४५

(अथ प्रथमाष्टके चतुर्थप्रपाठके पञ्चचत्वारिंशोऽनुवाकः)।
उ॒रुँ हि राजा॒ वरु॑णश्च॒कार॒ सूर्या॑य॒ पन्था॒–
मन्वे॑त॒वा उ॑। अ॒पदे॒ पादा॒ प्रति॑धातवेऽकरु॒ता–
प॑व॒क्ता हृ॑दया॒विध॑श्चित्। श॒तं ते॑ राजन्भि॒षजः॑
स॒हस्र॑मुर्वी ग॑म्भी॒रा सु॑म॒तिष्टे॑ अस्तु। बाध॑स्व॒
द्वेषो॒ निर्ऋ॑तिं परा॒चैः कृ॒तं चि॒देनः॒ प्र मु॑मु–
ग्ध्य॒स्मत्। अ॒भिष्ठि॑तो॒ वरु॑णस्य॒ पाशो॒ऽग्नेर–
नी॑कम॒प आ वि॑वेश। अपां॑ नपात्प्रति॒रक्ष॑न्न–
सु॒र्यं॑ दमे॑दमे (१) स॒मिधं॑ यक्ष्यग्ने। प्रति॑ ते
जि॒ह्वा घृ॒तमुच्च॑रण्येत्समु॒द्रे ते॒ हृद॑यम॒प्स्व॑न्तः।

[[551]]

Page No. ५५१
प्रपा. ४ अनु. ४५. ३९ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अवभृथाभिधानम्)
सं त्वा॑ विश॒न्त्वोष॑धीरु॒ताऽऽपो॑ य॒ज्ञस्य॑ त्वा
यज्ञपते ह॒विर्भिः॑। सू॒क्त॒वा॒के न॑मोवा॒के वि॑धे–
माव॑भृथ निचङ्कुण निचे॒रुर॑सि निचङ्कु॒णाव॑
दे॒वैर्दे॒वकृ॑त॒मेनो॑ऽया॒डव॒ मर्त्यै॒र्मर्त्य॑कृतमु॒रोरा नो॑
देव रि॒षस्पा॑हि सुमि॒त्रा न॒ आप॒ ओष॑धयः (२)
स॒न्तु॒ दु॒र्मि॒त्रास्तस्मै॑ भूयासु॒र्यो॑ऽस्मान्द्वेष्टि॒ यं
च॑ व॒यं द्वि॒ष्मो देवी॑राप ए॒ष वो॒ गर्भ॒स्तं वः॒
सुप्री॑तँ॒ सुभृ॑तमकर्म दे॒वेषु॑ नः सु॒कृतो॑ ब्रूता॒त्प्र–
ति॑युतो॒ वरु॑णस्य॒ पाशः॒ प्रत्य॑स्तो॒ वरु॑णस्य॒
पाश॒ एधो॑ऽस्येधिषी॒महि॑ स॒मिद॑सि॒ तेजो॑ऽसि॒
तेजो॒ मयि॑ धेह्य॒पो अन्व॑चारिषँ॒ रसे॑न॒ सम॑-
सृक्ष्महि। पय॑स्वाँ अग्न॒ आग॑मं तं मा॒ सँ
सृ॑ज॒ वर्च॑सा (३)॥
(दमे॑दम॒ ओष॑धय॒ आ षट्च॑)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके
चतुर्थप्रपाठके पञ्चचत्वारिंशोऽनुवाकः॥४५॥ (३९)
––––––
(अथ प्रथमाष्टके चतुर्थप्रपाठके एकोनचत्वारिंशोऽनुवाकः)। अष्टात्रिंशेऽनुवाक समिष्टयजुर्होमोऽभिहितः। एकोनचत्वारिंशेऽनुवाकेऽवभृथो वर्ण्यते।
कल्पः – ‘उरुँहि राजा वरुणश्चकारेति वेद्या अभिप्रयान्तो वदन्ति चात्वालाद्वा’ इति।
पाठस्तु —
उरुँ हीति। उशब्दोऽवधारणे। वरुण एव राजा सूर्याय सूर्यस्यान्वेतवै अनुक्रमेण गन्तुमपदे निरालम्बेऽन्तरिक्ष उरुं पन्थां विस्तीर्णं मार्गं यस्माच्चकार

[[552]]

Page No. ५५२
श्रीमत्सायणाचार्यविरचितभाष्यसमेता- (१ प्रथमकाण्डे —
(अवभृथाभिधानम्)
तस्मादस्माकमपि पादा प्रतिधातवे पादं प्रक्षेप्तुं मार्गमकः करोतु। उतापि च यः शत्रुरपवक्ता निन्दको यश्च हृदयाविधो हृदयोपलक्षितं शरीरं ताडयति, चिच्छब्दः समुच्चये, सोऽपि प्रतिबन्धमकृत्वा मार्गं करोत्वित्यर्थः।
कल्पः –‘शतं ते राजन्भिषजः सहस्त्रमित्यपो दृष्ट्वा जपति’ इति।
पाठस्तु —
शतं त इति। हे राजन्वरुण तव शतसहस्रसंख्याका भिषजोऽस्मदुपद्रव-निवारकाः सन्ति। तस्मादस्मासु तव सुमतिरनुग्रहबुद्धिरस्तु। कीदृशी। उर्वी विपुला सार्वकालिकीत्यर्थः गम्भीराऽऽदरयुक्तेत्यर्थः। द्वेषो द्वेषिणो बाधस्व।
नितिं यज्ञविघातिनीं पराचैः कुरु तिरस्कुर्वित्यर्थः। अस्माभिः कृतमपि पापमस्मत्तः प्रमोचय।
अभिष्ठित इति। कल्पः – ‘अभिष्ठितो वरुणस्य पाश इत्युदकान्तमभिति-ष्ठन्ते(ति)’ इति।
जलमध्यवर्ती सूक्ष्मतन्त्वाकारो बन्धनहेतुर्जीवविशेषो वरुणस्य पाशः। सोऽयमभिष्ठितः पादाक्रमणेन तिरस्कृतः।
कल्पः- ‘अग्नेरनीकमप आ विवेशेति स्रुच्यमाघारयति’ इति।
पाठस्तु —
अग्नेरिति। अग्नेरनीकं मुखमप्सु प्रविष्टम्। हेऽपां नपादेतन्नामकाग्ने दमेदमे तत्तद्गृहेऽसूर्यमसुरैः कृतं यज्ञविघ्नं प्रतिरक्षन्प्रतिनिवर्त्य यज्ञं पालयन्समिधं समिन्धनसाधनं घृतं यक्षि संमतं कुरु। ते तव जिह्वा घृतं प्रत्युच्चरण्येदुद्युक्ता भवतु।
उरुँ हि राजेत्यादिमन्त्रान्व्याचिख्यासुः प्राचीनमनुष्ठानं विधत्ते —
“अवभृथयजूँषि जुहोति यदेवार्वाचीनमेकहायनादेनः करोति तदेव तैरव यजते’ (सं. का. ६ प्र. ६ अ. ३) इति।
अवभृथाख्यं कर्म कर्तुमुदकसमीपं जिगमिषुरायुर्दा इत्यादीनि यजूंषि जुहुयात्। तथा च सूत्रम् ‘आयुर्दा अग्ने हविषो जुषाण इत्यवभृथमवैष्यञ्जुहुयादवभृथ निचङ्कुणेति च, नमो रुद्राय वास्तोष्पतये, आयने विद्रवणे, उद्याने यत्परायणे,

[[553]]

Page No. ५५३
प्रपा. ४ अनु. ४५.३९ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अवभृथाभिधानम्)
आवर्तने विवर्तने, यो गोपायति तँहुवे’ इति, इतः पूर्वमेकस्मिन्संवत्सरे यत्कृतं पापं तदेव तैरवयजते विनाशयति।
अवभृथमुद्दिश्योदकसमीपे गमनं विधत्ते —
‘अपोऽवभृथमवैत्यप्सु वै वरुणः साक्षादेव वरुणमव यजते’ (सं. का. ६ प्र. ६ अ. ३) इति।
अपां प्राप्त्या तदभिमानिनं वरुणं साक्षादव्यवधानेनैवावयजते पूजयति।
प्रस्तोतुः साम्नाऽनुयानं विधत्ते —
‘वर्त्मना वा अन्वित्य यज्ञँ रक्षाँसि जिघाँसन्ति साम्ना प्रस्तोताऽन्ववैति साम वै रक्षोहा रक्षसामपहत्यै’ (सं. का. ६ प्र. ६ अ. ३) इति।
त्रित्वसंख्यां विधत्ते —
‘त्रिर्निधनमुपैति त्रय इमे लोका एभ्य एव लोकेभ्यो रक्षाँस्यपहन्ति’ (सं. का. ६ प्र. ६ अ. ३) इति।
सर्वेषां निधनोच्चरणं विधत्ते —
‘पुरुषःपुरुषो निधनमुपैति पुरुषःपुरुषो हि रक्षस्वी रक्षसामपहत्यै’ (सं. का. ६ प्र. ६ अ. ३) इति।
रक्षस्वी सर्वेषां प्रत्येकं बाधकं रक्षोऽस्तीत्यर्थः। अत्र सूत्रम् “सर्वे सपत्नी-कास्त्रिः साम्नो निधनमुपयन्त्यर्धाध्वे द्वितीयं प्राप्य तृतीयम्’ इति।
मन्त्रोक्तो मार्गविस्ता(स्त)रः पादप्रतिष्ठार्थ इत्याह —
‘उरुँ हि राजा वरुणश्चकारेत्याह प्रतिष्ठित्यै’ (सं. का. ६ प्र. ६ अ. ३) इति।
भिषक्शब्देन यजमानस्य पापोपद्रवपरिहारः सूच्यत इत्याह —
‘शतं ते राजन्भिषजः सहस्रमित्याह भेषजमेवास्मै करोति’ (सं. का. ६ प्र. ६ अ. ३) इति।
मन्त्रेणैव वरुणपाशः परिह्रियत इत्याह —
‘अभिष्ठितो वरुणस्य पाश इत्याह वरुणापाशमेवाभि तिष्ठति’ (सं. का. ६ प्र. ६ अ. ३) इति।

[[554]]

Page No. ५५४
श्रीमत्सायणाचार्यविरचितभाष्यसमेता- (१ प्रथमकाण्डे —
(अवभृथाभिधानम्)
अप्सु बर्हिः प्रक्षिप्य तस्योपरि जुहुयादिति विधत्ते —
‘बर्हिरभि जुहोत्याहुतीनां प्रतिष्ठित्या अथो अग्निवत्येव जुहोति’ (सं. का. ६ प्र. ६ अ. ३) इति।
‘अग्निवान्वै दर्भस्तम्बः’ इति श्रुतेरग्नियुक्तत्वम्। अत्र सूत्रम् “तृणं प्रहृत्य स्रौवमाघारयति। यदि वा पुरा तृणं स्यात्तस्मिञ्जुहुयात्’ इति।
चोदकप्राप्तेषु पञ्चसु प्रयाजेषु बर्हिर्नामकं चतुर्थं प्रयाजं निषेधति —
‘अपबर्हिषः प्रयाजान्यजति प्रजा वै बर्हिः प्रजा एव वरुणपाशान्मुञ्चति’ (सं. का. ६ प्र. ६ अ. ३) इति।
यद्यप्यत्राऽऽज्यभागौ चोदकादेव प्राप्तौ तथाऽपि मन्त्रविशेषमभिप्रेत्य पुनर्विधत्ते —
“आज्यभागौ यजति यज्ञस्यैव चक्षुषी नान्तरेति’ (सं. का. ६ प्र. ६ अ. ३) इति।
आज्यभागयोर्यज्ञचक्षुष्ट्वमन्यत्र श्रुतम् “चक्षुषी वा एते यज्ञस्य यदाज्यभागौ’ इति। प्रकृतावग्निर्वृत्राणीत्यादिके पुरोनुवाक्ये। इह तु अप्स्वग्ने सधिष्ठवेत्यादिके। तथा च सूत्रम् “अप्सुमन्तावाज्यभागौ यजति अप्स्वग्न इत्येषाऽप्सु मे सोमो अब्रवीत्’ इति।
प्रधानदेवतां विधत्ते —
‘अग्नीवरुणौ यजति साक्षादेवैनं वरुणपाशान्मुञ्चति’ (सं. का. ६ प्र. ६ अ. ३) इति।
साक्षाच्छीघ्रमेवेत्यर्थः।
चोदकप्राप्तेषु त्रिष्वनूयाजेषु बर्हिर्नामकं प्रथमानूयाजं निषेधति —
‘अपबर्हिषावनूयाजौ यजति प्रजा वै बर्हि प्रजा एव वरुणपाशान्मुञ्चति’ (सं. का. ६ प्र. ६ अ. ३) इति।
प्रयाजानूयाजान्प्रशंसति —
“चतुरः प्रयाजान्यजति द्वावनूयाजौ षट् संपद्यन्ते षड्वा ऋतव ऋतुष्वेव प्रति तिष्ठति’ (सं. का. ६ प्र. ६ अ. ३) इति।

[[555]]

Page No. ५५५
प्रपा. ४ अनु. ४५.३९ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अवभृथाभिधानम्)
समुद्र इति। बौधायनः “अथाप्सु स्रुचं प्रतिष्ठापयति समुद्रे ते हृदय-मप्स्वन्तरित्यथैनामद्भिः पूरयति सं त्वा विशन्त्वोषधीरुताऽऽप इत्यप्स्वेवापो जुहोति यज्ञस्य त्वा यज्ञपते हविर्भिः सूक्तवाके नमोवाके विधेमेति’ इति।
आपस्तम्बस्त्वेकमन्त्रतामाह “ऋजीषस्य स्रुचं पूरयित्वाऽप्सूपमारयति समुद्रे ते हृदयमप्स्वन्तरिति ततो यो बिन्दुरुपप्लवते तमुपस्पृशेत्’ इति।
हे जुहु ते हृदयं बिलं समुद्रसमास्वप्स्वन्तर्मध्ये प्रतितिष्ठतु। ऋजीषरूपा ओषधयस्त्वां सम्यक्प्रविशन्तु। अपि चाऽऽपो विशन्तु। अथवा वरुणं संबोध्य व्याख्येयम्। ‘इदं द्यावापृथिवी’ इत्यादिको मन्त्रः सूक्तवाकः। ‘नमो वाचे या चोदिता’ इत्यादिको मन्त्रः नमोवाकः। हे यज्ञपते यजमान त्वदीयैर्हविर्भिर्देवताः संतर्प्य त्वां सूक्तवाकनमोवाकद्वयोक्तफले विधेम स्थापयामः।
अवभृथेति। बोधायनः “अथैतमवभृथं संकिरन्ति यत्किंच सोमलिप्तं भवत्यवभृथ निचङ्कुण निचेरुरसि निचङ्कुणाव देवैर्देवकृतमेनोऽयाडव मर्त्यैर्मर्त्यकृतमुरोरा नो देव रिषस्पाहीति’ इति।
आपस्तम्बस्तु “आयुर्दा अग्ने नमो रुद्राय वास्तोष्पतय इत्येताभ्यां मन्त्राभ्यां सहैतं मन्त्रं होमे विनियुक्तवान्। तच्च पूर्वमुदाहृतम्। हेऽवभृथाभिमानिन्वरुण निचङ्कुण राक्षसभर्त्सनार्थं नितरां ध्वनिं कारितवानसि। निचेरुरसि अस्मद्रक्षार्थं निगूढत्वेन चरणशीलोऽसि। हे निचङ्कुणास्माभिर्देवेषु कृतमेनोऽपराधं तैर्देवैः सह त्वमवायाड्विनाशय। मर्त्येषु ऋत्विक्षु कृतं तत्तैर्मर्त्यैः सहानायाड्विनाशय। हे देवोरोरधिकाद्रिषो देवमर्त्यकृतहिंसनान्नोऽस्माना समन्तात्पाहि।
पाठक्रममनादृत्यैतन्मन्त्रमादौ व्याचष्टे —
‘अवभृथ निचङ्कुणेत्याह यथोदितमेव वरुणमव यजते’ (सं. का. ६ प्र. ६ अ. ३) इति।
निचेरुनिचङ्कुणादिशब्दोदितं वरुणमवयजत उपचरति। धातूनामनेकार्थत्वाद्यथोचितं व्याख्येयम्।
वरुणसंबोधनपक्षमाश्रित्य व्याचष्टे —
‘समुद्रे ते हृदयमप्स्वन्तरित्याह समुद्रे ह्यन्तर्वरुणः’ (सं. का. ६ प्र. ६ अ. ३) इति।

