(अथ प्रथमाष्टके पञ्चमप्रपाठके पञ्चमोऽनुवाकः)।
उ॒प॒प्र॒यन्तो॑ अध्व॒रं मन्त्रं॑ वोचेमा॒ग्नये॑। आ॒रे
अ॒स्मे च॑ शृण्व॒ते। अ॒स्य प्र॒त्नामनु॒ द्युतँ॑
शु॒क्रं दु॑दुह्रे॒ अह्र॑यः। पयः॑ सहस्र॒सामृषि॑म्।
अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्या अ॒यम्।
अ॒पाँ रेताँ॑सि जिन्वति। अ॒यमि॒ह प्र॑थमो
धा॑यि धा॒तृभि॒र्होता॒ यजि॑ष्ठो अध्व॒रेष्वीड्यः॑।
यमप्न॑वानो॒ भृग॑वो विरुरु॒चुर्वने॑षु चि॒त्रं वि॒भुवं॑
वि॒शेवि॑शे। उ॒भा वा॑मिद्राग्नी आहु॒वध्यै॑ (१)
[[611]]
Page No. ६११
प्रपा॰ ५ अनु॰ ४ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अग्न्युपस्थानम्)
उ॒भा राध॑सः स॒ह मा॑द॒यध्यै॑। उ॒भा दा॒तारा॑-
वि॒षाँ र॑यी॒णामु॒भा वाज॑स्य सा॒तये॑ हुवे वाम्।
अ॒यं ते॒ योनि॑र्ऋ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः।
तं जा॒नन्न॑ग्न॒ आ रो॒हाथा॑ नो वर्धया र॒यिम्।
अग्न॒ आयूँ॑षि पवस॒ आ सु॒वोर्ज॒मिषं॑ च नः।
आ॒रे बा॑धस्व दु॒च्छुना॑म्। अग्ने॒ पव॑स्व॒ स्वपा॑
अ॒स्मे वर्चः॑ सु॒वीर्य॑म्। दध॒त्पोषँ॑ र॒यिम् (२)
मयि॑। अग्ने॑ पावक रो॒चिषा॑ म॒न्द्रया॑ देव
जि॒ह्वया॑। आ दे॒वान्व॑क्षि॒ यक्षि॑ च। स नः॑
पावक दीदि॒वोऽग्ने॑ दे॒वाँ इ॒हाऽऽ व॑ह। उप॑
य॒ज्ञँ ह॒विश्च॑ नः। अ॒ग्निः शुचि॑व्रततमः॒ शुचि॒-
र्विप्रः॒ शुचिः॑ क॒विः। शुची॑ रोचत॒ आहु॑तः।
उद॑ग्ने॒ शुच॑य॒स्तव॑ शु॒क्रा भ्राज॑न्त ईरते। तव॒
ज्योतीँ॑ष्या॒र्चयः॑। आ॒यु॒र्दा अ॑ग्ने॒ऽस्यायु॑र्मे (३)
दे॒हि॒ व॒र्चो॒दा अ॑ग्नेऽसि॒ वर्चो॑ मे देहि तनू॒पा
अ॑ग्नेऽसि त॒नुवं॑ मे पा॒ह्यग्ने॒ यन्मे॑ त॒नुवा॑ ऊ॒नं
तन्म॒ आ पृ॑ण॒ चित्रा॑वसो स्व॒स्ति ते॑ पा॒रम॑-
शी॒येन्धा॑नास्त्वा श॒तँ हिमा॑ द्यु॒मन्तः॒ स॒मि॑-
धीमहि॒ वय॒स्वन्तो वय॒स्कृतं॒ यश॑स्वन्तो य॒श-
स्कृतँ॑ सु॒वीरा॑सो॒ अदा॑भ्यम्। अग्ने॑ सपत्न॒द-
म्भ॑नं॒ वर्षि॑ष्ठे॒ अधि॒ नाके॑। सं त्वम॑ग्ने॒ सूर्य॑स्य॒
वर्च॑साऽगथाः॒ समृषी॑णाँ स्तु॒तेन॒ सं प्रि॒येण॒
[[612]]
Page No. ६१२
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — ( १ प्रथमकाण्डे -
(गार्हपत्याहवनीययोरुपस्थानम्)
धाम्ना॑। त्वम॑ग्ने॒ सूर्य॑वर्चा असि॒ सं मामायु॑षा॒
वर्च॑सा प्र॒जया॑ सृज (४)॥
(आ॒हु॒वध्यै पोषँ॑ र॒यिं मे॒ वर्च॑सा स॒प्तद॑श च )।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके
