(अथ प्रथमाष्टके चतुर्थप्रपाठके पञ्चदशोऽनुवाकः)।
इन्द्रा॑ग्नी॒ आ ग॑तँ सु॒तं गी॒र्भिर्नभो॒ वरे॑–
ण्यम्। अ॒स्य पा॑तं धि॒येषि॒ता। उ॒प॒या॒मगृ॑ही–
तोऽसीन्द्रा॒ग्निभ्यां॑ त्वै॒ष ते॒ योनि॑रिन्द्रा॒ग्निभ्यां॑ त्वा (१ )॥
(इन्द्रा॑ग्नी विँश॒तिः )
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके
चतुर्थप्रपाठके पञ्चदशोऽनुवाकः॥१५॥