[[556]]

Page No. ५५६
श्रीमत्सायणाचार्यविरचितभाष्यसमेता - (१ प्रथमकाण्डे —
(अवभृथाभिधानम्)
संशब्देन यजमानस्याद्भिरोषधीभिश्च समृद्धिः सूच्यत इत्याह —
“सं त्वा विशन्त्वोषधीरुताऽऽप हत्याहाद्भिरेवैनमोषधीभिः सम्यञ्चं दधाति’ (सं. का. ६ प्र. ६ अ. ३) इति।
सुमित्रा इति। बौधायनः “अथाञ्जलिनाऽप उपसंगृह्य सुमित्रा न आप ओषधयः सन्त्विति तां दिशं निरुक्षति यस्यां दिश्यस्य द्वेष्यो भवति दुर्मित्रास्तस्मै भूयासुर्योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति’ (सं. का. ६ प्र. ६ अ. ३) इति।
आपस्तम्बस्यैक एव मन्त्रः “सुमित्रा न आप ओषधय इत्यापः प्रगाह्य’ इति।
स्पष्टो मन्त्रार्थः।
कल्पः “देवीराप इत्यवभृथं यजमानोऽभिमन्त्र्य’ इति।
पाठस्तु —
देवीराप इति। हे आपो देव्य एष वरुणो युष्माकं गर्भवदन्तरवस्थितोऽतो वो युष्माकं परितोषाय तं वरुणं हविषा सुप्रीतं सुभृतं सुष्ठु पुष्टं चाकर्म वयं कृतवन्तः। स वरुणो नोऽस्मान्सुकृतः सम्यगनुष्ठातॄन्ब्रवीतु।
स्पष्टार्थत्वात्सुमित्रा न इति मन्त्रमुपेक्ष्य देवीराप इत्यस्य स्पष्टार्थतामाह —
‘देवीराप एष वो गर्भ इत्याह यथायजुरेवैतत्’ (सं. का. ६ प्र. ६ अ. ३) इति।
ऋजीषस्याप्सु प्रहारेणोद्गतानां बिन्दूनां भक्षणाभक्षणयोर्दोषसद्भावात्तत्परिहारायोपस्पर्शं विधत्ते —
‘पशवो वै सोमो यद्भिन्दूनां भक्षयेत्पशुमान्त्स्याद्वरुणस्त्वेनं गृह्णीयाद्यन्न भक्षयेदपशुः स्यान्नैनं वरुणो गृह्णीयादुपस्पृश्यमेव पशुमान्भवति नैनं वरुणो गृह्णाति’ (सं. का. ६ प्र. ६ अ. ३) इति।
सोमस्य पशुप्राप्तिसाधनत्वात्पशुत्वम्। भिद्यन्त इति भिन्दवो जलकणाः। वरुणग्रहणं नाम महोदराख्यरोगोत्पत्तिः।
प्रतियुत इति। कल्पः “अथापामन्तं प्रतियौति प्रतियुतो वरुणस्य पाशः प्रत्यस्तो वरुणस्य पाश इति’ इति।
बन्धनस्य हेतुर्वरुणस्य पाशः प्रतियुतः पृथक्कृतः। प्रत्यस्तो विनाशितः।
मन्त्रस्यार्थस्तथैव फलतीत्याह —

[[557]]

Page No. ५५७
प्रपा. ४ अनु. ४५-३९ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अवभृथाभिधानम्)
“प्रतियुतो वरुणस्य पाश इत्याह वरुणपाशादेव निर्मुच्यते” (सं. का. ६ प्र. ६ अ. ३) इति।
जलान्निर्गत्य पुनस्तज्जलमदृष्ट्वैव देवयजनदेशे गन्तव्यमिति विधत्ते —
“अप्रतीक्षमा यन्ति वरुणस्यान्तर्हित्यै” (सं. का. ६ प्र. ६ अ. ३) इति।
अन्तर्हितिरदर्शनम्।
कल्पः - “एधोऽस्येधिषीमहीत्याहवनीये समिध आधायापो अन्वतारिषमित्यु-पतिष्ठन्ते” इति।
पाठस्तु —
एधोऽसीति। हे समिदेधोऽसि वृद्धिहेतुरसि। अतो वयमेधिषीमहि अभिवृद्धिं प्राप्ताः। अयमाद्यो मन्त्रः। समित्समिन्धनसाधनमसीति द्वितीयः। तेजः कान्तिसाधनमसि। कान्तिं मयि धेहि स्थापयेति तृतीयः। एतैस्तिस्रः समिध आदध्यात्। अपोऽनु जलमनुप्राप्याचारिषमवभृथकर्मानुष्ठितवानस्मि। रसेन फलेन समसृक्ष्महि संगतोऽस्मि। हेऽग्ने पयस्वान्क्षीरादिसमृद्धियुक्त आगममिहाऽऽगतोऽस्मि। तं मा वर्चसा बलेन संयोजय।
समिदाधानेन वह्निः पूज्यत इत्याह —
“एधोऽस्येधिषीमहीत्याह समिधैवाग्निं नमस्यन्त उपायन्ति” (सं. का. ६ प्र. ६ अ. ३) इति।
नमस्यन्तः पूजयन्तः। मयि धेहीत्यस्याभिप्रायमाह —
“तेजोऽसि तेजो मयि धेहीत्याह तेज एवाऽऽत्मन्धत्ते” (सं. का. ६ प्र. ६ अ. ३) इति।
अवशिष्टः स्पष्टत्वादुपेक्षितः। अत्र विनियोगसंग्रहः —
उरुं वदन्ति गच्छन्तः सर्वेऽप्यवभृथं प्रति।
शतं दृष्ट्वा जले जप्यमभ्याक्रामति तज्जलम्॥१॥
अग्नेः स्रुचाऽऽधारयेत्तु समृजीषं जलं क्षिपेत्।
अवेति गमने होमः सुमित्रा अवगाहनम्॥२॥

[[558]]

Page No. ५५८
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे —
(यूपैकादशिन्यभिधानम्)
देवीरित्यभिमन्त्र्याथ प्रत्युद्गच्छति तज्जलात्।
एधः समित्तेज एतैर्होम आहवनीयके॥
अपो अग्नेरुपस्थानमिति मन्त्रास्त्रयोदश॥३॥ इति।
यद्यप्येतावता सौमिकमन्त्रकाण्डं तद्व्याख्यानरूपं ब्राह्मणं च समाप्तं तथाऽपि सन्ति ब्राह्मणशेषा अष्टावनुवाकास्ते त्वत्रैव विव्रियन्ते। तेष्वनुवाकेषु क्रमेणैतेऽर्थाः प्रतिपाद्यन्ते — यूपैकादशिनी पश्वैकादशिनी पात्नीवतः पशुः सौम्यचर्वादिरतिग्राह्योऽदाभ्योऽँशुः षोडशी चेति। तत्र समनन्तरानुवाकप्रतिपाद्या यूपैकादशिन्येकयूपेन सह विकल्पिता। तथा चान्यन्त्र श्रूयते — “एकयूपो वैकादशिनी वा। अन्येषां यज्ञानां यूपा भवन्ति। एकविँशिन्यश्वमेधस्य” इति।
अग्निष्टोमे यः सवनीयः पशुस्तेन सहोपरितनानुवाके वक्ष्यमाणा ऐकादशिनाः पशवो विकल्पिताः। तथा च सूत्रम् —”क्रतुपशव ऐकादशिनाश्च विकल्पन्ते” इति।
तत्रैकादशिनपश्वर्था यूपैकादशिनी, तां विधत्ते —
“स्फ्येन वेदिमुद्धन्ति रथाक्षेण वि मिमीते यूपं मिनोति त्रिवृतमेव वज्रँ संभृत्य भ्रातृव्याय प्र हरति स्तृत्यै” (सं. का. ६ प्र. ६ अ. ४) इति।
भूमेरुपरितनममेध्यमपहन्तुं वेदिस्थानमुद्धन्यात्। तस्मिन्स्थाने वेदिरेकयूपपक्षे पदैर्विमिता। तथा च पूर्वमुदाहृतम् – “त्रिँशत्पदानि पश्चात्तिरश्ची” इत्यादि। एकादशिनीपक्षे त्ववकाशस्य पर्याप्तये रथाक्षेण वेदिर्मातव्या। तथा च सूत्रम् - “यत्प्राग्वेदिसंमानात्तत्कृत्वा दशरथाक्षामेकादशोपराँ रज्जुं नीत्वा” इति। उपरशब्देन प्रादेशपरिमिता यूपावटदेशा विवक्षिताः। द्वयोर्द्वयोरवटदेशयोर्मध्यदेशो रथाक्षेण परिमितस्तादृश्या वेदेर्दक्षिणांसमारभ्योत्तरांसपर्यन्तेषु पङ्क्तिरूपेणावस्थितेष्वेकादशस्ववटेषु यूपानुच्छ्रयेत्। यूपमिति जातावेकवचनम्। स्फ्यरथाक्षयूपास्त्रयो वज्रस्य भागाः तथा चाऽऽम्नातम् — “इन्द्रो वृत्राय वज्रं प्राहरत्स त्रेधा व्यभवत्स्फ्यस्तृतीयँ रथस्तृतीयम्” इति। तेषां त्रयाणामत्र मेलनाद्वज्रस्त्रिवृत्संपद्यते। स्तृत्यै हिंसायै।
यूपावटस्यार्धं वेद्यामर्धं बहिश्चेत्येवं तद्देशं विधत्ते —

[[559]]

Page No. ५५९
प्रपा. ४ अनु. ४५-३९ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(यूपैकादशिन्यभिधानम्)
“यदन्तर्वेदि मिनुयाद्देवलोकमभि जयेद्यद्बहिर्वेदि मनुष्यलोकं वेद्यन्तस्य संधौ मिनोत्युभयोर्लोकयोरभिजित्यै” (सं. का. ६ प्र. ६ अ. ४) इति।
अन्तः समीपदेशः। वेदिश्चान्तश्च वेद्यन्तं तत्संधावुच्छ्रयेत्।
उच्छ्रये कांश्चित्काम्यान्विशेषान्विधत्ते —
“उपरसंमितां मिनुयात्पितृलोककामस्य रशनसंमितां मनुष्यलोककामस्य चषालसंमितामिन्द्रियकामस्य सर्वान्त्समान्प्रतिष्ठाकामस्य ये त्रयो मध्यमास्तान्त्समान्पशुकामस्य” (सं. का. ६ प्र. ६ अ. ४) इति।
तक्षणरहितानि यूपमूलानि उपराणि तैरेकादशिनी संमिता सदृशी। एकस्योपरस्य यावानायामस्तावानेवेतरेषां दशानामित्यर्थः। रशनादेशस्थौल्येन समाना रशनसंमिता। चषालविस्तारेण समाना चषालसंमिता। अत एव सूत्रकारेणोक्तम् – “आयामत उपराणि समानि स्युस्तिर्यक्तो मध्यानि रशनाश्च प्रथिम्नश्चषालानि” इति। सर्वानुपररशनादेशचषालविस्तारान्। एकादशसु षष्ठो मध्यमस्तत्पार्श्ववर्तिनौ द्वौ तेषां त्रयाणामेवोपरादिसाम्यनियमो नेतरेषाम्। तथा च सति पशुप्राप्तिः।
तामेव पशुप्राप्तिं दर्शयति —
“एतान्वा अनु पशव उप तिष्ठन्ते पशुमानेव भवति” (सं. का. ६ प्र. ६ अ. ४) इति।
एतान्समाननु यजमानं पशवः प्राप्नुवन्ति।
त्रिभ्योऽतिरिक्तेष्वष्टास्वन्योन्यस्पर्शं विद्यत्ते —
“व्यतिषजेदितरान्प्रजयैवैनं पशुभिर्व्यतिषजति” (सं. का. ६ प्र. ६ अ. ४) इति।
यूपैकादशिन्याः कामनाभेदेन दक्षिणदेशप्रवणत्वं निन्दित्वोत्तरदेशप्रवणत्वं
विधत्ते —
“यं कामयेत प्रमायुकः स्यादिति गर्तमितं तस्य मिनुयादुत्तरार्ध्यं वर्षिष्ठमथ ह्रसीयाँसमेषा वै गर्तमिद्यस्यैव मिनोति ताजक्प्र मीयते दक्षिणार्ध्यं वर्षिष्ठं मिनुयात्सुवर्गकामस्याथ ह्रसीयाँसमाक्रमणमेव तत्सेतुं यजमानः कुरुते सुवर्गस्य लोकस्य समष्ट्यै” (सं. का. ६ प्र. ६ अ. ४) इति।
गर्तशब्देन दक्षिणदेशनिम्नश्मशानं विवक्षितम्। गर्तवन्मीयन्ते यूपा अस्या-

[[560]]

