(अथ प्रथमाष्टके पञ्चमप्रपाठके नवमोऽनुवाकः)।
अ॒ग्नि॒हो॒त्रं जु॑होति॒ यदे॒व किं च॒ यज॑मानस्य॒
स्वं तस्यै॒व तद्रेतः॑ सिञ्चति प्र॒जन॑ने प्र॒जन॑नँ॒
हि वा अ॒ग्निरथौष॑धी॒रन्त॑गता दहति॒ तास्ततो॒
[[629]]
Page No. ६२९
प्रपा॰५ अनु॰ ८ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(पूर्वोक्तोपस्थानस्याग्निहोत्राङ्गताप्रदर्शनम्)
भूय॑सीः॒ प्र जा॑यन्ते॒ यत्सा॒यं जु॒होति॒ रेत॑ ए॒व
तात्सि॑ञ्चति॒ प्रैव प्रा॑त॒स्तने॑न जनयति॒ तद्रेतः॑
सि॒क्तं न त्वष्ट्राऽवि॑कृतं॒ प्र जा॑यते याव॒च्छो वै
रेत॑सः सि॒क्तस्य॑ (१) त्वष्टा॑ रू॒पाणि॑ विक॒रोति॑
ताव॒च्छो वै तत्प्र जा॑यत ए॒ष वै दैव्य॒स्त्वष्टा॒ यो
यज॑ते ब॒ह्वीभि॒रुप॑ तिष्ठते॒ रेत॑स ए॒व सि॒क्तस्य॑
बहु॒शो रू॒पाणि॒ वि क॑रोति॒ स प्रैव जा॑यते॒
श्वःश्वो॒ भूया॑न्भवति॒ य ए॒वं वि॒द्वान॒ग्निमु॑प॒ति-
ष्ठ॒तेऽह॑र्देवाना॒मसी॒द्रात्रि॒रसु॑राणां॒ तेऽसु॑रा॒ यद्दे॒-
वानां॑ वि॒त्तं वेद्य॒मासी॒त्तेन स॒ह (२) रात्रिं॒
प्रावि॑श॒न्ते दे॒वा ही॒ना अ॑मन्यन्त॒ ते॑ऽपश्यन्ना-
ग्ने॒यी रात्रि॑राग्ने॒याः प॒शव॑ इ॒ममे॒वाग्निँ स्त॑वाम॒
स नः॑ स्तु॒तः प॒शून्पुन॑र्दास्य॒तीति॒ ते॑ऽग्निम॑स्तु-
व॒न्त्स ए॑भ्यः स्तु॒तो रात्रि॑या॒ अध्य॑हर॒भि प॒शू-
न्निरा॑र्ज॒त्ते दे॒वाः प॒शून्वि॒त्त्वा कामाँ॑ अकुर्वत॒ य
ए॒वं वि॒द्वन॒ग्निमु॑प॒तिष्ठ॑ते पशु॒मान्भ॑वति (३)
आ॒दि॒त्यो वा अ॒स्माल्लो॒काद॒मुं लो॒कमै॒त्सो॑ऽमुं
लो॒कं ग॒त्वा पुन॑रि॒मं लो॒कम॒भ्य॑ध्याय॒त्स इ॒मं
लो॒कमा॒गत्य॑ मृ॒त्योर॑बिभेन्मृ॒त्युसं॑युत इव॒ ह्य॑यं
लो॒कः सो॑ऽमन्यते॒ममे॒वाग्निँ स्त॑वानि॒ स मा॑
स्तु॒तः सु॑व॒र्गं लो॒कं ग॑मयिष्य॒तीति सो॑ऽग्निम॑-
स्तौत्स॒ ए॑नँ स्तु॒तः सु॑वर्गं॒ लो॒कम॑गमय॒द्यः (४)
ए॒वं वि॒द्वान॒ग्निमु॑प॒तिष्ठ॑ते सुव॒र्गमे॒व लो॒कमे॑ति
[[630]]
Page No. ६३०
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे – (पूर्वोक्तोपस्थानस्याग्निहोत्राङ्गताप्रदर्शनम्)
सर्व॒मायु॑रेत्य॒भि वा ए॒षो॑ऽग्नी आ रो॑हति॒ य
ए॑नावुप॒तिष्ठ॑ते॒ यथा॒ खलु॒ वै श्रेया॑न॒भ्यारू॑ढः
का॒मय॑ते॒ तथा॑ करोति॒ नक्त॒मुप॑ तिष्ठते॒ न प्रा॒तः
सँ हि नक्तं॑ व्र॒तानि॑ सृ॒ज्यन्ते॑ स॒ह श्रेयाँ॑श्च॒
पापी॑याँश्चाऽऽसाते॒ ज्योति॒र्वी अ॒ग्निस्तमो॒
रात्रि॒र्यत् (५) नक्त॑मुप॒तिष्ठ॑ते॒ ज्योति॑षै॒व तम॑
श्तरत्युप॒स्थेयो॒ऽग्नी३र्नोप॒स्थेया३ इत्या॑हुर्मनु॒-
ष्या॑येन्न्वै योऽह॑रहरा॒हृत्याथै॑नं॒ याच॑ति॒ स इन्न्वै
तमुपा॑र्च्छ॒त्यथ॒ को दे॒वानह॑रहर्याचिष्य॒तीति॒
तस्मा॒न्नोप॒स्थेयोऽथो॒ खल्वा॑हुरा॒शिषे॒ वै कं
