०३

(अथ प्रथमाष्टके पञ्चमप्रपाठके तृतीयोऽनुवाकः)।
भूमि॑र्भू॒म्ना द्यौर्व॑रि॒णाऽन्तरि॑क्षं महि॒त्वा।
उ॒पस्थे॑ ते देव्यदिते॒ऽग्निम॑न्ना॒दम॒न्नाद्या॒याऽऽ-
द॑धे। आऽयं गौः पृश्नि॑रक्रमी॒दस॑नन्मा॒तरं॒
पुनः॑। पि॒तरं॑ च प्र॒यन्त्सुवः॑। त्रिँ॒शद्धाम॒
वि रा॑जति॒ वाक्प॑त॒ङ्गाय॑ शिश्रिये। प्रत्य॑स्य
व॒ह द्युभिः॑। अ॒स्य प्रा॒णाद॑पान॒त्य॑न्तश्च॑रति
रोच॒ना। व्य॑ख्यन्महि॒षः सुवः॑। यत्त्वा॑ (१)

[[604]]

Page No. ६०४
श्रीमत्सायणाचार्यविरचितभाष्यसमेता - (१ प्रथमकाण्डे -
(पुनराधानमन्त्राः)
क्रु॒द्धः प॑रो॒वप॑ म॒न्युना॒ यदव॑र्त्या। सु॒कल्प॑मग्ने॒
तत्तव॒ पुन॒स्त्वोद्दी॑पयामसि। यत्ते॑ म॒न्युप॑रो-
प्तस्य पृथि॒वीमनु॑ दध्व॒से। आ॒दि॒त्या विश्वे॒
तद्दे॒वा वस॑वश्च स॒माभ॑रन्। मनो॒ ज्योति॑र्जुष-
ता॒माज्यं॒ विच्छि॑न्नं य॒ज्ञँ समि॒मं द॑धातु।
बृह॒स्पति॑स्तनुतामि॒मं नो॒ विश्वे॑ दे॒वा इ॒ह मा॑द
यन्ताम्। स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वाः
स॒प्त (२) ऋष॑यः स॒प्त धाम॑ प्रि॒याणि॑। स॒प्त
होत्राः॑ स॒प्तधा त्वा॑ यजन्ति स॒प्त योनी॒रा पृ॑ण
स्वा घृ॒तेन॑। पुन॑रू॒र्जा नि व॑र्तस्व॒ पुन॑रग्न इ॒-
षाऽऽयु॑षा। पुन॑र्नः पाहि वि॒श्वतः॑। स॒ह र॒य्या
नि व॑र्त॒स्वाग्ने॒ पिन्व॑स्व॒ धार॑या। वि॒श्वप्स्रि॑या
वि॒श्वत॒स्परि॑। लेकः॒ सले॑कः सु॒लेक॒स्ते न॑
आदि॒त्या आज्यं॑ जुषा॒णा वि॑यन्तु॒ केतः॒ सके॑तः
सु॒केत॒स्ते न॑ आदि॒त्या आज्यं॑ जुषा॒णा वि॑यन्तु॒
विव॑स्वाँ॒ अदि॑ति॒र्देव॑जूति॒स्ते न॑ आदि॒त्या
आज्यं॑ जुषा॒णा वि॑यन्तु (३)॥
(त्वा॒ जि॒ह्वाः स॒प्त सुकेत॒स्ते न॒स्त्रयो॑दश च )।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमकाण्डे
पञ्चमप्रपाठके तृतीयोऽनुवाकः॥३॥

(अथ प्रथमकाण्डे पञ्चमप्रपाठके तृतीयोऽनुवाकः)।
प्रथमद्वितीययोः पुनराधेयस्य प्रधानविधिस्तदङ्गानि च निरूपितानि। तृतीये त्वाधानमन्त्र आम्नायते।

[[605]]

