(अथ प्रथमाष्टके षष्ठप्रपाठके चतुर्थोऽनुवाकः )।
ब॒र्हिषो॒हं दे॑वय॒ज्यया॑ प्र॒जावा॑न्भूयासं॒ नरा॒-
शँस॑स्या॒हं दे॑वय॒ज्यया॑ पशु॒मान्भू॑यासम॒ग्नेः
स्वि॑ष्ट॒कृतो॒ऽहं दे॑वय॒ज्ययाऽऽयु॑ष्मान्य॒ज्ञेन॑ प्रति॒ष्ठां
ग॑मेयम॒ग्नेर॒हमुज्जि॑ति॒मनूज्जे॑षँ॒ सोम॑स्या॒हमुज्जि॑-
ति॒मनूज्जे॑षम॒ग्नेर॒हमुज्जि॑ति॒मनूज्जे॑षम॒ग्नीषोम॑योर॒-
हमुज्जि॑ति॒मनूज्जे॑षमिन्द्राग्नि॒योर॒हमुज्जि॑ति॒मनू-
ज्जे॑षमिन्द्र॑स्या॒हम् (१) उज्जि॑ति॒मनूज्जे॑षं महे॒-
न्द्रस्या॒हमुज्जि॑ति॒मनूज्जे॑षम॒ग्नेः स्वि॑ष्ट॒कृतो॒ऽहमु-
[[672]]
Page No. ६७२
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — ( १ प्रथमकाण्डे-
(शेषाहुतीनामनुयाजादीनामनुमन्त्रणम्)
ज्जि॑ति॒मनूज्जे॑षं॒ वाज॑स्य मा प्रस॒वेनो॑द्ग्रा॒भेणोद॑-
ग्रभीत्। अथा॑ स॒पत्नाँ इन्द्रो॑ मे निग्रा॒भेणा
ध॑राँ॑ अकः। उ॒द्ग्रा॒भं च॑ निग्रा॒भं च॒ ब्रह्म॑ दे॒वा
अ॑वीवृधन्। अथा॑ स॒पत्ना॑निन्द्रा॒ग्नी मे॑ विषू॒-
चीना॒न्व्य॑स्यताम्। एमा अ॑ग्मन्ना॒शिषो॒ दोह॑-
कामा॒ इन्द्र॑वन्तः (२) व॒ना॒म॒हे॒ धु॒क्षी॒महि॑
प्र॒जामिष॑म्। रोहि॑तेन त्वा॒ऽग्निर्दे॒वतां॑ गमयतु॒
हरि॑भ्यां॒ त्वेन्द्रो॑ दे॒वतां॑ गमय॒त्वेत॑शेन त्वा॒ सूर्यो॑
दे॒वतां॑ गमयतु॒ वि ते॑ मुञ्चामि रश॒ना वि
र॒श्मीन्वि॑ योक्त्रा॒ यानि॑ परि॒चर्त॑नानि ध॒त्ताद॒-
स्मासु॒ द्रवि॑णं॒ यच्च॑ भ॒द्रं प्र णो॑ ब्रूताद्भाग॒धान्दे॒-
वता॑सु। विष्णोः॑ शं॒योर॒हं दे॑वय॒ज्यया॑ य॒ज्ञेन॑
प्रति॒ष्ठां ग॑मेयँ॒ सोम॑स्या॒हं दे॑वय॒ज्यया॑ (३)
सु॒रेता॒ रेतो॑ धिषीय॒ त्वष्टु॑र॒हं दे॑वय॒ज्यया॑ पशू॒-
नाँ रू॒पं पु॑षेयं दे॒वानां॒ पत्नी॑र॒ग्निर्गृ॒हप॑तिर्य॒-
ज्ञस्य॑ मिथु॒नं तयो॑र॒हं दे॑वय॒ज्यया॑ मिथु॒नेन॒ प्र
भू॑यासं वे॒दो॑ऽसि॒ वित्ति॑रसि वि॒देय॒ कर्मा॑सि
क॒रुण॑मसि क्रि॒यासँ॑ स॒निर॑सि सनि॒ताऽसि॑
स॒नेयं॑ घृ॒तव॑न्तं कुला॒यिनँ॑ रा॒यस्पोषँ॑ सह॒-
स्रिणं॑ वे॒दो द॑दातु वा॒जिन॑म् (४)॥
( इन्द्र॑स्या॒हमिन्द्र॑वन्तः॒ सोम॑स्या॒हं देव॑य॒ज्यया॒ चतु॑श्चत्वारिँशच्च )
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके
षष्ठप्रपाठके चतुर्थोऽनुवाकः॥४॥
[[673]]
Page No. ६७३
प्रपा॰ ६ अनु॰ ४ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(शेषाहुतीनामनुयाजादीनामनुमन्त्रणम्)
(अथ प्रथमकाण्डे षष्ठप्रपाठके चतुर्थोऽनुवाकः)।
…
…
…
…
[[674]]
Page No. ६७४
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — ( १ प्रथमकाण्डे —
(शेषाहुतीनामनुयाजादीनामनुमन्त्रणम्)
…
…
…
…
…
[[675]]
Page No. ६७५
प्रपा॰ ६ अनु॰ १ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(शेषाहुतीनामनुयाजादीनामनुमन्त्रणम्)
…
…
…
…
…
…
…
…
[[676]]
Page No. ६७६
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — ( १ प्रथमकाण्डे —
(आप्यायनादिमन्त्राभिधानम्)
अत्र विनियोगसंग्रहः -
“बर्हिस्त्रिभिरनूयाजान्मन्त्रयेत्सूक्तवाककम्।
अग्नेरित्यष्टभिर्वाजद्वाभ्यां व्यूहेत्स्रुचौ तथा॥१॥
एमाः स्वनामग्रहणे रोहीति प्रस्तरं त्रिभिः।
वि ते परिधिमोकं तु विष्णोः शं शंयुवाककम्॥२॥
त्रिभिः सोमादिसंयाजान्वेदो वेदिभिमर्शनम्।
अनुवाके चतुर्थेऽस्मिंस्त्रयोविंशतिरीरिताः”॥३॥ इति॥