(अथ प्रथमाष्टके चतुर्थप्रपाठके पञ्चविंशोऽनुवाकः)।
हिर॑ण्यपाणिमू॒तये॑ सवि॒तार॒मुप॑ ह्वये। स चेत्ता॑
दे॒वता॑ प॒दम्। उ॒प॒या॒मगृ॑हीतोऽसि दे॒वाय॑ त्वा
सवि॒त्रे (१)॥
(हिर॑ण्यपाणिं॒ चतु॑र्दश)
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके
चतुर्थप्रपाठके पञ्चविंशोऽनुवाकः॥२५॥