( अथ प्रथमाष्टके षष्ठप्रपाठके दशमोऽनुवाकः )।
ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽहँ स॑जा॒तेषु॑ भूयास॒मित्या॑ह ध्रु॒वाने॒वै-
ना॑न्कुरुत उ॒ग्रो॑ऽस्यु॒ग्रो॑ऽहँ स॑जा॒तेषु॑ भूयास॒मित्या॒हाप्र॑तिवा-
दिन ए॒वैना॑न्कुरुतेऽभि॒भूर॑स्यभि॒भूर॒हँ स॑जा॒तेषु॑ भूयास॒मि-
त्या॑ह॒ य ए॒वैनं॑ प्र॒त्युत्पिपी॑ते॒ तमुपा॑स्यते यु॒नज्मि॑ त्वा॒ ब्रह्म॑णा॒
दैव्ये॒नेत्या॑है॒ष वा अ॒ग्नेर्योग॒स्तेन॑ (१) ए॒वैनं॑ युनक्ति य॒ज्ञस्य॒
वै समृ॑द्धेन दे॒वाः सु॑व॒र्गं लो॒कमा॑यन्य॒ज्ञस्य॒ व्यृ॑द्धे॒नासुरा॒न्प-
रा॑ऽभावय॒न्यन्मे॑ अग्ने अ॒स्य य॒ज्ञस्य॒ रिष्या॒दित्या॑ह य॒ज्ञ-
स्यै॒व तत्समृ॑द्धे॒न यज॑मानः सुव॒र्गं लो॒कमे॑ति य॒ज्ञस्य॒ व्यृ॑द्धेन॒
भ्रातृ॑व्यान्परा॑ भावयत्यग्निहो॒त्रमे॒ताभि॒र्व्याहृ॑तीभि॒रुप॑ सादये-
द्यज्ञमु॒खं वा अ॑ग्निहो॒त्रं ब्रह्मै॒ता व्याहृ॑तयो यज्ञमु॒ख ए॒व ब्रह्म॑
(२) कु॒रुते॒ सं॒व॒त्स॒रे प॒र्याग॑त ए॒ताभि॑रे॒वोप॑सादये॒प॑सादये॒द्ब्रह्म॑णै॒वो-
भ॒यतः॑ संवत्स॒रं परि॑ गृह्णाति दर्शपूर्णमा॒सौ चा॑तुर्मा॒स्यान्या॒-
लभ॑मान ए॒ताभि॒र्व्याहृ॑तीभिर्ह॒वीँष्या सा॑दयेद्यज्ञमु॒खं वै द॑र्श-
पूर्णमा॒सौ चा॑तुर्मा॒स्यानि॒ ब्रह्मै॒ता व्याहृ॑तयो यज्ञमु॒ख ए॒व
ब्रह्म॑ कुरुते संवत्स॒रे प॒र्याग॑त ए॒ताभि॑रे॒वाऽऽ सा॑दयेद्ब्रह्म॑णै॒वो-
भ॒यतः॑ संवत्स॒रं परि॑ गृह्णाति॒ यद्वै य॒ज्ञस्य॒ साम्ना॑ क्रि॒यते॑
रा॒ष्ट्रम् (३) य॒ज्ञस्याऽऽशीर्ग॑च्छति॒ यदृ॒चा विशं॑ य॒ज्ञ
स्या॒ऽऽशीर्ग॑च्छ॒त्यथ॑ ब्राह्म॒णो॑ऽना॒शीर्के॑ण य॒ज्ञेन॑ यजते सामि-
धे॒नीरनुव॒क्ष्यन्ने॒ता व्याहृ॑तीः पु॒रस्ता॑द्दध्या॒द्ब्रह्मै॒व प्र॑ति॒पदं॑
कुरुते॒ तथा॑ ब्राह्म॒णः साशी॑र्केण य॒ज्ञेन॑ यजते॒ यं का॒मये॑त॒
यज॑मानं॒ भ्रातृ॑व्यस्य य॒ज्ञस्या॒ऽऽशीर्ग॑च्छे॒दिति॒ तस्यै॒ता
[[704]]
Page No. ७०४
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — ( १ प्रथमकाण्डे —
(हविःसादनविधिः)
व्याहृ॑तीः पुरोनुवा॒क्या॑यां दध्याद्भ्रातृव्यदेव॒त्या॑ वै पु॑रोनुवा॒-
क्या॑ भ्रातृ॑व्यमे॒वास्य य॒ज्ञस्य॑ (४) आ॒शीर्ग॑च्छति॒ यान्का॒-
मये॑त॒ यज॑मानान्त्स॒माव॑त्येनान्य॒ज्ञस्या॒ऽऽशीर्ग॑च्छे॒दिति॒ तेषा॑-
मे॒ता व्याहृ॑तीः पुरोनुवा॒क्या॑या अर्ध॒र्च एकां॑ दध्याद्या॒ज्या॑यै
पु॒रस्ता॒देकां॑ या॒ज्या॑या अर्ध॒र्च एकां॒ तथै॑नान्त्स॒माव॑ती य॒ज्ञ-
स्या॒ऽऽशीर्ग॑च्छति॒ यथा॒ वै प॒र्जन्यः॒ सुवृ॑ष्टं॒ वर्ष॑त्ये॒वं य॒ज्ञो यज॑
मानाय वर्षति॒ स्थल॑योद॒कं प॑रिगृ॒ह्णन्त्या॒शिषा॑ य॒ज्ञं यज॑मानः॒
परि॑ गृह्णाति॒ मनो॑ऽसि प्राजाप॒त्यम् (५) मन॑सा मा भू॒ते-
नाऽऽ वि॒शेत्या॑ह॒ मनो॒ वै प्रा॑जाप॒त्यं प्रा॑जाप॒त्यो य॒ज्ञो मन॑
ए॒व य॒ज्ञमा॒त्मन्ध॑त्ते॒ वाग॑स्यै॒न्द्री स॑पत्न॒क्षय॑णी वा॒चा मे॑न्द्रि॒-