यज॑मानो यजत॒ इत्ये॒षा खलु॒ वै (६) आहि॑-
ताग्नेरा॒शीर्यद॒ग्निमु॑प॒तिष्ठ॑ते॒ तस्मा॑दुप॒स्थेयः॑ प्र॒जा-
प॑ति पशून॑सृजत ते सृष्ट्वा अ॑होरा॒त्रे प्रावि॑-
श॒न्ताञ्छन्दो॑भि॒रण्व॑विन्द॒द्यच्छन्दो॑भिरुप॒तिष्ठ॑ते
स्वमे॒व तदन्वि॑च्छति॒ न तत्र॑ जा॒म्य॑स्तीत्या॑हु-
र्योऽह॑रहरुप॒तिष्ठ॑त॒ इति॒ यो वा अ॒ग्निं प्र॒त्यङ्ङु-
प॒तिष्ठ॑ते॒ प्रत्ये॑नमोषति॒ यः परा॒ङ्विष्व॑ङ्प्र॒-
जया॑ प॒शुभि॑रेति॒ कवा॑तिर्यङ्ङिवो॒प॑तिष्ठते॒
नैनं॑ प्र॒त्योष॑ति॒ न विष्व॑ङ्प्र॒जया॑ प॒शुभि॑रेति
॥७॥
( सि॒क्तस्य॑ स॒ह भ॑वति यो यत्खलु॒ वै प॒शुभि॒स्त्रयो॑दश च )।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके
पञ्चमप्रपाठके नवमोऽनुवाकः॥९॥
[[631]]
Page No. ६३१
प्रपा॰५ अनु॰ ९ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(पूर्वोक्तोपस्थानस्याग्निहोत्राङ्गताप्रदर्शनम्)
(अथ प्रथमकाण्डे पञ्चमप्रपाठके नवमोऽनुवाकः)।
नवमेऽनुवाके पूर्वोक्तोपस्थानस्याग्निहोत्राङ्गता प्रदर्श्यते। तत्र तावदग्निहोत्रं विधत्ते -
अग्निहोत्रमिति। वाक्यान्तरविहितेन पयोदधियवाग्वादिद्रव्येणाग्निहोत्रनामकं होमं कुर्यात्। यजमानस्य क्षीरप्रभृतिकं यत्स्वमग्नौ हुतं न तद्विनश्यति किंतु तस्यैव यजमानस्य तत्स्वं भूत्वाऽवतिष्ठते।
तदवस्थानं दृष्टान्तेनोपपादयति -
रेतः सिञ्चतीति। यथा प्रजोत्पादके योनौ सिक्तं रेतोऽवतिष्ठते तथाऽग्नेः प्रजननरूपत्वात्तस्मिन्हुतमवतिष्ठते।
ननु वह्निसमीपे प्राप्तानां द्रव्याणां दाहः प्रत्यक्षेणोपलभ्यत इत्याशङ्कयाऽऽह -
अथौषधीरिति। यद्यपि घर्मकाले दावाग्निः स्वसमीपं प्राप्ता ओषधीर्दहति तथाऽपि दग्धास्ता ओषधयो वृष्टिकाले भूयस्यः प्रजायन्ते। तस्मात्प्रजन-नोऽग्निः। कालद्वयं विधत्ते -
यत्सायमिति। सायंकालीनहोमेन सेचनम्। प्रातःकालीनहोमेनोत्पादनम्।
विहितस्याग्निहोत्रस्याङ्गमुपस्थानं विधत्ते -
रेतः सिक्तमिति। लोके योनौ सिक्तं रेतो विश्वकर्मणा यदि न विक्रियेत तदा नैव प्रजोत्पत्तिरस्ति। स च त्वष्टा यावन्ति रूपाण्युद्दिश्य रेतो विविधं करोति तावन्त्युत्पद्यन्ते। अत्रापि यजमानो देवैरनुगृहीतस्त्वष्टा ततो विविधरूपक-रणाय बह्वीभिरुपतिष्ठते। अयमुपस्थानकर्मविधिः। एतदनुवादेन षड्भिरुपतिष्ठत इत्यादिमन्त्रविधिः।
उपस्थानं प्रशंसति -
स प्रैवेति। उपस्थाता प्रजामुत्पाद्य प्रतिदिनमुत्तरोत्तरं धनादिभिर्वर्धते।
प्रकारान्तरेण प्रशंसति -