Page No. ५६०
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे —
(यूपैकादशिन्यभिधानम्)
मेकादशिन्यामिति गर्तमित्तादृशीमुच्छ्रयेत्। अग्निष्ठनामको यो मध्यमो यूपस्तस्मादुत्तरार्धे स्थितं यूपपञ्चकं वर्षिष्ठमत्युन्नतम्। दक्षिणार्धे स्थितं पञ्चकं ह्रसीयांसं ह्रस्वम्। ईदृश्येकादशिनी गर्तमित्तस्यामुच्छ्रितायां तदानीमेव म्रियते। स्वर्गार्थमुक्तवैपरीत्यं कुर्यात्। आक्रम्यत आरुह्यते स्वर्गोऽनेन सेतुनेत्याक्रमणः।
लौकिकदृष्टान्तेन रशनाद्वयं विधत्ते —
“यदेकस्मिन्यूपे द्वे रशने परिव्ययति तस्मादेको द्वे जाये विन्दते यन्नैकाँ रशनां द्वयोर्यूपयोः परिव्ययति तस्मान्नैका द्वौ पती विन्दते” (सं. का. ६ प्र. ६ अ. ४) इति।
अत्र सूत्रम् — “अग्निष्ठं द्वाभ्यां रशनाभ्यां परिवीय” इति।
रशनाद्वयस्यान्तयोर्मेलनं प्रवेष्टनं च कामनाभेदेन विधत्ते —
“यं कामयेत स्त्र्यस्य जायेतेत्युपान्ते तस्य व्यतिषजेत्स्त्र्येवास्य जायते यं कामयेत पुमानस्य जायेतेत्यान्तं तस्य प्र वेष्टयेत्पुमानेवास्य जायते” (सं. का. ६ प्र. ६ अ. ४) इति।
अन्तयोः समीप उपान्ते। अन्तेन सहितमान्त रशनाद्वयभागम्।
एकादशभ्योऽतिरिक्तमुपशयाख्यं यूपं विधत्ते —
“असुरा वै देवान्दक्षिणत उपानयन्तान्देवा उपशयेनैवापानुदन्त तदुपश-यस्योपशयत्वं यद्दक्षिणत उपशय उपशये भ्रातृव्यापनुत्त्यै” (सं. का. ६ प्र. ६ अ. ४) इति।
पुरा कदाचिदसुरा देवान्स्ववशान्कृत्वाऽग्निष्ठाद्यूपाद्दक्षिणभागे समानयन्। तानसुरान्देवा उपशयेनैकादशिनीसमीपे शयानेन यूपेनापानुदन्त। समीपशयनादुपशयनाम संपन्नम्। उपशय उपशेते शयानत्वेन पातयेदित्यर्थः। अत्र सूत्रम् - “उपाशयं द्वाभ्यां परिवीयाग्रेण दक्षिणं यूपं निदधाति” इति।
द्वेष्यं पशुत्वेन निर्दिशेदिति विधत्ते —
“सर्वे वा अन्ये यूपाः पशुमन्तोऽथोपशय एवापशुस्तस्य यजमानः पशुर्यन्न निर्दिशेदार्तिमार्च्छेद्यजमानोऽसौ ते पशुरिति निर्दिशेद्यं द्विष्याद्यमेव द्वेष्टि तमस्मै पशुं निर्दिशति” (सं. का. ६ प्र. ६ अ. ४) इति।

[[561]]

Page No. ५६१
प्रपा. ४ अनु. ४५-३९) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(यूपैकादशिन्यभिधानम्)
अग्निष्ठादय एकादश यूपा वक्ष्यमाणैराग्नेयादिपशुभिरुपेताः। उपशये तु प-श्वन्तराभावाद्यजमानस्याऽऽर्तिप्राप्तिर्द्वेष्यं निर्दिश्य तद्वारयेत्।
द्वेष्याभावे मूषकं निर्दिशेदिति विधत्ते —
“यदि न द्विष्यादाखुस्ते पशुरिति ब्रूयान्न ग्राम्यान्पशून्हिनस्ति नाऽऽरण्यान्” (सं. का. ६ प्र. ६ अ. ४) इति।
विहितामेकादशिनीं प्रशंसति —
“प्रजापतिः प्रजा असृजत सोऽन्नाद्येन व्यार्ध्यत स एतामेकादशिनीमपश्य-त्तया वै सोऽन्नाद्यमवारुन्ध यद्दश यूपा भवन्ति दशाक्षरा विराडन्नं विराड्विरा-जैवान्नाद्यमव रुन्धे य एकादशः स्तन एवास्यै स दुह एवैनां तेन” (सं. का. ६ प्र. ६ अ. ४) इति।
दशयूपानां विराड्रूपत्वेन धेनुत्वादेकादशो यूपः स्तनो भवति।
पात्नीवताख्यं त्रयोदशं यूपं विधत्ते —
“वज्रो वा एषा सं मीयते यदेकादशिनी सेश्वरा पुरस्तात्प्रत्यञ्चं यज्ञँ सं-मर्दितोर्यत्पात्नीवतं मिनोति यज्ञस्य प्रत्युत्तब्ध्यै सयत्वाय” (सं. का. ६ प्र. ६ अ. ४) इति।
सैकादशिनी वज्ररूपा सती पुरस्तादवस्थाय प्रत्यगवस्थितं यज्ञं संमर्दितिमी-श्वरा भवति। मर्दितस्य पुनः समाधानं प्रत्युत्तब्धिः। सयो बन्धः। षिञ्बन्धन इत्यस्माद्धातोरुत्पन्नत्वात्। सयत्वाय दृढत्वायेत्यर्थः।
यूपैकादशिनी निरूपिता। अथ पश्वेकादशिनीं विधत्ते —
‘प्रजापतिः प्रजा असृजत स रिरिचानोऽमन्यत स एतामेकादशिनीमपश्य-त्तया वै स आयुरिन्द्रयं वीर्यमात्मन्नधत्त प्रजा इव खलु वा एष सृजते यो य जते स एतर्हि रिरिचान इव यदेषैकादशिनी भवत्यायुरेव तयेन्द्रियं वीर्यं यजमान आत्मान्धत्ते’ (सं. का. ६ प्र. ६ अ. ५) इति।
प्रजासृष्ट्या वीर्यादिक्षयाद्रिक्तोऽहमिति धीः। तथा यज्ञप्रयासेनापि। पश्वे-कादशिन्या तत्समाधानम्। ते च पशुविशेषा देवतासहिता अशमवमेधप्रकरणे समाम्नाताः - ‘आग्नेयः कृष्णग्रीवः सारस्वती मेषी बभ्रुः सौम्यः पौष्णः श्यामः शितिपृष्ठो बार्हस्पत्यः शिल्पो वैश्वदेव ऐन्द्रोऽरुणो मारुतः कल्माष ऐन्द्राग्नः सँ हितोऽधोरामः सावित्रो वारुणः पेत्वः’ इति। कृष्णग्रीवत्वादिभिर्विशेषिताः

[[562]]

Page No. ५६२
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे -(पश्वेकादशिन्यभिधानम्)
सर्वेऽप्यजाः। मेषी त्वेकैवान्यजातिः। विशेषणानि च तस्मिन्नेव प्रकरणे व्याख्यास्यन्ते।
तानेतानत्र पशून्विशेषेण प्रशंसन्विशेषविधिमुन्नयति —
‘प्रैवाऽऽग्नेयेन वापयति मिथुनँ सारस्वत्या करोति रेतः सौम्येन दधाति प्र जनयति पौष्णेन बार्हस्पत्यो भवति ब्रह्म वै देवानां बृहस्पतिर्ब्रह्मणैवास्मै प्रजाः प्र जनयति वैश्वदेवो भवति वैश्वदेव्यो वै प्रजाः प्रजा एवास्मै प्र जनयतीन्द्रिय मेवैन्द्रेणाव रुन्धे विशं मारुतेनौजो बलमैन्द्राग्नेन प्रसवाय सावित्रो निर्वरुणत्वाय वारुणः’ (सं. का. ६ प्र. ६ अ. ५) इति।
प्रवापयति बीजं स्वतः संपादयति। आग्नेयस्य पुंसः सारस्वत्या स्त्रिया सह मिथुनीकरणम्। सौम्येन योषिति रेतोधारणम्। पौष्णेन प्रजोत्पत्तिः। बार्हस्पत्ये ब्रह्मण उत्पत्तिसाधनत्वम्। वैश्वदेवेन प्रजानां तद्देवतानुग्रहः। ऐन्द्रेणेन्द्रियपाटवम्। मारुतेन जनपदप्राप्तिः। ऐन्द्राग्नेन पुष्टिर्बलं च। सावित्रेणानुष्ठाने प्रेरणम्। वारुणेनोपद्रवराहित्यम्।
अत्र षष्ठसप्तमाष्ठमानां पशूनां वैश्वदेवैन्द्रमारुतानामितरपशुवत्पाठत एव क्रमो यद्यपि प्राप्तस्तथाऽपि तं क्रममनूद्य प्रशंसति —
‘मध्यत ऐन्द्रमा लभते मध्यत एवेन्द्रियं यजमाने दधाति पुरस्तादैन्द्रस्य वैश्वदेवमा लभते वैश्वदेवं वा अन्नमन्नमेव पुरस्ताद्धत्ते तस्मात्पुरस्तादन्नमद्यत ऐन्द्रमालभ्य मारुतमा लभते विड्वै मरुतो विशमेवास्मा अनु बध्नाति’ (सं. का. ६ प्र. ६ अ. ५) इति।
वैश्वदेवमारुतयोर्नध्यमेन्द्रस्य स्थानम्। तेन मध्यम एव वयसि बलाधिक्यं यजमाने स्थापयति। विश्वे देवा अन्नाभिमानिनः। वैश्वदेवस्य पुरस्तादनुष्ठितत्वात्तत्संबद्धमन्नमत्तुं पुरस्तादेव स्थापयति। तच्चान्नं पुरस्तान्मुखेनाद्यते। मारुतस्यैन्द्रमनु वर्तमानत्वान्मरुद्रूपा ग्रामनिवासिप्रजा अस्य यजमानस्यानुकूलाः करोति।
कामनाविशेषेण क्रमव्यत्यासं विधत्ते —
‘यदि कामयेत योऽवगतः सोऽप रुध्यतां योऽपरुद्धः सोऽव गच्छत्वित्यैन्द्रस्य लोके वारुणमा लभेत वारुणस्य लोक ऐन्द्रं य एवावगतः सोऽप रुध्यते योऽपरुद्धः सोऽव गज्छति’ (सं. का. ६ प्र. ६ अ. ५) इति।
अवगतः प्राप्तैश्वर्यः। अपरुध्यतामैश्वर्यात्क्लिश्यताम्। अयमेकः कामः एत-

[[563]]

Page No. ५६३
प्रपा. ४ अनु. ४५-३९ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(पात्नवितपश्वभिधानम्)
द्विपर्ययोऽन्यः कामः। तस्मिन्नुभयविधेऽपि कामे सप्तमैकादशस्थानयोरैन्द्रवारुणयोः स्थानव्यत्ययं कुर्यात्।
प्रजानां व्याकुलीभावं चेत्कामयेत तदानीमेकादशानां पशूनां क्रमसांकर्यं विधत्ते —
‘यदि कामयेत प्रजा मुह्येयुरिति पशून्व्यतिषजेत्प्रजा एव मोहयति’ (सं. का. ६ प्र. ६ अ. ५) इति।
उदक्प्रवणत्वेन स्थापिताया एकादशयूपपङ्क्तेर्दक्षिणयूपे वारुणस्याऽऽलम्भं
विधत्ते —
‘यदभिवाहतोऽपां वारुणमालभेत प्रजा वरुणो गृह्णीयाद्दक्षिणत उदञ्चमा लभतेऽपवाहतोऽपां प्रजानामवरुणग्राहाय’ (सं. का. ६ प्र. ६ अ. ५) इति।
अपामभिवाहस्तत्प्रवाहस्थानभूतो निम्नो देशः। तत्रावस्थित उत्तरयूपे वारु-णालम्भेन प्रजानां वरुणग्रहरूपो रोगः स्यात्। दक्षिणयूपे पशोरुदङ्मुखत्वे-नाऽऽलम्भे रोगो न भवति। दक्षिणयूपस्योन्नदेशवर्तित्वेनापामपवाहतः प्रवाहस्थानाभावादित्यर्थः। अत्र सूत्रम् - ‘आग्नेयं कृष्णग्रीवमग्निष्ठ उपाकरोति उत्तरे सारस्वतीं मेषीं दक्षिणे सौम्यं बभ्रुमेवं व्यत्यासं दक्षिणापवर्गान्पशूनुपाकरोति वारुणमन्ततो दक्षिणत उदञ्चम्’ इति।
पश्वेकादशिनी निरूपिता। अथ पात्नीवतपशुं विधत्ते –
‘इन्द्रः पत्निया मनुमयाजयत्तां पर्यग्निकृतामुदसृजत्तया मनुरार्ध्नोद्यत्पर्यग्निकृतं पात्नीवतमुत्सृजति यामेव मनुद्धिमार्ध्नोत्तामेव यजमान ऋध्नोति’ (सं. का. ६ प्र. ६ अ. ५) इति।
अत्र पत्नीशब्देन पात्नीवतसंज्ञके यूप उपाकृतस्त्वष्टृदेवताकः पशुरुपलक्ष्यते। शाखान्तरे तथा विधानात्। पश्वेकादशिनीगतपत्नीसंयाजानन्तरभावित्वादस्य यूपस्य पात्नीवतत्वम्। अत्र सूत्रम् - ‘जाघनीभिश्च पत्नीः संयाजयन्ति अनूबन्ध्यावपायां हुतायामग्रेण शालामुखीयं पात्नीवतं मिनोति यथाऽधोनाभिमनवस्तीर्णे चषालं तस्मिंस्त्वाष्ट्रं साण्डं लोमशं पिङ्गलं पशुमुपाकृत्य पर्यग्निकृतमुत्सृज्याऽऽज्येन शेषं संस्थापयेत्, यावन्ति पशोरवदानानि स्युस्तावत्कृत्व आज्यस्यावद्ये

[[564]]

Page No. ५६४
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे —
(सौम्यचर्वाद्यभिधानम्)
त्पशुधर्माऽऽज्यं भवति शालामुखीये प्रचरन्तीति विज्ञायते’ इति। तस्मादिन्द्रः पात्नीवतयूपे नियुक्तेन पशुना मनुमयाजयदिति व्याख्येयम्।
पर्यग्निकृते पशावुत्सृष्टे सति कर्मशेषस्याऽऽज्येन समाप्तिं विधत्ते —
‘यज्ञस्य वा अप्रतिष्ठिताद्यज्ञः परा भवति यज्ञं पराभवन्तं यजमानोऽनु परा भवति यदाज्येन पात्नीवतँ सँस्थापयति यज्ञस्य प्रतिष्ठित्यै यज्ञं प्रतितिष्ठन्तं यजमानोऽनु प्रति तिष्ठति’ (सं. का. ६ प्र. ६ अ. ६) इति।
अप्रतिष्ठितादसंस्थापनात्।
अस्य पशोः कालं विधत्ते —
‘इष्टं वपया भवत्यनिष्टं वशयाऽथ पात्नीवतेन प्र चरति तीर्थ एव प्र चरत्यथो एतर्ह्येवास्य यामः’ (सं. का. ६ प्र. ६ अ. ६) इति।
वशा वन्ध्या, सा चानूबन्ध्येत्यनेन नाम्नोच्यते। तदीयवपाहोमादूर्ध्वं हृदयाद्यङ्गहोमात्प्रागेतस्य पात्नीवतपशोः कालः। स च तीर्थमुचितं स्थानम्। किंचैतस्मिन्कालेऽनूबन्ध्याख्यस्य पशोर्याम उपरमः समाप्तिर्भवति। तस्य चान्तिमपशुत्वात्समाप्तेः प्रागेव पात्नीवतप्रचारो युक्तः।
देवतां विधत्ते —
‘त्वाष्ट्रो भवति त्वष्टा वै रेतसः सिक्तस्य रूपाणि वि करोति तमेव वृषाणं पत्नीष्वपि सृजति सोऽस्मै रूपाणि वि करोति’ (सं. का. ६ प्र. ६ अ. ६) इति।
विकरोति विविधाति करोति।
पात्नीवतपशुर्निरूपितः। अथ सौम्यं चरुं विधत्ते —
‘घ्नन्ति वा एतत्सोमं यदभिषुण्वन्ति यत्सौभ्यो भवति यथा मृतायानुस्तरणीं घ्नन्ति तादृगेव तत्’ (सं. का. ६ प्र. ६ अ. ७) इति।
सोमस्याभिषवो वधस्थानीयोऽतोऽनुस्तरणीस्थानीयः सौम्यश्चरुः कर्तव्यः। मृतं दीक्षितमनु स्तीर्यते हन्यत इत्यानुस्तरणी काचिद्गौः। दीक्षितशवस्यावयवेषु हृदयहस्तादिषु गोशवस्य हृदयाद्यवयवान्संस्थाप्य तं दीक्षितं दहेत्। तदर्थं काचिद्गौर्हन्यते।