येणाऽऽ वि॒शेत्या॑है॒न्द्री वै वाग्वाच॑मे॒वैन्द्रीमा॒त्मन्ध॑त्ते (६)॥
( तेनै॒व ब्रह्म॑ रा॒ष्ट्रमे॒वास्य॑ य॒ज्ञस्य॑ प्राजाप॒त्यँ षट्त्रिँ॑शच्च )।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके
षष्ठप्रपाठके दशमोऽनुवाकः॥१०॥
(अथ प्रथमकाण्डे षष्ठप्रपाठके दशमोऽनुवाकः)।
नवमे द्वंद्वसंपादनमुक्तं, दशमे हविःसादनं विधीयते। प्रथमं तावद्द्वितीया-नुवाकस्य पूर्वभागोक्तानां मन्त्राणां व्याख्यानम्। तत्र परिध्यनुमन्त्रणमन्त्रा-नुदाहृत्य व्याचष्टे -
ध्रुवोऽसीति। सजातेषु ध्रुवो भूयासमित्यनेन न केवलं स्वस्यैव ध्रुवत्वं प्रार्थितं, किंत्वेनाञ्ज्ञातीनपि ध्रुवानेव कर्तुं प्रार्थितम्। स्वस्यानुग्रहत्वेनाशिक्षिता ज्ञातयः प्रतिवादिनो भवन्ति। अत उग्रत्वप्रार्थनेन तन्निवार्यते। ज्ञातिमध्ये यः कोऽप्येनं यजमानं प्रत्युत्पिपीते प्रतिकूलो भूत्वोत्सादयितुमिच्छति तं प्रतिकूलमभिभविता भूयासमित्यनेनोपास्यत उपक्षिपति।
[[705]]
Page No. ७०५
प्रपा॰ ६ अनु॰ १० ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(हविःसादनविधिः)
अग्नियोगमन्त्रमादौ व्याचष्टे -
युनज्मीति। एष मन्त्रपाठ एवाग्नेर्योगो भवति। त्वामग्निं युनज्मीतिमन्त्रे श्रवणात्।
आसन्नस्य हविषोऽभिमन्त्रणं व्याचष्टे -
यज्ञस्य वा इति। यज्ञस्य हि द्वावंशौ समृद्धो व्यृद्धश्च। यथाशास्त्रमनुष्ठितः समृद्धः। अतथाभूतो व्यृद्धः। तत्र समृद्धो देवानां स्वर्गप्राप्तहेतुः। व्यृद्धोऽ-सुराणां तिरस्कारहेतुः। अतोऽस्मिन्मन्त्रे रिष्यात्स्कन्दादिति व्यृद्धमनूद्य तेन हन्मि सपत्नमिति वैरिपराभवः कथ्यते। समृद्धो न स्वर्गं प्राप्नोतीत्यर्थो लभ्यते।
भूर्भुवः सुवरिति व्याहृतिभिरग्निहोत्रहविष उपसादनं विधत्ते–अग्निहोत्रामिति।
तदेतदुपपादयति-
यज्ञमुखमिति। आधानानन्तरमेवानुष्ठेयत्वत्प्राधान्येन सर्वयज्ञेष्वग्निहोत्रस्य मुखत्वम्। व्याहृतयश्च त्रैलोक्यात्मनो विराड्रूपस्य परब्रह्मण्यारोपितशरीरस्य वाचकत्वेन ब्रह्मरूपाः। अतः प्रशस्ते यज्ञमुखे प्रशस्तं ब्रह्मरूपं व्याहृतित्रयं कृतवान्भवति।
अग्निहोत्रारम्भदिनगते हविःसादने व्याहृतीर्विधाय कालान्तरगतेऽपि सादने विदधाति -
संवत्सर इति। आद्यन्तयोर्दिनयोर्व्याहृतिभिरुपसादनं प्रशंसति -
ब्रह्मणैवेति। अग्निहोत्रवत्कर्मान्तरेऽपि व्याहृतिभिरासादनं विधत्ते -
दर्शपूर्णमासाविति। यज्ञो ज्योतिष्टोमादिः। ततः पूर्वभावित्वाद्दर्शादेर्मुखत्वम्।
अन्यत्रापि व्याहृतीर्विधत्ते-
