१८

(अथ प्रथमाष्टके चतुर्थप्रपाठकेऽष्टादशोऽनुवाकः)
इन्द्र॑ मरुत्व इ॒ह पा॑हि॒ सोमं॒ यथा॑ शार्या॒ते
अपि॑बः सु॒तस्य॑। तव॒ प्रणी॑ती॒ शूर॒ शर्म॒न्ना
वि॑वासन्ति क॒वयः॑ सुय॒ज्ञाः। उ॒प॒या॒मगृ॑हीतो॒ऽ–
सीन्द्रा॑य त्वा म॒रुत्व॑त ए॒ष ते॒ योनि॒रिन्द्रा॑य
त्वा म॒रुत्व॑ते (१)।
(इन्द्र॑ मरुत्व॒ एका॒न्नत्रिँशत् )॥
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके
चतुर्थप्रपाठकेऽष्टादशोऽनुवाकः॥१८॥
–––––

[[502]]

Page No. ५०२
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे —
(मरुत्वतीयमहिन्द्रग्रहाभिधानम्)