(अथ प्रथमकाण्डे चतुर्थप्रपाठके सप्तत्रिंशोऽनुवाकः)।
षट्त्रिंशेऽनुवाके ग्रहाः समापिताः। सप्तत्रिंशे दक्षिणा वर्ण्यते —
कल्पः -प्रचरण्या दाक्षिणानि जुहोति हिरण्यं प्रबध्य धृतेऽवधायोदु त्यं चित्रमिति द्वाभ्यां गार्हपत्ये जिहोति- इति।
तत्र प्रथमा —
उदु त्यमिति। केतवो रश्मयस्त्यं जातवेदसं तमग्निसदृशं सूर्यं देवमुद्बहन्ति ऊर्ध्वदेश एव प्रापयन्ति। किमर्थम्। विश्वाय कृत्स्नस्य जगतः सूर्यं दृशे द्रष्टुम्।
अथ द्वितीया —
चित्रमिति। चित्रं रक्तश्वेतादिविविधवर्णं देवानां रश्मीनामनींक सैन्यसदृशं
[[538]]
Page No. ५३८
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे–
(दक्षिणावर्णनम्)
मण्डलमुदगादुदयं गच्छति। कीदृशम्। मित्रादिदेवोपलक्षितस्य कृत्स्नस्य प्राणिजातस्येन्द्रियाधिष्ठातृत्वाच्चक्षुःस्थानीयं तन्मण्डलस्थः सूर्यो जगतो जङ्गमस्य तस्थुषः स्थावरस्य चाऽऽत्मा सल्ँ लोकत्रयमाप्राः पूरितवान्।
कल्पः - अग्ने नयेत्याग्निध्रमेत्य जुहोति- इति।
पाठस्तु —
अग्ने नयेति। हेऽग्ने राये पारलौकिकधनप्राप्त्यर्थमस्माञ्शोभनेन मार्गेण नय। हे देव त्वं विश्वानि वयुनानि सर्वान्मार्गान्विद्वाञ्जानासि। जुहुराणं कुटिलमेनः पापमस्माद्युयोधि वियोजय। तुभ्यं भूयिष्ठां नमस्कारोक्तिं विधेम कुर्याम।
दाक्षिणहोमं विधत्ते —
-सुवर्गाय वा एतानि लोकाय हूयन्ते यद्दाक्षिणानि- (सं. का. ६ प्र. ६ अ. १) इति।
दक्षिणां दित्सुना होतव्यानि दाक्षिणानि।
होमाधिकरणं विधत्ते —
-द्वाभ्यां गार्हपत्ये जुहोति द्विपाद्यजमानः प्रतिष्ठित्या आग्नीध्रे जुहोत्यन्तरिक्ष एवाऽक्रमते- (सं. का. ६ प्र. ६ अ. १) इति।
द्वाभ्यां वक्ष्यमाणाभ्याम्।
आग्नीध्रहोमादूर्ध्वं सदःप्रवेशं विधत्ते -
-सदोऽभ्यैति सुवर्गमेवैनां लोकं गमयति- (सं. का. ६ प्र. ६ अ. १) इति।
मन्त्रान्विनियुङ्क्ते —
“सौरीभ्यामृग्भ्यां गार्हपत्ये जुहोत्यमुमेवैनं लोकँ समारोहयति नयवत्यर्चाऽऽग्नीध्रे जुहोति सुवर्गस्य लोकस्याभिनीत्यै- (सं. का. ६ प्र. ६ अ. १) इति।
उदु त्यं चित्रमित्येते सौर्यौ। अग्ने नय सुपथेति नयवती।
दिवमिति। कल्पः –दिवं गच्छ सुवः पतेति हिरण्यं हुत्वोद्गृह्णाति- (सं. का. ६ प्र. ६ अ. १) इति।
हे हिरण्य त्वमाकाशं प्रति गच्छ, ततः स्वर्गं प्राप्नुहि।
अनेन यजमानस्य स्वर्गप्राप्तिरित्याह —
[[539]]
Page No. ५३९
प्रपा. ४ अनु. ४३ . ३७ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(दक्षिणावर्णनम्)
“दिवं गच्छ सुवः पतेति हिरण्यँ हुत्वोद्गृह्णाति सुवर्गमेवैनं लोकं गमयति” (सं. का. ६ प्र. ६ अ. १) इति।
