३१

(अथ प्रथमाष्टके चतुर्थप्रपाठके एकत्रिंशोऽनुवाकः)।
त॒रणि॑र्वि॒श्वद॑र्शतो ज्योति॒ष्कृद॑सि सूर्य।
विश्व॒मा भा॑सि रोच॒नम्। उ॒प॒या॒मगृ॑हीतोऽसि॒
सूर्या॑य त्वा॒ भ्राज॑स्वत ए॒ष ते॒ योनिः॒ सूर्या॑य
त्वा॒ भ्राज॑स्वते (१)॥
त॒रणि॑र्विँश॒तिः।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके
चतुर्थप्रपाठक एकत्रिंशोऽनुवाकः॥३१॥
–––