[[565]]

Page No. ५६५
प्रपा. ४ अनु. ४५-३९ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(सौम्यचर्वाद्यभिधानम्)
चरोर्होमस्थानं विधत्ते —
‘यदुत्तरार्धे वा मध्ये वा जुहुयाद्देवताभ्यः समदं दध्याद्दक्षिणार्धे जुहोत्येषा वै पितृणां दिक्स्वायामेव दिशि पितॄन्निरवदयते’ (सं. का. ६ प्र. ६ अ. ७) इति।
वह्नेरुत्तरार्धमध्यदेशयोर्देवाहुतिस्थानत्वात्तत्र पित्र्ये होमे देवताभिः सह पितृणां समदं कलहं कुर्यात्। अतो निरवदयते देवदेशान्निष्कृष्य पितॄन्यजते।
चारुशेषस्य दानं विधत्ते —
“उद्गातृभ्यो हरन्ति सामदेवत्यो वै सौम्यो यदेव साम्नश्छम्बट्कुर्वन्ति तस्यैव स शान्तिः” (सं. का. ६ प्र. ६ अ. ७) इति।
सामैव सौम्यचरोरभिमानिदेवता। तथा सति सामवेदसंबन्धि यदङ्गमुद्गातार इत्थं छम्बट्कुर्वन्ति विनष्टं कुर्वन्ति तस्य दोषस्य स चरुः प्रतीकारः।
तस्मिन्नाज्यपूर्णो चरावुद्गातृभिः स्वदेहच्छाया द्रष्टव्येति विधत्ते —
‘अवेक्षन्ते पवित्रं वै सौम्य आत्मानमेव पवयन्ते’ (सं. का. ६ प्र. ६ अ. ७) इति।
सौम्यचरोः शुद्धिहेतुत्वात्तत्प्रेक्षणेनोद्गातारः स्वदेहं शोधयन्ति। अत्र सूत्रम् —‘आज्येन चरुमभिपूर्योद्गातृभ्यो हरन्ति तमुद्गातारोऽवेक्षन्ते’ इति।
आज्यस्यापर्याप्तौ पुनरप्यन्यत्पूरणं विधत्ते —
‘य आत्मानं न परिपश्येदितासुः स्मादभिददिं कृत्वाऽवेक्षेत तस्मिन्ह्यात्मानं परिपश्यत्यथो आत्मानमेव पावयते’ (सं. का. ६ प्र. ६ अ. ७) इति।
इतासुर्गतप्राणः। अमितो दीयते प्रक्षिप्यत आज्यमस्मिंश्चरावित्यभिददिः।
काम्येऽवेक्षणे मन्त्रविश्षं विधत्ते —
‘यो गतमनाः स्यात्सोऽवेक्षेत यन्मे मनः परागतं यद्वा मे अपरागतम्। राज्ञा सोमेन तद्वयमस्मासु धारयामसीति मन एवाऽऽत्मन्दाधार न गतमना भवति’ (सं. का. ६ प्र. ६ अ. ७) इति।
गतमना अव्यवस्थितचित्तः। उद्गातॄणां मध्ये गतमना यन्मे मन इत्यादिमन्त्रे-णावेक्षेत। मदीयं मनो यदि मत्तो निष्क्रान्तं यदि वा निष्क्रमणोन्मुखं तदिदानीं निष्क्रान्तस्य सोमस्य राज्ञः प्रसादाद्वयं तन्मनोऽस्मास्वेव धारयामः। मन्त्रसामर्थ्याच्चित्तसमाधानं भवति।

[[566]]

Page No. ५६६
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे —
(सौम्यचर्वाद्यभिधानम्)
अग्नाविष्णू महि धाम प्रियं वामित्यनयर्चा घृतयागं विधत्ते —
‘अप वै तृतीयसवने यज्ञः क्रामतीजानादनीजानमभ्याग्नावैष्णव्यर्चा घृतस्य यजत्यग्निः सर्वा देवता विष्णुर्यज्ञो देवताश्चैव यज्ञं च दाधार’ (सं. का. ६ प्र. ६ अ. ७ इति।
ईजानादिष्टवतो यजमानादनीजानं पुरुषमभिलक्ष्य यज्ञोऽपक्रामति तत्समाधानायाऽऽग्नावैष्णवमन्त्रयागः।
तत्र नीचध्वनिं विधत्ते —
‘उपाँशु यजति मिथुनत्वाय।’ (सं. का. ६ प्र. ६ अ. ७) इति।
सौम्यचरुगतेनोच्चध्वनिना सहोपांशुध्वनेर्मिथुनत्वम्।
अनूबन्ध्यां विधत्ते —
‘ब्रह्मवादिनो वदन्ति मित्रो यज्ञस्य स्विष्टं युवते वरुणो दुरिष्टं क्व तर्हि यज्ञः क्व यजमानो भवतीति यन्मैत्रावरुणीं वशामालभते मित्रेणैव यज्ञस्य स्विष्टँ शमयति वरुणेन दुरिष्टं नाऽऽर्तिमार्च्छति यजमानः’ (सं. का. ६ प्र. ६ अ. ७ इति।
यज्ञस्य यदङ्गं सम्यगिष्टं तस्याधिपतिर्मित्रः स्वयमनाराधितस्तदङ्गं दुरिष्टेन मिश्रयति। दुरिष्टस्याङ्गस्याधिपतिर्वरुणश्चानाराधितस्तद्दुरिष्टं संपाद्य स्विष्टेन मिश्रयति। तथा सत्युभाभ्यां स्विष्टस्य विनाशितत्वाद्यज्ञः क्वावतिष्ठेत। यज्ञाभावे यजमानोऽपि कुत्र फलोपेतो भवेत्। वशालम्भेन तुष्टो मित्रः स्विष्टं पालयति। वरुणो दुरिष्टं नाशयति। ततो यज्ञस्य सुस्थितत्वान्निष्फलस्वरूपामार्तिं यजमानो न प्राप्नोति। अत्र सूत्रम् – ‘मैत्रावरुणीं गां वशामनूबन्ध्यामालभेत’ इति।
तामनूबन्ध्यां प्रशंसति —
‘यथा वै लाङ्गलेनोर्वरां प्रभिन्दन्त्येवमृक्सामे यज्ञं प्र भिन्तो यन्मैत्रावरुणीं वशामालभते यज्ञायैव प्रभिन्नाय मत्यमन्ववास्यति शान्त्यै’ (सं. का. ६ प्र. ६ अ. ७) इति।
सर्वसस्योपेता भूमिरुर्वरा तस्यां कृष्टायां कर्षणमनु तत्र मत्यं क्षिपन्ति। शक्त्याधानसाधनं गोमयादिद्रव्यं मत्यं, मतमभिमतं फलमर्हतीति मत्यम्। तद्बदृक्त्सामाभ्यां कर्षणवद्योग्यतामापादितस्य यज्ञस्य वशालम्भेन मत्यप्रक्षेपवत्फलजननशक्तिर्भवति। तेन चाशाक्तिलक्षणस्य दोषस्य शान्तिर्भवति।

[[567]]

Page No. ५६७
प्रपा. ४ अनु. ४५-३९ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अतिग्राह्यविधिः)
पुनरपि वशां प्रशंसति
‘यातयामानि वा एतस्य छन्दाँसि य ईजानाश्छन्दसामेष रसो यद्वशा यन्मैत्रावरुणीं वशामालभते छन्दाँस्येव पुनरा प्रीणात्ययातयामत्वायाथो छन्दाःस्वेव रसं दधाति’ (सं. का. ६ प्र. ६ अ. ७) इति।
ईजानो यज्ञं कृतवान्। एतस्य च्छन्दांसि गतसाराणि भवन्ति। वशा तु च्छन्दसां सारः। वषट्कारदेवतया गायत्रीदेवतायाः शिरसि च्छिन्ने पतितेन रसेनोत्पन्नत्वात्। एतच्च काम्यपशुकाण्डे समाम्नातम्। अतो वशालम्भेन च्छन्दसां गतसारत्वाभावात्प्रीतिर्भवति। प्रत्युत च्छन्दःसु विशेषरसः स्थाप्यते।
सौम्यचरुघृतयागानूबन्ध्या निरूपिताः। अथातिग्राह्यान्विधत्ते —
‘देवा वा इन्द्रियं वीर्यं व्यभजन्त ततो यदत्यशिष्यत तदतिग्राह्या अभवन्त-दतिग्राह्याणामतिग्राह्यत्वं यदतिग्राह्या गृह्यन्त इन्द्रियमेव तद्वीर्यं यजमान आत्मन्धत्ते’ (सं. का. ६ प्र. ६ अ. ८) इति।
इन्द्रवायुमित्रवरुणादिदेवैरिन्द्रियगतसामर्थ्यहेतौ सोमरसे विभक्ते सत्यतिरि-क्ताद्रसादेते गृह्यन्ते। तद्ग्रहणेन सामर्थ्यं यजमाने स्थाप्यते।
विहितानामतिग्राह्याणामग्न्यादिदेवतासंबन्धं विधत्ते —
‘तेज आग्नेयेन्द्रियमैन्द्रेण ब्रह्मवर्चसँ सौर्येण’ (सं. का. ६ प्र. ६ अ. ८) इति।
यजमान आत्मन्धत्त इत्यनुवर्तते। तेज कान्तिः। इन्द्रियं बलम्। ब्रह्मवर्चसं श्रुताध्ययनसंपत्तिः। प्रातःसवन आग्रयणसादनादूर्ध्वमेते त्रयो गृहीतव्याः। अत्र सूत्रम् - ‘एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्य इति सादयित्वा त्रीनग्निष्टोमेऽतिग्राह्यान्गृह्णात्याग्नेयमैन्द्रँ सौर्यमित्यग्न आयुँष्युत्तिष्ठँस्तरणिरिति ग्रहणासादनाः’ इति।
व्यतिरेकमुखेन(ण) पृष्ठ्यषडहे तानतिग्राह्यान्विधत्ते —
‘उपस्तम्भनं वा एतद्यज्ञस्य यदतिग्राह्याश्चक्रे पृष्ठानि यत्पृष्ठ्ये न गृह्णीयात्प्राञ्चं यज्ञं पृष्ठानि सँशृणीयः’ (सं. का. ६ प्र. ६ अ. ८) इति।
यज्ञरूपस्य रथस्यातिग्राह्या उत्तम्भनकाष्ठस्थानीयाः। षट्सु दिनेषु क्रमेण रथंतरबृहद्वैरूपवैराजशाक्वररैवतसामनामकैः साध्यानि पृष्ठ्य(ष्ठ) स्तोत्राणि चक्रस्थानीयानि। ततः पृष्ठ्यषडहेऽतिग्राह्यरूपोत्तम्भनाभावे तानि पृष्ठानि तं यज्ञरथं पुनः पातयित्वा संशृणीयुर्विनाशयेयुः।
तस्मात्तान्गृह्णीयादित्यर्थः।

[[568]]

Page No. ५६८
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे —
(अतिग्राह्यविधिः)
उक्थ्ये चोदकप्राप्तानतिग्राह्यान्प्रतिषेधति —
‘यदुक्थ्ये गृह्णीयात्प्रत्यञ्चं यज्ञमतिग्राह्याः सँशृणीयुः’ (सं. का. ६ प्र. ६ अ. ८) इति।
उत्तम्भनमन्तरेणैव पुरत उन्नतसदृश उक्थ्यस्तस्मिन्गृहीता अतिग्राह्याः पुरत्तादस्यौन्नत्यमापाद्य यज्ञरथं प्रत्यञ्चं पातयित्वा विनाशयेयुः। तस्मात्तान्न गृह्णीयादित्यर्थः।
पृष्ठषडहेऽप्युक्थ्यसद्भावादेतं प्रतिषेधं वारयितुं पूर्ववाक्येनै(णै)ते विहिता-स्तद्वद्विश्वजिद्यागस्याप्युक्थ्यसंस्थस्य शाखान्तरे सद्भावात्तत्रापि निषेधं वारयितुं विधत्ते —
‘विश्वाजिति सर्वपृष्ठे ग्रहीतव्या यज्ञस्य सवीर्यत्वाय’ (सं. का. ६ प्र. ६ अ. ८) इति।
रथंतरादीनि षडपि पृष्ठ्य(ष्ठ)स्तोत्राणि यस्मिन्सन्ति स सर्वपृष्ठः।
अग्निष्ठोमे तान्विधत्ते —
‘प्रजापतिर्देवेभ्यो यज्ञान्व्यादिशत्स प्रियास्तनूरप न्यधत्त तदतिग्राह्या अभवन्वितनुस्तस्य यज्ञ इत्याहुर्यस्यातिग्राह्या न गृह्यन्त इत्यप्यग्निष्टोमे ग्रहीतव्या यज्ञस्य सतनुत्वाय’ (सं. का. ६ प्र. ६ अ. ८) इति।
व्यादिशद्विभज्य दत्तवान्। तदा स प्रजापतिर्यज्ञसंबन्धिनीः प्रियास्तनूरप-न्यधत्तापनीय क्वचिद्गोपितवान्। तास्तनवोऽतिग्राह्याः। तस्मादग्निष्टोमस्य सतनुत्वाय तान्गृह्णीयात्। अत्रातिग्राह्याणां पृष्ठ्यषडहादिविकृतिसंबन्धप्रतीतेः प्रकृतावग्निष्टोमेऽपि विधीयन्ते।
व्यावृत्तिकामस्य तान्विधत्ते —
“देवता वै सर्वाः सदृशीरासन्ता न व्यावृतमगच्छन्ते देवा एत एतान्ग्रहान-पश्यन्तानगृह्णताऽऽग्नेयमग्निरैन्द्रमिन्द्रः सौर्यँ सूर्यस्ततो वै तेऽन्याभिर्देवताभिर्व्यावृतमगच्छन्यस्यैवं विदुष एते ग्रहा गृह्यन्ते व्यावृतमेव पाप्मना भ्रातृव्येण गच्छति” (सं. का. ६ प्र. ६ अ. ८) इति।
सदृशीस्तुल्यैश्वर्याः व्यावृतमैश्वर्याधिक्यलक्षणम्। इतरेभ्यो व्यावृतं भ्रातृव्यादैश्वर्याधिक्यमेतैरतिग्राह्यैः प्राप्नोति।
तानतिग्राह्यान्प्रशंसति —

