(अथ प्रथमाष्टके षष्ठप्रपाठके सप्तमोऽनुवाकः)
यथा॒ वै स॑मृतसो॒मा ए॒वं वा ए॒ते स॑मृतय॒ज्ञा यद्द॑र्शपूर्ण-
मा॒सौ कस्य॒ वाऽह॑ दे॒वा य॒ज्ञमा॒गच्छ॑न्ति॒ कस्य॑ वा॒ न ब॑हू॒नां
[[685]]
Page No. ६८५
प्रपा॰ ६ अनु॰ ७ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
( देवतापरिग्रहादिविधिः )
यज॑मानानां॒ यो वै दे॒वताः॒ पूर्वः॑ परिगृ॒ह्णाति॒ स ए॑नाः॒ श्वो
भू॒ते य॑जत ए॒तद्वै दे॒वाना॑मा॒यत॑नं॒ यदा॑हव॒नीयो॑ऽन्त॒राऽग्नी
प॑शू॒नां गार्ह॑पत्यो मनु॒ष्या॑णामन्वाहार्य॒पच॑नः पितृ॒णाम॒ग्निं
गृ॑ह्णाति॒ स्व ए॒वाऽऽयत॑ने दे॒वताः॒ परि॑ (१) गृ॒ह्णा॒ति॒ ताः
श्वो भू॒ते य॑जते व्र॒तेन॒ वै मेध्यो॒ऽग्निर्व्र॒तप॑तिर्ब्राह्म॒णो व्र॑तभृद्
व्र॒तमु॑पै॒ष्यन्ब्रू॑या॒दग्ने॑ व्रतपते व्र॒तं च॑रिष्या॒मीत्य॒ग्निर्वै दे॒वानां॑
व्र॒तप॑ति॒स्तस्मा॑ ए॒व प्र॑ति॒प्रोच्य॑ व्र॒तमा ल॑भते ब॒र्हिषा॑ पू॒र्ण-
मा॑से व्र॒तमुपै॑ति व॒त्सैर॑मावा॒स्या॑यामे॒तद्ध्ये॑तयो॑रा॒यत॑न॒मुप॒स्तीर्यः॒
पूर्व॑श्चा॒ग्निरप॑र॒श्चेत्या॑हुर्मनु॒ष्याः॑ (२) इन्न्वा उप॑स्तीर्णमि॒-
च्छन्ति॒ किमु॑ दे॒वा येषां॒ नवा॑वसानमु॒पा॑स्मिञ्छ्वो य॒क्ष्यमा॑णे
दे॒वता॑ वसन्ति॒ य ए॒वं वि॒द्वान॒ग्निमु॑पस्तृ॒णाति॒ यज॑मानेन
ग्रा॒म्याश्च॑ प॒शवो॑ऽव॒रुध्या॑ आर॒ण्याश्चेत्या॑हुर्यद्ग्रा॒म्यानु॑प॒वस॑ति॒
तेन॑ ग्रा॒म्यानव॑ रुन्धे॒ यदा॑र॒ण्यस्या॒श्नाति॒ तेना॑ऽऽर॒ण्यान्यदना॑-
श्वानुप॒वसे॑त्पितृदेव॒त्यः॑ स्यादार॒ण्यस्या॑श्नातीन्द्रि॒यम् (३)
वा आ॑र॒ण्यमि॑न्द्रि॒यमे॒वाऽऽत्मन्ध॑त्ते॒ यदना॑श्वा॑नुप॒वसे॒त्क्षोधु॑कः
स्या॒द्यद॑श्नी॒याद्रु॒द्रो॑ऽस्य प॒शून॒भि म॑न्येता॒पो॑ऽश्नाति॒ तन्नेवा॑शि॒तं
नेवान॑शितं॒ न क्षोधु॑को॒ भव॑ति॒ नास्य॑ रु॒द्रः प॒शून॒भि म॑न्यते॒
वज्रो॒ वै य॒ज्ञः क्षुत्खलु॒ वै म॑नुष्य॑स्य॒ भ्रातृ॑व्यो॒ यदना॑श्वानुप॒-
वसति॒ वज्रे॑णै॒व सा॒क्षात्क्षुधं॒ भ्रातृ॑व्यँ हन्ति (४)॥
( परि॑ मनु॒ष्या॑ इन्द्रि॒यँ सा॒क्षात्त्रीणि॑ च )
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके
षष्ठप्रपाठके सप्तमोऽनुवाकः॥७॥
[[686]]
Page No. ६८६
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — ( १ प्रथमकाण्डे —
( देवतापरिग्रहादिविधिः )
(अथ प्रथमकाण्डे षष्ठप्रपाठके सप्तमोऽनुवाकः)।
…
…
…
[[687]]
Page No. ६८७
प्रपा॰ ६ अनु॰ ७ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
( देवतापरिग्रहादिविधिः )
…
…
…
…
…
…
…
…
[[688]]
Page No. ६८८
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — ( १ प्रथमकाण्डे —
( देवतापरिग्रहादिविधिः )
…
…
…
…
…
…
[[689]]
Page No. ६८९
प्रपा॰ ६ अनु॰ ८ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
( यज्ञायुधसंभृत्यभिधानम् )
अथ मीमांसा।
षष्ठाध्यायस्य चतुर्थपादे चिन्तितम्-
वत्सैर्दर्शे सवत्सस्य वत्समात्रस्य वा विधिः।
व्रतकालं लक्षयेद्वा वत्सयुक्ते व्रते विधिः॥
भाति रागाद्व्रतप्राप्तेर्वत्समात्रं विधीयते।
व्ररततयाकरणं वत्सः कालगीस्तदपाकृतेः” इति॥
दर्शपूर्णमासयोः श्रूयतेः - “बर्हिषा पूर्णमासे व्रतमुपैति वत्सेरमावास्यायाम्” इति। व्रतं भोजनम्। अत एवाऽऽम्नायते - “अमाषममाँ सं बहुसर्पिष्कं व्रतयति” इति। तदेद्र्यतं यत्ससंयुक्तमत्र विधीयते। कुतः। वत्सैरिति तृतीयया साहित्यस्य प्रतिभानादित्येकः पक्षः। रागत इत्येव प्राप्तत्वाद्व्रतं न विधीयते किंतु वत्समात्रं विधेयमिति द्वितीयः पक्षः। न हि वत्सः पाण्यादिवद्व्रतस्य करणम्। ततो न तस्य विधिः। किंतु वत्सानामपाकरणेन काल उपलक्ष्यते। तस्मिन्काले व्रतमुपेयात्। एवं मासे बर्हिःसंपादनकाले व्रतमुपेयात्॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे षष्ठप्रपाठके
सप्तमोऽनुवाकः॥७॥