१७

(अथ प्रथमकाण्डे चतुर्थप्रपाठके सप्तदशोऽनुवाकः)।
म॒रुत्व॑न्तं वृष॒भं वा॑वृधा॒नमक॑वारिं दि॒व्यँ
शा॒समिन्द्र॑म्। वि॒श्व॒साह॒मव॑से॒ नूत॑नायो॒ग्रँ
स॑हो॒दामि॒ह तँ हु॑वेम। उ॒प॒या॒मगृ॑हीतो॒ऽसी-
न्द्रा॑य त्वा म॒रुत्व॑त ए॒ष ते योनि॒रिन्द्रा॑य त्वा
म॒रुत्व॑ते (१)॥
(म॒रुत्व॑न्तँ॒ षड्विँ॑शतिः )।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके
चतुर्थप्रपाठके सप्तदशोऽनुवाकः॥१७॥
––––––