[[569]]

Page No. ५६९
प्रपा. ४ अनु. ४५-३९ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अतिग्राह्यविधिः)
‘इमे लोका ज्योतिष्मन्तः समाद्वीर्याः कार्या इत्याहुराग्नेयेनास्मिल्ँ लोके ज्योतिर्धत्त ऐन्द्रेणान्तरिक्ष इन्द्रवायू हि सयुजौ सौर्येणामुष्मिल्ँ लोके ज्योतिर्धत्ते ज्योतिष्मन्तोऽस्मा इमे लोका भवन्ति समावद्वीर्यानेनान्कुरुते’ (सं. का. ६ प्र. ६ अ. ८) इति।
इमे पृथिव्यान्तरिक्षद्युलोकस्ते चाग्न्यादिदेवतानुग्रहेण ज्योतिष्मन्तस्तुल्यासा-मर्थ्याः। अन्तरिक्षस्य वायुर्देवता न त्विन्द्र इति चेन्न, इन्द्रवाय्योः सहावस्था-नादैन्द्रवायवग्रहे तद्दर्शनात्।
प्रकारान्तरेण तान्प्रशंसति —
‘एतान्वै ग्रहान्बम्बाविश्ववयसाववित्तां ताभ्यामिमे लोकाः पराञ्चश्चार्वाञ्चश्च प्राभुर्यस्यैवं विदुष एते ग्रहा गृह्यन्ते प्रास्मा इमे लोकाः पराञ्चश्चार्वाञ्चश्च भान्ति’ (सं. का. ६ प्र. ६ अ. ८) इति।
बम्बाश्च विश्ववयाश्च तयोरतिग्राह्यमहिमाभिज्ञत्वात्तदर्थमुत्तमा अधमाश्चेमे लोकाः प्राभुः प्रभावन्तः।
अतिग्राह्या निरूपिताः। अथादाभ्यग्रहं विधत्ते —
‘देवा वै यद्यज्ञेऽकुर्वत तदसुरा अकुर्वत ते देवा अदाभ्ये छन्दाँसि
सवनानि समस्थापयन्ततो देवा अभवन्पराऽसुरा यस्यैवं विदुषोऽदाभ्यो गृह्यते भवत्यात्मना पराऽस्य भ्रातृव्यो भवति’ (सं. का. ६ प्र. ६ अ. ८) इति।
असुरा मात्सर्येण देवैरनुष्ठितं यज्ञाङ्गं स्वयमप्यमनुष्ठितवन्तः। तदाऽसुरवञ्चनेन देवा गायत्रीत्रिष्टुब्जगतीभिर्निष्पाद्यनि त्रीणि सवनान्यदाभ्यग्रहे समापितवन्तः। तत्र हि - ‘वसवस्त्वा प्रवृहन्तु गायत्रेण छन्दसा’ इत्यादिभिस्त्रिभिर्मन्त्रैस्त्रयः सोमांशवः पृथक्कर्तव्याः। अत्र सूत्रम् - ‘उपनद्धस्य राज्ञस्त्रीनँशून्प्रवृहन्ति वसवस्त्वा प्रवृहन्तु गायत्रेण छन्दसेत्येतैः प्रतिमन्त्रं तैरेनं चतुराधूनोति’ इति। तदिदं छन्दसां सवनानां च समापनम्। तेन देवानां विभूतिरसुराणां पराभवश्चाभूत्। तद्बदन्यस्याप्यदाभ्यग्रहणेन भवति।
निर्वचनेन प्रशंसति —
‘यद्वै देवा असुरानदाभ्येनादभ्नुवन्तददाभ्यस्यादाभ्यत्वम्’ (सं. का. ६ प्र. ६ अ. ९) इति।

[[570]]

Page No. ५७०
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे —
(अतिग्राह्यविधिः)
अदभ्नुवन्हिंसितवन्तः असुरदम्भनहेतुरयं ग्रहः स्वयमन्येन केनचिदपि दम्भितुमशक्यत्वाददाभ्यः।
एतद्वेजनं प्रशंसति —
‘य एवं वेद दभ्नोत्येव भ्रातृव्यं नैनं भ्रातृव्यो दभ्नोति’ (सं. का. ६ प्र. ६ अ. ९) इति।
अथादाभ्यस्य कालं विधत्ते —
‘एष वै प्रजापतेरतिमोक्षिणी नाम तनूर्यददाभ्य उपनद्धस्य गृह्णात्यतिमुक्त्यै’ (सं. का. ६ प्र. ६ अ. ९) इति।
अतिशयेन पापान्मोक्षोऽतिमोक्षः। सोऽस्या अस्तीत्यतिमोक्षिणी। प्रजापते-स्तादृग्रूपोऽयमदाभ्यः। तस्मादुपनद्धस्य वस्त्रेण बद्धस्य सोमस्य बन्धनादतिमुक्त्यर्थं गृह्णीयात्। शकटादवरोपितो वस्त्रबद्धसोमोऽधिषवणफलकयोरुपर्यवतिष्ठते। तस्य च सोमस्य बन्धमुपांशुग्रहकाले विस्रस्येन्द्राय त्वा वृत्रघ्न इत्यादिभिर्मन्त्रैः सोमं मिमीते। तस्माद्विस्रंसनात्प्रागेवादाभ्यो ग्रहीतव्य इत्यर्थः।
एतद्वेदनं प्रशंसति —
‘अति पाप्मानं भ्रातृव्यं मुच्यते य एवं वेद’ (सं. का. ६ प्र. ६ अ. ९) इति।
पापरूपं वैरिणमुत्क्रम्य तत्कृतोपद्रवान्मुच्यते।
अदाभ्यस्य सोमव्यतिरिक्तं द्रव्यं विधत्ते —
‘घ्नन्ति वा एतत्सोमं यदभिषुण्वन्ति सोमे हन्यमाने यज्ञो हन्यते यज्ञे यजमानो ब्रह्मवादिनो वदन्ति किं तद्यज्ञे यजमानः कुरुते येन जीवन्त्सुवर्गं लोकमेतीति जीवग्रहो वा एष यददाभ्योऽनभिषुतस्य गृह्णाति जीवन्तमेवैनँ सुवर्गं लोकं गमयति’ (सं. का. ६ प्र. ६ अ. ९) इति।
अभिषवेण सोमस्य हतत्वाद्यज्ञे हते यजमानो हतप्रायो भवति। तादृग्वध-मन्तरेण स्वर्गप्राप्तवुपायान्ब्रह्मवादिनो विचार्यादाभ्यं निश्चितवन्तः। स च जीव-नोपेतो ग्रहः। तस्मादनभिषुतस्याभिषवरूपवधरहितस्य द्रव्यस्य रसं तत्र गृह्णी-यात्। अत्र सूत्रम् — ‘अँशुमदाभ्यं वा प्रथमं गृह्णाति शुक्रं ते शुक्रेण गृह्णा-मीति दध्नः पयसो निग्राभ्याणां वा’ इति।
अदाभ्यग्रहस्याऽऽधवनहेतूनां सोमांशूनां त्रयाणां सवनत्रयगतेषु त्रिषु महा-भिषवेषु मेलनं विधत्ते —

[[571]]

Page No. ५७१
प्रपा. ४ अनु. ४५-३९ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अतिग्राह्यविधिः)
‘वि वा एतद्यज्ञं छिन्दन्ति यददाभ्ये सँ स्थापयन्त्यँशूनपि सृजति यज्ञस्य संतत्यै’ (सं. का. ६ प्र. ६ अ. ९) इति।
असुरवञ्चनाय वसवस्त्वेत्यादिमन्त्रैरंशुत्रयं(य) पृथक्करणरूपसवनत्रय (स)-मापनं देवैः कृतं तद्वदन्येनापि कृते सत्युपांश्वन्तर्यामादीनाम(न)नुष्ठानाद्यज्ञो विच्छिद्यते, तत्परिहाराय पृथक्कृतानंशूनभिषवेषु मेलयेत्। अत्र सूत्रम् - ‘आधवनानँशून्प्रज्ञातान्निधायोशिक्त्वं देव सोम गायत्रेण छन्दसेत्येतैः प्रतिमन्त्रमनुसवनमेकैकं महाभिषवेष्वपिसृजति’ इति।
अदाभ्यो निरूपितः। अथांशूग्रहं विधत्ते —
‘देवा वै प्रबाहुग्ग्रहानगृह्णत स एतं प्रजापतिरँशुमपश्यत्तमगृह्णीत तेन वै स आर्ध्नोद्यस्यैवं विदुषोऽँशुर्गृह्यत ऋध्नोत्येव’ (सं. का. ६ प्र. ६ अ. १०) इति।
प्रबाहुक्तुल्यस्वभावान्। प्रजापतिस्तु समृद्ध्यर्थं विलक्षणमंशुग्रहं गृहीत्वा समृद्धोऽभवत्।
इतरग्रहवैलक्षण्यं क्रमेण दर्शयन्नभिषवस्याऽऽवृत्त्यभावं विधत्ते —
‘सकृदभिषुतस्य गृह्णाति सकृद्धि स तेनाऽऽर्ध्नोत्’ (सं. का. ६ प्र. ६ अ. १०) इति।
अष्टौ कृत्वोऽग्रेऽभिषुणोतीत्यादिना। ग्रहान्तरेऽभिषवावृत्तिः श्रुता न त्वत्र तथा कुर्यात्किंतु सकृदेव। यस्मात्स प्रजापतिः सकृदेवाभिषुत्य तेन ग्रहेण सम्यक्समृद्धिं गतः।
ग्रहणमन्त्रस्योच्चारणं निवारयितुं मानसमनुसंधानं विधत्ते —
‘मनसा गृह्णाति मन इव हि प्रजापतिः प्रजापतेराप्त्यै’ (सं. का. ६ प्र. ६ अ. १०) इति।
संकल्पमात्रेण जगत्सर्जनात्प्रजापतेर्मनःसादृश्यम्।
ग्रहणपात्रं विधत्ते —
‘औदुम्बरेण गृह्णात्यूर्ग्वा उदुम्बर ऊर्जमेवाव रुन्धे’ (सं. का. ६ प्र. ६ अ. १०) इति।
पात्रस्याऽऽकारं विधत्ते —

[[572]]

Page No. ५७२
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे —
(अतिग्राह्यविधिः)
‘चतुःस्रक्ति भवति दिक्ष्वेव प्रति तिष्ठति’ (सं. का. ६ प्र. ६ अ. १०) इति।
चतुष्कोणमित्यर्थः।
वामदेवेन दृष्टस्य कया नश्चित्र आ भुवदित्यस्यामृच्युत्पन्नस्य साम्नो ग्रहणमन्त्रतामाह —
‘यो वा अँशोरायतनं वेदाऽऽयतनवान्भवति वामदेव्यमिति साम तद्वा अस्याऽऽयतनं मनसा गायमानो गृह्णात्यायतनवानेव भवति’ (सं. का. ६ प्र. ६ अ. १०) इति।
गृहवानित्यर्थः।
अनुच्छ्वासं ग्रहणकाले विधत्ते —
‘यदध्वर्युरँशुं गृह्णाति सैवास्यर्द्धिः’ (सं. का. ६ प्र. ६ अ. १०) इति।
अंशुं नार्धयेत्समृद्धं न कुर्यात्। तदानीमध्वर्युयजमानयोः समृद्धिर्न स्यात्। अनुच्छ्वासगृहीतिरेवांशोः समृद्धिः। अत्र सूत्रम् - ‘अंशुं गृह्णन्नेकग्रहायाऽऽप्तं राजानमुपरे न्युप्य सकृदभिषुत्य वामदेव्यं मनसा गायमानोऽनवानं गृह्णाति’ इति।
कथंचिदुच्छ्वासश्चेत्तद्दोषनिवारणाय विधत्ते —
‘हिरण्यमभि व्यनित्यमृतं वै हिरण्यमायुः प्राण आयुषैवामृतमभि धिनोति’ (सं. का. ६ प्र. ६ अ. १०) इति।
हिरण्यस्याऽऽभिमुख्येन श्वासं कुर्यात्। तथा सत्यायुःस्वरूपेणैव प्राणवायुना हिरण्यरूपममृतमभिप्रीणयति।
हिरण्यस्येयत्तां विधत्ते —
‘शतमानं भवति शतायुः पुरुषा शतेन्द्रिय आयुष्येवेन्द्रिये प्रति तिष्ठति’ (सं. का. ६ प्र. ६ अ. १०) इति।
शतनिष्कपरिमितं शतमानपरिमितं वा हिरण्यं भवति। दशानां ज्ञानकर्मे-न्द्रियाणामेकैकस्य दशनाडीषु संचाराच्छतेन्द्रियत्वम्। अत्र सूत्रम् - ‘यदि व्यवाने(न्या)दा नः प्राण एतु परावत इति शतमानँ हिरण्यमभि व्यनीया(न्या)ताम-

[[573]]