पञ्चमप्रपाठके पञ्चमोऽनुवाकः॥५॥
(अथ प्रथमकाण्डे पञ्चमप्रपाठके पञ्चमोऽनुवाकः)।
चतुर्भिरनुवाकैः पुनराधानां समापितम्। अथ पञ्चममारभ्य दशमस्य पूर्वार्धपर्यन्तैरनुवाकैरग्न्युपस्थानमुच्यते।
कल्पः - ‘अग्न्युपस्थानं व्याख्यास्याम उपतिष्ठत इति चोद्यमान आहवनी-यमेवोपतिष्ठेत वचनादन्यमुत्तरामाहुतिमुपोत्थाय कवातिर्यङ्ङिवोपतिष्ठेतो-पप्रयन्तो अध्वरमिति षड्भिः’ इति।
तत्र प्रथमा -
उपप्रयन्त इति। अध्वरं यज्ञमुपप्रयन्तः प्राप्नुवन्तो वयग्नयेऽग्निसंतोषा-र्थमुपस्थानमन्त्रं वोचेम वक्तारो भूयास्म। कीदृशायाग्नये। दूरादप्यनुग्रहेणास्मदीयं वचः शृण्वते।
अथ द्वितीया -
अस्य प्रत्नामिति। अस्याग्नेः प्रत्नां पुरातनीमनुद्युतमनुकूलदीप्तिं गोस्थानीयामह्नयो लज्जामकुर्वन्त ऋत्विजः पयः क्षीरस्थानीयं शुक्रं ज्योतिर्दुदुह्रे दुहन्ति। कीदृशं शुक्रम्। सहस्रसां बहुधनप्रदमृषिं कर्मप्रवर्तकम्।
अथ तृतीया -
अग्निर्मूर्धेति। अयमग्निरादित्यरूपेण दिवो द्युलोस्य ककुदुच्छ्रितो मूर्धा शिरस्थानीयः। पृथिव्याः पतिर्दाहपाकादिकारित्वेन पालकोऽप्ययम्। किंच अपां रेतांसि उदककार्याणि स्थावरजङ्गमशरीराणि जठराग्निरूपेश जिन्वति प्रीणयति।
अथ चतुर्थी -
[[613]]
Page No. ६१३
प्रपा॰ ५ अनु॰ ५ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
अयमिहेति। अयमग्निरिह कर्मणि प्रथमः प्रधानभूतो धातृभिर्धारणाय प्रयतमानैस्माभिर्धायि धार्यते। कीदृशोऽग्निः। होता देवानामाह्वाता यजिष्ठो मनुष्येभ्योऽतिशयेन यष्टाऽध्वरेषु यागेषु ईड्यः स्तुत्यः। किंच - अप्नवानसं-ज्ञको भृगुसंज्ञकाश्च मुनयो वनेषु स्वाश्रमेषु विशेविशे तत्तत्प्रजाभ्युदयार्थं यमग्निं चित्रं बहुयागाधारत्वेन विचित्रं विभुवं व्याप्तं विरुरुचुर्विशेषेण दीपितवन्तः।
अथ पञ्चमी -
उभा वामिति। इयं च प्रथमप्रपाठके व्याख्याता। हे इन्द्राग्नी युवामुभाव-प्याभिमुख्येन होतुमिच्छामि। पुनरपि युवामुभौ सह राधसोऽन्नेन मादयितुभिच्छामि। यस्माद्युवामुभावन्नानां धनानां च दातारौ तस्मादन्नस्य लाभाय युवामुभावायामि।
अथ षष्ठी -
अयं त इति। हेऽग्नेऽयमाहवनीयप्रदेशस्ते योनिस्तव स्थानम्। स च योनित्विय ऋतुसंबन्धात्सर्वस्मिन्नप्यृतावनेन होमनिष्पत्तेः। यत आहवनीयप्रदेशाज्जात उद्भूतस्त्वमरोचथा दीप्यसे तं प्रदेशं जानन्मम स्थानमित्यवगच्छन्नारोह। अनन्तरमस्माकं धनं वर्धय।