यद्धिरण्यं प्रबध्य घृतेऽवहितं तद्धिरण्यं घृतहोमादूर्ध्वं हस्तेनोद्धरेत्।
कल्पः – “रूपेण वो रूपमभ्यैमीति दक्षिणा अभ्यैति” इति।
पाठस्तु —
रूपेणेति। हे दक्षिणा अनेनोद्धृतहिरण्यरूपेण वेदेर्दक्षिणभागेऽवस्थितानां युष्माकं रूपमाभिमुख्येन प्राप्नोमि। कीदृशेन हिरण्यरूपेण। वयसा कमनीयेन। कीदृशं युष्मद्रूपम्। वयः कमनीयम्।
रूपेणेत्ययं शब्दो हिरण्यपर इत्येतद्दर्शयति —
“रूपेण वो रूपमभ्यैमीत्याह रूपेण ह्यासाँ रूपमभ्यैति यद्धिरण्येन” (सं. का. ६ प्र. ६ अ. १) इति।
हिरण्येन यद्रूपमभ्यैति तद्रूपेण वा रूपमिति मन्त्रेणोच्यत इत्यर्थः।
कल्पः – “तुथो वो विश्ववेदा वि भजत्विति ता यजमानश्चतुर्धा कृष्णाजिने व्युद्धृत्य चतुर्थमध्वर्युभ्यो विभजति यावदध्वर्यवे ददाति तस्यार्धं प्रतिप्रस्थात्रे तृतीयं नेष्ट्रे चतुर्थमुन्नेत्रे। एतेनेतरेषां दानमुक्तम्” इति।
पाठस्तु —
तुथ इति। हे दक्षिणा वृद्धतमे स्वर्गेऽधिरूढस्तुथनामको देवः सर्वज्ञो युष्मान्यथोचितं विभजतु।
एतमेवार्थं स्पष्टयति —
“तुथो वो विश्ववेदा वि भजत्वित्याह तुथो ह स्म वै विश्ववेदा देवानां दक्षिणा वि भजति तेनैवेना विभजति” (सं. का. ६ प्र. ६ अ. १) इति।
कल्पः – “एतत्ते अग्ने राध दक्षिणानिनयने” इति। मन्त्र इति शेषः।
पाठस्तु —
एतदिति। हेऽग्ने दक्षिणाद्रव्याणि ते राधस्तव समृद्धिकारणं सोमच्युतं सोमयागे प्राप्तमेतद्दक्षिणाद्रव्यमैत्यागच्छति। तद्द्रव्यं मित्रस्य पथा शान्तस्य तव मार्गेण नय। हे चन्द्रदक्षिणाः सुवर्णादिद्रव्यरूपा ऋतस्य सत्यस्य पथा मार्गेण प्रेत प्रकर्षेण गच्छत सत्यफलकेन देवेन यथायथं विभक्ता गच्छतेत्यर्थः। कीदृश्यश्चन्द्रदक्षिणाः। सुविता शोभनगमनयुक्तेन यज्ञस्य पथा यज्ञपुरुषस्य मार्गेण
[[540]]
Page No. ५४०
श्रीमत्सायणाचार्यविरचितभाष्यसमेता- (१ प्रथमकाण्डे —
(दक्षिणावर्णनम्)
सदोगार्हपत्ययोर्मध्यवर्तिना नयन्तीर्दक्षिणदेशादुत्तरदेशे नीयमानाः। अत्र सूत्रम् “हिरण्यपाणिरग्रेण गार्हपत्यं नयति जघनेन सदोऽन्तराऽऽग्नीध्रं च सदश्च ता उदीचीः” इति।
दक्षिणाद्रव्यस्य सोमच्युतत्वं प्रशस्तमित्याह —
“एतत्ते अग्ने राध ऐति सोमच्युतमित्याह सोमच्युतँ ह्यस्य राध ऐति” (सं. का. ६ प्र. ६ अ. १) इति।
मित्रशब्दप्रयोजनमाह —
“तन्मित्रस्य पथा नयेत्याह शान्त्यै” (सं. का. ६ प्र. ६ अ. १) इति।
तुथो रुद्रोऽग्निरिति श्रुतत्वाद्रुद्रस्य पथा चेदशान्तिः स्यादतो मित्रस्येत्युच्यते। ऋतशब्दो नात्र यज्ञवाची किंतु सत्यवाचीत्याह —
“ऋतस्य पथा प्रेत चन्द्रदक्षिणा इत्याह सत्यं वा ऋतँ सत्येनैवैना ऋतेन वि भजति” (सं. का. ६ प्र. ६ अ. १) इति।
