०८

( अथ प्रथमाष्टके षष्ठप्रपाठकेऽष्टमोऽनुवाकः )।
यो वै श्र॒द्धामना॑रभ्य॒ य॒ज्ञेन॒ यज॑ते॒ नास्ये॒ष्टाय॒ श्रद्द॑धते॒ऽपः
प्र ण॑यति श्र॒द्धा वा आपः॑ श्र॒द्धमे॒वाऽऽरभ्य॑ य॒ज्ञेन॑ यजत
उ॒भये॑ऽस्य देवमनु॒ष्या इ॒ष्टाय॒ श्रद्द॑धते॒ तदा॑हु॒रति॒ वा ए॒ता
वर्त्रं॑ नेद॒न्त्यति॒ वाचं॒ मनो॒ वावैता नाति॑ नेद॒न्तीति॒ मन॑सा॒
प्र ण॑यती॒यं वै मनः॑ (१) अ॒नयै॒वैनाः॒ प्र ण॑य॒त्यस्क॑न्नहवि-
र्भवति॒ य ए॒वं वेद॑ यज्ञायु॒धानि॒ सं भ॑रति य॒ज्ञो वै य॑ज्ञायु॒-
धानि॑ य॒ज्ञमे॒व तत्सं भ॑रति॒ यदेक॑मेकँ संभ॒रे॑त्पितृदेव॒त्या॑नि

[[690]]

Page No. ६९०
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — ( १ प्रथमकाण्डे–
(यज्ञायुधसंभृत्यभिधानम्)
स्तु॒र्यत्स॒ह सर्वा॑णि मनु॒षाणि॒ द्वेद्वे॒ सं भ॑रति याज्यानुवा॒क्य॑-
योरे॒व रू॒पं क॑रो॒त्यथो॑ मिथु॒नमे॒व यो वै दश॑ यज्ञायु॒धानि॒
वेद॑ मुख॒तो॑ऽस्य य॒ज्ञः क॑ल्पते॒ स्फ्यः (२) च॒ क॒पाला॑नि
चाग्निहोत्र॒हव॑णी च॒ शूर्पं॑ च कृष्णाजि॒नं च॒ शम्या॑ चो॒लूख॑लं
च॒ मुस॑लं च दृ॒षच्चोप॑ला चै॒तानि॒ वै दश॑ यज्ञायु॒धानि॒ य
ए॒वं वेद॑ मुख॒तो॑ऽस्य य॒ज्ञः क॑ल्पते॒ यो वै दे॒वेभ्यः॑ प्रति॒प्रोच्य॑
य॒ज्ञेन॒ यज॑ते जु॒षन्ते॑ऽस्य दे॒वा ह॒व्यँ हविर्निरु॒प्यमा॑णम॒भि
म॑न्त्रयेता॒ग्निँ होता॑रमि॒ह तँ हु॑व॒ इति॑ (३) दे॒वेभ्य॑ ए॒व
प्र॑ति॒प्रोच्य॑ य॒ज्ञेन॑ यजते जु॒षन्ते॑ऽस्य दे॒वा ह॒व्यमे॒ष वै य॒ज्ञस्य॒
ग्रहो॑ गृगी॒त्वैव य॒ज्ञेन॑ यजते॒ तदु॑दि॒त्वा वाचं॑ यच्छति य॒ज्ञस्य॒
धृत्या॒ अथो॒ मन॑सा॒ वै प्र॒जाप॑तिर्य॒ज्ञम॑तनुत॒ मन॑सै॒व तद्य॒ज्ञं
त॑नुते॒ रक्ष॑सा॒मन॑न्ववचाराय॒ यो वै य॒ज्ञं योग॒ आग॑ते यु॒नक्ति॑
यु॒ङ्क्ते यु॑ञ्जा॒नेषु॒ कस्त्वा॑ युनक्ति॒ स त्वा॑ युन॒क्त्वित्या॑ह प्र॒जा-
प॑ति॒र्वै कः प्र॒जाप॑तिनै॒वैनं॑ युनक्ति यु॒ङ्क्ते यु॑ञ्जा॒नेषु॑ (४)॥
( वै म॒नः स्फ्य इति॑ युन॒क्त्वेका॑दश च )
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके
षष्ठप्रपाठकेऽष्टमोऽनुवाकः॥८॥

(अथ प्रथमकाण्डे षष्ठप्रपाठकेऽष्टमोऽनुवाकः )।

[[691]]

Page No. ६९१
प्रपा॰ ६ अनु॰ ८ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
( यज्ञायुधसंभृत्यभिधानम् )






[[692]]

