(अथ प्रथमाष्टके षष्ठप्रपाठके द्वितीयोऽनुवाकः) ।
ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽहँ स॑जा॒तेषु॑ भूयासं॒ धीर॒श्चेत्ता॑
व॒सुविदु॒ग्रो॑ऽस्यु॒ग्रो॑ऽहँ स॑जा॒तेषु॑ भूयास-
[[659]]
Page No. ६५९
प्रपा॰ ६ अनु॰ २ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(हविर्होमानुमन्त्रणम्)
मु॒ग्रश्चेत्ता॑ वसु॒विद॑भि॒भूर॑स्यभि॒भूरहँ॒ स॑जा॒तेषु॑
भूयासमभि॒भूश्चेत्ता॑ वसु॒विद्यु॒नज्मि॑ त्वा॒ ब्रह्म॑णा॒
दैव्ये॑न ह॒व्याया॒स्मै वोढ॒वे जा॑तवेदः। इन्धा॑ना-
स्त्वा सुप्र॒जसः॑ सु॒वीरा॒ जोग्जी॑वेम बलि॒-
हृतो॑ व॒यं ते॑। यन्मे॑ अग्ने अ॒स्य य॒ज्ञस्य॒
रिष्या॑त् (१) यद्वा॒ स्कदा॒दाज्य॑स्यो॒त
वि॑ष्णो। तेन॑ हन्मि स॒पत्नं॑ दुर्भरा॒युमैनं॑ दधामि॒
निर्ऋ॑त्या उ॒पस्थे॑। भूर्भूवः॒ सुव॒रुच्छु॑ष्मो अग्ने॒
यज॑मानायैधि॒ निशु॑ष्मो अभि॒दास॑ते। अग्ने॒
देवे॑द्ध॒ मन्वि॑द्ध॒ मन्द्र॑जि॒ह्वाम॑र्त्य॑स्य ते होतमू॒र्धन्ना
जि॑घर्मि रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य॒
मनो॑ऽसि प्राजाप॒त्यं मन॑सा मा भू॒तेनाऽऽ वि॑श॒
वाग॑स्यै॒न्द्री स॑पत्न॒क्षय॑णी (२) वा॒चा मे॑न्द्रि॒-
येणाऽऽ वि॑श वस॒न्तमृ॑तू॒नां प्री॑णामि॒ स मा॑
प्री॒तः प्री॑णातु ग्री॒ष्ममृ॑तू॒नां प्री॑णामि॒ स मा॑
प्री॒तः प्री॑णातु व॒र्षा ऋ॑तू॒नां प्री॑णामि॒ ता मा॑
प्री॒ताः प्री॑णन्तु श॒रद॑मृतू॒नां प्री॑णामि॒ सा मा॑
प्री॒ताः प्री॑णातु हेमन्तशिशि॒रावृ॑तू॒नां प्री॑णामि॒
तौ मा॑ प्री॒तौ प्री॑णीताम॒ग्नीषोम॑योर॒हं दे॑वय॒ज्यया॒
चक्षु॑ष्मान्भूयासम॒ग्नेरहं दे॑वय॒ज्ययाऽन्ना॒दो भू॑या-
सम् (३) दब्धि॑र॒स्यद॑ब्धौ भूयासम॒मुं द॑भेय-
म॒ग्नीषोम॑योर॒हं दे॑वय॒ज्यया॑ वृत्र॒हा भू॑यासमि-
न्द्राग्नि॒योर॒हं दे॑वय॒ज्यये॑न्द्रिया॒व्य॑न्ना॒दो भू॑यास॒-
[[660]]
Page No. ६६०
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — ( १ प्रथमकाण्डे–
(हविर्होमानुमन्त्रणम्)
मिन्द्र॑स्या॒हं दे॑वय॒ज्यये॑न्द्रिया॒वी भू॑यासं महे॒-
न्द्रस्या॒हं दे॑वय॒ज्यया॑ जे॒मानं॑ महि॒मानं॑ गमेय-
म॒ग्नेः स्वि॑ष्ट॒कृतो॒ऽहं दे॑वय॒ज्ययाऽऽयु॑ष्मान्य॒ज्ञेन॑
प्रति॒ष्ठां ग॑मेयम्॥ (४)
( रिष्या॑त्सपत्न॒क्षय॑ण्यन्ना॒दो भू॑यासँ॒ षट्त्रिँ॑शच्च )।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके
