( अथ प्रथमाष्टके षष्ठप्रपाठके नवमोऽनुवाकः )।
प्र॒जाप॑तिर्य॒ज्ञान॑सृजताग्निहो॒त्रं चा॑ग्निष्टो॒मं च॑ पौर्णमा॒सीं
चोक्थ्यं॑ चामावा॒स्यां॑ चातिरा॒त्रं च॒ तानुद॑मिमीत॒ याव॑दग्नि-
हो॒त्रमासी॒त्तावा॑नग्निष्टो॒मो याव॑ती पौर्णमा॒सी तावा॑नु॒क्थ्यो॑
याव॑त्यमावा॒स्या॑ तावा॑नतिरा॒त्रो य ए॒वं वि॒द्वान॑ग्निहो॒त्रं जु॒होति॒
याव॑दग्निष्टो॒मेनो॑पा॒प्नोति॒ ताव॒दुपा॑ऽऽप्नोति॒ य ए॒वं वि॒द्वान्पौ॑-
र्णमा॒सीं यज॑ते॒ याव॑दु॒क्थ्ये॑नोपा॒प्नोति॑ (१) ताव॒दुपा॑ऽऽ-
प्नोति॒ य ए॒वं वि॒द्वान॑मावा॒स्यां॑ यज॑ते॒ याव॑दतिरा॒त्रेणापा॒प्नोति॒
ताव॒दुपा॑ऽऽप्नोति परमे॒ष्ठिनो॒ वा ए॒ष य॒ज्ञाऽग्र॑ आसी॒त्तेन॒ स
प॑र॒मां काष्ठा॑मगच्छ॒त्तेन॑ प्र॒जाप॑तिं नि॒रवा॑सायय॒त्तेन प्र॒जाप॑तिः
पर॒मां काष्ठा॑मगच्छ॒त्तेनेन्द्रं॑ नि॒रवा॑सायय॒त्तेनेन्द्रः॑ पर॒मां काष्ठा॑-
मगच्छ॒त्तेना॒ग्नीषोमौ॑ नि॒रवा॑सायय॒त्तेना॒ग्नीषामौ॑ पर॒मां काष्ठा॑-
मगच्छतां॒ यः (२) ए॒वं वि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते पर॒मा-
मे॒व काष्ठां॑ गच्छति॒ यो वै प्रजा॑तेन य॒ज्ञेन॒ यज॑ते॒ प्र प्र॒जया॑
प॒शुभि॑र्मिथुनैर्जा॑यते॒ द्वाद॑श॒ मासाः॑ संवत्सरो॒ द्वाद॑श द्वं॒द्वानि॑
दर्शपूर्णमा॒सयो॒स्तानि॑ सं॒पाद्या॒नीत्या॑हुर्व॒त्सं चो॑पावसृ॒जत्यु॒खां
चाधि॑ श्रय॒त्यव॑ च॒ हन्ति॑ दृ॒षदौ॑ च स॒माह॒न्त्यधि॑ च॒ वप॑ते
क॒पाला॑नि॒ चोप॑ दधाति पुरो॒डाशं॑ च (३) अ॒धि॒श्रय-
त्याज्यं॑ च स्तम्बय॒जुश्च॒ हर॑त्य॒भि च॑ गृह्णाति॒ वेदिं॑ च
परिगृ॒ह्णाति॒ पत्नीं॑ च॒ सं न॑ह्यति॒ प्रोक्ष॑णीश्चाऽऽसा॒दय॒त्याज्यं॑
चै॒तानि॒ वै द्वाद॑श द्वं॒द्वानि॑ दर्शपूर्णमा॒सयो॒स्तानि॒ य ए॒वँ
सं॒पाद्य॒ यज॑ते॒ प्रजा॑तेनै॒व य॒ज्ञेन॑ यजते॒ प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒-
नैर्जा॑यते (४)॥
[[697]]
Page No. ६९७
प्रपा॰ ६ अनु॰ ९ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
( यज्ञायुधसंभृत्यभिधानम् )
( उ॒क्थ्ये॑नोपा॒प्नोत्य॑गच्छतां॒ यः पु॑रो॒डाशं॑ च चत्वारिँ॒शच्च॑ )।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके
षष्ठप्रपाठके नवमोऽनुवाकः॥९॥
(अथ प्रथमकाण्डे षष्ठप्रपाठके नवमोऽनुवाकः )।
…
…
[[698]]
Page No. ६९८
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — ( १ प्रथमकाण्डे —