मुख्यस्यार्धिनस्तृतीयिनः पादिनश्चर्त्विजां यथोचितं विभजतीत्यर्थः।
दक्षिणानां सदोगार्हपत्ययोर्मध्यवर्तिना यज्ञमार्गेण गमनं प्रसिद्धमित्याह —
“यज्ञस्य पथा सुविता नयन्तीरित्याह यज्ञस्य ह्येताः पथा यन्ति यद्दक्षिणाः” (सं. का. ६ प्र. ६ अ. १) इति।
कल्पः- “ब्राह्मणमद्य राध्यासमित्यात्रेयाय प्रथमाय हिरण्यं ददाति द्वितीयाय तृतीयाय वा तदभावे य आर्षेयः संनिहितस्तस्मै दद्यात्” इति।
त्रिविधा आत्रेयाः प्रवरे पठिता अतः प्रथमायेत्यादिविशेषणम्।
पाठस्तु —
ब्राह्माणमिति। अद्यास्मिन्यज्ञदिने ब्राह्मणमत्रिगोत्रोत्पन्नं राध्यासं हिरण्येन साधयानि तोषयाणीत्यर्थः। कीदृशम्। ऋषिं वेदार्थज्ञम्। आर्षेयं वेदार्थविदः पुत्रम्। पितृमन्तं पित्रा सम्यगनुशिष्टम्। पैतृमत्यं पितृमत्याः सम्यगनुशिष्टायाः पतिव्रतायाः पुत्रम्। शोभनो धातुः सर्वधातुभ्य उत्तमं हिरण्यं दक्षिणा यस्यासौ सुधातुदक्षिणस्तादृशम्।
ब्राह्मणादिशब्दैर्वेदशास्त्रपारंगतो विवक्षित इति दर्शयति —
“ब्राह्मणमद्य राध्यासमृषिमार्षेयमित्याहैष वै ब्राह्मण ऋषिरार्षेयो यः शुश्ररवान्तस्मादेवमाह” (सं. का. ६ प्र. ६ अ. १) इति।
[[541]]
Page No. ५४१
प्रपा. ४ अनु. ४३.३७ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(दक्षिणावर्णनम्)
कल्पः – “सद एत्य वि सुवः पश्येत्यनुवीक्षते” इति।
एतदेवाभिप्रेत्य सदोऽभ्यैतीति पूर्वं विहितम्।
पाठस्तु —
वि सुवरिति। हे यजमान स्वर्गं विपश्यान्तरिक्षं च विपश्य। सदस्यवस्थितैर्विप्रैः सह यतस्वानुतिष्ठ।
सुव पश्येत्यस्याभिप्रायं दर्शयति —
“वि सुवः पश्य व्यन्तरिक्षमित्याह सुवर्गमेवैनं लोकं गमयति” (सं. का. ६ प्र. ६ अ. १) इति।
सदस्यैरित्यनया सहार्थे तृतीयया मित्रताऽभिहितेत्याह —
‘यतस्व सदस्यैरित्याह मित्रत्वाय’ (सं. का. ६ प्र. ६ अ. १) इति।
कल्पः-“अस्मद्दात्रा देवत्रा गच्छतेति नीता अनुमन्त्र्य” इति।
पाठस्तु —
अस्मद्दात्रा इति। हे दक्षिणा अस्माभिर्दत्ताः सत्यो देवेषु ऋत्विक्षु गच्छत। हे गावो मधुरक्षीरोपेताः सत्यः परलोके प्रदातारं यजमानं रूपान्तरेणऽऽविशत। अस्माननवहायापरित्यज्य देवयानेन पथेत सुकृतां मार्गेण गच्छत। गत्वा च पुण्यकृतां स्थाने सीदत। तत्स्थानं नोऽस्मदर्थं संकृतं सम्यगुपभोगयोग्यतया निष्पादितम्।
प्रदातारमाविशतेत्यस्यार्थमाह —
“अस्मद्दात्रा देवत्रा गच्छत मधुमतीः प्रदातारमा विशतेत्याह वयमिह प्रदातारः सोऽस्मानुत्र मधुमतीरा विशतेति वावैतदाह” (सं. का. ६ प्र. ६ अ. १) इति।
प्रथमतो दातव्यं विधत्ते —