यद्वै यज्ञस्येति। यज्ञसंबन्धि किंचिदङ्गं साम्ना क्रियते, यथा बहिष्पवमानादि। अन्यत्किंचिदङ्गमृचा क्रियते, यथा याज्यापुरोनुवाक्यादि। तत्र सामसाध्येनाङ्गेन यज्ञफलं तद्राष्ट्रं प्राप्नोति, राष्ट्रे सस्याद्यभिवृद्धिर्भवतीत्यर्थः। ऋक्साध्येनाङ्गेन यत्फलं तद्विशं प्रजां प्राप्नोति, प्रजाया आयुरारोग्यादि वर्धत इत्यर्थः। अथैवं सति ब्राह्मणो यजमानः फलप्रदैर्यजुर्भिर्विरहित्वादनाशीर्केण निष्फलेन यज्ञेनेष्टवान्भवति। अतो यज्ञरूपा व्याहृतीः प्रयुञ्ज्यात्। होत्राऽनुवचनीयाः प्र वो वाजा इत्यादय ऋचः सामिधेन्यः। तदनुवचनात्प्रागेव होता व्याहृतीः
[[706]]
Page No. ७०६
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — ( १ प्रथमकाण्डे —
( हविःसादनविधिः )
पठेत्। तद्देवताब्रह्मरूपं व्याहृतित्रयमेव सामिधेनीनां प्रतिपदं प्रारम्भं कृतवान्भवति। तथा सति यजमानः सफलेन यज्ञेनेष्टवान्भवति।
प्रकारान्तरेण विनियोगं हेयतयोपन्यस्यति-
यं कामयेतेति। यं यजमानं प्रति होता द्वेषादेवं कामयेतास्य यज्ञस्य फलं यजमानवौरणं गच्छेदिति तस्य यजमानस्य यागे पुरोनुवाक्यायाः प्राग्व्याहृतीः प्रयुञ्ज्यात्। तदा पुरोनुवाक्याया वैरी देवतेति तत्फलं वैरिगाम्येव भवति।
प्रकारान्तरेण विनियोगमुपादेयतया विधत्ते-
यान्कामयेतेति। बहुयजमानकानामहीनसत्राणामङ्गभूतेष्टिषु होता यद्येवं कामयेतैनान्सर्वान्यजमानान्यज्ञस्य फलं सममेव प्राप्नुयादिति तेषां यजमानानां यागे व्याहृतीरेवं दध्यात् – पुरोनुवाक्याया अर्धर्चेऽभिहिते सति प्रथमा व्याहृतिः। याज्यायाः पुरस्ताद्द्वितीया व्याहृतिः। याज्याया अर्धर्चेऽभिहिते सति तृतीया व्याहृतिः। तथा सत्येनान्सर्वान्यजमानान्याज्ञस्य फलं साम्येन प्राप्नोति।
तामेतां प्राप्तिं दृष्टान्तेन स्पष्टयति-
यथा वै पर्जन्य इति। यथा सर्वतः प्रसृतो मेघः पक्षपातमन्तरेण सर्वेषु देशेष्वेकरूपं सुवृष्टं सस्यनिष्पत्तिक्षमं वर्षं मुञ्चत्येवमयं यथोक्तव्याहृत्युपेतो यज्ञः सर्वयजमानसंघाय सुफलं साधारण्येन प्रयच्छति। तेन च सुवृष्टेन नद्यां पूर्णायां सर्वे जना स्थलया कूलेनोदकं परिगृह्णन्ति, तद्वद्यजमानसंघ आशिषा साधारणफलेन युक्तमिमं यज्ञं परिगृह्णाति।
स्रौवाघारस्रुच्याघारानुमन्त्रणमन्त्रो व्याचष्टे -
मनोऽसीति। सर्वव्यवहारसाधनस्य मनसः प्रजापतिना प्रथमसृष्टत्वान्मनसः प्राजापत्यत्वम्। प्रथमसृष्टिश्च होतृब्राह्मणकाण्डे समाम्नायते - “इदं वा अग्ने नैव किंचनाऽऽसीत्। न द्यौरासीत्। न पृथिवी। नान्तरिक्षम्। तदसदेव सन्मनोऽकुरुत स्यामिति” इति। बृहदारण्यकेऽप्याम्नातम् - “तन्मनोऽकु-रुताऽऽत्मन्वी स्यामिति” इति। प्रजापतिर्यज्ञानसृजतेत्युक्तत्वात्प्राजापत्यो यज्ञः। अनेन मन्त्रपाठेन तौ मनोयज्ञौ स्वस्मिन्स्थापयति। इन्द्रेण व्याकृतत्वा-द्वागैन्द्री। तां च मन्त्रपाठेन स्वात्मनि स्थापयति॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे षष्ठप्रपाठके
दशमोऽनुवाकः॥१०॥
[[707]]
Page No. ७०७
प्रपा॰ ६ अनु॰ ११ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
( प्राधान्येनाऽऽश्रावणादिमन्त्राः )