( द्वादशद्वंद्वसंपत्त्यभिधानम् )
…
…
…
…
…
…
…
…
…
…
…
…
[[699]]
Page No. ६९९
प्रपा॰ ६ अनु॰ ९ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
( द्वादशद्वंद्वसंपत्त्यभिधानम् )
…
अथ मीमांसा।
द्वितीयाध्यायस्य द्वितीयपादे चिन्तितम् -
एवं विद्वान्पौर्णमासीममावास्यामितीरितम्।
कर्मान्यदुत पूर्वोक्तसमुदायानुवादकम्॥
कर्मान्तरं स्यादभ्यासाद्ध्रौवं द्रव्यं हि देवता।
वार्त्रघ्नीत्यादितो लभ्याऽनुवादस्तु न युज्यते॥
वार्त्रघ्नीत्याज्यभागाङ्गव्यवस्थोक्तेर्न त्रिकं तथा।
अमेत्यपि समूहस्य द्वित्वसिद्धिः प्रयोजनम्।
सहस्थितिः पौर्णमास्यामित्यक्तिभ्यां त्रिके त्रिके॥
विद्वद्वाक्ये विधौ विध्यावृत्तिराग्नेय आदिना।
विहितस्य फलित्वेन प्राधान्यमितरे गुणाः॥
इदमाम्नायते - य एवं विद्वान्पौर्णमासीं यजते य एवं विद्वानमावास्यां यजत इति। अत्र यजतिना कर्मान्तरं विधीयते न तु प्रकृता आग्नेयादयः षड्यागा अनूद्यन्ते। आग्नेयादयः कालसंयुक्तास्तत्प्रकरण एवाऽऽम्नाताः “यदाग्नेयोऽष्टाकपालोऽमावास्यायां च पौर्णमास्यां चाच्युतो भवति” इति। “तावब्रूतामग्नीषोमावाज्यस्यैव तावुपांशु पौर्णमास्यां यजति” इति। “ताभ्यामेतमग्नीषोमीयमेकादशकपालं पूर्णमासे प्रायच्छत्” इति। “ऐन्द्रं दध्यमावास्यायाम्” इति। “ऐन्द्रं पयोऽमावास्यायाम्” इति च। एतेभ्यः प्रकृतेभ्यः षड्भ्य आग्नेयादिभ्यो विद्वद्वाक्यविहितस्य कर्मणोऽन्यत्वे सति पूर्वाधिकरणन्यायेन विध्यभ्यास उपपद्यते। न च कर्मान्तरत्वे द्रव्यदेवतयोर-भावो ध्रौवादिसद्भावात्। अत एवोक्तम् -
“ध्रौवं साधारणं द्रव्यं देवता मान्त्रवर्णिकी।
रूपवन्तौ ततो यागौ विधीयेते पृथक्तया” इति।
“सर्वस्मै वा एतद्यज्ञाय गृह्यते। यद्ध्रुवायामाज्यम्” इति ध्रौवस्य साधारणत्वं श्रुतम्। देवताया मान्त्रवर्णिकत्वमित्थमुन्नेतव्यम् - “तस्माद्वार्त्रघ्नी पूर्णमा-
[[700]]
Page No. ७००
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — ( १ प्रथमकाण्डे —
( द्वादशद्वंद्वसंपत्त्यभिधानम् )
