(अथ प्रथमाष्टके षष्ठप्रपाठके तृतीयोऽनुवाकः)।
अ॒ग्निर्मा॒ दुरि॑ष्टात्पातु सविता॒ऽघशँ॑सा॒द्यो
मेऽन्ति॑ दू॒रे॑ऽरायती॒यति॒ तमे॒तेन॑ जेषँ॒ सुरू॑पव-
[[667]]
Page No. ६६७
प्रपा॰ ६ अनु॰ ३ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(भक्ष्यस्येडादिभागस्यानुमन्त्रणम्)
र्षवर्ण॒ एही॒मान्भ॒द्रान्दुर्याँ॑ अ॒भ्येहि॒ माम॑नुव्रता॒
न्यु॑ शी॒र्षाणि॑ मृड्ढ्व॒मिड॒ एह्यदि॑त॒ एहि॒ सर॑स्व॒-
त्येहि॒ रन्ति॑रसि॒ रम॑तिरसि सू॒नर्य॑सि जुष्टे॒ जुष्टिं॑
तेऽशी॒योप॑हूत उपह॒वम् (१) ते॒ऽशी॒य॒ सा
मे॑ स॒त्याऽऽशीर॒स्य य॒ज्ञस्य॑ भूया॒दरे॑डता॒ मन॑सा॒
तच्छ॑केयं य॒ज्ञो दिवँ॑ रोहतु य॒ज्ञो दिवं॑
गच्छतु॒ यो दे॑व॒यानः॒ पन्था॒स्तेन॑ य॒ज्ञो दे॒वाँ
अप्ये॑त्व॒स्मास्विन्द्र॑ इन्द्रि॒यं द॑धात्व॒स्मान्राय॑
उ॒त य॒ज्ञाः स॑चन्ताम॒स्मासु॑ सन्त्वा॒शिषः॒ सा
नः॑ प्रि॒या सु॒प्रतू॑र्तिर्म॒घोनी॒ जुष्टि॑रसि जु॒षस्व॑ नो॒
जुष्टा॑ नः (२) अ॒सि॒ जुष्टिं॑ ते गमे॑यं॒ मनो॒
ज्योति॑र्जुषता॒माज्यं॒ विच्छि॑न्नं य॒ज्ञंँ समि॒मं
द॑धातु। बृह॒स्पति॑स्तनुतामि॒मं नो॒ विश्वे॑ दे॒वा
इ॒ह मा॑दयन्ताम्। ब्रध्न॒ पिन्व॑स्व॒ दद॑तो मे॒ मा
क्षा॑यि कुर्व॒तो मे॒ मोप॑ दसत्प्र॒जाप॑तेर्भा॒गो॑ऽस्यू-
र्ज॑स्वा॒न्पय॑स्वान्प्राणापा॒नौ मे॑ पाहि समान-
व्या॒नौ मे॑ पाह्युदानव्या॒नौ मे॑ पा॒ह्यक्षि॑तो॒ऽ-
स्यक्षि॑त्यै त्वा॒ मा मे॑ क्षेष्ठा अ॒मुत्रा॒मुष्मि॑-
ल्लोँके (३)॥
( उ॒प॒ह॒वं जुष्टा॑ नस्त्वा॒ षट् च॑ )।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके
षष्ठप्रपाठके तृतीयोऽनुवाकः॥३॥
[[668]]
Page No. ६६८
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — ( १ प्रथमकाण्डे–
(भक्ष्यस्येडादिभागस्यानुमन्त्रणम्)
(अथ प्रथमकाण्डे षष्ठप्रपाठके तृतीयोऽनुवाकः)।
…
…
…
…
[[669]]
Page No. ६६९
प्रपा॰ ६ अनु॰ ३ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(भक्ष्यस्येडादिभागस्यानुमन्त्रणम्)
…
…
…
…
…
…
…
…
…
…
…
…
…
[[670]]
Page No. ६७०
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे-
(भक्ष्यस्येडादिभागस्यानुमन्त्रणम्)
…
…
…
…
Page No. ६७०
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे-
(भक्ष्यस्येडादिभागस्यानुमन्त्रणम्)
मनो ज्योतिर्मननीयोऽयमग्निस्तत्तदाहुतिष्वाज्यं सेवताम्। केनापि वैकल्येन विच्छिन्नमिमं यज्ञं वैकल्यपरिहारेण संदधातु। बृहस्पतिः स्वयमेव नोऽस्मदीयमिमं यज्ञ तनुताम्। विश्वे देवा इड यज्ञे मादयन्तां तृप्यन्तु।
ब्रध्न पिन्वस्वेति। कल्पः - ‘बर्हिषदं पुरोडाशमनुमन्त्रयते ब्रध्न पिन्वस्व ददतो मे मा क्षायि कुर्वतो मे मोप दसदिति’ इति।
यज्ञपुरुषवाची ब्रध्नशब्दः। ‘यज्ञो वै ब्रध्नः’ इति श्रुतेः हे ब्रध्न पिन्वस्वास्मानृत्विजश्च प्रीणय। ददतो धनं प्रयच्छतो मम देयं धनं मा क्षीयतामपि तूपचीयताम्। यागं कुर्वतो मम सामर्थ्य मोपदसन्मोपक्षीयतामपि तु पुनः पुनर्वर्धताम्।
प्रजापतेरिति। कल्पः - ‘अथान्वाहार्यं याचति तमन्तर्वेद्यासन्नमभिमन्त्रयते प्रजापतेर्भागोऽस्यूर्जस्वान्पयस्वाप्राणापानौ मे पाहि समानव्यानौ मे पाह्यु-दानव्यानौ मे पाह्यक्षितोऽस्यक्षित्यै त्वा मा मे क्षेष्ठा अमुत्रामुष्मिल्ँ लोक इति’ इति।
यद्यप्यन्वाहार्य ऋत्विजां भागस्तथाऽपि तेन प्रजापतेः परितोषात्तद्भागत्वम-प्यविरुद्धम्। स च भाग ऊर्जस्वान्बलवान्। तद्भोजिनां बलप्रदत्वात्। पय-स्वान्क्षीरवत्स्वादुतमः। यद्वा क्षीरं पच्यमानत्वात्पयस्वान्। अत एव सूत्रकार आह – ‘क्षीरे भवतीत्येक’ इति। हेऽन्वाहार्य त्वं शरीरगतान्प्राणादिवायुभेदान्पाहि। एक एव वायुः शरीरगतः शरीरगतः स्थानभेदात्कार्यभेदाच्च प्राणादिनामभिर्भिद्यते।
स्थानभेद कैश्चिदुक्तः —
“हृदि प्राणो गुदेऽपानः समानो नाभिसंस्थितः।
उदानः कण्ठदेशस्थो व्यानः सर्वशरीरगः” इति।
उच्छ्वासनिःश्वासौ प्राणव्यापारः। मलमूत्रयोरधःपातनमपानव्यापारः। भुक्तस्यान्नरसस्य शरीरे साम्येन नयनं समानव्यापारः। उद्गारादिरुदानव्यापारः। कृत्स्नासु शरीरनाडीषु व्याप्य प्राणापानवृत्योः संधिकाले शरीरस्य बलप्रदानं व्यानव्यापारः। अत एव च्छन्दोगा आमनन्ति – ‘यद्वै प्राणिति स प्राणो यदपानिति सोऽपानः। अथ यः प्राणापानयोः संधिः स व्यानो यो व्यानः
[[671]]
Page No. ६७१
प्रपा॰ ६ अनु॰ ४) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(शेषाहुतीनामनुयाजादीनामनुमन्त्रणम् )
…
…