अहर्देवानामिति। वित्तं पूर्वलब्दधं पशुरूपं धनं, वेद्यमतः परं लब्धं योग्यं, तदुभयं देवद्रव्यमपहृत्य तेन सहासुरा रात्रिं प्राविशन्नन्धकारे क्वापि गताः। ततः पशुहीना वयमिति खिद्यन्तो देवा उपयमपश्यान्। रात्रावग्नेः प्रकाशा-धिक्याद्रात्रिराग्नेयी। अग्नेः पशुस्वामित्वात्पशवोऽप्याग्नेयाः। स्तुतः सोऽग्निरेभ्यो देवार्थं रात्रेरध्याहृत्याहरभिलक्ष्य तान्पशून्निरार्जन्निरगमयत्। कामान्भोगान्।
पुनः प्रकारान्तरेण प्रशंसति - आदित्यो वा इति।
[[632]]
Page No. ६३२
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे -
(पूर्वोक्तोपस्थानस्याग्निहोत्राङ्गताप्रदर्शनम्)
पुनरपि प्रकारान्तरेण प्रशंसति -
अभि वा इति। एनावाहवनीयगार्हपत्यौ य उपतिष्ठत एषोऽग्नी उभावभ्या-रोहति स्ववशौ करोति। यथा लोके कश्चित्पूर्वमधमः सन्नेवं कामयतेऽहं विद्यादिना श्रेष्ठ उत्तमं पदमभ्यारूढो भविष्यामीति तथाऽयं यजमान उपस्थानेन स्वस्योत्तमं पदं करोति। तस्मादुपस्थानं प्रशस्तमित्यर्थः।
अत्र केचित्प्रातरग्निर्नोपस्थेय इत्याहुः। अन्ये तु न कदाचिदप्युपस्थेय इति। सिद्धान्तिनस्तु सर्वदाऽप्युपस्थेय इति। तत्र प्रथमं पूर्वपक्षं दर्शयति -
नक्तमुपतिष्ठत इति। रात्रौ व्रतान्यनुष्ठेयानि कर्माणि संसृज्यन्ते संकीर्णानि भवन्ति। अन्धकारे केन कथमनुष्ठितमिति न ज्ञायते। यथाशास्त्रमनुष्ठितो व्रतविशेषः श्रेयांस्तद्विपरीतश्चेत्पापीयान्। तावुभौ सहैव तिष्ठतः। तत्राग्नावुषस्थिते सत्यग्निना ज्योतिषा रात्रिप्रयुक्तं तमोदोषं तरति। तस्मान्नक्तमुपस्थेयः। अहनि तु तमोदोषाभावान्नोपस्थेय इत्येकः पूर्वपक्षः।
द्वितीयपूर्वपक्षं विचारपुरःसरं दर्शयति -
उपस्थेय इति। प्लुतिर्विचारार्था। लोके मनुष्यायैव तावद्राज्ञे यः कोऽपि दरिद्रो यत्किंचिज्जम्बीरफलादिकमुपायनमाहृत्य ततः प्रतिदिनमेनं राजानं प्रति क्षेत्रधनादिकं यदि याचति तदा स याचकस्तं राजानं पीडयत्येव। तथा सति को नाम महाप्रभावान्देवान्प्रतिदिनं याचितुमर्हति। याच्ञारूपं चेदमुपस्थानम्। आयुर्दा अग्नेऽस्यायुर्मे देहीत्यादिमन्त्रेषु तत्प्रतीतेः। तस्मादग्निः कदाचिदपि नोपस्थेय इति द्वितीयः पूर्वपक्षः।
सिद्धान्तं दर्शयति -
अथो खल्वाहुरिति। अथोशब्दः पूर्वपक्षव्यावृत्त्यर्थः। आशिषे वै स्वापेक्षितं सर्वमाशासितुमेव कं प्रजापतिसदृशं सर्वदेवात्मकमग्निं प्रति यजमानो यजत इत्यभिज्ञा आहुः। लोकेऽपि राज्ञश्चित्तवृत्तिमविज्ञायाकाण्डे देहि देहित्युक्ते सत्युपरोधो भवति। यदा तु प्रशंसया विनोदेन वा परितोषमुत्पाद्य याचते तदानोमुत्साहयुक्तो याचितादप्यत्यन्तमधिकमेव ददाति, तद्वदाहि-ताग्नेर्मन्त्रैरुपस्थानमेव याच्ञा। सा च बहुविधप्रशंसापूर्वकत्वान्नोपरोधाय भवति किंत्वत्यन्तपरितोषायैव। तस्मात्सायं प्रातश्च वह्निरुपस्थेय एव।
ऋग्भिरुपस्थानं प्रशंसति -
[[633]]