Page No. ५७३
प्रपा. ४ अनु. ४५-३९ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अतिग्राह्यविधिः)
ध्वर्युर्यजमानश्च’ इति। अंशुग्रहादाभ्यग्रहयोः पौर्वापर्यं विकल्पितम्। अत एव सूत्रकारेणोक्तम् – ‘अंशुमदाभ्यं वा प्रथमं गृह्णाति’ इति।
अंशुग्रहो निरूपितः। अथ षोडशिग्रहं विधत्ते —
‘प्रजापतिर्देवेभ्यो यज्ञान्व्यादिशत्स रिरिचानोऽमन्यत। स यज्ञानाँ षोड-शधेन्द्रियं वीर्यमात्मानमभि समर्क्खिदत्तत्षोडश्यभवन्न वै षोडशी नाम यज्ञोऽस्ति यद्वाव षोडशँ स्तोत्रँ षोडशँ शस्त्रं तेन षोडशी तत्षोडशिनः षोडशित्वं यत्षोडशी गृह्यत इन्द्रियमेव तद्वीर्यं यजमान आत्मन्धत्ते’ (सं. का. ६ प्र. ६ अ. ११) इति।
‘देवेभ्यो यज्ञान्विभज्य दत्त्वा स्वार्थस्य कस्याप्यभावाद्रिक्तोऽहमिति मन्यमानः स्वात्मानमभिलक्ष्य सर्वयज्ञसंबन्धिनमिन्द्रियसामर्थ्यप्रदमंशं षोडशभेदभिन्नं समक्खिदत्समुपादाय श्रान्तोऽभवत्। तच्च सामर्थ्यं षोडशिनामकः क्रतुरभवत्। स च सोमयागव्यतिरिक्तो यज्ञः कश्चिन्नूतनो न।
प्रकारान्तरेण प्रशंसति —
‘देवेभ्यो वै सुवर्गो लोको न प्राभवत्त एतँ षोडशिनमपश्यन्तमगृह्णत ततो वै तेभ्यः सुवर्गो लोकः प्राभवद्यत्षोडशी गृह्यते सुवर्गस्य लोकस्याभिजित्यै’ (सं. का. ६ प्र. ६ अ. ११) इति।
न प्राभवन्न स्वाधीनः।
पुनः प्रकारान्तेण प्रशंसति —
‘इन्द्रो वै देवानामानुजावर आसीत्स प्रजापतिमुपाधावत्तस्मा एतँ षोडशिनं प्रायच्छत्तमगृह्णीत ततो वै सोऽग्रं देवतानां पर्यैद्यस्यैवं विदुषः षोडशी गृह्यतेऽग्रमेव समानानां पर्येति’ (सं. का. ६ प्र. ६ अ. ११) इति।
अनुजेभ्यो निकृष्टेभ्योऽवरोऽत्यन्तनिकृष्टः। आनुजेति दीर्घश्छान्दसः। अग्रं श्रैष्ठ्यम्।
कालं विधत्ते —
‘प्रातःसवने गृह्णाति वज्रो वै षोडशी वज्रः प्रातःसवनँ स्वादेवैनं योनेर्निगृह्णाति’ (सं. का. ६ प्र. ६ अ. ११) इति।
वज्रवदनिष्टनिवारकत्वादुभयोर्वज्रत्वम्। तस्मादेव साम्यात्प्रातःसवनं वज्रस्य स्वयोनिः।

[[574]]

Page No. ५७४
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे —
(षोडशिग्रहविधिः)
पक्षान्तरमाह —
‘सवनेसवनेऽभि गृह्णाति सवनात्सवनादेवैनं प्र जनयति’ (सं. का. ६ प्र. ६ अ. ११) इति।
अत्र सूत्रम् - ‘षोडशिनो ग्रहणं प्रातःसवन उत्तमो धाराग्रहाणाँ सवने सवनो वा’ इति।
नित्यत्वेन विहितस्यैव काम्यत्वमपि विधत्ते —
‘तृतीयसवने पशुकामस्य गृह्णीयाद्वज्रो वै षोडशी पशवस्तृतीयसवनं वज्रेणैवास्मै तृतीयसवनात्पशूनव रुन्धे’ (सं. का. ६ प्र. ६ अ. ११) इति।
यथा खादिरो यूपो भवति खादिरं वीर्यकामस्य यूपं कुर्वीतेति वचनद्वयादे-कस्यैव नित्यत्वं काम्यत्वं च तद्बत्।
उक्थ्यक्रतावपि शाखान्तरानुसारेण प्रसक्तं प्रतिषेधति —
‘नोक्थ्ये गृह्णीयात्प्रजा वै पशव उक्थानि यदुक्थ्ये गृह्णीयात्प्रजां पशूनस्य निर्दहेत्’ (सं. का. ६ प्र. ६ अ. ११) इति।
उक्थ्यक्रतुगतानां शस्त्राणां प्रजापशुरूपत्वाद्वज्ररूपेण षोडशिना दाहः स्यात्। शाखान्तरे विधानादिह निषेधाच्च विकल्पः सूत्रे दर्शितः नोक्थ्ये गृह्णीया (द) गृह्णीयाद्वा’ इति।
षोडशिक्रताविवातिरात्रक्रतावपि काम्यग्रहं विधत्ते —
‘अतिरात्रे पशुकामस्य गृह्णीयाद्वज्रो वै षोडशी वज्रेणैवास्मै पशूनवरुध्य रात्रियोपरिष्टाच्छमयति’ (सं. का. ६ प्र. ६ अ. ११) इति।
वज्रषोडशिना पशूनामवरोधेऽपि नास्ति बाधः। षोडशिशस्त्रस्योपरिष्टादनु-ष्ठेयेन रात्रिशब्दोपलक्षितेन शस्रसमूहेन तद्बाधोपशमनात्। पशुकामस्येति विशेषणादन्यस्यातिरात्रे षोडशिग्रहो नास्ति।
अधिकारिविशेषेण ग्रहं विधत्ते —
‘अप्यग्निष्टोमे राजन्यस्य गृह्णीयाद्व्यावृत्कामो हि राजन्यो यजते’ (सं. का. ६ प्र. ६ अ. ११) इति।
द्वादशभिः स्तोत्रैः शस्त्रैश्चोपेतोऽग्निष्टोमो वर्णत्रयसाधारणः। राजन्यस्तु विप्र-वैश्याभ्यां व्यावृत्तिमुत्कर्षं कामयते तदर्थं गृह्णीयात्।

[[575]]

Page No. ५७५
प्रपा. ४ अनु. ४५-३९ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(षोडशिग्रहविधिः)
अस्मिन्षोडशिग्रहस्तोत्रस्यैकविंशनामकं स्तोमं विधत्ते —
‘साह्न एवास्मै वज्रं गृह्णाति स एनं वज्रो भूत्या इन्धे निर्वा दहत्येक विँशँ स्तोत्रं भवति प्रतिष्ठित्यै’ (सं. का. ६ प्र. ६ अ. ११) इति।
अह्ना सह वर्तत इति एकदिवसनिष्पाद्यः सोमयागः साह्नः। तस्मिन्नेव यजमानार्थमध्वर्युः षोडशिरूपं वज्रं गृह्णाति। स च वज्रो वैरिविनाशाय प्रयुक्त एनं यजमानमैश्वर्यार्थं प्रकाशयति। अथवा प्रयोगकौशलाभावादस्मिन्नेव यजमाने परीतो निःशेषेणैनमेव दहति। अतः पाक्षिकदाहनिवृत्त्या यजमानस्य प्रतिष्ठार्थमेकविंशस्तोत्रं संपादयेत्। प्रगीतमन्त्रसाध्यस्तुतिः स्तोत्रम्। तच्च गानं तृचे कर्तव्यम्। एकं साम तृचे क्रियते स्तोत्रीयमिति विधानात्। षोडशिस्तोत्र-स्यासावि सोम इन्द्र व इत्यृक्प्रथमा। इन्द्रमिद्धरी वहत इति द्वितीया। आ तिष्ठ वृत्रहन्निति तृतीया। सोऽयं तृचस्त्रिभिः पर्यायैरावृत्तिविशेषो (षेण) गीयमान एकविंशत्यृगात्मकं(को) भवति। प्रथमे पर्याये प्रथमद्बितीययोचोस्त्रि-स्त्रिर्गानम्। तृतीयस्याः सकृद्गानम्। द्वितीयपर्याये प्रथमायाः। तृतीयपर्याये मध्यमायाः सकृद्गानम्। तथा च च्छनेदोगब्राह्मण आम्नायते - ‘सप्तेभ्यो हिं करोति स तिसृभिः स तिसृभिः स एकया सप्तभ्यो हिं करोति स एकया स तिसृभिः स तिसृभिः सप्तभ्यो हिं करोति स तिसृभिः स एकया स तिसृभिः सप्तसप्तिमेकविंशस्य विष्टुतिः’ इति। सप्तभ्यः सप्तभिग्भिर्हिं करोति गायेत्। यथोक्तावृत्तिविशिष्टेयमेकविंशनामकस्य स्तोमस्य संबन्धिनी विशिष्टा स्तुतिः। तस्याश्च सप्तसप्तिमिति नामधेयमित्यर्थः।
षोडशिशस्त्रं विधत्ते —
‘हरिवच्छस्यत इन्द्रस्य प्रियं धामोपाऽऽप्नोति’ (सं. का. ६ प्र. ६ अ. ११) इति।
हरिशब्दोऽस्मिन्नस्तीति हरिवच्छस्त्रम्। इन्द्रमिद्धरी वहत इत्यादिष्वृक्षु हरिशब्दो बहुलमुपलभ्यते। तेन शस्त्रेणेन्द्रस्य परितोषात्तदीयो लोकः प्राप्यते। तच्च शस्त्रं द्विविधं विहृतमविहृतं च। नानाविधच्छन्दसामृचां संमेलनेन निष्पादितं विहृतम्। त(य)थावस्थितमविहृतम्।
तत्र विहरणप्रकारं विधत्ते —

[[576]]

Page No. ५७६
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे —
(षोडशिग्रहविधिः)
‘कनीयाँसि वै देवेषु छन्दाँस्यासञ्ज्यायाँस्यसुरेषु ते देवाः कनीयसा छन्दसा ज्यायश्छन्दोऽभि व्यशँसन्ततो वै तेऽसुराणां लोकमवृञ्जत यत्कनीयसा छन्दसा ज्यायश्छनोऽभि विशँसति भ्रातृव्यस्यैव तल्लोकं वृङ्क्ते’ (सं. का. ६ प्र. ६ अ. ११) इति।
सन्त्यस्मिञ्शस्रे बहुनि च्छन्दांसि। तान्याश्वलायनेनोदाहृतानि - ‘आ त्वा वहन्तु हरय इति तिस्रो गायत्र्यः। उपो षु शृणुही गिरः सुसंदृशं त्वा वयं मघवन्नित्येका द्वे च पङ्क्ती। यदिन्द्र पृतनाज्येऽयं ते अस्तु हर्यत इत्यौष्णिह-बार्हतौ तृचौ’ इत्यादिना। तत्र चतुर्विंशत्यक्षरा गायत्री। अष्टाविंशत्यक्षरो-ष्णिक्। अनयोरल्पाक्षरत्वेन कनीयस्त्वोद्देवच्छन्दस्त्वम्। अष्टाक्षरपादैः पञ्च-भिश्चत्वारिंशदक्षरा पङ्क्तिः। षट्त्रिंशदक्षरा बृहती। अनयोरधिकाक्षरत्वेन भूय-स्त्वादसुरच्छन्दस्त्वम्। एवं छन्दोन्तरेष्वप्युन्नेयम् । तत्र देवा गायत्रीछन्दसा पङ्क्तिच्छन्दोऽभितो विहृत्य शस्त्रमपठन्। विहार आश्वलायनेन दर्शतः - ‘तदेव शंस्यं विहरेत्पादान्व्यवधायार्धर्चशः शंसेत्पूर्वासां पूर्वाणि पदानि गायत्र्यः पङ्क्तिभिः पङ्क्तीनां तु द्वे द्वे पदे शिष्येते ताभ्यां प्रहिणुयादुष्णिहो बृहतीभिः’ इत्यादिना। अस्यायमर्थः - अविहृतं यच्छस्रं तदेव विहृतं कुर्यात्। तद्यथा-गायत्र्याः प्रथमं पादं पङ्क्तेः प्रथमपादेन संयोज्यैकमर्धर्चं संपादयेत्। एवं द्वि-तीयतृतीयपादसंयोगेन पुनरर्धर्चद्वयं संपाद्यम्। पङ्क्तेरवशिष्टं पादद्वयमेकोऽर्ध-र्चस्तस्यान्ते प्रणवं कुर्यात्। तैरेतैश्चतुर्भिरर्धर्चैर्द्वाव (द्वे अ) नुष्टुभौ संपद्येते। एवं गायत्र्यः पङ्क्तिभिः संयोज्याः। अनया विशंसति विहरेदिति। तेन विहृतेन शस्रेण भ्रातृव्यस्थानं विनाशयति।
संख्यान्तरमभिप्रेत्य विहरणं दर्शयति —
‘षडक्षराण्यति रेचयन्ति षड्वा ऋतव ऋतूनेव प्रीणाति चत्वारि पूर्वाण्यव कल्पयन्ति चतुष्पद एव पशूनव रुन्धे द्वे उत्तरे द्विपद एवाव रुन्धे’ (सं. का. ६ प्र. ६ अ. ११) इति।
काचिदृगष्टाविंशद(त्य)क्षराऽन्या त्वष्टात्रिंशदक्षराऽन्या त्रिंशदक्षरा। तत्र मध्यमायाः षडक्षराण्यनुष्टुभोऽतिरिच्यन्ते। तस्या ऋच आदौ चत्वारि पूर्वस्यामृचि संयोज्यानि। अन्तिमं द्वयमुत्तरस्यामृचि संयोज्यम्।

[[577]]

Page No. ५७७
प्रपा. ४ अनु. ४५-३९ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(षोडशिग्रहविधिः)
विहरणे फलितं दर्शयति।
‘अनुष्टुभमभि सं पादयन्ति वाग्या अनुष्टुप्तस्मात्प्राणानां वायुत्तमा’ (सं. का. ६ प्र. ६ अ. ११) इति।
आश्वलायनः - ‘अनुष्टुप्प्रकारं शंसेदूर्ध्वं स्तोत्रियानुरूपाभ्यमतो विहृत इति।
स्तोत्रोपाकरणस्य कालं विधत्ते —
‘समयाविषिते सूर्ये षोडशिनः स्तोत्रमुपाकरोत्येतस्मिन्वै लोक इन्द्रो वृत्रमह-न्त्साक्षादेव वज्रं भ्रातृव्याय प्र हरति’ (सं. का. ६ प्र. ६ अ. ११) इति।
समयाविषितोऽर्धास्तमितस्तस्मिन्नेवार्धास्तमयकाले पूर्वमिन्द्रो भूलोके वृत्रं जघान।
षोडशिनो योग्यां दक्षिणां विधत्ते —
‘अरुणपिशङ्गोऽश्वो दक्षिणैतद्वै वज्रस्य रूपँ समृद्धयै’ (सं. का. ६ प्र. ६ अ. ११) इति।
अरुणमिश्रपिशङ्गवर्णः। तदेवं ब्राह्मणशेषाणामनुवाकानामर्था निरूपिताः।
अथ मीमांसा।
चतुर्थाध्यायस्य द्वितीयपादे चिन्तितम् —
“पात्रस्यावभृथे सोमलिप्तस्य नयनं तु किम्।
साधनं प्रतिपत्तिर्वा यन्ति तेनेत्यतः श्रुतेः
प्राप्ता साधनता मैवं पुरोडाशहविष्ट्वतः।
पात्रस्य तदसंबन्धात्प्रक्षेपः प्रतिपत्तये” इति।
ज्योतिष्टोमे श्रूयते – “वरुणगृहीतं वा एतद्यज्ञस्य यदृजीषं यद्ग्रावाणो यदौदुम्बर्यधिषवणफलके तस्माद्यत्किंचित्सोमलिप्तं द्रव्यं तेनावभृथं यन्ति” इति। निष्पीडितस्य सोमस्य नीरसो भाग ऋजीषम्। तदेतदृजीषग्रावादिकं सोमाभिषवादौ सोमेन लिप्यते। तस्य लिप्तस्य सर्वस्य द्रव्यस्यावभृथसाधन-त्वमभ्युपेयम्। कुतः। तेनावभृथं यन्तीति तृतीयाश्रुत्याऽवभृथसाधनत्वावग-मात्। तस्मात्सोमलिप्तं द्रव्यमवभृथे हविष्ट्वेन नीयत इति चेन्मैवम्। वारुणेनैव कपालेनावभृथमवयन्तीत्यनेनोत्पत्तिवाक्यशिष्टपुरोडाशहविषाऽवरुद्धेऽवभृथे सोमलिस्तस्य पात्रस्य हविष्ट्वेन संबन्धासंभवात्। तथा सत्यमभृथशब्देन तदीयं देशं

