(अथ प्रथमाष्टके चतुर्थप्रपाठके त्रयोविंशोऽनुवाकः)।
वा॒मम॒द्य स॑वितर्वा॒ममु॒ श्वो दि॒वेदि॑वे वा॒म–
म॒स्मभ्यँ॑ सावीः। वा॒मस्य॒ हि क्षय॑स्य देव॒
भूरे॑र॒या धि॒या वा॑म॒भाजः॑ स्याम। उ॒प॒या॒म–
गृ॑हीतोऽसि दे॒वाय॑ त्वा सवि॒त्रे (१)॥
( वा॒मं चतु॑र्विँशतिः )
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके
चतुर्थप्रपाठके त्रयोविंशोऽनुवाकः॥२३॥