(अथ प्रथमाष्टके चतुर्थप्रपाठके चत्वारिंशोऽनुवाकः)
सर्व॑स्य प्रति॒शीव॑री॒ भूमि॑स्त्वो॒पस्थ॒ आऽ-
धि॑त। स्यो॒नाऽस्मै॑ सु॒षदा॑ भव॒ यच्छा॑स्मै॒
शर्म॑ स॒प्रथाः॑। उ॒प॒या॒मगृ॑हीतोऽसीन्द्रा॑य त्वा
षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने॑ (१)॥
(सर्व॑स्य॒ षड्विँ॑शतिः)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके चतुर्थ-
प्रपाठक चत्वारिंशोऽनुवाकः॥४०॥ (३४)।