(अथ प्रथमाष्टके चतुर्थप्रपाठके सप्तत्रिंशोऽनुवाकः)।
आ ति॑ष्ठ वृत्रह॒न्रथं॑ यु॒क्ता ते॒ ब्रह्म॑णा॒ हरी॑।
अ॒र्वा॒चीनँ॒ सु ते॒ मनो॒ ग्रावा॑ कृणोतु व॒ग्नुना॑।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष ते॒
योनि॒रिन्द्रा॑य त्वा षोड॒शिने॑ (१)॥
आ ति॑ष्ठ॒ षड्विँ॑शतिः।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके
चतुर्थप्रपाठके सप्तत्रिंशोऽनुवाकः॥३७॥(३१)