(अथ प्रथमाष्टके चतुर्थप्रपाठके पड्विंशोऽनुवाकः)।
सु॒शर्मा॑ऽसि सुप्रतिष्ठा॒नो बृ॒हदु॒क्षे नम॑ ए॒ष ते॒
योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ (१)॥
(सु॒शर्मा॒ द्वाद॑श)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके
चतुर्थप्रपाठके षड्विंशोऽनुवाकः॥२६॥
–––
अथ प्रथमकाण्डे चतुर्थप्रपाठके त्रयोविंशचतुर्विंशपञ्चविंशषड्विंविंशानुवाकाः।
कल्पः – “वाममद्य सवितरित्यन्तर्यामपात्रेण सावित्रमाग्रयणाद्गृहीत्वा न सादयति”इति।
पाठस्तु —
वाममद्येति। हे सवितरद्यास्मभ्यं वामं वननीयं कर्मफलं सावीः प्रेरय देहीत्यार्थः। श्वोऽपि वामं सावीः। तत ऊर्ध्वं दिने दिने वामं सावीः। हे देव वामस्य
[[513]]
Page No. ५१३
प्रपा. ४ अनु. २६ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(सावित्रवैश्वदेवग्रहाभिधानम्)
वननीयस्य भूरेर्विस्तीर्णस्य क्षयस्य स्वर्गनिवासस्येच्छयाऽयाऽनया श्रद्धायुक्तया बुद्ध्या वामभाजो वननीयकर्मानुष्ठानवन्तः स्याम। स्पष्टमन्यत्।
अत्रैव विकल्पितो द्वितीयो मन्त्र एवमाम्नायते —
अदब्धेभिरिति। हे सवितस्त्वमब्धेभिरहिंसितैः पायुभिः पालकैः शिवेभिर्मंङ्गलैरनुग्रहविशेषैर्नोऽस्माकं गयं गृहं परिपाहि सर्वतो रक्ष। हिरण्यजिह्वो हिता रमणीया जिह्वा यस्य सोऽस्माकं हितं प्रियं च वदतीत्यर्थः। तादृशस्त्वं सुविताय सुष्ठुगमनाय स्वर्गप्राप्तये नव्यसे नूतनाय तदिदं कर्म रक्ष। नोऽस्माकमघशंसः पापापवादनिन्दको भवान्माकिरीशत शक्तो मा भूत्।
तृतीयो मन्त्रो विकल्पित एवमाम्नायते —
हिरण्यपाणिमिति। अस्मभ्यं दातुं हिरण्यं पाणौ यस्य स हिरण्यपाणिः। तादृशं सवितारमुपगम्य ह्वय आह्वयामि। किमर्थम्। ऊतये रक्षणाय। स सविता दवतारूपः पदमस्मद्योग्यं स्थानं चेत्ता ज्ञाता।
कल्पः – “एतेनैव सशेषेण वैश्वदेव पूतभूतो गृह्णाति उपयामगृहीतोऽसि सुशर्माऽसीति ग्रहणसादनौ” इति।
पाठस्तु —
सुशर्मेति। हे वैश्वदेवग्रह शोभनं यस्य एव स त्वं सुशर्माऽसि। सुष्ठु प्रतिष्ठानं पात्रे स्थितिर्यस्यासौ सुप्रतिष्ठानोऽसि। उक्षे शस्रे शस्यमानाय तुभ्यं बृहन्नमोऽस्तु। स्पष्टमन्यत्।
सावित्रग्रहं विधत्ते —
“अन्तर्यामपात्रे सावित्रमाग्रयणाद्गृह्णाति प्रजापतिर्वा एष यदाग्रयणः प्रजानां प्रजननाय” (सं. का. ६ प्र. ५ अ. ७) इति।
आग्रयणग्रहस्य कर्मनिष्पत्तिद्वारेण प्रजापालकत्वात्प्रजापतित्वादाग्रयणाद्ग्रहणं प्रजोत्पत्तये भवति।
सादनादिकं पूर्ववन्निषेधति –
“न सादयत्यसन्नाद्धि प्रजाः प्रजायन्ते नानु वषट्करोति यदनुवषट् कुर्याद्रुद्रं प्रजा अन्ववसृजेत्” (सं. का. ६ प्र. ५ अ. ७) इति।
[[514]]
Page No. ५१४
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे —
(सावित्रवैश्वदेवग्रहाभिधानम्)
विहितं सावित्रग्रहं प्रशंसति–