Page No. ६०५
प्रपा॰ ४ अनु॰ ३ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(पुनराधानमन्त्राः)
कल्पः - ‘भूमिर्भूम्नेति सर्पराज्ञीभिर्गार्हपत्यमादधाति यत्त्वा क्रुद्धः परोवपेति दक्षिणाग्निं यत्ते मन्युपरोप्तस्येतीतरान्’ इति।
आहवनीसभ्यावसथ्यानित्यर्थः। त एते षण्मन्त्राः
तत्र प्रथम एव पठ्यते -
भूमिर्भूम्नेति। हे गार्हपत्यप्रदेश त्वं लोकत्रयात्मकोऽसि। तत्र भूम्ना बाहुल्येन भूमिरसि। वरिणा वरिम्णा श्रेष्ठत्वेन द्यौरसि। महित्वा महत्त्वेनान्तरिक्षमसि। हेऽदिते भूमे तत्प्रदेशरूपे देवि तवोत्सङ्गेऽन्नभोक्तरं गार्हपत्याग्निं यजमानस्यादनयोग्यान्नसिद्ध्यर्थमादधे।
अथ द्वितीयः -
आऽयं गौरिति। अयं गार्हपत्य आदित्यरूपेण गौर्गमनशीलः पृश्निः श्वेतवर्णो जगदाक्रमीत्। आक्रमणप्रकार एवं स्पष्टी क्रियते - पुनर्मातरं पृथिवीमसन-दासीदत्प्राप्नोदित्यर्थः। सुवः स्वर्गरूपं पितरं च प्रयन्प्रकर्षेण गच्छन्नवस्थितः। द्यौः पिता पृथिवी मातेति श्रुत्यन्तरात्तयोर्मातापितृत्वम्।
अथ तृतीयः -
त्रिँशद्धामेति। आदित्यरूपस्य गार्हपत्यस्य संबन्धि त्रिंशत्संख्याकं धाम मुहूर्तरूपं तेजो विशेषेण राजते। अह्नः पञ्चदश मुहूर्ता रात्रेः पञ्चदश। किंच वैदिकस्तुतिरूपा वाक्पतङ्गाय पक्षिवदाकाशसंचारिणमादित्यं शिश्रिय आश्रितवतीत्यर्थः। अत एवान्यत्राऽऽम्नायते – ‘ऋग्भिः पूर्वाह्णे दिवि देव ईयते’ इत्यादि। हे तादृग्गार्हपत्य त्वां प्रति यदस्माभिरुद्वासनरूपं प्रतिकूलमाचरीतं तत्सर्वमस्य प्रतिक्षिप मनसि मा कृथाः। द्युभिर्ज्वालारूपाभिर्वहास्मदीयं हविर्देवेषु प्रापय।
अथ चतुर्थः -
अस्य प्राणादिति। अस्याऽऽदित्यस्य रोचना दीप्तिः प्राणादुच्छ्वाससदृशा-दुदयादपानती निःश्वसातुल्यमस्तमयं गच्छन्ती द्यावापृथिव्योरन्तश्चरति। महति मण्डले सीदतीति महिष आदित्यः सुवः स्वर्गं व्यख्यद्यजमानेभ्यः प्रकाशितवान्। आदित्यरूपेण स्तूयमान हे गार्पत्य त्वामादधामीत्यभिप्रायः।
अथ पञ्चमः-
यत्त्वा क्रुद्ध इति। हे दक्षिणाग्ने क्रुद्धः कोपपराधीनोऽहं तेन मन्युना त्वां

[[606]]