“हिरण्यं ददाति ज्योतिर्वै हिरण्यं ज्योतिरेव पुरस्ताद्धत्ते सुवर्गस्य लोकस्यानुख्यात्यै” (सं. का. ६ प्र. ६ अ. १) इति।
तस्य प्रतिग्रहीतृसंबन्धं विधत्ते —
“अग्नीधे ददात्यग्निमुखानेवर्तून्प्रीणाति” (सं. का. ६ प्र. ६ अ. १) इति।
[[542]]
Page No. ५४२
श्रीमत्सायणाचार्यविरचितभाष्यसमेता- (१ प्रथमकाण्डे —
(दक्षिणावर्णनम्)
अग्नीमुखानग्निसहितानाधानकालवसन्ताद्यृतून्। अत्र सूत्रम्- “हिरण्यं पूर्ण-पात्रमुपबर्हणं सार्वसूत्रमित्यग्नीधे ददाति” इति।
ऋत्विगन्तरे दानं विधत्ते —
“ब्रह्मणे ददाति प्रसूत्यै होत्रे ददात्यात्मा वा एष यज्ञस्य यद्धोताऽऽत्मानमेव यज्ञस्य दक्षिणाभिः समर्धयति” (सं. का. ६ प्र. ६ अ. १) इति।
प्रसूत्या अनुज्ञानाय। होतुर्बहुमन्त्रपाठेन यज्ञात्मत्वम्। एवमृत्विगन्तरे दानमुन्नेयम्।
अत्र विनियोगसंग्रहः-
“उदुत्रिभिर्दक्षिणानां होमो दिवमतो घृतात्।
हिरण्यमुद्गृह्य रूपे दक्षिणा अभिगच्छति॥१॥
तुथो वो विश्ववेदेति भिन्द्याच्चर्मणि दक्षिणाः॥
एतत्ता निनयेद्ब्राह्म हेनाऽऽत्रेयाय यच्छति॥२॥
वि सुवः सद आलोक्य ह्यस्मद्दात्राऽनुमन्त्रणम्।
सप्तत्रिंशेऽनुवाकेऽस्मिन्दश मन्त्रा उदीरिताः॥३॥ इति।
अथ मीमांसा।
दशमाध्यायस्य द्वितीयपादे चिन्तितम् —
“ऋत्विग्दानमदृष्टार्थमानत्यै वाऽग्रिमः श्रुतेः।
वैरूप्यान्नियमान्मैवं दृष्टत्वादानतेः श्रुतिः॥
भृतौ च नियमादेतददृष्टं स्याद्विरूपता।
वचनात्तेन सत्रेषु स्वामित्वान्न भृतिः क्वचित्॥ इति।
ऋग्विग्भ्यो दक्षिणां ददातीति प्रकृतौ श्रूयते। तत्किमदृष्टार्थमानत्यर्थं वेति संशयः। भृत्या परिक्रीय वशीकार आनतिः। अदृष्टार्थं तत्स्यात्। अन्न-हिरण्यादीनामदृष्टार्थे त्यागे दानशब्दस्य प्रसिद्धत्वात्। यद्येतद्दानं भृतिः स्यात्तदानीमल्पाधिककर्मानुरूप्येण द्रव्यं देयम्। वैरूप्यं त्वत्र दृश्यते - स्वल्पकर्मणि त्रैधातवीये सहस्रं देयम्। अधिके कर्मण्यृतपेये स्वल्पं सोमचमसमात्रं दीयते। तथा द्वादशशतादिपरिमाणनियमो मन्त्रनियमश्च भृतौ नोपपद्यते। कर्मकरानुमत्या न्यूनाधिकभावसंभवात्तक्षरजकादिभृतौ मन्त्रादर्शनाच्च। तस्माददृष्टार्थमित्यग्रिमः पक्षः प्राप्नोति। मैवम्। आनतेर्द्दष्टप्रयोजनत्वात्। दानश्रुतिस्तु दृष्टार्थभृतावप्य–
[[543]]
Page No. ५४३
प्रपा. ४ अनु. ४३.३७ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(दक्षिणावर्णनम्)
स्ति। भृतिर्देयेति प्रयोगात्। परिमाणमन्त्रनियमाददृष्टमस्तु। दृष्टस्याभावात्। वैरूप्यं तु वचनबलादभ्युपगम्यते। दक्षिणाया भृतिरूपत्वं प्रत्यक्षवेदवाक्यादप्यवगम्यते “दीक्षितमदीक्षिता दक्षिणापरिक्रीता ऋत्विजो याजयेयुः” इति। तस्मादृत्विग्दानमानत्यर्थम्। एवं च सति सत्र ऋत्विजां यजमानत्वाभृतिरूपा दक्षिणा न क्वापि देयेत्येतद्विचारफलं द्रष्टव्यम्।
