२२

(अथ प्रथमाष्टके चतुर्थप्रपाठके द्वाविंशोऽनुवाकः)।
क॒दा च॒न स्त॒रीर॑सि॒ नेन्द्र॑ सश्चासि दा॒शुषे॑।
उपो॒पेन्नु म॑घव॒न्भूय॒ इन्नु ते॒ दानं॑ दे॒वस्य॑ पृच्यते।
उ॒प॒या॒मगृ॑हीतोऽस्यादि॒त्येभ्य॑स्त्वा। क॒दा च॒न
प्र यु॑च्छस्यु॒भे नि पा॑सि॒ जन्म॑नी। तुरी॑याऽऽ–
दित्य॒ सव॑नं त इन्द्रि॒यमा त॑स्थाव॒मृतं॑ दि॒वि।
य॒ज्ञो दे॒वानां॒ प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता
मृड॒यन्तः॑। आ वो॒ऽर्वाची॑ सुम॒तिर्व॑वृत्यादँ॒हो–
श्चि॒द्या व॑रिवो॒वित्त॒रास॑त्। विव॑स्व आदित्यै॒ष
ते॑ सोमपी॒थस्तेन॑ मन्दस्व॒ तेन॑ तृप्य तृ॒प्यास्म॑ ते
व॒यं त॑र्पयि॒तारो॒ या दि॒व्या वृष्टि॒स्तया॑ त्व
श्रीणामि (१)॥
(वः स॒प्तविँ॑शतिश्च )
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके
चतुर्थप्रपाठके द्वाविंशोऽनुवाकः॥ २२॥

[[507]]

Page No. ५०७
प्रपा. ४ अनु. २२ कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(आदित्यग्रहाभिधानम्)
(अथ प्रथमकाण्डे चतुर्थप्रपाठके द्वाविंशोऽनुवाकः)।
कल्पः – “आदित्यपात्रेण य आदित्यस्थाल्यां द्विदेवत्यग्रहसंपातास्तेभ्यः सोमं गृह्णाति कदा चन स्तरीरसीति कदा चन प्र युच्छसीति शृतातङ्क्यं दधि यज्ञो देवानामिति पुनः सोमं गृहीत्वा विवस्व आदित्येति तस्मिन्ग्रावाणमुपांशुसवमवधाय तेनैनं मेलयित्वा या दिव्या वृष्टिस्तया त्वा श्रीणामीति शृतातङ्क्येन दघ्ना पयसा वा वृष्टिकामस्य श्रीत्वा तद्ग्रावाणमुद्गृह्णाति यद्युद्गृहीतस्य ताजग्बिन्दुः प्रस्कन्देद्वर्षुकः पर्जन्यः स्याद्यदि चिरमवर्षुको न सादयति” इति।
प्रथममन्त्रपाठस्तु —
कदा चनेति। हे इन्द्र त्वं कदाचिदपि स्तरीर्हिंसको न भवसि। किंतु दाशुषे हविर्दत्तवते यजमानाय फलप्रदानार्थं सश्चसि गच्छसि। कुत्र। उपोपेन्नु यजमानस्यात्यन्तसमीप एव। हे मघवन्भूय इन्नु पुनरेव देवस्य तव दानं देयं हविः पृच्यते संबध्यते यजमानेन हविर्दीयत इत्यर्थः। स्पष्टमन्यत्।
उत्तरमन्त्रस्तु —
कदा चन प्रेति। प्रशब्दो निषेधार्थः। युच्छिधातुः प्रमादार्थः। हे इन्द्र कदाचिदपि न प्रमाद्यसि किंतु वर्तमानमागामि चेत्युभे यजमानस्य जन्मनी निपासि नितरां पालयसि। तृतीयमित्यस्मिन्नर्थे वर्णव्यत्ययेन तुरीयशब्दः प्रयुक्तः। हे आदित्य तृतीयसवनं ते त्वदीयं, तस्मिन्सवन इन्द्रियाभिवृद्धिकारणममृतसमानं दधि दिवि द्युलोकसमाने हविर्धान आभिमुख्येन आभिमुख्येन स्थितम्।
उत्तस्मन्त्रस्तु —
यज्ञ इति। अथं यज्ञपुरुषो देवानां सुम्नं सुखं प्रत्येति जानात्युत्पादयतीत्यर्थः। हे आदित्या अस्मान्मृडयन्तः सुखयन्ते भवथ(त)। युष्माकं सुमतिरनुग्रहबुद्धिरर्वाचीनेष्वस्मासु प्रवृत्ता सत्याववृत्यादावर्तताम्। या सुमतिरेवांहोश्चिदस्मदीयपापाद्व्यावर्तत(ते)। पापं विनाशयतीत्यर्थः। सा सुमतिर्वरिवोवित्तराऽसदतिशयेन परिचर्याभिज्ञा भवतु।
उत्तरमन्त्रस्तु —
विवस्व इति। हे विवस्वो विशिष्टनिवासाऽऽदित्य विवस्वन्नामक एष तृतीयस्तव सोमस्तेन सोमदर्शनेन मन्दस्व इष्टो भव। तेन सोमपानेन तृप्तो भव। तव तर्पयितारो वयमपि तृप्ता भूयास्म।

