१६

(अथ प्रथमाष्टके चतुर्थप्रपाठके षोडशोनुवाकः)
ओमा॑सश्चर्षणीधृतो॒ विश्वे॑ देवास॒ आ ग॑त।
दा॒श्वाँसो॑ दा॒शुषः॑ सु॒तम्। उ॒प॒या॒मगृ॑हीतोऽसि॒
विश्वे॑भ्यस्त्वा दे॒वेभ्य॑ ए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा
दे॒वेभ्यः॑ (१)॥
(ओमा॑सो विँश॒तिः )।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके
चतुर्थप्रपाठके षोडशोऽनुवाकः॥१६॥
(अथ प्रथमाष्टके चतुर्थप्रपाठके पञ्चदशषोडशानुवाकौ)।
कल्पः – “अभक्षितेन पात्रेणाध्वर्युरैन्द्राग्नं गृह्णातीन्द्राग्नी आ गतँ सुतमिति ग्रहणसादनौ” इति।
पाठस्तु —
इन्द्राग्नी इति। हे इन्द्राग्नी॑ सुतमभिषुतं सोमं प्रत्यागतमागच्छतम्। कीदृशं सोमम्। गीर्भिः स्तुतिभिर्युक्तमिति शेषः। नभो नभोवस्थितैः स्वर्गनिवा–

[[500]]

Page No. ५००
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे —
(मरुत्वतीयमहिन्द्रग्रहाभिधानम्)
सिभिर्देवैर्वरेण्यं प्रार्थनीयम्। अस्य सोमस्य संबन्धिनं स्वकीयमंशं पातं युवां पिबतम्। कादृशौ युवाम्। धिया बुद्ध्येषिता प्रार्थितौ स्पष्टमन्यत्।
कल्पः – ‘वैश्वदेवं शुक्रपात्रेण गृह्णात्योमासश्चर्षणीधृत इति ग्रहणसादनौ’ इति।
पाठस्तु —
ओमास इति। हे विश्वे देवा आगताऽऽगच्छत। कीदृशाः। ओमासो रक्षितारः। चर्षणीधृतो मनुष्यपोषकाः। अनिष्टनिवारणं रक्षणम्। इष्टप्रापणं पोषणम्। सुतमभिषुतं दाशुषो दत्तवतो यजमानस्य दाश्वांसः फलं पूर्वं दत्तवन्तः। स्पष्टमन्यत्।
मन्त्रानुपेक्ष्यैन्द्राग्नग्रहं विधत्ते —
“सुवर्गाय वा एते लोकाय गृह्यन्ते यदृतुग्रहा ज्योतिरिन्द्राग्नी यदैन्द्राग्नमृतुपात्रेण गृह्णाति ज्योतिरेवास्मा उपरिष्टाद्दधाति सुवर्गस्य लोकस्यानुख्यात्यै” (सं. का. ६ प्र. ५ अ. ४) इति।
यदेतदृतुपात्रमध्वर्युहस्ते भक्षणीयेन सोमेनोपेतं तेनैन्द्राग्नं गृह्णीयात्। तथा सत्यृतुग्रहैः प्राप्तः स्वर्ग इन्द्राग्निज्योतिषा प्रकाशितो भवति।
बलप्रदत्वेनैन्द्राग्नं प्रशंसति —
‘ओजोभृतौ वा एतौ देवनां यदिन्द्राग्नी यदैन्द्राग्नो गृह्यत ओज एवाव रुन्धे’ (सं. का. ६ प्र. ५ अ. ४) इति।
ग्रहान्तरं विधत्ते —
‘वैश्वदेवँ शुक्रपात्रेण गृह्णाति वैश्वदेव्यो वै प्रजा असावादित्यः शुक्रो यद्वैश्वदेवँ शुक्रपात्रेण गृह्णाति तस्मादसावादित्यः सर्वाः प्रजाः प्रत्यङ्ङुदेति तस्मात्सर्व एव मन्यते मां प्रत्युदगादिति’ (सं. का. ६ प्र. ५ अ. ४) इति। शुक्रग्रहस्य यत्पात्रं तेन वैश्वदेवं गृह्णीयात्। वैश्वदेवीः सर्वाः प्रजाः प्रति शुक्रग्रहाभिमान्यादित्यः प्रत्यङ् प्रत्येकमभिमुख उदेति। तदेतत्सर्वस्याप्यनुभवसिद्धम्।
तेजःप्रदत्वेन वैश्वदेवं प्रशंसति —
वैश्वदेवँ शुक्रपात्रेण गृह्णाणि वैश्वदेव्यो वै प्रजास्तेजः शुक्रो यद्वैश्वदेवँ शुक्रपात्रेण गृह्णाति प्रजास्वेव तेजो दधाति’ (सं. का. ६ प्र. ५ अ. ४) इति।
इन्द्राग्नी ओमास इत्येते गायत्र्यौ॥

[[501]]

Page No. ५०१
प्रपा. ४ अनु. १८ कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(मरुत्वतीयमहिन्द्रग्रहाभिधानम्)
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके
पञ्चदशषोडशाऽनुवाकौ॥१५॥१६॥
––––––––