[[578]]

Page No. ५७८
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे —
(षोडशिग्रहविधिः)
लक्षयित्वा तस्मिन्देशे सोमलिप्तस्य पात्रस्य नयनमत्र विधीयते। तच्च नयन प्रतिपत्तये भवति। पात्रस्य पूर्वमुपयुक्तत्वात्। तस्मादेतत्प्रतिपत्तिकर्म।
दशमाध्यायस्य सप्तमपादे चिन्तितम् —
“किं स्यादवभृथे बर्हिर्वर्जं सर्वमुताऽऽचरेत्।
यावदुक्तं प्रयाजानुयाजबर्हिर्निषेधतः॥
आद्योऽप्सुमन्तावित्याज्यभागोक्त्या परिसंख्यया।
अन्येनात्र गुणप्राप्तेरपूर्वत्वेन वाऽन्तिमः” इति।
ज्योतिष्टोमावभृथे चतुर्थप्रयाजप्रथमानुयाजरूपौ बर्हिर्यागौ वर्जयित्वा शिष्टं चोदकप्राप्तं सर्वमनुष्ठेयम्। कुतः। अपबर्हिषः प्रयाजान्यजत्यपबर्हिषावनूयाजौ यजतीति बर्हिर्यागद्वयमात्रवर्जनावगमादिति प्राप्ते ब्रूमः - अप्सुमन्तावाज्यभागौ यजतीति परिसंख्यानादुक्तमेवानुष्ठेयम्। अथोच्येत चोदकप्राप्तावाज्यभागावनू द्याप्सुमच्छब्दोपेतमन्त्रद्वयरूपस्य गुणस्यात्र विधानान्न परिसंख्येति। मैवम्। लिङ्गक्रमाभ्यामेव मन्त्रयोः प्राप्तत्वात्। अतः परिसंख्यया गृहमेधीयवदुपद्व-च्चापूर्वकर्मत्वेन वा यावदुक्तमनुष्ठेयम्।
एकादशाध्यायस्य द्वितीयपादे चिन्तितम् —
“किमप्स्ववभृथे मुख्यमात्रं साङ्गमुताग्रिमः।
मुख्यत्वेनान्वयान्मैवं प्रयोगेण तदन्वयात्” इति।
इदं श्रूयते — अप्स्ववभृथेन चरन्तीति। तत्र वारुण एककपालोऽवभृथशब्द-वाच्यत्वान्मुख्यं कर्म तेन मुख्येनापामन्वयः श्रूयते। अतोऽत्र द्रव्यदेवतावदपां मुख्यमात्राङ्गत्वात्प्रधानस्यैवाप्स्वनुष्ठानम्। आघाराज्यभागादीन्याहवनीयेऽनुष्ठे-यानीति प्राप्ते ब्रूमः - स्यादेतदेवम्। यद्यप्स्ववभृथ इत्येतावदेव श्रूयेत। इह त्वाप्सु चरन्तीति श्रवणादवभृथप्रयोगेणापामन्वयात्साङ्गं प्रधानमप्सु कर्तव्यम्। एतद्विचारत्रयमवभृथयजूंषि जुहोतीत्यस्मन्ननुवाके द्रष्टव्यम्।
पञ्चमाध्यायस्य द्बितीयपादे चिन्तितम्
“यूपाञ्जनादिरेकैकः संघो वाऽनुसमीयते।
एकैकः पूर्ववन्मैवं वचनात्काण्डसंगतेः” इति।

[[579]]

Page No. ५७९
प्रपा. ४ अनु. ४५-३९ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(षोडशिग्रहविधिः)
ज्योतिष्टोमेऽग्नीषोमीयपशौ यूपस्य घृतेनाञ्जनमच्छ्रयणमवटस्य पर्यूहणं यूप-मूलस्य दृहणं मध्ये रशनया परिव्ययणमित्येते पदार्था आम्नाताः। ते चैकयू-पपक्षे तथैव कर्तव्याः। एकयूपस्य च विकल्पः श्रूयते- ‘एकयूपो वैकादशिनी वा। अन्येषां यज्ञानां यूपा भवन्ति। एकविँशिन्यश्वमेधस्य’ इति। तत्र बहु-यूपेष्वञ्जनादिरेकैकः पदार्थः प्राजापत्यपशूपाकरशादिवदनुसमेतव्य इति प्राप्ते ब्रूमः - अञ्जनादिपरिव्ययणान्तं यजनानो यूपं नावसृजेदिति वचनेन यजमानस्य यूपत्यागनिषेधोऽञ्जनादिकाण्डस्यानुसमये सत्युपपद्यते। तस्मान्नात्र पदार्थानुसमयः।
सप्तमाध्यायस्य तृतीयपादे चिन्तितम् —
“संस्कारः स्यादुपशये न वा यूपोक्तितोऽग्रिमः।
न स्यान्नियोजनाभावात्तूष्णीं छेदेन यूपता” इति।
यूपैकादशिन्यां श्रूयते - ‘उपशयो यूपो भवति’ इति। एकादशानां यूपानां समूह एकादशिनी। तत्र दक्षिणतोऽवस्थापितो द्वादशो यूप उपशयः। तथा च श्रूयते – ‘यद्दक्षिणत उपशयः’ इति। तस्मिन्नुपशये परिव्ययणादिको यूपसंस्कारोऽस्ति, संस्कारनिमित्तस्यैकस्य यूपशब्दस्य तत्र प्रयुक्तत्वादिति चेन्मैवम्। संस्कारप्रयोजनस्यात्राभावात्। पशुं नियोक्तुं यूपः संस्क्रियते। तच्च नियोजनमितरेष्वकादशसु यूपेष्वस्ति न तु द्वादश उपशये। तथा च तैत्तिरीयकब्राह्मणम् – ‘सर्वे वा अन्ये यूपाः पशुमन्तोऽथोपशय एवापशुः’ इति। परिव्ययणादिसंस्काराभावेऽप्यमन्त्रच्छेदनादयः केचिद्धर्मास्तत्र वाचनिका विद्यन्ते। तावताऽल्पेन सादृश्येन गौणी तत्र यूपोक्तिः। तस्मान्न यूपशब्दो धर्मानतिदिशतीति। एतद्विचारद्वयं रफ्येन वेदिमुपद्धन्तीत्येस्मिन्ननुवाके द्रष्टव्यम्।
अष्टमाध्यायस्य प्रथमपादे चिन्तितम् —
“स्यादैकादशिने दैक्षात्सौत्याद्वाऽऽद्योऽस्तु पूर्ववत्।
रशनाद्वयसौत्यत्वविशेषाल्लिङ्गतोऽन्तिमः” इति।
ऐकादशिनाः पशव एवमाम्नायन्ते - ‘आग्नेयः कृष्णग्रीवः सारस्वती मेषी बभ्रुः सौभ्यः पौष्णः श्यामः शितिपृष्ठो बार्हस्पत्यः शिल्पो वैश्वदेव ऐन्द्रोऽरुणो मारुतः कल्पाष ऐन्द्राग्रः सँहितोऽधोरामः सावित्रो वारुणः पेत्वः’ इति। यद्य-

[[580]]

Page No. ५८०
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे —
(षोडशिग्रहविधिः)
प्यश्वमेधप्रकरण एते पठितास्ताथाऽपि ज्योतिष्टोमप्रकरणेऽप्येते विधीयन्ते - ‘प्रैवाऽऽग्नेयेन वापयति मिथुनँ सारस्वत्या करोति रेतः सौम्येन दधाति प्रजनयति पौष्णेन’ इत्यादिना। तेष्वैकादशिनेषु दैक्षादग्नीषोमीयाद्विध्यन्तातिदेशः स्यात्। कुतः। अग्नीषोमीयस्य पशुप्रकृतित्वेन पूर्वाधिकरणे निर्णीतत्वादिति चेन्मैवम्। सौत्यगतविशेषलिङ्गदर्शनात्। सुत्याकाले भवः सौत्यः सवनीयः पशुः। तत्र चोदकप्राप्ता रशनैका वाचनिकी द्वितीया। एतच्च तृतीये निर्णीतम्। तदेतद्रशनाद्वयमग्नीषोमीयपशावसंभवात्सवनीयस्य विशेषलिङ्गमेकं सुत्याकालीनत्वं द्वितीयम्। ते च द्बे लिङ्गे ऐकादशिनेषु दृश्येते। तत्रेदमाम्नायते – ‘द्वे द्वे रशने आदाय द्वाभ्यां द्वाभ्यां रशनाभ्यामेकैकं यूपं परिव्ययति’ इति। सुत्याकालीनत्वं च तेष्वस्ति। ततः सौत्याद्धर्मातिदेशः।
नवमाध्यायस्य तृतीयपादे चिन्तितम् —
“कृष्णग्रीवादिके नोह ऊहो वाऽस्ति न पूर्ववत्।
देवत्वं न गणस्यात ऊहो बह्वभिधित्सया” इति।
यूपैकादशिन्यामग्न्यादिदेवताकाः पशव आम्नाताः — ‘प्रैवाऽऽग्नेयेन वापयति मिथुनँ सारस्वत्या करोति रेतः सौम्येन दधाति प्रजनयति पौष्णेन’ इत्यादि-ना। ते च स्वनामभिरन्यत्रऽऽम्राताः — ‘आग्नेयः कृष्णग्रीवः सारस्वती मेषी बभ्रुः सौम्यः पौष्णः श्यामः’ इत्यादिना। तत्राप्येकवचनान्तस्य मेधपतिश-ब्दस्याऽऽदित्येष्विव नोह इति चेन्मैवम्। वैषम्यात्। आदित्यगणस्य तत्र देव-त्वम्। इह त्वेकैकस्य पृथग्देवत्वम्। अतो बहून्देवानभिधातुं बहुवचनान्तत्वेनोहनीयम्।
एकादशाध्यायस्य द्वितीयपादे चिन्तितम् —
“ऐकादशिनके (गे) तन्त्रं वसाहोमेऽथ भिन्नता।
तन्त्रं शक्यं (क्य) त्वतो भेदः प्रधानार्धर्चभेदतः” इति।
ऐकादशिनेष्वाग्नेयसारस्वतसौम्यादिपशुषु वसाहोमस्य सह कर्तुं शक्यत्वा-त्तन्त्रमिति प्राप्ते ब्रूमः - देवताभेदेन प्रधानभेदात्तत्तद्याज्यार्धर्चान्तकालानां भिन्नत्वेनावुष्ठानयौगपद्यासंभवाद्भेदः।

[[581]]

Page No. ५८१
प्रपा. ४ अनु. ४५-३९ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(षोडशिग्रहविधिः)
तत्रैवान्यच्चिन्तितम् —
“यूपैकाशिनीयूपाहुतेर्भेदोऽथ तन्त्रता।
सामीप्यभेदादाद्योऽन्त्यः सामीप्यं दृष्टिगं यतः” इति।
यूपैकादशिन्यां चोदकप्राप्ता यूपाहुतिः प्रतियूपं भिद्यते। कुतः। यूपस्या-न्तिकेऽग्निं मथित्वा यूपाहुतिं जुहोतीति तद्विधानात्सामीप्यानां च भेदादिति प्राप्ते ब्रूमः — न तावदत्यन्तसामीप्यं संभवति यूपदाहप्रसङ्गात्। अतो यावता व्यवधानेन यूपा दृष्टिगोचरा भवन्ति तावतो देशस्य समीपत्वमभ्युपेतव्यम्। तथा सति देशैक्यादाहुतेस्तन्त्रता।
तत्रैव चतुर्थपादे चिन्तितम् —
“किमैकादशिनेष्वस्य कुम्भ्यादेर्भिन्नता न वा।
असंदेहाय भेदो न लिङ्गादेवास्य सिद्धितः” इति।
भिन्नदेवताकेष्वैकादशिनेषु पशुष्वेककुम्भीपाके सति किमङ्गं कां देवतां प्रत्युपाकृतस्य पशोः संबन्धीति संदेहे सति प्रदानं संकीर्येत। तस्मात्कुम्भ्यादे-रावाप (र्भेद) इति चेन्मैवम्। चिह्नकरणमात्रेण संदेहापगमसिद्धौ लाघवात्। तस्मादत्र तन्त्रता।
तत्रैवान्यच्चिन्तितम् —
“तत्तन्त्रं हेयमुत नो चिह्नं नास्ति वसास्वतः।
हेयं नो प्रतिपत्तित्वात्सांकर्येणाप्यदोषतः”॥
ऐकादशिनेषु कुम्भ्यादेर्यत्तन्त्रं निर्णीतं तत्परित्याज्यमङ्गानामिव वसानां चिह्न-करणासंभवेन सांकर्यप्रसङ्गादिति चेन्मैवम्। वसाहोमस्य प्रतिपत्तिकर्मत्वेन द्रव्यं प्रत्यपि प्रयोजकत्वाभावेन तद्द्रव्यश्रपणार्थं कुम्भीभेदप्रयोजकत्वस्य दूरापेतत्वात्। न चात्र द्रव्यसांकर्यं दोषाय भवति, व्यवस्थापकप्रमाणाभावात्। ननु तत्तद्देवताविषययाज्यार्धर्चान्तेषु भिन्ना होमाः पूर्वं निर्णीताः। बाढं, तथैवैकादशकृत्वो हूयतां किमायातं द्रव्यसांकर्ये। तस्मात्कुम्भ्यादेस्तन्त्रं न त्याज्यम्। इदं षट्कं प्रजापतिः प्रजा असृजतेत्यस्मिन्ननुवाके द्रष्टव्यम्।

[[582]]