[[508]]

Page No. ५०८
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे —
(आदित्यग्रहाभिधानम्)
उत्तरमन्त्रस्तु —
या दिव्येति। हे सोम दिव्यवृष्टिहेतुना दध्ना त्वां मिश्रयामि।
अत्राऽऽदित्याग्रहं विधातुमाख्यायिकामाह —
“अदितिः पुत्रकामा साध्येभ्यो देवेभ्यो ब्रह्मौदनम् अपचत्, तस्या उच्छेषणम् अददुस्, तत् प्राश्नात्, सा रेतो ऽधत्त, तस्यै चत्वार आदित्या अजायन्त” (सं. का. ६ प्र. ५ अ. ६) इति।
साध्येभ्यः साध्यनामकेभ्यः। आधानप्रकरणोक्तविधानेन संपादितो ब्रह्मौदनः। उच्छेषणं हुतशिष्टम्।
पुत्रचतुष्टयेनाप्यनिवृत्ते कामे पुनः प्रयुक्तवतीत्याह —
“सा द्वितीयमपचत्साऽमन्यतोच्छेषणान्म इमेऽज्ञत यदग्रे प्राशिष्यामीतो मे वसीयाँसो जनिष्यन्त इति साऽग्रे प्राश्नात्सा रेतोऽधत्त तस्यै व्यृद्धमाण्डमजायत” (सं. का. ६ प्र. ५ अ. ६) इति।
इमेऽज्ञत चत्वारोऽजायन्त। अत्यन्तधनिकपुत्रोत्पत्त्यपेक्षया होमात्प्रागेव प्राशनेनैवापराधेन तस्या आण्डं गर्भस्थानं व्यृद्धं गर्भशून्यमभवत्।
व्यृद्धिनिवारणाय पुनः प्रयुक्तवतीत्याह —
“साऽऽदित्येभ्य एव तृतीयमपचद्भोगाय म इदँ श्रान्तमस्त्वति तेऽब्रुवन्वरं वृणामहै योऽतो जायाता अस्माकँ स एकोऽसद्योऽस्य प्रजायामृद्धयाता अस्माकं भोगाय भवादिति ततो विवस्वानादित्योऽजायत तस्य वा इयं प्रजा यन्मनुष्यास्तास्वेक एवर्द्धो यो यजते स देवानां भोगाय भवति” (सं. का. ६ प्र. ५ अ. ६) इति।
इदमाण्डं श्रान्तं गर्भाभावेन पुरा संतप्तमासीत्। इदानीं मम गर्भधारणेनादि-तेर्भोगायास्त्वित्युक्त्वा ब्रह्मौदनमादित्येभ्योऽजुहोत्। त(अ)त आण्डाद्यो जायते सोऽस्माकं मध्य एक आदित्योऽस्तु। अस्याऽऽदित्यस्य संबधिन्यां प्रजायां यः समृद्धः सोऽस्माकं भोगाय भवत्विति वरः। तत आण्डाद्विवस्वान्नमक आदित्य उत्पन्नः। ये मनुष्यास्ते तस्याऽऽदित्यस्य प्रजा वृष्टिद्वारेणोत्पादकत्वात्। तासु प्रजासु यो यजते स एव समृद्धत्वाद्देवानां भोगाय भवति।
इत्थमाख्यायिकया ग्रहदेवतां निरूप्य ग्रहणापादानं निरूपयितुमाख्यायिकान्तरमाह–

