(अथ प्रथमाष्टके सप्तमप्रपाठके तृतीयोऽनुवाकः )।
प॒रोक्षं॒ वा अ॒न्ये इ॒ज्यन्ते॑ प्र॒त्यक्ष॑म॒न्ये यद्यज॑ते य ए॒व
दे॒वाः प॒रोक्ष॑मि॒ज्यन्ते॒ ताने॒व तद्य॑जति॒ यद॑न्वाहा॒र्य॑मा॒हर॑त्ये॒ते
वै दे॒वाः प्र॒त्यक्षं॒ यद्ब्रा॑ह्म॒णास्ताने॒व तेन॑ प्रीणा॒त्यथो॒ दक्षि॑णै॒वा-
स्यै॒षाऽथो॑ य॒ज्ञस्यै॒व छि॒द्रमपि॑ दधाति॒ यद्वै य॒ज्ञस्य॑ क्रू॒रं यद्वि-
[[732]]
Page No. ७३२
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — ( १ प्रथमकाण्डे–
(अन्वाहार्याभिधानम् )
लि॑ष्टं॒ तद॑न्वाहा॒र्ये॑ण (१) अ॒न्वाह॑रति॒ तद॑न्वाहा॒र्य॑स्यान्वाहा-
र्य॒त्वं दे॑वदू॒ता वा ए॒ते यदृ॒त्विजो॒ यद॑न्वाहा॒र्य-
मा॒हर॑ति दे॑वदू॒ताने॒व प्री॑णाति प्र॒जाप॑तिर्दे॒वेभ्यो॑ य॒ज्ञान्व्यादि॑
श॒त्स रि॑रिचा॒नो॑ऽमन्यत॒ स ए॒तम॑न्वाहा॒र्य॑मभ॑क्तमपश्य॒त्तमा॒त्म-
न्न॑धत्त॒ स वा ए॒ष प्रा॑जाप॒त्यो यद॑न्वाहा॒र्यो॑ यस्यै॒वं वि॒दुषो॑ऽ-
न्वाहा॒र्य॑ आह्रि॒यते॑ सा॒क्षादे॒व प्र॒जाप॑तिमृध्नो॒त्यप॑रिमितो नि॒रु-
प्योऽप॑रिमितः प्र॒जाप॑तिः प्र॒जाप॑तेः (२) आप्त्यै॑ दे॒वा वै य-
द्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा ए॒तं प्रा॑जाप॒त्यम॑न्वाहा॒-
र्य॑मपश्य॒न्तम॒न्वाह॑रन्त॒ ततो॑ दे॒वा अभ॑व॒न्पराऽसु॑रा॒ यस्यै॒वं वि॒-
दुषो॑ऽन्वाहा॒र्य॑ आह्रि॒यते॒ भव॑त्या॒त्मना॒ परा॑ऽस्य॒ भ्रातृ॑व्यो भ-
वति य॒ज्ञेन॒ वा इ॒ष्टी प॒क्वेन॑ पू॒र्ती यस्यै॒वं विदुषो॑ऽन्वाहा॒र्य॑ आ-
ह्रि॒यते॒ स त्वे॑वेष्टा॑पूर्ती प्र॒जाप॑तेर्भागो॑ऽसि (३) इत्या॑ह प्र॒जा-
प॑तिमे॒व भा॑ग॒धेये॑न॒ सम॑र्ध॒यत्यूर्ज॑स्वा॒न्पय॑स्वा॒नित्या॒होर्ज॑मे॒-
वास्मि॒न्पयो॑ दधाति प्राणापा॒नौ मे॑ पाहि समानव्या॒नौ म्॑
पा॒हीत्या॑हा॒ऽऽशिष॑मे॒वैतामा शा॒स्तेऽक्षि॑तो॒ऽस्यक्षि॑त्यै त्वा॒ मा
मे॑ क्षेष्ठा अ॒मुत्रा॒मुष्मिल्ँ॑ लो॒क प्र॒जा उ॑प॒जीव॑न्ति॒ यदे॒वम॑भिमृ-
शत्यक्षि॑तिमे॒वैन॑द्गमयति॒ नास्या॒मुष्मिल्ँ॑ लो॒केऽन्नं॑ क्षीयते (४)।
( अ॒न्वा॒हा॒र्ये॑ण प्र॒जाप॑तेरसि॒ ह्य॑मुष्मिल्ँ॑ लो॒के पञ्च॑दश च )।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके
सप्तमप्रपाठके तृतीयोऽनुवाकः॥३॥
[[733]]
Page No. ७३३
प्रपा॰ ७ अनु॰ ३ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अन्वाहार्याभिधानम् )
(अथ प्रथमकाण्डे सप्तमप्रपाठके तृतीयोऽनुवाकः )।
…
…
…
…
…
…
…
…
…
…
…
…
…
[[734]]