सेऽनूच्येते वृधन्वती अमावास्यायाम्” इति। वार्त्रघ्न्यौ चर्चौ क्रमेण कालद्वयोपेते विधीयेते। तत्राग्निर्वृत्राणि जङ्घनदित्येको वार्त्रघ्नो मन्त्रः। त्वं सो-मासि सत्पतिस्त्वं राजोत वृत्रहेत्यपरः। तयोरुक्तावग्नीषोमौ पौर्णमासदेवता। एवमनन्तराम्नातयोर्वृधिधातुयुक्तयोर्मन्त्रयोरुक्तावग्नीषोमावमावास्यादेवता। ताभ्यां द्रव्यदेवताभ्यां रूपवत्त्वाद्यागान्तरमत्र विधीयते। षड्यागानुवादत्वे तदनुवादेन विधेयान्तरस्य कस्याचिददर्शनाद्विद्वद्वाक्यमनर्थकं स्यात्। न केवलं तदानर्थक्यं किंतु पौर्णमास्या पौर्णमास्यां यजेत, अमावास्यायाममावास्यया यजेतेत्येतदपि व्यर्थं स्यात्। न चैतत्कालविधायकं यदाग्नेय इत्याद्युत्पत्तिवाक्यैरेव तद्विधानात्। कर्मान्तरत्वे तु कालं विधास्यति। तस्मात्कर्मान्तरमिधिरिति प्राप्ते ब्रूमः – आस्तां तावद्द्रव्यं, देवता तु विधित्सितस्य कर्मान्तरस्य सर्वथा न लभ्यते। वार्त्रघ्न्योर्वृधन्वत्योश्चाऽऽज्यभागदेवताप्रतिपादकत्वात्। हौत्रे मन्त्रकाण्डे सामिधेनीरावाहननिगदप्रयाजमन्त्रांश्चाऽऽम्नाय प्रयाजानन्तरभाविनोराज्य-भागयोः क्रमेण वार्त्रघ्न्यौ वृधन्वत्यौ चाऽऽम्नाते। लिङ्गं चाग्निविषयं सोम-विषयं च तत्रोपलभ्यते। ततो लिङ्गक्रमाभ्यामाज्यभागविषयत्वमवगम्यते। यत्तु वार्त्रघ्नी पूर्णमास इत्यादिवाक्यं तल्लिङ्गक्रमकॢप्तयोराज्यभागाङ्गयोर्म-न्त्रयुगलयोः कालद्वये व्यवस्थामाचष्टे, न तु नूतनकर्माङ्गतां तयोर्विदधाति। अतो रूपराहित्याद्विद्वद्वाक्यं कर्मान्तरविधायकं न भवति, किं तर्हि पूर्वप्र-कृतेष्वाग्नेयादिषु षट्सु त्रिकरूपौ द्वौ समुदायावनुवदति। न च कालवाचिभ्यां पौर्णमास्यमावास्याशब्दाभ्यां यागानुवादानुपपत्तिः। तत्कालविहितयोर्यागत्रिकयोरुपलक्षितत्वात्। न चानुवादो व्यर्थः। समुदायद्वित्वसिद्धेस्तत्प्रयोजनत्वात्। तत्सिद्धौ च दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेत्यस्मिन्फलवाक्ये षड्यागविवक्षया द्विवचननिर्देश उपपद्यते। यदप्युक्तमनुवादपक्षे पौर्णमास्यामित्यादिवाक्यवैयर्थ्यमिति, तदयुक्तम्। कालविधानासंभवेऽप्येकैकस्य त्रिकस्य सहप्रयोगविधानात्। आग्नेयोपांशुयाजाग्नीषोमीयाणां त्रयाणां पौर्णमासीकालविहितानां सह प्रयोगः पौर्णमास्येत्येनेन तृतीयैकवचनान्तेन विधीयते। एवमितरत्रापि। ननु विद्वद्वाक्यस्य कर्मान्तरविधायकत्वाभावेऽपि नानुवादकत्वं, तस्य यागविधायकत्वाभ्युपगमात्। आग्नेयोऽष्टाकपाल इत्यादिवाक्यानि तु विहितयागानुवादेन द्रव्यदेवतालक्षणगुणविधायकानीति चेन्न। तथा सत्येकेन वाक्येकेनानेकगुण-