Page No. ६९२
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — ( १ प्रथमकाण्डे —
( यज्ञायुधसंभृत्यभिधानम् )






[[693]]

Page No. ६९३
प्रपा॰ ६ अनु॰ ८ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
( यज्ञायुधसंभृत्यभिधानम् )





अथ मीमांसा।
तृतीयाध्यायस्य प्रथमपादे चिन्तितम् -
द्रव्यस्य स्फ्यकपालादेः सांकर्यं वा व्यवस्थितिः।
यज्ञायुधत्वं सर्वाङ्गसमं तेनात्र संकरः।
वाक्यस्योद्धननादेः स्याद्वैयर्थ्यं संकरे सति।
अनुवादो ह्यायुधोक्तिर्व्यवस्था तेन पूर्ववत्।
दर्शपूर्णमासयोः श्रूयते - “स्फ्यश्च कपालानि चाग्निहोत्रहवणी च शूर्पं च कृष्णाजिनं च शम्या चोलूखलं च मुसलं च दृषच्चोपला चैतानि वै दश य-ज्ञायुधानि” इति। स्फ्यशब्देन खड्गाकारं काष्ठमुच्‍यते। अग्निहोत्रहवणी हविर्नि-र्वापसाधनं काष्ठपात्रम्। शम्या गदाकारं काष्ठम्। तत्र व्रीह्यादिद्रव्येष्ववघाता-दिसंस्काराणां सांकर्ये निराकृतेऽपि स्फ्यकपालादिद्रव्याणामुद्धननपुरोडाशश्र-पणाद्यङ्गक्रियासु सांकर्यं निराकर्तुमशक्यम्। येन केनापि द्रव्येण यस्यां कस्यां

[[694]]

Page No. ६९४
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — ( १ प्रथमकाण्डे —
( यज्ञायुधसंभृत्यभिधानम् )
चित्क्रियायां कृतायामपि श्रूयमाणस्य यज्ञायुधत्वस्याविरोधात्। न च (ह्य) व्यवस्थामात्रेण यज्ञसाधनत्वमपैतीति प्राप्ते ब्रूमः - स्फ्येनोद्धन्ति। कपालेषु श्रपयति। अग्निहोत्रहवण्या हवीँषि निर्वपति। शूर्पेण विविनक्ति। कृष्णाजिनमधस्तादुलूखलस्यावस्तृणाति। शम्यायां दृषमुपदधाति। उलूखलमुसलाभ्यामवहन्ति। दृषदुपलाभ्यां पिनष्टीत्येतेषां विशेषसंयोगबोधकानां वाक्यानां वैयर्थ्यं सांकर्यपक्षे प्रसज्येत। व्यावस्थापक्षेऽपि संबन्धसामान्यबोधकं यज्ञायुधवाक्यमनर्थकमिति चेन्न। उद्धननादिवाक्यसिद्धार्थानुवादित्वात्। न च वैपरीत्येनोद्धननादिवाक्या-नामेवानुवादित्वमिति वाच्यम्। बहुवैयर्थ्यस्य जघन्यत्वात्। न चात्यन्तं यज्ञा-युधानुवादस्य वैयर्थ्यम्। यज्ञायुधानि संभरतीत्यासादनविधानायोपयुक्तत्वात्। तस्मादवघातादिसंस्कारा इव स्फ्यकपालादिद्रव्याणि व्यवस्थितानि।
चतुर्थाध्यायस्य प्रथमपादे चिन्तितम् -
दश यज्ञायुधानीति हविष्ट्वेन विधिर्न वा।
आद्योऽप्राप्तेः पुरोडाशे समुच्चयविकल्पने॥
सार्धमुत्पत्तिशिष्टेन विकल्पादिर्न युज्यते।
स्फ्येनोद्धन्तीति यत्प्राप्तं तदत्रानूद्य संस्तवः॥
दर्शपूर्णमासयोः स्फ्यश्च कपालानि चेत्याद्यनुक्रम्यैतानि वै दश यज्ञायुधा-नीत्याम्नातम्। तानि चात्र हविष्ट्वेन विधीयन्ते विधीयन्ते। कुतः। मानान्त-रैरप्राप्तत्वेनापूर्वार्थत्वात्। यदि तत्र पुरोडाशो हविर्भवेत्तदा तेन सहैतेषां समुच्चयो विकल्पो वाऽस्त्विति प्राप्ते ब्रूमः - आग्नेयोऽष्टाकपाल इत्युत्पत्ति-शिष्टेन पुरोडाशेन सह पश्चाच्छिष्टानामायुधानां विकल्पो समुच्चयो वा न संभवति। आयुधत्वं यज्ञसाधनत्वम्। तच्च स्फ्येनोद्धन्ति कपालेषु श्रपयतीत्यादिशास्त्रसिद्धमेवात्रानूद्य यज्ञायुधानि संभरतीत्येष संभरणविधिः स्तूयते। तस्मान्नास्ति हविष्ट्वम्।
एकादशाध्यायस्य तृतीयपादे चिन्तितम् -
देशपात्रर्त्विजोऽन्यस्मिन्प्रयोगेऽन्य उतैच्छिकाः।
भुक्त्यर्थपर्णवत्तेऽन्ये वासोवत्ते स्युरैच्छिकाः॥
समे यजेतेत्युक्तो देशः। जुह्वादीनि पात्राणि। अधर्युप्रमुखा ऋत्विजः। ते चैकस्मिन्प्रयोग उपयुक्ता निरिष्टकत्वान्न प्रयोगान्तरमर्हन्ति। इष्टान्निर्गता निरिष्टाः।