तत्रैव तृतीयपादे चिन्तितम् —
“दक्षिणा द्वादशशतं तस्येत्येतद्गवादिषु।
सर्वेषु केषुचिद्वाऽऽद्ये प्रत्येकं मिलितेषु वा।
संख्यागुणस्य प्रत्येकं गवाद्यन्वयतोऽग्रिमः।
वाक्यभेदान्न तत्किंतु मिलितेषु समुच्चयात्॥
प्रस्थाद्यौचित्यतो धान्ये सर्वेषां न समुच्चयः।
असर्वेष्विति पक्षेऽपि पशवो वैकमेव वा॥
संख्यौचित्येन पशवो नैतत्तस्येत्यनन्वयात्।
एकत्वेऽप्यत्र यत्किंचिन्माषा वा गाव एव वा॥
यत्किंचिन्नियमाभ्वान्माषाः संनिहितत्वतः।
माषा निराकृता गावः प्राथम्याच्चोपकारतः।
तस्येति वाक्याद्गोद्रव्यं न युक्तः प्रकृतः क्रतुः।
संख्यान्तरं चेद्विकृतौ स्याद्गवां बाध्यतामियम्’ इति।
ज्योतिष्टोमे देयद्रव्याण्यानुक्रम्य संख्याविशिष्टा दक्षिणा विधीयते —
‘गौश्चाश्वश्चाश्वतरश्च गर्दभश्चाजाश्चावयश्च व्रीहयश्च यवाश्च तिलाश्च माषाश्च तस्य द्वादशशतं दक्षिणा’ इति। द्वादशाधिकं शतं द्वादशशतम्। तत्र संशयः - येयं संख्या सा किं गवादिसर्वद्रव्यविषया किंवा कतिपयविषया। सर्वपक्षेऽपि प्रतिद्रव्यमियं संख्या, उत मिलितानाम्। तत्र गवादिद्रव्याणि प्रधानानि, संख्या तु तद्गतो गुणः। प्रतिप्रधानं गुणावृत्तिर्न्याय्या। तस्माद्गवादिद्रव्येषु सर्वेषु प्रत्येकमियं संख्येति प्रथमपक्षगते प्रथमे संख्याविकल्पे प्राप्ते ब्रूमः ‘नैतद्युक्तं वाक्य-
[[544]]
Page No. ५४४
श्रीमत्सायणाचार्यविरचितभाष्यसमेता - (१ प्रथमकाण्डे —
(दक्षिणावर्णनम्)
भेदप्रसङ्गात्। अते मिलितानामियं संख्येति द्वितीयः संख्याविकल्पोऽभ्युपग-न्तव्यः। तथा सति समुच्चयवाचिनश्च शब्दा अनुगृह्यन्ते। एतदप्ययुक्तमनौचित्यात्। न व्रीहियवादिधान्येषु द्वादशाधिकशतान्तर्गता द्वित्रादिसंख्योचिता। परिक्रीतस्यर्त्विजो द्वित्रैर्व्रीहिबीजैः प्रयोजनाभावात्प्रस्थाधिकखार्यादिसंख्या तत्रोचिता। न चेयमत्र श्रुता। तस्मान्मिलितानां सर्वेषां समुच्चय इत्ययं पक्षो न युक्तः। कतिपयद्रव्यविषया संख्येत्यस्मिन्नपि पक्षे किं गवाद्याः षड्विधाः पशवः किंवा दशसु गवादिद्रव्येष्वेकं द्रव्यम्। तत्रा पशुषु श्रूयमाणायाः संख्याया उचितत्वात्पशव इति प्राप्ते ब्रूमः ‘ नैतद्युक्तम्। तस्य द्वादशशतं दक्षिणेत्यत्र तस्येत्यनेनै-कवचनान्तेन षण्णां गवादिपशूनामन्वेतुमयोग्यत्वात्। एकत्वपक्षेऽपि यत्किं-चिदेकं किंवा माषद्रव्यमुत गोद्रव्यम्। तत्र नियामकाभावाद्यत्किंचिदिति प्राप्तम्। तन्न। संनिधेर्नियामकत्वात्। माषाश्च तस्य द्वादशशतं दक्षिणेति माषा