[[509]]

Page No. ५०९
प्रपा. ४ अनु. २२ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(आदित्यग्रहाभिधानम्)
“देवा वै यज्ञाद्रुद्रमन्तरायन्त्स आदित्यानन्वाक्रमत ते द्विदेवत्यान्प्रापद्यन्त तान्न प्रति प्रायच्छन्तस्मादपि वध्यं प्रपन्नं न प्रति प्र यच्छन्ति” (सं. का. ६ प्र. ५ अ. ६) इति।
देवा यज्ञं कुर्वन्तस्तस्मिन्यज्ञे रुद्रं विस्मृतवन्तः। स च रुद्र आदित्याननुप्रप्याबाधत। तेन बाधिता आदित्या ऐन्द्रवायवादिग्रहाञ्शरणं प्रपन्नाः। ते च ग्रहदेवास्तानादित्यान्रुद्राय नैव प्रत्यर्पितवन्तः। तस्माल्लोके परैर्वध्योऽपि चोरादिर्यदि शरणं प्राप्नुयात्तदा तं परेभ्यो नैव प्रत्यर्पयन्ति।
आदित्यग्रहं विधत्ते —
“तस्मादिद्वदेवत्येभ्य आदित्यो निर्गृह्यते” (सं. का. ६ प्र. ५ अ. ६) इति।
यस्मादादित्या द्विदेवत्यग्रहान्प्रपन्नास्तस्माद्द्विदेवत्यग्रहेभ्यो निषिच्याऽऽदित्यग्राहं गृह्णीयात्।
आदित्यानां हुतशेषेण ब्रह्मौदनेनोत्पन्नत्वात्तेषां द्विदेवत्यशेषाद्ग्रहो युक्त इत्याह —
“यदुच्छेषणादजायन्त तस्मादुच्छेषणाद्गृह्यते” (सं. का. ६ प्र. ५ अ. ६) इति।
ग्रहणे कदा चनेत्यादिमन्त्रान्विनियुङ्क्ते —
“तिसृभिग्भिर्गृह्णाति माता पिता पुत्रस्तदेव तन्मिथुनमुल्बं गर्भो जरायु तदेव तन्मिथुनम्” (सं. का. ६ प्र. ५ अ. ६) इति।
मातापितृरूपं मिथुनं पुत्रेण सह तदेकं(व) त्रयात्मकम्। गर्भवेष्टनोदकमुल्बं, तद्वेष्टनं पट्टसदृशं जरायुनामकम्। तदुभयरूपं मिथुनं गर्भेण सह त्रयात्मकम्। तेन सदृशमिदमृक्त्रयात्मकम्।
अस्मिन्ग्रहे दधिमेलनं विधत्ते —
“पशवो वा एते यादादित्य ऊर्ग्दधि दध्ना मध्यतः श्रीणात्यूर्जमेव पशूनां मध्यतो दधाति” (सं. का. ६ प्र. ५ अ. ६) इति।
आदित्यस्य वृष्टिद्वारा पशूपकारित्वम्। दध्नो भोज्यत्वात्तद्रूपत्वम्। तेन दध्ना सोमं मध्ये मेलयेत्। प्रथममन्त्रेण सकृत्सोमं गृहीत्वा तृतीयमन्त्रेण पुनर्ग्रहीष्यमाणो मध्यममन्त्रेण दधि प्रक्षिपेदित्यर्थः।

[[510]]