षष्ठप्रपाठके द्वितीयोऽनुवाकः॥२॥
(अथ प्रथमकाण्डे षष्ठप्रपाठके द्वितीयोऽनुवाकः)।
…
…
…
[[661]]
Page No. ६६१
प्रपा॰ ६ अनु॰ २ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(हविर्होमानुमन्त्रणम्)
…
…
…
…
…
[[662]]
Page No. ६६२
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — ( १ प्रथमकाण्डे —
(हविर्होमानुमन्त्रणम्)
…
…
…
…
…
…
[[663]]
Page No. ६६३
प्रपा॰ ६ अनु॰ २ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(हविर्होमानुमन्त्रणम्)
…
…
…
…
…
…
…
[[664]]
Page No. ६६४
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — ( १ प्रथमकाण्डे-
(हविर्होमानुमन्त्रणम्)
…
…
अत्र विनियोगसंग्रहः —
“ध्रुवोऽसीति त्रिभिर्मन्त्रैः परिधित्रयमन्त्रणम्।
युनाग्नियोग इन्धानाः समिधोरनुमन्त्रणम्॥१॥
यन्मे हविर्मन्त्रयेत भूस्त्रिभिः सादयेद्धविः।
उच्छुष्मो मन्त्रयेतोध्मममर्त्य प्रवृतिं तथा॥२॥
स्रौवाघारं मनोऽसीति स्रुच्याघारं तु वागिति।
वसन्तपञ्चभिर्मन्त्रैः प्रयाजान्पञ्च मन्त्रयेत्॥३॥
अग्नीषोमेत्याज्यभागावग्नेरित्यग्नियागकम्।
दब्धिरुपांशुयाजस्य स्पष्टमग्नीति पञ्चकम्।
अनुवाके द्वितीयेऽस्मिन्मन्त्राः षड्विंशतिर्गताः॥४॥” इति
[[665]]
Page No. ६६५
प्रपा॰ ६ अनु॰ २ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(हविर्होमानुमन्त्रणम्)
अथ मीमांसा।
पञ्चमाध्यायस्य प्रथमपादे चिन्तितम्-
“स्याद्वासन्तादिमन्त्राणां क्रमो नो वाऽन्यवद्भवेत्।
शाखान्तरे व्यत्ययेन न क्रमो नियतोऽत्र हि” इति।
दर्शपूर्णमासयोर्याजमानकाण्डे प्रयाजानुमन्त्रणमन्त्रा आम्नाताः - “वसन्तमृतूनां प्रीणामि ग्रीष्ममृतूनां प्रीणामि” इत्यादयः। तेषां नियतः क्रमोऽभ्युपगन्तव्यः। कुतः। अन्येष्वाग्नेयोपांशुयाजाद्यनुमन्त्रणमन्त्रेषु निय-तक्रमदर्शनेनात्रापि क्रमनियमस्य बुद्धिस्थत्वादिति चेन्मैवम्। अत्र नियामकाभावात्। न तादवत्र पाठो नियामकः। वसन्तग्रीष्मवर्षाशरद्धेम-न्तमन्त्राणामनेन क्रमेण तैत्तिरीयशाखापठितानां व्यत्ययेन पाठदर्शनात्। नात्र यवागूपाकवदर्थो नियामकः। वसन्तमन्त्रेण यस्य कस्यचित्प्रयाजस्यानु-न्त्रणेऽप्यनुपपत्त्यभावात्। नाप्यात्र लिङ्गं नियामकम्। वसन्तमन्त्रे समिद्यागैकविषयस्य विशेषसामर्थ्यस्यादर्शनात्। तस्मादत्र नास्ति नियतः क्रमः।
