(अथ प्रथमकाण्डे पञ्चमप्रपाठके चतुर्थोऽनुवाकः)।
भूमि॑र्भू॒म्ना द्यौर्व॑रि॒णेत्या॑हा॒ऽऽशिषै॒वैन॒मा
ध॑त्ते स॒र्पा वै जीर्य॑न्तोऽमन्यन्त॒ स ए॒तं क॑स॒-
[[608]]
Page No. ६०८
श्रीमत्सायणाचार्यविरचितभाष्यसमेता - (१ प्रथमकाण्डे -
(पूरोनुवाकोक्तमन्त्रव्याख्यानम्)
र्णीरः॑ काद्रवे॒यो मन्त्रमपश्य॒त्ततो॒ वै ते जी॒र्णा-
स्त॒नूरपा॑घ्नत सर्परा॒ज्ञिया॑ ऋ॒ग्भिर्गार्ह॑पत्य॒मा
द॑धाति पुनर्न॒वमे॒वैन॑म॒जरं॑ कृ॒त्वाऽऽ ध॒त्तेऽथो॑
पू॒तमे॒व पृ॑थि॒वीम॒न्नाद्यं॒ नोपा॑नम॒त्सैतम् (१)
मन्त्र॑मपश्य॒त्ततो॒ वै ताम॒न्नाद्य॒मुपा॑नम॒द्यत्स॑र्परा॒-
ज्ञिया॑ ऋ॒ग्भिर्गार्ह॑पत्यमा॒दधा॑त्य॒न्नाद्य॒स्याव॑रु
द्ध्या॒ अथो॑ अ॒स्यामे॒वैनं॒ प्रति॑ष्ठित॒मा ध॑त्ते॒ य-
त्त्वा॑ क्रु॒द्धः प॑रो॒वपेत्या॒हाप॑ह्नुत ए॒वास्मै॒ तत्पुन॒-
स्त्वोद्दी॑पयाम॒सीत्या॑ह॒ समि॑न्ध ए॒वैनं॒ यत्ते॑ म॒न्यु-
प॑रोप्त॒स्येत्या॑ह दे॒वता॑भिरे॒व (२) ए॒नँ॒ सं
भ॑रति॒ वि वा ए॒तस्य॑ य॒ज्ञश्छि॑द्यते॒ यो॑ऽग्निमु॑-
द्वा॒सय॑ते॒ बृह॒स्पति॑वत्य॒र्चोप॑ तिष्ठते॒ ब्रह्म॒ वै
दे॒वानां॒ बृह॒स्पति॒र्ब्रह्म॑णै॒व यज्ञँ सं द॑धाति॒
विच्छि॑न्नं य॒ज्ञँ समि॒मं द॑धा॒त्वित्या॑ह॒ संत॑त्यै॒
विश्वे॑ दे॒वा इ॒ह मा॑दयन्ता॒मित्या॑ह सं॒तत्यै॒व य॒ज्ञं
दे॒वेभ्योऽनु॑ दिशति स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त
जि॒ह्वाः (३) इत्या॑ह स॒प्तस॑प्त॒ वै स॑प्त॒धाऽग्नेः
प्रि॒यास्त॒नुव॒स्ता ए॒वाव॑ रुन्धे॒ पुन॑रू॒र्जा स॒ह
र॒य्येत्य॒भितः॑ पुरो॒डाश॒माहु॑ती जुहो॒ति यज॑मा-
नमे॒वोर्जा च॑ र॒य्या चो॑भ॒यतः॒ परि॑ गृह्णात्या-
दि॒त्या वा अ॒स्माल्लो॒काद॒मुं लो॒कमा॑य॒न्तेऽमु
स्मिल्ँ॑ लो॒के व्य॑तृष्य॒न्त इ॒मं लो॒कं पुन॑रभ्य॒वेत्या॒
ग्निमा॒धायै॒तान्होमा॑नजुहवु॒स्त आ॑र्ध्नुव॒न्ते सु॑व॒र्गं
[[609]]
Page No. ६०९
प्रपा॰ ५ अनु॰ ४ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(पूर्वानुवाकोक्तमन्त्रव्याख्यानम्)
लो॒कमा॑य॒न्यः प॑रा॒चीनं॑ पुनरा॒धेया॑द॒ग्निमा॒द-
धी॑त॒ स ए॒तान्होमा॑ञ्जुहुया॒द्यामे॒वाऽऽदि॒त्या
ऋद्धि॒मार्ध्नु॑व॒न्तामे॒वर्ध्नो॑ति (४)॥
(सैतं दे॒वता॑भिरे॒व जि॒ह्वा ए॒तान्पञ्च॑विँशतिश्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमाष्टके पञ्चम-
प्रपाठके चतुर्थोऽनुवाकः॥४॥
(अथ प्रथमकाण्डे पञ्चमप्रपाठके चतुर्थोऽनुवाकः)।
चतुर्थानुवाके पूर्वोक्ता मन्त्रा व्याख्यायन्ते। तत्रान्नाद्यायेत्येतस्य मन्त्रपदस्या-भिप्रायमाह -
भूमिर्भूम्नेति। आशिषाऽन्नं प्राप्तुमिच्छया।
चतसृभिग्भिराधानं विधत्ते -
सर्पा वा इति। जीर्यन्तो जरां प्राप्नुवन्तोऽमन्यन्त कोऽस्या जरायाः प्रतीकार इति विचारितवन्तः। तदा कसर्णीरनामकः कद्रूपुत्रो भूमिरित्यादिकं मन्त्र-संघमश्यत्। तन्मन्त्रसामर्थ्यात्ते सर्पा जीर्णाः शरीरत्वचोऽपहत्य कोमलास्त्वचः प्राप्नुवन्। सर्पाणां राज्ञी भूमिः। इयं वै सर्पतो राज्ञीत्यन्यत्राऽऽम्नानात्। तस्या ऋचो भूमिर्भूम्नेत्यादयस्ताभिराहितो वह्निर्जरां परित्यज्य नूतनः पूतश्च भवति।
तमेव विधिमनूद्य प्रशंसति -
पृथिवीमिति। अन्नाद्यायेत्युक्तत्वात्तत्प्राप्तिः। उपस्थे ते देवीत्युक्तत्वाद्भूमौ प्रतिष्ठितत्वम्।
यदाह (दहं) परोवप तत्सुकल्पमित्युक्तिर्बालस्येवाग्नेः सान्त्वनायापलाप इत्याह- यत्त्वा क्रुद्ध इति।
उद्दीपयामसीत्यस्याभिप्रायमाह पुनस्त्वेति।
आदित्या विश्वे तदित्यादेरभिप्रायमाह - यत्त इति।
उपस्थानं विधत्ते -
[[610]]