(अथ प्रथमकाण्डे चतुर्थप्रपाठके द्वाविंशोऽनुवाकः)
उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः॑।
दृ॒शे विश्वा॑य॒ सूर्यम्। चि॒त्रं दे॒वाना॒मुद॑गा॒द–
नी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः। आऽप्रा॒
द्यावा॑पृथि॒वी अ॒न्तरि॑क्षँ॒ सूर्य॑ आ॒त्मा जग॑त–
स्त॒स्थुष॑श्व। अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान्वि–
श्वा॑नि देव व॒युना॑नि वि॒द्वान्। यु॒यो॒ध्य॑स्मज्जु॑–
[[537]]
Page No. ५३७
प्रपा. ४ अनु. ४३ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अतिग्राह्यषोडशिग्रहाभिधानम्)
हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नमउ॑क्तिं विधेम। दिवं॑
गच्छ॒ सुवः॑ पत रू॒पेण॑ (१) वो॒ रू॒पम॒म्यैमि॒
वय॑सा॒ वयः॑। तु॒थो वो॑ वि॒श्ववे॑दा॒ वि भ॑जतु॒
वर्षि॑ष्ठे॒ अधि॒ नाके॑। ए॒तत्ते॑ अग्ने॒ राध॒ ऐति॒ सोम॑–
च्युतं॒ तन्मि॒त्रस्य॑ प॒था न॑य॒र्तस्य॑ प॒था प्रेत॑ च॒-
न्द्रद॑क्षिणा य॒ज्ञस्य॑ प॒था सु॑वि॒ता नय॑न्तीर्ब्राह्म॒ण–
म॒द्य रा॑ध्यास॒मृषि॑मार्षे॒यं पि॑तृ॒मन्तं॑ पैतृम॒त्यँ
सु॒धातु॑दक्षिणं॒ वि सुवः॒ पश्य॒ व्य॑न्तरि॑क्षं॒ यत॑स्व
सद॒स्यै॑र॒स्मद्दात्रा देव॒त्रा ग॑च्छत मधु॑मतीः
प्रदा॒तार॒मा वि॑श॒तारन॑वहाया॒स्मान्दे॑व॒याने॑न
प॒थेत॑ सु॒कृतां॑ लो॒के सी॑दत॒ तन्नः॑ सँस्कृ॒तम्
(२)॥
(रू॒पेण॑ सद॒स्यै॑र॒ष्टाद॑श च )।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके
चतुर्थप्रपाठके त्रिचत्वारिंशोऽनुवाकः॥४३॥
–––––