०६

( अथ प्रथमाष्टके षष्ठप्रपाठके षष्ठोऽनुवाकः )।
अग॑न्म॒ सुवः॒ सुव॑रगन्म सं॒दृश॑स्ते॒ मा छि॑त्सि॒ यत्ते॒ तप॒-
स्तस्मै॑ ते॒ माऽऽ वृ॑क्षि सु॒भूर॑सि॒ श्रेष्ठो॑ रश्‍मी॒नामा॑यु॒र्धा अ॒स्या-
यु॑र्मे धेहि वर्चो॒धा अ॑सि॒ वर्चो॒ मयि॑ धेही॒दम॒हम॒मुं भ्रातृ॑व्य-
मा॒भ्यो दि॒ग्भ्यो॑ऽस्यै दि॒वो॑ऽस्माद॒न्तरि॑क्षाद॒स्यै पृ॑थि॒व्या अ॒स्मा-
द॒न्नाद्या॒न्निर्भ॑जामि॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मः (१) सं ज्योति॑-
षाऽभूवमै॒न्द्रीमा॒वृत॑म॒न्वाव॑र्ते॒ सम॒हं प्र॒जया॒ सं मया॑ प्र॒जा स॒म-
हँ रा॒यस्पोषे॑ण॒ सं मया॑ रा॒यस्पोषः॒ समि॑द्धो अग्ने मे दीदिहि
समे॒द्धा ते॑ अग्ने दीद्यासं॒ वसु॑मान्य॒ज्ञो वसी॑यान्भूयास॒मग्न॒ आयू॑-

[[680]]

Page No. ६८०
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — ( १ प्रथमकाण्डे —
( सूर्योपस्थानादिमन्त्राभिधानम् )
ँषि पवस॒ आ सु॒वोर्ज॒मिषं॑ च नः। आ॒रे बा॑धस्व दु॒च्छु-
ना॑म्। अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्चः॑ सु॒वीर्य॑म् (२)।
दध॒त्पोषँ॑ र॒यिं मयि॑। अग्ने॑ गृहपते सुगृहप॒तिर॒हं त्वया॑ गृ॒ह
प॑तिना भूयासँ सुगृहप॒तिर्मया॒ त्वं गृ॒हप॑तिना भूयाः श॒तँ
हिमा॒स्तामा॒शिष॒मा शा॑से॒ तन्त॑वे॒ ज्योति॑ष्मतीं॒ तामा॒शिष॒मा
शा॑से॒ऽमुष्मै॒ ज्योति॑ष्मतीं॒ कस्त्वा॑ युनक्ति॒ स त्वा॒ वि मुञ्च॒त्वग्ने॑
व्रतपते व्र॒तम॑चारिषं॒ तद॑शकं॒ तन्मे॑ऽराधि य॒ज्ञो ब॑भूव॒ स आ
(३) ब॒भू॒व॒ स प्र ज॑ज्ञे॒ स वा॑वृधे। स दे॒वाना॒मधि॑पतिर्बभूव॒
सो अ॒स्माँ अधि॑पतीन्करोतु व॒यँ स्या॑म॒ पत॑यो रयी॒णाम्।
गोमाँ॑ अ॒ग्नेऽवि॑माँ अ॒श्वी य॒ज्ञो नृ॒वत्स॑खा सद॒भिद॑प्रमृ॒ष्यः।
इडा॑वाँ ए॒षो अ॑सुर प्र॒जावा॑न्दी॒र्घो र॒यिः पृ॑थुबु॒ध्नः स॒भा-
वा॑न्॥ (४)
( द्वि॒ष्मः सु॒वीर्यँ॒ स आ पञ्च॑त्रिँशच्च )।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके
षष्ठप्रपाठके षष्ठोऽनुवाकः॥६॥

(अथ प्रथमकाण्डे षष्ठप्रपाठके षष्ठोऽनुवाकः)।


[[681]]

