(अथ प्रथमाष्टके पञ्चमप्रपाठके सप्तमोऽनुवाकः)।
अय॑ज्ञो॒ वा ए॒ष यो॑ऽसामोप॑प्र॒यन्तो॑ अध्व॒र-
मित्या॑ह॒ स्तोम॑मे॒वास्मै॑ यु॒नक्त्युपेत्या॑ह प्र॒जा
वै प॒शव॒ उपे॒मं लो॒कं प्र॒जामे॒व प॒शूनि॒मं लो॒क-
मुपै॑त्य॒स्य प्र॒त्नामनु॒ द्युत॒मित्या॑ह सुव॒र्गो वै
लो॒कः प्र॒त्नः सु॑व॒र्गमे॒व लो॒कँ स॒मारो॑हत्य॒ग्नि-
र्मू॒र्धा दि॒वः क॒कुदित्या॑ह मू॒र्धानम् (१) ए॒वै-
नँ॑ समा॒नानां॑ करो॒त्यथो॑ देवलो॒कादे॒व म॑नु-
ष्यलो॒के प्रति॑ तिष्ठत्य॒यमि॒ह प्र॑थ॒मो धा॑यि
धा॒तृभि॒रित्या॑ह॒ मुख्य॑मे॒वैनं॑ करोत्यु॒भा वा॑मि-
न्द्राग्नी आहु॒वध्या॒ इत्या॒हौजो॒ ब॒ल॑मे॒वाव॑
रुन्धे॒ऽयं ते॒ योनि॑र्ऋ॒त्विय॒ इत्या॑ह प॒शवो॒ वै
र॒यिः प॒शूने॒वाव॑ रुन्धे ष॒ड्भिरुप॑ तिष्ठते॒ षड् वै
(२) ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठति ष॒ड्भि
[[621]]
Page No. ६२१
प्रपा॰ ५ अनु॰ ४ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(पञ्चमानुवाकोक्तमन्त्रव्याख्यानम्)
रुत्त॑राभि॒रुप॑ तिष्ठते॒ द्वाद॑श॒ सं प॑द्यन्ते॒ द्वाद॑श॒
मासाः॑ संवत्स॒रः सं॑वत्स॒र ए॒व प्रति॑ तिष्ठति॒
यथा॒ वै पुरु॒षोऽश्वो॒ गौर्जीर्य॑त्ये॒वम॒ग्निराहि॑तो
जीर्यति संवत्स॒रस्य॑ प॒रस्ता॑दाग्निपावमा॒नीभि-
रुप॑ तिष्ठते पुनर्न॒वमे॒वैन॑म॒जरं॑ करो॒त्यथो॑ पु॒ना
त्ये॒वोप॑ तिष्ठते॒ योग॑ ए॒वास्यै॒ष उप॑ तिष्ठते (३)
दम॑ ए॒वास्यै॒ष उप॑ तिष्ठते या॒च्ञैवास्यै॒षोप॑
तिष्ठते॒ यथा॒ पापी॑याञ्छ्रेय॑स आ॒हृत्य॑ नम॒स्यति॑
ता॒दृगे॒व तदा॑युर्दा अ॑ग्ने॒ऽस्यार्युमे देही॒त्या॑हाऽऽ-
यु॒र्दा ह्ये॑ष व॑र्चो॒दा अ॑ग्नेऽसि॒ वर्चो॑ मे दे॒हीत्या॑ह
वर्चो॒दा ह्ये॑ष त॑नू॒पा अ॑ग्नेऽसि॒ त॒नुवं॑ मे पा॒ही-
त्या॑ह (४) त॒नू॒पा ह्ये॑षोऽग्ने यन्मे॑ त॒नुवा॑
ऊ॒नं तन्म॒ आ पृ॒णेत्या॑ह॒ यन्मे॑ प्र॒जायै॑ पशू॒ना-
मू॒नं तन्म॒ आ पू॑र॒येति॒ वावैतदा॑ह॒ चित्रा॑वसो
स्वा॒स्ति ते॑ पा॒रम॑शी॒येत्या॑ह॒ रात्रि॒र्वै चि॒त्राव॑सु॒-
रव्यु॑ष्ट्यै॒ वा ए॒तस्यै॑ पु॒रा ब्रा॑ह्म॒णा अ॑भैषु॒व्यु॑ष्टि-
मे॒वाव॑ रुन्ध॒ इन्धा॑नास्त्वा श॒तम् (५) हिमा॒
