(अथ प्रथमाष्टके चतुर्थप्रपाठके त्रयोदशोऽनुवाकः)।
मू॒र्धानं॑ दि॒वो अ॑र॒तिं पृ॑थि॒व्या वै॑श्वान॒रमृ॒-
ताय॑ जा॒तम॒ग्निम्। क॒विँ स॒म्रा॒जमति॑थिं॒ ज-
ना॑नामा॒सन्ना पात्रं॑ जनयन्त दे॒वाः। उ॒प॒या॒मगृ॑-
हीतोऽस्य॒ग्नये॑ त्वा वैश्वान॒राय॑ ध्रु॒वो॑ऽसि ध्रु॒व-
क्षि॑तिध्रु॒वाणां॑ ध्रु॒वत॒मोऽच्यु॑तानामच्युत॒क्षित्त॑-
म ए॒ष ते॒ योनि॑र॒ग्नये॑ त्वा वैश्वान॒राय॑ (१)।
(मू॒र्धानं॒ पञ्च॑त्रिँशत् )।
इति कृष्णयजुर्वेदीयतैत्तीरीयसंहितायां प्रथमाष्टके
चतुर्थप्रपाठके त्रयदशोऽनुवाकः॥१३॥
[[493]]
Page No. ४९३
प्रपा. ४ अनु. १३ कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(ध्रुवग्रहाभिधानम्)
(अथ प्रथमकाण्डे चतुर्थप्रपाठके त्रयोदशोऽनुवाकः)।
कल्पः – “मूर्धानं दिवो अरतिं पृथिव्या इति स्थाल्या ध्रुवं पूर्णं गृह्णाति एष ते योनिरग्नये त्वा वैश्वानरायेति हिरण्ये सादयेत्” इति।
पाठस्तु —
मूर्धानमिति। अत्र गृहीत्वा ध्रुवोऽसीत्यादिकं पठेत्। तदुक्तं बौधायनेन — “अथैनमधिवदते ध्रुवोऽसीति” इति। मूर्धानमिति मन्त्रे स्तुम इति पदमध्याहृत्याग्निं वयं स्तुम इति योजनीयम्। कीदृशमग्निम्। दिवो मूर्धानं शिरोवदुन्नतदेशे सूर्यरूपेणावस्थाय द्युलोकस्य भासकम्। अरतिं पृथिव्या रतिरुपरतिस्तिद्रहितम्। नहि पृथिव्या उपरि कदाचिदग्निरुपरमते किंतु दाहपाकप्रकाशैः सर्वाननुगृह्णन्सर्वदा वर्तते। स चाग्निर्वैश्वानरनामकः। यथा दिवि नाको नामाग्नी रक्षोहेत्याम्नातं तथा पृथिव्यां वैश्वानरः। तथा पृथिव्यामृताय जातं यज्ञार्थमाहवनीयादिरूपेणोत्पन्नम्। कविं स्वभक्ताननुग्रहीतुमभिज्ञम्। सम्राजं सम्यग्दीप्यमानम्। जनानां यजमानानामतिथिं हविर्भिः सत्कारयोग्यम्। आसन्, ईदृशस्याग्नेरास्ये होतुं देवाः पात्रं सोमग्रहचमसरूपमाजनयन्त सर्वत ऐन्द्रवायवादिस्थानेषूत्पादितवन्तः। हे सोम स्थालीरूपेणोपयामेन गृहीतोऽसि। वैश्वानरायाग्नये त्वां गृह्णामि। हे ग्रह त्वं ध्रुवोऽसि ध्रुवनामकोऽसि। ध्रुवक्षितिः स्थिरनिवासः। आवैश्वदेवशंसनमवस्थानात्। ध्रुवाणामादित्यस्थाल्यादीनां मध्येऽतिशयेन ध्रुवः। तस्यैव व्याख्यानमच्युतानामच्युतक्षित्तम इति। एषोऽनुपोप्तदेशस्तव स्थानं तत्र वैश्वानरायाग्नये त्वां सादयामि।
ध्रुवग्रहं विधत्ते —
“आयुर्वा एतद्यज्ञस्य यद्ध्रुव उत्तमो ग्रहाणां गृह्यते तस्मादायुः प्राणानामुत्तमम्” (सं. का. ६ प्र. ५ अ. २) इति।