कल्पः - ‘अग्ने आयूँषि पवस इति षड्भिः संवत्सरे संवत्सरे सदा वा’ इति।
उपतिष्ठत इति शेषः। एतास्त्वमग्ने रुद्र इत्यत्र व्याख्याताः।
तत्र प्रथमा –
अग्न आयूँषीति। हेऽग्ने त्वमस्मदायूंषि पवसे शोधयसि निर्दोषाणि करोषि।
अस्माकं रसमन्नं चाऽऽनय, वैरिसेनां दूरे बाधस्व।
अथ द्वितीया -
अग्ने पवस्वेति। हेऽग्ने स्वपाः शोभनकर्मा त्वमस्मासु ब्रह्मवर्चसं समीचीनसामर्थ्यं च पवस्व शोधय। किं कुर्वन्। पुष्टिं धनं च मयि धारयन्।
अथ तृतीया -
हे पावकाग्ने देव रोचमानया मादयित्र्या जिह्वया देवानावक्षि यक्षि च।
अथ चतुर्थी -
[[614]]
Page No. ६१४
श्रीमत्सायणाचार्यविरचितभाष्यसमेता - (१ प्रथमकाण्डे –
(अग्न्युपस्थानम्)
स न इति। हे पावकाग्ने दीदिवो दीप्यमानः स त्वं देवानिहाऽऽनय। अस्मदीयं यज्ञं हविश्चोपगच्छ।
अथ पञ्चमी -
अग्निः शुचीति। अयमग्निरतिशुद्धव्रतयुक्तः, विप्राभिमानित्वादपि शुचिः, विद्वदभिमानित्वादपि शुचिः, अस्माभिः सर्वत्राऽऽहुतः शुद्धो दीप्यते।
अथ षष्ठी -
उदग्न इति। हेऽग्ने तव शुचयः शुद्धाः शुक्रा रश्मयो भ्राजन्तो दीप्यामाना उद्गच्छन्ति। अर्चयितारस्तव ज्योतींषि प्राप्नुवन्तीति शेषः।
कल्पः - ‘आयुर्दा अग्न इति सिद्धमा चित्रावसो स्वस्तीति चित्रावसुना सायमुपतिष्ठते’ इति।
पाठस्तु -
आयुर्दा इति। आपूरयेत्यर्थः। चतुर्ष्वेतेषु यजुःषु स्पष्टमन्यत्।
अथ यजुरन्तरम् -
चित्रावसो इति। हे चित्रावसो रात्रे तव पारं समाप्तिं स्वस्ति क्षेमेण प्राप्नवानि।
कल्पः - ‘त्रिरर्वाग्वसुना प्रातरर्वाग्वसो स्वस्ति ते पारमशीयेन्धानास्त्वा शतँ हिमा इत्युपस्थाय’ इति।
अर्वागित्यादिः शाखान्तरमन्त्रः।
अत्रत्यमन्त्रपाठस्तु –
इन्धानास्त्वेति। हेऽग्ने त्वां समिद्भिरिन्धाना वयं शतसंख्याकान्हेमन्तोपल-क्षितसंवत्सरान्द्युमन्तो दीप्तिमन्तः समिधीमहि लोके सम्यक्प्रख्याता भूयास्म। कीदृशं त्वां, वयस्कृतमन्नस्य कर्तारम्। यशस्कृतं कीर्तिप्रदम्। अदाभ्यं केनाप्यतिरस्कार्यम्। वर्षिष्ठेऽधिनाकेऽतिप्रौढस्वर्गविषये सपत्नदम्भनं विरोधिविनाशनम्। कीदृशा वयं, वयस्वन्तोऽन्नवन्तः यशस्वन्तः कीर्तिमन्तः। सुवीरासः शोभनपुत्रादियुक्ताः।
कल्पः - ‘चतस्रः समिध एकैकस्मिन्नाधाय सं त्वमग्ने सूर्यस्य वर्चसाऽगथा इत्यनुवाकशेषेणोपस्थाय’ इति।
पाठस्तु -
[[615]]