“एष वै गायत्रो देवानां यत्सवितैष गायत्रियै लोके गृह्यते यदाग्रयणो यद-न्तर्यामपात्रेण सावित्रमाग्रयणाद्गृह्णाति स्वादेवैनं योनेर्निर्गृह्णाति” (सं. का. ६ प्र. ५ अ. ७) इति।
तत्सवितुर्वरेण्यमित्याम्नातत्वाद्देवानां मध्ये सविता गायत्रीसंबद्धः। आग्रयणश्च गायत्र्याः स्थाने प्रातःसवने गृह्यते। अनेन संबन्धेनाऽऽग्रयणः सावित्रस्य स्वकीयो योनिः।
सावित्रस्य तृतीयसवनसंबन्धं विधत्ते —
“विश्वे देवास्तृतीयँ सवनं नोदयच्छन्ते सवितारं प्रातःसवनभागँ सन्तं तृतीयसवनमभि पर्यणयन्ततो वै ते तृतीयँ सवनमुदयच्छन्यत्तृतीयसवने सावित्रो गृह्यते तृतीयस्य सवनस्योद्यत्यै” (सं. का. ६ प्र. ५ अ. ७) इति।
विश्वे देवाः स्वकीयं तृतीयसवनमुद्वोढं नाशक्नुवन्। प्रातःसवने भागः सवितुर्युक्तस्तस्य गायत्रत्वात्। तादृशमपि सहकारित्वेन समानीय तृतीयसवनमुदवहन्। अतोऽत्र सावित्रो युक्तः।
वैश्वदेवग्रहं विधत्ते —
“सवितृपात्रेण वैश्वदेवं कलशादगृह्णाति वैश्वदेवयो वै प्रजा वैश्वदेवः कलशः सविता प्रसवानामीशे यत्सवितृपात्रेण वैश्वदेवं कलशाद्गृह्णाति सवितृप्रसूत एवास्मै प्रजाः प्र जनयति” (सं. का. ६ प्र. ५ अ. ७) इति।
यद्यपि पूर्वमन्तर्यामपात्रं तथाऽपीदानीं सवितृपात्रं संपन्नम्। कलशाद्द्रोण-कलशात्। प्रजानां विश्वैर्देवैः पाल्यत्वेन वैश्वदेवत्वम्। सर्वदेवसाधारणसोमाधारत्वात्कलशस्य वैश्वदेवत्वम्।
सावित्रशेषे सोममभि गृह्णाति रेत एव तद्दधाति”(सं. का. ६ प्र. ५ अ. ७) इति।
अत एव मन्त्रे सुप्रतिष्ठान इत्येतदुपपन्नमित्याह —
“सुशर्माऽसि सुप्रतिष्ठान इत्याह सोमे हि सोममभिगृह्णाति प्रतिष्ठित्यै” (सं. का. ६ प्र. ५ अ. ७) इति।
मन्त्रपदानां किंचिद्विशेषविषयत्वं दर्शयति —
[[515]]
Page No. ५१५
प्रपा. ४ अनु. २७ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(पात्नीवतग्रहाभिधानम्)
“एतस्मिन्वा अपि ग्रहे मनुष्येभ्यः देवेभ्यः पितृभ्यः क्रियते सुशर्माऽसि सुप्रतिष्ठान इत्याह मनुष्येभ्य एवैतेन करोति बृहदित्याह देवेभ्य एवैतेन करोति मम इत्याह पितृभ्य एवैतेन करोत्येतावतीर्वै देवतास्ताभ्य एवैनँ सर्वाभ्यो गृह्णाति” (सं. का. ६ प्र. ५ अ. ७) इति।
अपि वैतस्मिन्नेव वैश्वदेवग्रहे मन्त्रपदैर्मनुष्यादीनां सूचितत्वात्सर्वार्थमिदं ग्रहणम्। तत्र सुशर्मशब्देन समीचीनसुखार्थिनो मनुष्याः सूचिताः। बृहच्छब्देनाधिकमहिमोपेता देवाः। नमःशब्देन नमस्कारप्रियाः पितरः।
सादनमन्त्रे विश्वेभ्य इत्येतत्सर्वार्थत्वाद्युक्तमित्याह —
“एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्य इत्याह वैश्वदेवो ह्येषः” (सं. का. ६ प्र. ५ अ. ७) इति।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके त्रयोविंशचतु-र्विंशपञ्चविंशषड्विंशानुवाकाः॥२३॥
२४॥२५॥२६॥