(अथ प्रथमाष्टके चतुर्थप्रपाठके एकचत्वारिंशोऽनुवाकः)
म॒हाँ इन्द्रो॒ वज्र॑बाहुः षोड॒शी शर्म
यच्छतु। स्व॒स्ति नो॑ म॒घवा॑ करोतु॒ हन्तु॑
पा॒प्मानं॒ यो॑ऽस्मान्द्वेष्ठि॑। उ॒प॒या॒मगृ॑हीतोऽसी-
न्द्रा॑य त्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा
षोड॒शिने॑ (१)॥
[[534]]
Page No. ५३४
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे–
(अतिग्राह्यषोडशिग्रहाभिधानम्)
(म॒हान्षड्विँ॑शतिः)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके चतुर्थ-
प्रपाठक एकचत्वारिंशोऽनुवाकः॥४१॥ (३५)।