(अथ प्रथमाष्टके सप्तमप्रपाठके द्वितीयोऽनुवाकः)।
सँश्र॑वा ह सौवर्चन॒सस्तुमि॑ञ्ज॒मौपो॑दितिमुवाच॒ यत्स॒त्रि-
णाँ॒ होताऽभूः॒ कामिडा॒मिपा॑ह्वथा॒ इति॒ तामुपा॑ह्व॒ इति॑
होवाच॒ या प्रा॒णेन॑ दे॒वान्दा॒धार॑ व्या॒नेन॑ मनु॒ष्या॑नपा॒नेन॑
पि॒तॄनिति॑ छि॒नत्ति॒ सा न छि॑न॒त्ती ३ इति॑ छि॒नत्तीति॑ होवाच॒
शरी॑रं॒ वा अ॑स्यै॒ तदुपा॑ह्वथा॒ इति॑ होवाच॒ गौर्वै (१)
अ॒स्यै॒ शरी॑रं॒ गां वाव तौ तत्पर्य॑वदतां॒ या य॒ज्ञे दी॒यते॒ सा
प्रा॒णेन॑ दे॒वान्दा॑धार॒ यया॑ मनु॒ष्या॑ जीव॑न्ति॒ सा व्या॒नेन॑
मनु॒ष्या॑न्यां पि॒तृभ्यो॒ घ्नन्ति॒ साऽपाने॒न॑ पि॒तॄन्य ए॒वं वेद॑ पशु॒-
मान्भ॑व॒त्यथ॒ वै तामुपा॑ह्व॒ इति॑ होवाच॒ या प्र॒जाः प्र॒भव॑न्तीः॒
प्रत्या॒भव॒तीत्यन्नं॒ वा अ॑स्यै॒ तत् (२) उपा॑ह्वथा॒ इति॑ होवा॒चौ-
ष॑धयो॒ वा अ॑स्या॒ अन्न॒मोष॑धयो॒ वै प्र॒जाः प्र॒भव॑न्तीः॒
प्रत्या भ॑वन्ति॒ य ए॒वं वेदा॑न्ना॒दो भ॑व॒त्यथ॒ वै तामु-
पा॑ह्व॒ इति॑ होवाच॒ या प्रजाः प॑रा॒भव॑न्तीर॒नुगृ॒-
ह्णाति॒ प्रत्या॒भव॑न्तीर्गृ॒ह्णातीति॑ प्रति॒ष्ठां वा अ॑स्यै॒ तदुपा॑-
ह्वथा॒ इति॑ होवाचे॒यं वा अ॑स्यै प्रति॒ष्ठा (३) इ॒यं वै प्र॒जाः
प॑रा॒भव॑न्ती॒रनु॑ गृह्णाति॒ प्रत्या॒भव॑न्तीर्गृह्णाति॒ य ए॒वं वेद॒
प्रत्ये॒व ति॑ष्ठ॒त्यथ॒ वै तामुपा॑ह्व॒ इति॑ होवाच॒ यस्यै॑ नि॒क्रम॑णे
घृ॒तं प्र॒जाः सं॒जीव॑न्तीः॒ पिब॒न्तीति॑ छि॒नत्ति॒ सा न छि॑नत्ती॒ ३
[[729]]
Page No. ७२९
प्रपा॰ ७ अनु॰ २ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(इडाप्रशंसा)
इति॑ न छि॑न॒त्तीति॑ होवाच॒ प्र तु ज॑नय॒तीत्ये॒ष वा इडा॒मुपा॑-
ह्वथा॒ इति॑ होवाच॒ वृष्टि॒र्वा इडा॒ वृष्ट्यै॒ वै नि॒क्रम॑णे घृ॒तं प्र॒जाः
सं॒जीव॑न्तीः पिबन्ति॒ य ए॒वं वेद॒ प्रैव जा॑यतेऽन्ना॒दो भ॑वति
(४)॥
(गौर्वा अ॑स्यै॒तत्प्र॑ति॒ष्ठाऽह्व॑था॒ इति॑ विँश॒तिश्च॑)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके
सप्तमप्रपाठके द्वितीयोऽनुवाकः॥२॥
(अथ प्रथमकाण्डे सप्तमप्रपाठके द्वितीयोऽनुवाकः)।
…
…
…
…
…
…
[[730]]
Page No. ७३०
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — ( १ प्रथमकाण्डे–
(इडाप्रशंसा)
…
…
…
…
…
…
…
…
[[731]]
Page No. ७३१
प्रपा॰ ७ अनु॰ २ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(इडाप्रशंसा)
…
…