[[701]]
Page No. ७०१
प्रपा॰ ६ अनु॰ ८ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
( द्वादशद्वंद्वसंपत्त्यभिधानम् )
विध्यसंभावात्। प्रतिगुणं पृथग्विधौ विध्यावृत्तिः प्रसज्येत। आग्नेयादिवा-क्यानां विधायकत्वे तु विशिष्टविधित्वान्नास्ति विध्यावृत्तिदोषः। तस्मादा-ग्नेयादिवाक्यविहितानां विद्वद्वाक्यमनुवादकम्। किंचानुवादमनभ्युपगम्य कर्मान्तरविधिं वदतः प्रयाजादीनामाग्नेयादीनां च गुणप्रधानभावो न सिध्येत्। तथा हि – समिधो यजत्याघारमाघारयतीत्यादयः कालयोगरहिताः केचिद्विधय आम्नाताः। यदाग्नेयोऽष्टाकपालोऽमावास्यायां च पौर्णमास्यां चेत्यादयः कालयुक्ता अपरे। तेषामुभयेषां प्रकृतत्वाद्दर्शपूणमासाभ्यां स्वर्गकामो यजेतेति वाक्येन सर्वेषां फलसंबन्धो बोधनीयः। दर्शपूर्णमासाभ्यामिति द्विवचनं बहुवचनत्वेन परिणेतव्याम्। विद्वद्वाक्यविहिते द्वे कर्मान्तरे प्रयाजादय आग्नेयादयश्चेत्येतेषु द्वित्वासंभवात्। सर्वेषां च फलसंबन्धे राजसूयगतेष्टिपशुसोमवत्समप्राधान्यात्प्रयाजादीनां गुणभावो न स्यात्। तदभावे चानङ्गत्वात्सौर्यादिविकृतिष्वाग्नेयादीनामिवातिदेशो न स्यात्। अनुवादपक्षे तु त्रिकयोः कालयोगेन दर्शपूर्णमासशब्दार्हत्वात्समुदायद्वित्वेन द्विवचनार्हत्वाच्चाऽऽग्नेयादीनामेव फलसंबन्धेन प्राधान्यम्। प्रयाजादीनां तु गुणभाव इति न कोऽपि दोषः। तस्माद्विद्वद्वाक्यमनुवादकम्।
चतुर्थाध्यायस्य तृतीयपादे चिन्तितम्-
दर्शादिः सर्वकामेभ्योऽनुवादो वा फले विधिः।
अङ्गोपाङ्गोदितः कामो विध्यभावादनूद्यते॥
उत्पत्तिचोदनासिद्धे आश्रित्य विधिभावने।
फलसंयोगबोधेन भवेदेष फले विधिः॥
इदमाम्नायते – “एकस्मै वा अन्या इष्टयः कामायाऽऽह्रियन्ते सर्वेभ्यो दर्श-पूर्णमासौ” इति। “एकस्मै वा अन्ये यज्ञक्रतवः। कामायाऽऽह्रियन्ते सर्वेभ्यो ज्योतिष्टोमः” इति। तत्र सर्वेभ्य इत्यनेन वाक्येन दर्शपूर्णमासयोर्न फले विधिः। विधायकस्य लिङादेर्भावनावाचिन आख्यातस्य चाभावात्। अनुवादस्तु भविष्यति, सर्वकामानां प्राप्तत्वात्। न च दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति विधानात्स्वर्ग एव प्राप्तो न तु कामान्तरमिति वाच्यम्। अङ्गोपाङ्गकामानामपि प्राप्तत्वात्। सामिधेन्यो दर्शपूर्णमासयोरङ्गम्। तत्र कामाः श्रूयन्ते – “एकविँशतिमनुब्रूयात्प्रतिष्ठाकामस्य” “चतुर्विँशतिमनुब्रूयात्प्रतिष्ठाकामस्य”
