०१

(अथ प्रथमकाण्डे पञ्चमप्रपाठके प्रथमोऽनुवाकः)।
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम्॥१॥
अध्वर्योः प्रकृतौ मन्त्राः प्रपाठकचतुष्टये।
वर्णिताः पुनराधेयं पञ्चमाद्ये प्रवक्ष्यते॥२॥
आधानादूर्ध्यमेवैषा वक्तव्या पुनराहितिः।
तथाऽप्यध्ययनस्यायं क्रमो वरवृतत्वतः॥३॥
सरस्वती स्वपुत्राय तद्बुद्धिस्थे क्रमे वरम्।
ददौ तेन क्रमेणैव पठन्त्यन्येऽपि पाठकाः॥४॥
एकादशानुवाकाः स्युः पञ्चमेऽस्मिन्प्रपाठके।
तत्राऽऽदौ पुनराधेयमनुवाकचतुष्टये॥५॥
ततः षट्केऽग्न्युपस्थानं काम्ययाज्यास्तथाऽन्तिमे।
विधीयतेऽनुवाकेऽस्मिन्नादिमे पुनराहितिः॥६॥
उद्वास्य पुनरदधीतेति विधास्यति। तत्र पुनराधेयस्याग्निदेवतां विधातुमग्नि-विषयमुपाख्यानमुदाहरन्प्रसङ्गाद्रजतस्य यज्ञे दक्षिणात्वं निषेधति -
देवासुरा इति। देवाश्चासुराश्च संयत्ता युद्धयुक्ताः। विजयं प्राप्नुवन्तो देवास्तदा तेभ्योऽसुरेभ्योऽपहृतं मणिमुक्तादिकं श्रेष्ठं वसु रक्षणायाग्नौ निक्षिप्तवन्तः। कथंचिदसुराणां विजये सत्येतद्धनमस्माकमापद्युपयुज्येतेति देवानामाश्यः। तद्ध-

[[597]]

Page No. ५९७
प्रपा॰ ५ अनु॰ १ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(पुनराधानम्)
नमग्निर्न्यकामयतेच्छां कृतवान्। तेन धनेन सहापाक्रामत्पलायनमकुरुत। देवाः पुण्यवशेनासुरान्विजित्य तद्धनमवरुरुत्समाना अवरोद्धुमिच्छावन्तोऽनु अग्नेः पश्चादायंस्तद्धनं बलात्कारेणाऽऽदातुमिच्छावन्तः। सोऽग्निररोदीद्रोदनं कृतवान्। प्रसङ्गाद्रुद्रशब्दस्य प्रवृत्तिनिमित्तं विधत्ते - यतो रोदनं कृतवांस्ततो रुद्रस्य रुद्रत्वम्। यदश्रु नेत्रात्सकाशाद्बिन्दुरशीयत भूमावपतत्तद्रजतं हिरण्य-मभवद्रजतरूपं धनमभवत्। अत्र हिरण्यशब्दस्य धनसामान्यवाचित्वाद्रजतं हिरण्यमित्यविरुद्धम्। तस्याश्रुजत्वेन दक्षिणां प्रत्ययोग्यत्वात्तद्दाने संवत्सराद-र्वागेतद्गृहे किंचिद्रोदननिमित्तं भवति तस्माद्बर्हिषि यज्ञे तन्न दद्यात्।
अग्निदेवतां पुनराधेये विदधाति -
सोऽग्निरिति। आदावसाधारणेन भागेन युक्तो भवानि, पश्चादिदं वसु युष्मभ्यं दास्यामीत्यग्निनोक्ता देवस्तवैतत्पुनराधेयमिति भागं ददुः। तेन तुष्टोऽ-ग्निरिदमब्रवीद्यो मद्देवत्यं हविः कृत्वाऽग्निं पुनरादध्यात्स खलु समृद्धिमानिति। तस्मात्समृद्ध्यर्थं पुनराधेयं हविरग्निदैवतं कुर्यादित्यर्थः।
तामेव समृद्धिमुदाहरणेन स्पष्टयति -
तं पूषेति। पूषत्वष्टृमनुसंवत्सराभिमानिधातृभिः पश्वादिसमृद्धिर्लब्धा।
समृद्धिवेदनं प्रशंसति -
य एवमिति। पूषादिरूपस्याग्निवन्धुसमूहस्य वेदनं प्रशंसति -
योऽस्येति। पुनराधेयं विधत्ते -
भागधेयमिति प्रथमाधानेनाऽऽहितोऽग्निरसाधारणभागवाञ्छयाऽधिकोपद्रवं चकार, तच्छान्तिरनेन भवति। तस्मादुद्वासनेष्ट्या पूर्वाग्निमुद्वास्य पुनरप्यग्निमा-दध्यात्। इष्टिमुद्वासनं च सूत्रकारो दर्शयति – ‘आग्नेयमष्टाकपालं निर्वपे-द्वैश्वानरं द्वादशकपलं वारुणं दशकपालमग्नेऽप्सुमतेऽष्टाकपालं मैत्रं चरुमग्निमुद्वासयिष्यन्’ इति। ‘पौर्णमासीमिष्ट्वा ज्वलतोऽग्नीनुत्सृजति’ इति च।
कालं विधत्ते -
पुनर्वस्वोरिति। पुनरावर्तते वामं वस्वनयोरिति पुनर्वसू। ततो नक्षत्रात्मिका देवता स्वकीया।
पुनराधेयस्य प्रथमाधानविकृतित्वात्काष्ठैराधानप्राप्तावपोद्य दर्भान्विधत्ते -

[[598]]

Page No. ५९८
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे —
(पुनराधारसंबन्ध्यङ्गजातनिरूपणम्)
दर्भैरिति। अत्रापि काष्ठैराधाने गतसारत्वं स्यात्। अत एव सूत्रकार आह -
‘आयतनेषु पुराणान्दर्भान्सँ स्तीर्य भूमिर्भूम्नेति सर्पराज्ञीभिर्गार्हपत्यमादधाति’ इति।
दर्भविधिमनूद्य प्रशंसति -
दर्भैरिति। इन्द्रो वृत्रमहन्नित्यादौ दार्शिकब्राह्मणे च दर्भाणामप्कार्यत्वा-भिधानादब्रूपत्वमोषधिरूपत्वं च विस्पष्टम्।
अस्मिन्पुनराहितेऽग्नौ कर्तव्याया इष्टेरग्निर्देवता पूर्वं विहिता। अथ द्रव्यं विधत्ते -
पञ्चकपाल इति। बह्वृचब्राह्मणे द्वादश मासाः पञ्चचर्तवो हेमन्तशिशिरयोः समासेनेत्याम्नानानादृतूनां पञ्चसंख्या॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे पञ्चमप्रपाठके
प्रथमोऽनुवाकः॥१॥