[[695]]

Page No. ६९५
प्रपा॰ ६ अनु॰ ८ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
( यज्ञायुधसंभृत्यभिधानम् )
कुत्सिता निरिष्टा निरिष्टका दुष्टाः। पुनःप्रयोगानर्हा इत्यर्थः। यथा भोजन उपयुक्तं कदलीपलाशादिपर्णं प्रक्षाल्यापि न पुनः शिष्टास्तत्स्वी कुर्वन्ति तथाऽत्राप्यन्ये देशादयः प्रयोगान्तरे संपाद्या इति प्रप्ते ब्रूमः — यथा वस्त्रं पूर्वदिने प्रावरणायोपयुक्तमिति दिनान्तरे निरिष्टकं न भवति, शिष्टास्तद्वाऽन्यद्वा स्वेच्छया दिनान्तरे स्वी कुर्वन्ति तद्वदत्रापि द्रष्टव्यम्। इदं निरिष्टकमिदं नेत्यत्र शिष्टाचार एव प्रमाणम्। शिष्टाश्च देशादीन्नियमेन न त्यजन्ति। तस्मादैच्छिकाः।
तत्रैवान्यच्चिन्तितम् -
मा भूदन्यत्वनियमः पात्रे तन्त्रं किमैच्छिकम्।
नियतं वाऽग्रिमो देशवन्मैवं प्रतिपत्तितः।
देशपात्रर्त्विजां साधारण्येनान्यत्वनियमे निवारिते सति पुनः पात्रेषु नियमा-न्तरसदसद्भावश्चिन्त्यते। प्रथमप्रयोगे पात्राणि तान्येव प्रयोगान्तरेष्विति नियमो नास्त्युतास्तीति संशयः। यथा देशकर्तृषु त एवेति नियमो नास्त्यैच्छिकस्योक्तत्वात्तथा पात्रेष्वपीति चेन्मैवम्। आमरणं पात्राणं धारणीयत्वात्। आहिताग्निमग्निभिर्दहन्ति यज्ञपात्रैश्चेति प्रतिपत्तिविधानेनाऽऽमरणं धारणमेवं गम्यते। ननु पात्रैरिति तृतीयाया गुणभावावगमादर्थकर्मेदं न तु प्रतिपत्तिः। तथा सति पात्रान्तरैरपि दाहसिद्धेर्न धारणनियम इति चेन्मैवम्। दक्षिणे पाणौ जुहूमासादयतीति द्वितीयया प्रतिपाद्यत्वावगमात्पूर्वेषु धारणम्। तस्मात्सर्वेषु प्रयोगेषु पात्राणां तन्त्रम्।
तत्रैवान्यच्चिन्तितम् -
किं पौर्णमासीमारभ्य यद्वाऽऽधानमियं धृतिः।
प्रकृत्यर्थतयाऽऽद्यः स्यान्मरणानियमात्परः॥
अनारभ्याधीतानां पात्राणां प्रकृतिगामितया पौर्णमासीमारभ्य धारणमिति प्रप्ते ब्रूमः — आधानकाले पवमानेष्टिषु चोदकप्राप्तत्वात्पात्राण्याधानमारभ्य धारयितव्यानि। अन्यथाऽऽधानपौर्णमास्ययोर्मध्ये यजमानस्य कदाचिन्मरणे पात्राभावेन दाहाभावप्रसङ्गात्। तस्मादाधानमारभ्य धारणमित्ययं परः पक्षोऽभ्युपगन्तव्यः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे षष्ठप्रपाठके
ष्टमोऽनुवाकः॥८॥

[[696]]

Page No. ६९६
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — ( १ प्रथमकाण्डे —
( द्वादशद्वंद्वसंपत्त्यभिधानम् )