इत्या॑ह श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑य॒ आयुष्ये॒वे-
न्द्रि॒ये प्रति॑ तिष्ठत्ये॒षा वै सू॒र्मी कर्ण॑कावत्ये॒-
तया॑ ह स्म॒ वै दे॒वा असु॑राणाँ शतत॒र्हाँ स्तृँ॑-
हन्ति॒ यदे॒तया॑ स॒मिध॑मा॒दधा॑ति॒ वज्र॒मे॒वैतच्छ॑-
त॒घ्नीं यज॑मानो॒ भ्रातृ॑व्याय॒ प्र ह॑रति॒ स्तृत्या॒-
अच्छ॑ म्बट्का॒रँ सं त्वम॑ग्ने॒ सूर्य॑स्य॒ वर्च॑साऽ-
[[622]]
Page No. ६२२
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे -
(पञ्चमानुवाकोक्तमन्त्रव्याख्यानम्)
गथा॒ इत्या॑है॒तत्त्वमसी॒दम॒हं भू॑यास॒मिति॒ वावै-
तदा॑ह॒ त्वम॑ग्ने॒ सूर्य॑वर्चा अ॒सीत्या॑हा॒ऽऽशिष॑मे॒-
वैतामाशा॑स्ते (६)॥
(मू॒र्धानँ॒ षड्वा ए॒ष उप॑ तिष्ठते पा॒हीत्या॑ह श॒तम॒हँ षोड॑श च)
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके
पञ्चमप्रपाठके सप्तमोऽनुवाकः॥७॥
(अथ प्रथमकाण्डे पञ्चमप्रपाठके सप्तमोऽनुवाकः)।
सप्तमेऽनुवाके पञ्चमानुवाकोक्ता मन्त्रा व्याख्यायन्ते। उपप्रेत्यादिमन्त्रसं-घोपस्थानेन ज्योतिष्टोमे त्रिवृत्पञ्चदशादिशादिस्तोमवदग्निहोत्रेऽपि स्तोमयोग उपचर्यत इत्याह -
अयज्ञो वा इति। यः सामरहितः स यज्ञ एव न भवति। ऋग्भेदादावृत्तिभे-दाच्च निष्पन्नः सामसंघः स्तोमः। तं चास्मिन्नग्निहोत्रे मन्त्रसंघेन संपादयति।
उपशब्दसूचितं दर्शयति -
उपेत्याहेति। प्रजाः पशवश्च भूलोकमुपगच्छन्ति। तस्माद्यजमानोऽप्युपश-ब्दसामर्थ्यात्प्रजां पशूंश्चोपेत्य तद्युक्तं भूलोकमुपैति।
प्रत्नशब्दसूचितमाह -
अस्य प्रत्नामिति। स्वर्गलोकस्य चिरंतनत्वे प्रत्नशब्दसूचित्वात्तेन शब्देन स्वर्गारोहो भवति।
मूर्धशब्दपृथिवीशब्दाभ्यां सूचितं दर्शयति -
अग्निमूर्धेति। मूर्धानं श्रेष्ठमेनं यजमानं समानानां समानजातीयानां मध्ये करोति। अपि च देवलोकादागत्य मनुष्यलोक एव प्रतिष्ठितो भवतीत्यर्थः।
प्रथमशब्दसूचितं दर्शयति - अयमिहेति।
इन्द्रस्य बलाभिमानित्वादग्नेश्च तेजोभिमानित्वाच्छब्दद्वयेनोभयप्राप्तिः सूच्यत इत्याह - उभा वामिति।
मन्त्रगतं रयिशब्दं व्याचष्टे - अयं ते योनिरिति।
[[623]]
Page No. ६२३
