॑श्चै॒तत् (२) यज॑मानस्या॒ऽऽ-
यत॑नं॒ यद्वेदि॒र्यत्पू॑र्णपा॒त्रम॑न्तर्वे॒दि नि॒नय॑ति॒ स्व ए॒वाऽऽयत॑ने
सू॒यव॑सँ॒ सोद॑कं कुरुते॒ सद॑सि॒ सन्मे॑ भूया॒ इत्या॒हाऽऽपो॒ वै
य॒ज्ञ आपो॒ऽमृतं॑ यज्ञमे॒वामृत॑मा॒त्मन्ध॑त्ते॒ सर्वा॑णि वै भू॒तानि॑
व्र॒तमु॑पयन्त॒मनूप॑ यन्ति॒ प्राच्यां॑ दि॒शि दे॒वा ऋ॒त्विजो॑ मार्ज-
यन्ता॒मित्या॑है॒ष वै द॑र्शपूर्णमा॒सयो॑रवभृ॒थः (३) यान्ये॒वैनं॑
भू॒तानि॑ व्र॒तमु॑प॒यन्तमनू॑प॒यन्ति॒ तैरेव॒ स॒हाव॑भृ॒थमवै॑ति॒ विष्णु॑-
मुखा॒ वै दे॒वाश्छन्दो॑भिरि॒माल्ँ लो॒कान॑नपज॒य्यम॒भ्य॑जय॒न्यद्वि॑ष्णु-
क्र॒मान्क्रम॑ते॒ विष्णुरे॒व भू॒त्वा यज॑मान॒श्छन्दो॑भिरि॒माल्ँ लो॒का-
न॑नपज॒य्यम॒भि ज॑यति॒ विष्णोः॒ क्रमो॑ऽस्यभिमाति॒हेत्या॑ह
गाय॒त्री वै पृथि॒वी त्रैष्टु॑भम॒न्तरि॑क्षं॒ जाग॑ती द्यौरानु॑ष्टिभीर्दिश॒-
श्छन्दो॑भिरे॒वेमाल्ँ लो॒कान्य॑थापू॒र्वम॒भि ज॑यति॥ ४॥
( यज॑माने॒नेति॑ चै॒तद॑वभृ॒थो दिशः॑ स॒प्त च॑ )।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके
सप्तमप्रपाठके पञ्चमोऽनुवाकः॥५॥
[[739]]
Page No. ७३९
प्रपा॰ ७ अनु॰ ५ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(आप्यायनादिमन्त्रव्याख्यानम्)