०५

(अथ प्रथमाष्टके षष्ठप्रपाठके पञ्चमोऽनुवाकः)
आ प्या॑यतां ध्रु॒वा घृ॒तेन॑ य॒ज्ञंय॑ज्ञं॒ प्रति देवय॒द्भ्यः॑। सू॒-
र्याया॒ ऊधोऽदि॑त्या उ॒पस्थ॑ उ॒रुधा॑रा पृथि॒वी य॒ज्ञे अ॒स्मिन्।
प्र॒जाप॑तेर्वि॒भान्नाम॑ लो॒कस्तस्मिँ॑स्त्वा दधामि स॒ह यज॑मा-
नेन॒ सद॑सि॒ सन्मे॑ भूयाः॒ सर्व॑मसि॒ सर्वं॑ मे भूयाःपू॒र्णम॑सिपू॒-
र्णं मे भूया॒ अक्षि॑तमसि॒ मा मे॑ क्षेष्ठाः॒ प्राच्‍यां दि॒शि दे॒वा
ऋ॒त्विजो॑ मार्जयन्तां॒ दक्षि॑णायाम् (१) दि॒शि मासाः॑ पि॒त-
रो॑ मार्जतन्तां प्र॒तीच्यां॑ दि॒शि गृ॒हाः पशवो॑ मार्जयन्ता॒मुदी॑-
च्यां दि॒श्याप॒ ओष॑धयो॒ वन॒स्पत॑यो मार्जयन्तामू॒र्ध्वायां दि-
शि य॒ज्ञः सं॑वत्स॒रो य॒ज्ञप॑तिर्मार्जयन्तां॒ विष्णोः॒ क्रमो॑ऽस्यभिमा
ति॒हा गा॑य॒त्रेण॒ छन्द॑सा पृथि॒वीमनु॒ वि क्र॑मे॒ निर्भ॑क्तः॒ स यं
द्बि॒ष्मो विष्णोः॒ क्रमो॑ऽस्यभिशस्ति॒हा त्रैष्टु॑भेन॒ छन्द॑सा॒ऽन्तरि॑क्ष॒-
मनु॒ वि क्रमे॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मो विष्णोः॒ क्रमो॑ऽस्यरातीय॒-
तो ह॒न्ता जाग॑ते॒न छन्द॑सा॒ दिव॒मनु॒ वि क्र॑मे॒ निर्भ॑क्तः॒ स यं

[[677]]

Page No. ६७७
प्रपा॰ ६ अनु॰ ५ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(आप्यायनादिमन्त्राभिधानम्)
द्वि॒ष्मो विष्णोः॒ क्रमो॑ऽसि शुत्रूय॒तो ह॒न्ताऽऽनु॑ष्टुभेन॒ छन्द॑सा॒
दिशोऽनु॒ वि क्र॑मे॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मः (२)॥
(दक्षि॑णायाम॒न्तरि॑क्ष॒मनु॒ वि क्र॑मे॒ निर्भ॑क्तः॒ स यं द्बि॒ष्मो विष्णो॒रेका॒न्नत्रिँ॒शच्‍च॑)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमष्टके
षष्ठप्रपाठके पञ्चमोऽनुवाकः॥ ५॥

(अथ प्रथमकाण्डे षष्ठप्रपाठके पञ्चमोऽनुवाकः)।


[[678]]

Page No. ६७८
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — ( १ प्रथमकाण्डे —
(आप्यायनादिमन्त्राभिधानम्)




[[679]]

Page No. ६७९
प्रपा॰ ६ अनु॰ ६ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
( सूर्योपस्थानादिमन्त्राभिधानम् )


अत्र विनियोगसंग्रहः —
“आप्या ध्रुवाप्यायनं स्यात्प्रजा स्वाम्यंशभक्षणम्।
सदसीति प्रणीतानां धाराया अभिमन्त्रणम्॥१॥
प्राच्यां तु पञ्चभिः सिञ्चेत्क्रमेद्विष्णोश्चतुष्टयात्।
अनुवाके पञ्चमेऽस्मिन्मन्त्र द्वादश वर्णिताः॥२॥ इति।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजु-र्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे षष्ठप्रपाठके
पञ्चमोऽनुवाकः॥५॥