[[702]]
Page No. ७०२
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — ( १ प्रथमकाण्डे —
( द्वादशद्वंद्वसंपत्त्यभिधानम् )
इति। तथा सांनाय्ययागस्य दोहनमङ्गं, तत्साधनं वत्सापाकरणमुपाङ्गं, तत्र पलाशशाखाहरणे काम आम्नातः – “यं कामयेत पशुमान्त्स्यादिति। बहुपर्णां तस्मै बहुशाखामाहरेत्। पशुमन्तमेवैनं करोति” इति। त एते सर्वे कामा अनूद्यन्त इति प्राप्ते ब्रूमः – मा भूतामस्मिन्वाक्ये विधिभावने। तथाऽ-ऽप्युत्पत्तिवाक्यसिद्धे ते आश्रित्य तादर्थ्यवाचिन्या चतुर्थ्या फलसंयोगो बोध्यते। तस्मादेष फले विधिः।
तृतीयाध्यायस्याष्टमे पादे चिन्तितम् –
वत्सं चोपसृजेत्तद्वदुखां चाधिश्रयेदिति।
द्वादशद्वंद्वकर्मैतत्स्वामिनो वेतरस्य वा।
आद्यः पाठात्स्वामिकाण्डे तादर्थ्येन परिक्रयात्।
महाकाण्डोक्तितोऽन्योऽस्तु द्वंद्वतैवात्र कीर्त्यते॥
दर्शपूर्णमासयोर्याजमानकाण्डे श्रूयते – द्वादश द्वंद्वानि दर्शपूर्णमासयोस्तानि संपाद्यानीत्याहुर्वत्सं चोपावसृजत्युखां चाधिश्रयत्यव च हन्ति दृषदौ च समाहन्तीत्यादि। तत्र गां दोग्धुं वत्सोपसर्जनमेकं कर्म, दोहनेन संपादितं क्षीरं धारयितुं पिठरस्थापनपरं कर्म। तदेतदुभयं द्वंद्वम्। तथा व्रीहीणामवघातः, दृषदुपलयोः पाषाणान्तरेण समाघात इत्येतदुभयं द्वितीयं द्वन्द्वम्। एवं द्वादश कर्मद्वंद्वान्यनुष्ठेयान्यत्राऽऽम्नातानि। तेषां याजमानकाण्डे पठितत्वात्समाख्यया यजमानेन तान्यनुष्ठेयानीति प्राप्ते ब्रूमः – यजमानस्य यानि कार्याणि तान्य-नुष्ठातुमेव परिक्रीता ऋत्विजः। किंच यजुर्वेदे याजमानमिदमवान्तरकाण्डं, महाकाण्डं, त्वाध्वर्यवमेव। तत्रैते वत्सापाकरणादयो धर्मा आम्नाताः। तस्मादध्वर्युरेव ताननुतिष्ठेत्। याजमाने तु काण्डे न तेषामनुष्ठानप्रकारश्चोदितः किंतु परिगणनया द्वंद्वसंपादनमात्रमेवाऽऽम्नातम्। तेन यजमानस्तामानुपूर्वीं मनसि निधायाध्वर्योरनुष्ठाने प्रमादराहित्यमनुसंधातुं प्रभवति। तस्मादध्वर्योरेवानुष्ठानम्॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे षष्ठप्रपाठके
नवमोऽनुवाकः॥९॥
[[703]]
Page No. ७०३
प्रपा॰ ६ अनु॰ १० ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
( हविःसादनविधिः)