Page No. ५१०
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे —
(आदित्यग्रहाभिधानम्)
दध्नः किं (कं) चिद्गुणं विधत्ते–
“शृतातङ्क्येन मेध्यत्वाय तस्मादामा पक्वं दुहे” (सं. का. ६ प्र. ५ अ. ६) इति।
शीते बुध्नमातनक्तीति वचनात्सांनाय्यभाण्डे क्षीरे सम्यक्शीते सति पश्चा-दातञ्चनीयम्। इह तूष्ण एव क्षीरे यदातञ्चनेन निष्पन्नं दधि तेन मेलनीयम्। यस्मादत्र तप्तं क्षीरं तस्माल्लोकेऽपि आमा पाकरहिता गौडं पक्वं धारोष्णरूपं क्षीरं दुहे दुग्धे प्रयच्छति।
ग्रहस्याऽऽच्छादनं विधत्ते —
“पशवो वा एते यदादित्यः परिश्रित्य गृह्णाति प्रतिरुध्यैवास्मै पशून्गृह्णाति” (सं. का. ६ प्र. ५ अ. ६) इति।
अन्यतः पशून्निरुध्य यजमानार्थमेव तान्गृहीतवान्भवति। अत्र सूत्रम् —
“दर्भैर्हस्तेन वाऽपिधायोत्तिष्ठति” इति।
तदेतदेवाऽऽदित्यग्रहपरिश्रयणमनूद्य प्रशंसति —
“पशवो वा एते यदादित्य एष रुद्रो यदग्निः परिश्रित्य गृह्णाति रुद्रादेव पशूनन्तर्दधाति” (सं. का. ६ प्र. ५ अ. ६) इति।
अनेन ग्रहरूपाणां पशूनां घातकाद्रुद्राद्व्यवधानं भवति।
मन्त्रमादित्यपरं ग्रावपरं ग्रावपरतया व्याचष्टे —
“एष वै विवस्वानादित्यो यदुपाँशुसवनः स एतमेव सोमपीथं परि शय आ तृतीयसवनाद्विवस्व आदित्यैष ते सोमपीथ इत्याह विवस्वन्तमेवाऽऽदित्यँ सोमपीथेन समर्थयति” (सं. का. ६ प्र. ५ अ. ६) इति।
विवस्वन्नामकस्याऽऽदित्यस्य ग्रहाभिमानित्वाद्ग्राव्णस्तद्रूपत्वम्। स च ग्रावैतमेवाऽऽदित्यग्रहगतं सोमं तृतीयसवनसमाप्तिपर्यन्तं परितः शेते। अतो ग्रावविषयत्यवं मन्त्रस्य युक्तम्।
काम्यदधिश्रयणं समन्त्रकं विधत्ते —
“या दिव्या वृष्टिस्तया त्वा श्रीणामीति वृष्टि कामस्य श्रीणीयाद्वृष्टिमेवाव रुन्धे यदि ताजक्प्रस्कन्देद्वर्षुकः पर्जन्यः स्याद्यदि चिरमवर्षुकः” (सं. का. ६ प्र. ५ अ. ६) इति।

[[511]]

Page No. ५११
प्रपा. ४ अनु. २४ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(आदित्यग्रहाभिधानम्)
अस्यार्थः पूर्वमेव सूत्रे स्पष्टमुदाहृतः।
ग्रहान्तरवत्सादनादिप्रसक्तौ प्रतिषेधति —
“न सादयत्यसन्नाद्धि प्रजाः प्रजायन्ते नानु वषट्करोति यदनुवषट्कुर्याद्रुद्रं प्रजा अन्ववसृजेन्न हुत्वाऽन्वीक्षेत यदन्वीक्षेत चक्षुरस्य प्रमायुकँ स्यात्तस्मान्नान्वीक्ष्यः” (सं. का. ६ प्र. ५ अ. ६) इति।
एष ते योनिरिति मन्त्रस्यानाम्नातत्वान्नात्र गृहीतस्य सादनं सिद्धम्। किंतु तथैव प्रचारः। असन्नाद्गर्भाशयव्यतिरिक्तस्थानेऽपतितात्। यथा ग्रहान्तरं वषट्कारानुवषट्कारयोर्भिन्नं हूयते नात्र तथा किंतु सकृदेव। अनुवषट्कारे तु प्रजा अनुलक्ष्य रुद्रं क्रूरं प्रेरयेत्। अन्वीक्षणेऽध्वर्युरन्धो भवेत्। इत आरभ्य च्छन्दो लक्षणग्रन्थादुन्नेतव्यम्॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके
द्वाविंशोऽनुवाकः॥२२॥