संनिहिताः। तर्ह्यस्तु माषद्रव्यमिति चेत् न। प्रस्थादिपरिमाणसंख्यौचित्येन निराकृतत्वात्। तस्माद्गोद्रव्यमिति पक्षः परिशिष्यते। प्रथमश्रुतत्वोपकारौ तत्र नियामकौ। अस्ति हि महानुपकारः ऋत्विजः प्रतिग्रहीतुर्गव्यैराज्य-क्षीरादिभिरग्निहोत्रदर्शपूर्णमासादिद्धेः। ननु तस्य प्रकृतस्य क्रतोर्द्वादशशतं दक्षिणेत्यन्वयाद्गोद्रव्यं न प्रतीयत इति चेत्। न। यद्गोद्रव्यं तस्य द्बादशशतमिति वाक्येन तत्प्रतीतेः। वाक्यं हि प्रकरणाद्बलीयः। तस्माद्गवां द्वादशशतमिति सिद्धान्तः। विकृतिषु यत्र गोदक्षिणायाः संख्यान्तरं श्रुतं तत्रास्याः संख्याया बाधो विचारफलम्।
तत्रैवान्यच्चिन्तितम् —
“गोदाने विहिते स्वेच्छा नियतिर्वाऽन्तिमेऽपि किम्।
अविभागो विभागो वा नियमानुक्तितोऽग्रिमः।
अविभागो बहुत्वोक्तेर्बहुत्वं न विवक्षितम्।
विभागः स्यात्परस्वत्वसिद्धेर्लिंङ्ग च दृश्यते’ इति।
पूर्वोक्त एव गवां दाने संशयः। ऋत्विग्भ्यो देयानामुक्तसंख्यानां गवां विभागाविभागयोर्यजमानेच्छैव प्रयोजिका, उतास्त्यन्यतरनियतिः। यदाऽपि नियतिस्तदाऽप्यविभागो वा। तत्र नियामकस्यानुक्तत्वादिच्छेति ताव-
[[545]]
Page No. ५४५
प्रपा. ४ अनु. ४४.३८ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(समिष्टग्रजुर्होमः)
त्प्राप्तम्। ऋत्विग्भ्यो दक्षिणां ददातीति बहुवचनश्रवणेन समूहस्य प्रतिग्रहीतृ-त्वादविभाग इति पक्षान्तरम्। ग्रहैकत्ववदुद्देश्यगतत्वाद्बहुवचनं न विवक्षितमित्येकैकः प्रतिग्रहीता। तथा सति विभागोऽवश्यं भवति। समूहाय दत्ते सत्येकैकस्य स्वामित्वाभावात्परस्वत्वापादनलक्षणो दानशब्दार्थो न सिध्यति। किंच “तुथो वो विश्ववेदा वि भजतु’ इति मन्त्रे विभागलिङ्गं दृश्यते। तस्माद्विभागनियमो राद्धान्तः।
तत्रैवान्यच्चिन्तितम् —
“स विभागः समो नो वा विशेषाश्रवणात्समः।
वैषम्यं स्याद्यथायासमेवं तत्स्यात्समाख्यया’ इति।
पूर्वोक्तः स विभागः समः स्यात्। वैषम्यहेतोर्विशेषस्याश्रवणात्। साम्यहेतु-स्तु लौकिको न्यायः। लोके हि पुत्राणां पितृधने समविभागो दृष्टः। तस्मात्सम इत्येकः पक्षः। कर्मकरेषु प्रयासानुरूपे(प्ये)ण भृतितारतम्यं दृष्टं तद्वदत्रापीति द्वितीयः पक्षः। द्वादशाहे दीक्षायामेवं समाख्यायते – ‘अर्धिनो दीक्षयन्ति पादीनो दीक्षयन्ति’ इति। अर्धं येषामृत्विजां तेऽर्धिनः एवं पादिनो योजनीयाः। तद्विशेषो याज्ञिकमुखादवगन्तव्यः। ततः श्रौतसमाख्यानुरूपे(प्ये)ण केषांचिदर्धं केषांचित्पाद इत्यादिर्विषमो विभाग इति राद्धान्तः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके
सप्तत्रिंशोऽनुवाकः॥३७॥
–––––