प्रपा॰ ५ अनु॰ ७) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(पञ्चमानुवाकोक्तमन्त्रव्याख्यानम्)
पूर्वोत्तरषट्काभ्यां प्रतिदिनमुपस्थानं विधत्ते -
षडि्भरुपतिष्ठत इति। उपप्रयन्त इत्याप्रयन्त इत्यादिकं पूर्वषट्कम्। अग्न आयूंषीत्यादिकमुत्तरषट्कम्।
पूर्वषट्केन यथा प्रतिदिनमुपस्थानं तद्वदुत्तरेणापि प्राप्ते कालविशेषं विधत्ते -
यथा वै पुरुष इति। पुरुषादीनां चिरकालेनेवाग्नेः संवत्सरे प्राप्तां जरां निवार्य नूतनशरीरं शोधयितुं संवत्सरादूर्ध्वमुपस्थानम्। अग्निदेवतायाः पवमानदेवतायाश्च संबन्धिन्य ऋच आग्निपावमान्यः। यद्यप्यग्निरेव शोधकत्वात्पवमानस्तथाऽपि शोधकत्वोपाधेरन्यत्वमभिप्रेत्य निर्देशभेदः।
विहितमुपस्थानं चतुर्वारमनूद्य प्रशंसति -
उपतिष्ठत इति। उपतिष्ठत इति यदेष एवास्याग्नेर्योगो यजमानेन सहा-नुग्राह्यानुग्राहकरूपः संबन्धः। तथा दमो दाहादिलक्षणोपद्रवनिवारणम्। तथा धनादियाच्ञा। किंच - यथा लोके कश्चिद्दरिद्रो धनिकाय किंचिदुपायनमानीय नमस्कारं करोति तादृगिदमुपस्थानम्। अयमिह प्रथमो धायि धातृभिरिति योग उक्तः। आरे बाधस्व दुच्छुनामिति अनिष्टनिवारणम्। अथानो वर्धया रयिमिति याच्ञा। मन्त्रं वोचेमाग्नय इत्युपायनम्।
त्रयाणां यजुषामर्थप्रसिद्धिं दर्शयति - आयुर्दा इति।
तनुशब्देन प्रजा पशवश्चोपलक्षिता इत्यभिप्रेत्य व्याचष्टे अग्ने यन्म इति।
चित्रावसुपदस्यार्थं वाक्यतात्पर्यं च दर्शयति -
चित्रावसो इति। नक्षत्रादिरूपं चित्रमभिव्यक्ततया वसत्यस्यामिति रात्रि-श्चित्रावसुः। अव्युष्टिः प्रभातान्तः। हेमन्तर्तौ रात्रेर्दीर्घत्वेन प्रभातं न भविष्य-त्येवेति। कदाचिद्ब्राह्मणा भीता अतः पारमशीयेति प्रार्थनया प्रभातं लभते।
शतसंख्यां प्रशंसति -
इन्धाना इति। अस्य मन्त्रस्योपस्थाने समिदाधाने च विनियोगद्वयं सूत्रकार उदाजहार – “इन्धानास्त्वा शतँ हिमा इत्युपस्थायेन्धानास्त्वा शतँ हिमा अग्नेः समिदस्यभिशस्त्या मा पाहि सोमस्य समिदसि परस्याम एधि यमस्य समिदसि मृत्योर्मा पाहीति चतस्रः समिध एकैकस्मिन्नधाय” इति। तत्रोपस्थानाङ्गप्रस्तावेन मन्त्रो व्याख्यातः।
[[624]]