तृतीयाध्यायस्य तृतीयपादे चिन्तितम्-
“उपांशुयजतेर्नाङ्गं दब्धिमन्त्रोऽङ्गताऽथवा।
साधारणत्वाल्लिङ्गादेर्मानाभावादनङ्गता॥
मन्त्राणां कर्मणां चात्र क्रमेणाऽऽम्नानमीक्ष्यते।
प्रक्रियावत्क्रमो मानं यथासंख्यं ततोऽङ्गता॥
क्रमः समानदेशत्वं पाठादर्थाच्च पाठतः।
यथासंख्यं संनिधिश्च यथासंख्यामुदाहृतम्।
शृन्धध्वमिति सांनाय्यपात्राङ्गं संनिधेर्मतम्।
पशुधर्मोऽर्थसादेश्यादग्नीषोमीयगो भवेत्” इति॥
दर्शपूर्णमासयोर्याजमाने मन्त्रकाण्डे कश्चिन्मन्त्र आम्नायते - दब्धिरस्यदब्धो भूयासममुं दभेयम्” इति। अस्य मन्त्रस्योपांशुयाजाङ्गतायां श्रुति-
[[666]]
Page No. ६६६
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — ( १ प्रथमकाण्डे–
(हविर्होमानुमन्त्रणम्)
वाक्ये न विद्येते। ब्राह्मणे विनियोग आम्नायार्थविवरणस्यैवाऽऽम्नातत्वात्। “एतया वै दब्ध्या देवा असुरानदभ्नुवन्तयैव भ्रातृव्यं दभ्नोति” इति ब्राह्मणम्। दब्धिर्घातुकमायुधम्। आग्नेयाग्नीषोमीययोरप्यनिष्टनिवारकत्वाल्लिङ्गं साधारणम्। प्रकरणं च त्रयाणामेव। ततो मानाभावादयं मन्त्रो नोपांशुया-जाङ्गमिति प्राप्ते ब्रूमः — आध्वर्यवकाण्ड आग्नेयोपांशुयाजाग्नीषोमीयकर्माणि क्रमेणाऽऽम्नातानि। याजमाने च काण्डे तद्विषया मन्त्राः क्रमेणाऽऽम्नाताः — “अग्नेरहं देवयज्ययाऽन्नादो भूयासं दब्धिरस्यदब्धो भूयासममुं दभेयमग्नीषोमयोरहं देवयज्यया वृत्रहा भूयासम्” इति। तत्र यथा वाक्याद्वयानुसंधानसंपन्नं प्रकरणं पृथक्प्रमाणं तथा प्रकरणद्वयानुसंधानसंपन्नः क्रमः कुतो न मानं स्यात्। न चास्य प्रकरणेऽन्तर्भावः। द्वयोर्वाक्ययोरिव प्रकरणयोरेकवाक्यत्वाभावात्। तस्मात्क्रमप्रमाणेन मध्यवर्तिन उपांशुयाज्यस्य मध्यवर्ती मन्त्रोऽङ्गम्। समानदेशत्वं क्रम इति क्रमस्य स्वरूपम्। तच्च द्विविधं पाठकृतमर्थकृत च। पाठकृतमपि द्विविधं यथासंख्यं संनिधिश्चेति। तयोराद्यस्य दब्धिमन्त्र उदाहरणम्। शुन्धध्वं दैव्याय कर्मण इत्ययं मन्त्रः शोधनीयेषु वस्तुषु साधारणो भासते। तत्र सांनाय्यपात्राणि कुम्भीशाखापवित्रादीन्यनन्तरेषु मातरिश्वन इत्यादिमन्त्रेष्ववभासन्त इति संनिधिना तत्पात्रप्रोक्षणे शुन्धध्वमिति मन्त्रो विनियुज्यते। अनुष्ठानसादेश्यात्पशुधर्माणामग्नीषोमीयाङ्गत्वम्। तदेवं क्रमस्य त्रैविध्यं द्रष्टव्यम्॥