Page No. ६०६
श्रीमत्सायणाचार्यविरचितभाष्यसमेता - (१ प्रथमकाण्डे -
(पुनराधानमन्त्राः)
परोवप। उवपेति लिडुत्तमपुरुषः। परोप्तवानुद्वासितवानस्मीति यद्यच्चावर्त्या समृद्ध्यभावलक्षणेन दारिद्र्येणोद्वासितवानस्मीति हेऽग्ने तव प्रसादात्तत्सुकल्पं सुष्टु कृतमस्तु। पुनरपि त्वां वयमुद्दीपयामः।
अथ षष्ठः -
यत्त इति। हे आहवनीय मदीयकोपेनोद्वासितस्य तव यत्तेजः पृथिवमनु प्रविश्य ध्वस्तं तत्तेज आदित्यादयः समाहरन्तु।
कल्पः - ‘मनो ज्योतिर्जुषतामिति बृहस्पतिवत्यर्चोपतिष्ठते’ इति।
पाठस्तु -
मनो ज्योतिरिति। उद्वासनापराधपरिहाराय मनो माननीयाग्नेर्ज्योतिर्हव्यमाज्यं सेवताम्। विच्छिन्नमिमं यज्ञं संदधातु। बृहस्पतिरस्माकमिमं यज्ञं विरस्तीर्णं करोतु। सर्वेऽपि देवा इह कर्मणि मादयन्तां तृप्तियुक्ता भवन्तु।
कल्पः - ‘सप्त ते अग्ने समिधः सप्त जिह्वा इत्याग्निहोत्रं जुहोति’ इति।
पाठस्तु -
सप्त ते अग्ना इति। हेऽग्ने तव समिधः सप्तसंख्याका अश्वत्थोदुम्बरपला-
शशमीविकङ्कताशनिहतवृक्षपुष्करपर्णरूपाः। अत एव सूत्रकारो यथोक्तान्सं-भारान्समन्त्रकाननुक्रम्य, इति वानस्पत्या इत्युपसंजहार। ज्वालारूपा जिह्वाश्च सप्त। तथा चाऽऽथर्वणिका आमनन्ति -
‘काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा।
‘स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना इति सप्त जिह्वाः’
(मुण्ड॰ १-२-४) इति।
ऋषयो मन्त्राः। ते च यथोक्तसमित्संपादनार्थाः सप्तसंख्याका अश्वो रूपं कृत्वा यदश्वत्थेऽतिष्ठ इत्यादयः समाम्नाताः। प्रियाणि धाम स्थानान्याहवनी-यगार्हपत्यदक्षिणाग्निसभ्यावसथ्यप्राजहिताग्नीध्रीयाख्यानि (णि) सोमयागे वह्निधारकाणि सप्तसंख्याकानि। होत्रा होतृप्रमुखा वषट्कर्तारो होता प्रशास्ता ब्राह्मणाच्छंसी पोता नेष्टाऽऽग्नीध्रोऽच्छावाकश्चेति सप्तसंख्याकाः। त्वा यजमानाः सप्तधा यजन्ति। अग्निष्टोमोऽत्यग्निष्टोम उक्थ्यः षोडश्यतिरा-त्रोऽप्तोर्यामो वाजपेयश्चेति सप्त प्रकाराः। तादृश्स्त्वं सप्त योनीराहवनीया-दिस्थानानि घृतेन सर्वतः पूरय।

[[607]]

Page No. ६०७
प्रपा॰ ५ अनु॰ ४ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(पुनराधानमन्त्राः)
कल्पः - ‘पुनरूर्जा सह रय्येत्यभितः पुरोडाशमाहुती जुहोति पुनरूर्जेति वा पुरस्तात्प्रयाजानां सह रय्येत्युपरिष्टादनूयाजानाम्’ इति।
प्रथममन्त्रपाठस्तु -
पुनरूर्जेति। हेऽग्ने त्वं मयोद्वासितोऽप्यूर्जा क्षीरादिरसेन सह पुनर्निवर्तस्वा-त्राऽऽगच्छ। इषाऽन्नेनाऽऽयुषा च सह पुनरागच्छ। अस्मान्पुनः पुनः कृता-द्विश्वतः सर्वस्मादपराधात्पाहि।
द्वितीयमन्त्रपाठस्तु-
सह रय्येति। हेऽग्ने रय्या धनेन सह निवर्तस्व। प्सा भक्षण इति धातुः। विश्वेन प्सायते भक्ष्यते पीयत इति विश्वप्स्री। तादृश्या वृष्टिधारया विश्वत-स्परि सर्वेषां तृणधान्यलतापादपानामुपरि पिन्वस्व सिञ्च।
कल्पः - ‘यस्तृतीयमादधीत स एतान्होमाञ्जुहुयाल्लेकः सलेक इति’ इति।
मन्त्रत्रयपाठस्तु -
लेकः सलेक इति। नवसंख्याका लेकादिनामका य आदित्यास्ते सर्व जुषाणाः प्रीयमाणा अस्माकमाज्यं वियन्तु पिबन्तु।
अत्र विनियोसंग्रहः -
“चतुर्भिर्भूमिरित्याद्यैराध्यात्पश्चिमानलम्।
दक्षिणाग्निं तु यत्त्वेति यदित्याहवनीयकम्॥१॥
मनस्तूपस्थितिः सप्त जुहुयादग्निहोत्रकम्।
पुनर्द्वाभ्यां पुरोडाशमभितो जुहुयादथ॥२॥
तृतीयमादधानस्य लेकाद्या होममन्त्रकाः॥३॥” इति॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे पञ्चमप्रपाठके
तृतीयोऽनुवाकः॥३॥