Page No. ५८२
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे —
(षोडशिग्रहविधिः)
द्वितीयाध्यायस्य तृतीयपादे चिन्तितम् —
“पर्यग्निकृतः पात्नीवत उत्सृज्यत इत्यसौ।
यागो गुणो वा यागः स्यादन्वयाव्यवधानतः॥
प्रत्यभिज्ञान(त)मालभ्यमनूद्योत्सर्गशब्दतः।
गुणं पर्यग्निकृत्याख्यं वक्त्युत्तरनिवृत्तये।
न दुष्टा परिसंख्याऽत्र चोदकात्प्राग्विधौ सति।
पर्यग्निकरणान्ताङ्गरीतिः कॢप्तोपकारतः” इति॥
“त्वाष्ट्रं पात्नीवतमालभेत” इति प्रकृत्यैवमाम्नातम् — “पर्यग्निकृतं पात्नीवतमुत्सृजति” इति। तत्र पर्यग्निकृतशब्देन संस्कृतपशुद्रव्यस्य पात्नीवत-शब्देन पत्नीवन्नामकदेवतासंबन्धस्य च प्रतीयमानत्वादयं यागविधिः। एवं सति पर्यग्निकृतपात्नीवतशब्दयोरव्यावहितान्वयो लभ्यते। सिद्धान्ते तु पर्यग्निकृतमुत्सृजतीत्यन्वयं वाञ्छन्ति। तदा व्यवहितान्वयो दुर्वारः। तस्माद्वायव्यपशुवद्यागविधिरिति प्राप्ते ब्रूमः - अनारभ्याधीतत्वान्नस्ति वायव्ये प्रकृतप्रत्यभिज्ञा। इह त्वालभ्यत्वेन प्रकृतः पशुः पात्नीवतशब्देन प्रत्यभिज्ञायते। तमनूद्य पर्यग्निकृतशब्दान्वितेनोत्सृजतीत्याख्यातेन पर्यग्निकरणाख्यो गुणो विधीयते। न च प्रकृतिगतस्य पर्यग्निकरणस्य विकृतौ चोदकेन प्राप्तत्वादनर्थकोऽयं विधिरिति वाच्यम्। उपरितनाङ्गनिवृत्तेर्विधिप्रयोजनत्वात्। नन्वेवं सति परिसंख्या स्यात्। सा च दोषत्रयदुष्टा। स्वार्थत्यगोऽन्यार्थस्वीकारः प्राप्तबाधश्चेति त्रयो दोषाः। पर्यग्निक-रणवाक्ये स्वार्थो विधिस्त्यज्येत। अन्यार्थो निषेधः स्वी क्रीयेत। चोदकप्रा-प्तान्युपरितनान्यङ्गानि बाध्येरन्। मैवम्। पर्यग्निकरणोत्तरभावीन्यङ्गानि नानु-ष्ठेयानीत्येतस्याः परिसंख्याया अनङ्गीकारात्। कथं तर्हि तन्निवृत्तिः। आर्थि-कीति ब्रूमः। चोदकप्रवृत्तेः प्रागेवायं विधिः प्रवर्तते। प्रत्यक्षोपदेशस्य शीघ्र-बुद्धिजनकतया कल्प्यातिदेशात्प्रबलत्वात्। तथा सत्युपदिष्टैरेवाङ्गैर्निराकाङ्क्षा-यां विकृतौ चोदकस्याप्रवृत्त्यैवोपरितनान्यङ्गानि न प्राप्यन्ते। न चानेन न्याये न पर्यग्निकरणात्प्राचीनानामप्यप्राप्तिरिति वाच्यम्। विधीयमानस्य पर्यग्निकरण-स्य नूतनत्वे सत्युपकारकल्पनापत्त्या प्रकृतौ यत्कॢप्तोपकारं पर्यग्निकरणं तद-वस्थापन्नस्यैवात्र विधेयत्वात्। प्रकृतौ च प्रचीनाङ्गानन्तरभाविन एवोपकारः

[[583]]

Page No. ५८३
प्रपा. ४ अनु. ४५-३९ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(षोडशिग्रहविधिः)
कॢप्त इत्यत्रापि तादृशस्यैव विधानात्पर्यग्निकरणान्ताङ्गरीतिः सिध्यति। एवं च सत्युत्सृजतीत्याख्यातेन यथोक्तपर्यग्निकरणविधावर्थसिद्ध उपरितनाङ्गोत्सर्गो धातुनाऽनूद्यते। तदेवमत्र गुणविधिः।
नवमाध्यायस्य चतुर्थपादे चिन्तितम् —
“आज्येन शेषमित्युक्तौ द्रव्यप्रतिनिधिर्भवेत्।
कर्मान्यद्वाऽग्रिमस्त्यागशेषसंस्थापनोक्तिभिः॥
अङ्गरीत्या समाप्तत्वाद्देवतोक्त्यनुवर्तनात्।
साम्याच्छेषः संस्थितिस्तु याग आलम्भनादिवत्” इति।
‘त्वाष्ट्रं पात्नीवतमालभेत’ इति प्रकृत्य ‘पर्यग्निकृतं पात्नीवतमुत्सृजति’ इति श्रुतम्। तत्र पुनः श्रूयते - ‘आज्येन शेषं संस्थापयेत्’ इति। तदिदमाज्यं पशुद्रव्यस्य प्रतिनिधिर्भवेत्। कुतः। उत्सर्गशेषसंस्थापनशब्दैस्तदवगमात्। पर्यग्निकरणादूर्ध्वं पशुद्रव्यस्य त्यागमभिधायाऽऽज्येनेति द्रव्यान्तरं पशुस्थानीयं साधनभूतमुपदिश्य चोदकप्राप्तमुत्तरकालीनमङ्गजातं तेन द्रव्येण समापनीयमिति विधीयत इति प्राप्ते ब्रूमः - पूर्वाधिकारणन्यायेनाङ्गरीत्या पात्नीवतः पशुः समाप्तः। यदि पात्नीवतमालभेतेति विहितस्य कर्मणः समाप्तिर्न स्यात्, केवलं पशुद्रव्यत्यागः क्रियेत तदा विहितो द्रव्यदेवतासंबन्धरूपो यागो नानुष्ठितः स्यात्। ततो देवतामद्दिश्य त्यागोऽवश्यं कर्तव्यः। तथा सति पशुसाधनके यागे मुख्येन पशुनैव साधिते कुतः प्रतिनिधिः। देवतोद्देशत्यागस्य चोत्पत्तिवाक्येनैव सिद्धत्वात्। पर्यग्निकरणोत्सर्गवाक्येना(णा)ङ्गरीतिविधाने संस्थापनीयः शेषो न कोऽप्यस्ति। तस्मादाज्यवाक्येन कर्मान्तरं विधीयते। पश्वाज्यद्रव्यकयोः पूर्वोत्तरकर्मणोः पत्नीवदाख्याया देवताया एकत्वेनाव्यवहितानुष्ठानेन चोपक्रमोपसंहारसदृशत्वात्। संस्थितिक्रियया चाऽऽलम्भननिर्वापादिवद्यागो लक्ष्यते। लिङ्प्रत्ययश्चापूर्वभावनामभिधत्ते। तस्मादाज्यद्रव्यकं पत्नीवद्देवताकं शेषवत्पशुयागसमनन्तरोत्तरभाविकर्मान्तरमत्र विधीयते। एतदुभयमिन्द्रः पत्नियेत्यनुवाके द्रष्टव्यम्।

[[584]]

Page No. ५८४
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे —
(षोडशिग्रहविधिः)
द्वादशाध्यायस्य द्वितीयपादे चिन्तितम् —
“अस्त्याहुतिश्चरौ सौम्ये नास्ति वा पशुपाकतः।
निवृत्तत्वादस्ति मैवमनिवृत्तेः पुरोत्थितेः” इति।
तृतीयसवनीये ये सौम्यचर्वादयस्तेषु हविष्कृदाह्वानं पुनः कर्तव्यम्। पश्वर्थ माहूतायास्तस्याः पशुपाके निष्पन्ने सति निवृत्तत्वादिति चेन्मैवम्। प्रकृतौ पत्नीसंयाजेभ्य ऊर्धं हविष्कृतः पत्न्या उत्थानं वाक्येन विहितम्। पशावपि ततः पूर्वं निवृत्त्यभावात्। तस्मात्तत्कालीनेषु सौम्यचर्वादिषु नास्ति पुनराह्वानम्। एतच्च घ्नन्ति वा एतत्सोममित्यनुवाके द्रष्टव्यम्।
पञ्चमाध्यायस्य प्रथमपादे चिन्तितम् —
“उक्थ्योत्कर्षे षोडशी नोत्कृष्येतेऽथवा।
स्तोत्रकालाय नोत्कर्षः पूर्ववत्षोडशिग्रहे।
ज्योतिष्टोमे षोडशिग्रहं प्रकृत्य श्रूयते – ‘तं पराञ्चमुक्थ्येभ्यो निगृह्णाति’ इति। तृतीयसवने सूर्यास्तमयात्प्रगेवोक्थ्यग्रहास्त्रयो गृह्यन्ते। तेभ्यः परस्तादयं षोडशी विहितः। यदि कदाचिद्दैवादुक्थ्यग्रहा अस्तमयादूर्ध्वमुत्कृष्येरंस्तदा तत ऊर्ध्वं विहितस्यापि षोडशिग्रहस्य नास्त्युत्कर्षः। कुतः। पूर्वन्यायेन काल-स्यानुसरणीयत्वात्। कालोऽप्येवमाम्नातः - ‘समयाविषिते सूर्ये षोडशिनः स्तोत्रमुपाकरोति’ इति। समयोऽस्तमयस्तं प्राप्ते सूर्ये स्तोत्रप्रारम्भकालः। सोऽयमुत्कर्षे सति बाध्यते। तच्चायुक्तं, पूर्वमग्निहोत्रस्य स्वकालमबाधितुमेवेष्टिमध्येऽनुष्ठानाङ्गीकारादिति प्राप्ते ब्रूमः - पराञ्चमिति शब्देनोक्थ्येभ्य उत्तरकालः षोडशिग्रहाङ्गत्वेन विधीयते। ततो मुख्यग्रहस्य कालमबाधितुमुपसर्जनस्य स्तोत्रस्य कालं बाधित्वा सस्तोत्रग्रह उत्क्रष्टव्यः।
दशमाध्यायस्य पञ्चमपादे चिन्तितम् —
“विकृतौ प्रकृतौ वा स्यात्षोडश्युत्कर्षतोऽग्रिमः।
अविरुद्धेन वाक्येनानुत्कर्षात्कर्षात्प्रकृतावसौ” इति।
ज्योतिष्टोमप्रकरणे श्रूयते — ‘य एवं विद्वान्षोडशिनं गृह्णाति’ इति।

[[585]]

Page No. ५८५
प्रपा. ४ अनु. ४५-३९ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(षोडशिग्रहविधिः)
सोऽयं षोडशिग्रहो विकृतौ निविशते। कुतः। प्रबलेन वाक्येन तस्य ग्रहस्य प्रकरणादुत्कृष्यमाणत्वात्। ‘उत्तरेऽहन्द्विरात्रस्य गृह्यते मध्यमेऽहंस्रिरात्रस्य’ इति हि वाक्यम्। द्विरात्रादीनां च विकृतित्वं प्रसिद्धम्। अतः प्रकरणं बाधित्वा विकृतौ निवेश इति प्राप्ते ब्रूमः – ‘अप्यग्निष्टमे राजन्यस्य गृह्णीयात्’ इत्यन्यद्वाक्यमस्ति। तेन प्रकृतिभूतेऽग्निष्टोमे निविशते। न चात्र प्रकरणबाधः। अग्निष्टोमस्य ज्योतिष्टोमावान्तरसंस्थारूपत्वेन ततोऽनन्यत्वात्। न चैवं सति चोदकेनैव द्विरात्रादिषु प्राप्तत्वत्वात्पुनर्विधिवाक्यं व्यर्थमिति शङ्कनीयम्। अहर्विशेषसंबन्धाय राजन्यादिनिमित्तनैरपेक्ष्याय च तदुपपत्तेः। तस्मात्प्रकृतौ निवेशः -
तत्रैवान्यच्चिन्तितम् —
“उक्थ्याग्रयणतः स स्यात्केवलाग्रयणादुत।
आद्य उक्तिद्वयादन्त्य उक्थ्योर्ध्वत्वविधित्वतः” इति।
स पूर्वोक्तः षोडशी वचनद्वयबलेनोक्थ्यपात्रादाग्रणपात्राच्च ग्रहीतव्यः। ‘उक्थ्यान्निगृह्णाति षोडशिनम्’ इत्येकं वाक्यम्। ‘आग्रयणाद्गृह्णाति’ इत्यूर्ध्वकालवाचिनः पराक्शब्दस्य प्रयोगात्। ततो नोभयस्माद्ग्रहणम्।
तत्रैवान्यच्चिन्तितम् —
“सवनेषु तृतीये वा स त्रयोक्त्या भवेत्त्रिषु।
द्वे निन्दित्वा तृतीयस्य विधेस्तत्रैव गृह्यताम्” इति।
स पूर्वोक्तः षोडशिग्रहस्त्रिषु सवनेषु भवेत्। कुतः। सवनत्रयस्योक्तत्वात्। षोडशिनं प्रकृत्याऽऽम्नायते। ‘प्रातःसवने ग्राह्यो माध्यंदिनसवने ग्राह्यस्तृतीय-सवने ग्राह्यः’ इति। नैतद्युक्तम्। सवनद्वयस्यार्थवादत्वेन तृतीयसवनस्योक्त-त्वात्। अत एव वाक्यशेषे सवनद्वयं निन्दित्वा तृतीयसवनं विधीयते। यत्प्रातःसवन इत्यादिना सवनद्वये वज्रपातदोषोऽभिहितः। तृतीयसवने ग्राह्यो न सर्वेषु सवनेषु गृह्णातीति प्रशंसापूर्वकं विहितम्। तस्मात्तृतीयसवन एव षोडशिग्रहः।

[[586]]

Page No. ५८६
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे —
(काम्ययाज्यापुरोनुवाक्याः)
पुनरप्यन्यत्तत्रैव चिन्तितम् —
“अग्निष्टोमोक्थ्यसंबन्धी षोडश्यस्तुतशस्त्रकः।
तद्युक्तो वाऽग्रिमः प्राप्तस्तत्र संस्थामबाधितुम्॥
स्तोत्रं भवत्येकविंशं हरिवच्छस्यते ततः।
इष्यते ह्यन्यसंस्थात्वं स्तुतशस्त्रयुतस्ततः” इति॥
षोडशिनं प्रकृत्याऽऽम्नायते — ‘अप्यग्निष्टोमे राजन्यस्य गृह्णीयादप्युक्थ्ये ग्राह्यः’ इति। सोऽयमग्निष्टोमोक्थ्यसंस्थयोर्विहितः षोडशिग्रहः स्तुतशस्रवर्जितो भवितुमर्हति। अन्यथा तदीयाभ्यां स्तुतशस्त्राभ्यां क्रतुसमाप्तौ षोडशिसंस्थात्वं प्रसज्येत, अग्निष्टोमसंस्थात्वमुक्थ्यसंस्थात्वं च बाध्येत, तत्संबन्धिसमाप्त्यभावादिति प्राप्ते ब्रूमः - ‘एकविँशँ स्तोत्रं भवति प्रतिष्ठित्यै हरिवच्छस्यते’ इति षोडशिनि प्रत्यक्षविधिना स्तुतशस्त्रे विहिते। किंच ‘ग्रहं वा गृहीत्वा चमसं वोन्नीय स्तोत्रमुपाकरोति’ इति ग्रहग्रहणचमसोन्नयनयोः स्तोत्रनिमित्तत्वं श्रुतम्।न हि सति निमित्ते नैमिक्तिकं त्यक्तुं शक्यम्। तस्मात्पूर्वसंस्थात्वहानिमन्यसंस्थात्वं चाभ्युपेत्य स्तुतशस्त्रयुतत्वं द्रष्टव्यम्।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे चतुर्थप्रपाठक एकोनचत्वारिंशोऽनुवाकः॥३९॥