Page No. ६८१
प्रपा॰ ६ अनु॰ ६ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
( सूर्योपस्थानादिमन्त्राभिधानम् )









[[682]]

Page No. ६८२
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — ( १ प्रथमकाण्डे —
( सूर्योपस्थानादिमन्त्राभिधानम् )



कल्पः - ‘अथाऽऽग्निपावमानीभ्यां गार्हपत्यमुपतिष्ठतेऽग्न आयूँषि पवसेऽग्रे पवस्वेति’ इति।
पाठास्तु -
अग्ने आयूँषीति। हेऽग्ने पुत्रपौत्रादियुक्तानामस्माकमायूंषि पवसे शोधयसि। अपमृत्युं परिहरसीत्यर्थः। नोऽस्माकमूर्जं बलमिषमन्नं चाऽऽसमन्तात्सुव प्रेरय देहीत्यर्थः। दुच्छुनां वैरिसेनामारे दूरे बाधस्व निराकुरु। सकारान्तोपःशब्दः कर्मवाची। शोभनमपः कर्म यस्यासौ स्वपाः। हेऽग्ने त्वं स्वपाः सन्नस्मे अस्मान्पवस्व शोधय। मयि ब्रह्मवर्चसं व्यवहारसामर्थ्यं पुष्ठिं धनं च स्थापय।


[[683]]

Page No. ६८३
प्रपा॰ ६ अनु॰ ६ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
( सूर्योपस्थानादिमन्त्राभिधानम् )







[[684]]

Page No. ६८४
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — ( १ प्रथमकाण्डे —
( सूर्योपस्थानादिमन्त्राभिधानम् )
अत्र विनियोगसंग्रहः —
“अगन्पूर्वाग्न्युपस्थानं सुभूर्भानोरुपस्थितिः।
इदं निःसारयेच्छत्रून्संज्योति स्वाभिमर्शनम्॥१॥
ऐन्द्रीं प्रदक्षिणावृत्तिः समहं तद्विपर्ययः।
समिद्धः समिदाधानं वसु पूर्वाग्न्युपस्थितिः॥२॥
अग्न आयूत्रिभिर्मन्त्रैरपराग्नेरुपस्थितिः।
कस्त्वा यज्ञविमोकः स्यादग्ने तद्व्रतमुत्सृजेत्॥३॥
यज्ञेति पुनरालम्भं जपेद्गोमांस्तु गोमतीम्।
षष्ठेऽनुवाक एतस्मिन्मन्त्राः पञ्चदशेरिताः॥४॥” इति।
अथ मीमांसा।
नवमाध्यायस्य प्रथमपादे चिन्तितम्-
अगन्मादेः स्वर्गदेवौ हेतू यद्वा प्र(ऽज्ञ)चोदितम्।
आद्यौ लिङ्गान्मैवमङ्गस्यापूर्वाकाङ्क्षितत्वतः॥
दर्शपूर्णमासयोर्मन्त्रौ श्रुतौ - अगन्म सुवरित्येकः। अग्नेरहमुज्जितिमनूज्जेषमि-त्यपरः। तयोरुभयोः क्रमेण स्वर्गदेवौ प्रयोजकौ। कुतः। तल्लिङ्गदर्शनात्। तथा सति सौर्यं चरुं निर्वपेद्ब्रह्मवर्चसकाम इत्यत्र स्वर्गाग्न्योरभावान्नास्त्यूह इति प्राप्ते ब्रूमः — चोदितं यदपूर्वं तस्यैव फलत्वेनानुष्ठेयतयेतिकर्तव्यताकाङ्क्षा युक्ता। ततो मन्त्रयोरपूर्वं प्रयोजकम्। तथा सति विकृतावगन्म ब्रह्मवर्चसं सूर्यस्यहमुज्जितिमनूज्जेषमित्येवं मन्त्रयोरस्त्यूहः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे षष्ठप्रपाठके
षष्ठोऽनुवाकः॥५॥