ऐन्द्रवायवादयो यथा यज्ञस्य वागादिप्राणरूपास्तथा ध्रुवोऽप्यायुःस्वरूपः। स च ध्रुवोऽन्तर्यामैन्द्रवायवादीनां धाराग्रहाणामुत्तमश्चरमो यथा भवति तथा ग्रहीतव्यः। अत एव ध्रुवग्रहप्रस्तावे सूत्रकारेणोक्तम् — “अत्र धारा विरमति” इति। यस्मादायुःस्थानीयो ध्रुवो ग्रहाणामुत्तमस्तस्माद्वागादीनां प्राणानां मध्ये जीवनरूपमायुरुत्तमम्। सति हि जीवने प्राणाः शोभन्ते।
[[494]]
Page No. ४९४
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे —
(ध्रुवग्रहाभिधानम्)
मन्त्रे मूर्धानमित्यादिशब्दप्रयोगेण ज्ञातीनां मध्ये यजमानं श्रेष्ठं करोतीत्याह —
“मूर्धानं दिवो अरतिं पृथिव्या इत्याह मूर्धानमेवैनँ समानानां करोति” (सं. का. ६ प्र. ५ अ. २) इति।
आयुषो वैश्वानराभिमानिदेवत्वादायुःस्थानीयध्रुवस्य ग्रहणे वैश्वानरशब्दो युक्त इत्याह —
“वैश्वानरमृताय जातमग्निमित्याह वैश्वानरँ हि देवतायाऽऽयुः” (सं. का. ६ प्र. ५ अ. २) इति।
अस्यामृच्युपरितने यजुषि च वैश्वानरशब्दप्रयोगो नाभेरूर्ध्वाधोवर्तिप्राणसा-म्यायेत्याह —
“उभयतोवैश्वानरो गृह्यते तस्मादुभयतः प्राणा अधस्ताच्चोपरिष्टाच्च” (सं. का. ६ प्र. ५ अ. २) इति।
यथा वाक्चक्षुरादय उपरिवर्तिनो मूकत्वान्धत्वबधिरत्वादिकृतानल्पान्व्यवहारनिरोधान्वारयन्तो देहस्यार्धं कृत्यं निर्वहन्ति अधोभागवर्ती तु प्राणो मलमूत्रनिरोधं महान्तं निवारयन्नर्धकृत्यं निर्वहति तथैवान्ये ग्रहा यज्ञस्यार्धं निर्वहन्ति ध्रुवस्त्वर्धमिति प्रशंसति —
“अर्धिनोऽन्ये ग्रहा गृह्यन्तेऽर्धी ध्रुवस्तस्मादर्ध्यवाङ्प्राणोऽन्येषां प्राणानाम्” (सं. का. ६ प्र. ५ अ. २) इति।
अर्धित्वमिति शेषः।
ध्रुवस्येतरविलक्षणं सादनस्थानं विधत्ते–
“उपोप्तेऽन्ये ग्रहाः साद्यन्तेऽनुपोप्ते ध्रुवस्तस्मादस्थ्नाऽन्याः प्रजाः प्रतितिष्ठन्ति माँसेनान्याः” (सं. का. ६ प्र. ५ अ. २) इति।
मृदमुपोप्य खरीकृते प्रदेशे ग्रहान्तरसादनं, केवलभूम्यां ध्रुवस्य सादनम्। यस्मादेवं वैलक्षण्यं तस्माल्लोकेऽपि अन्या गवादिरूपाः प्रजा अस्थिवत्कठिनखुरेण भूमौ तिष्ठन्ति, अन्यास्तु मनुष्यरूपाः प्रजाः पादतलगतेन मांसेनावतिष्ठन्ते।
भूमौ साद्यमानस्य ध्रुवस्योत्तरहविर्धानसमीपदेशं विधत्ते —
“असुरा वा उत्तरतः पृथिवीं पर्याचिकीर्षन्तां देवा ध्रुवेणादृँहन्तद्ध्रुवस्य
[[495]]
Page No. ४९५
प्रपा. ४ अनु. १४ कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(ऋतुग्रहाभिधानम्)
ध्रुवत्वं यद्ध्रुव उत्तरतः साद्यते धृत्यै” (सं. का. ६ प्र. ५ अ. २) इति।
पर्याचिकीर्षन्पर्याकर्तुमुत्तरत आक्रष्टुमैच्छन्। ध्रुवस्योत्तरदेशे सादनेन पृथिवी धृता भवति। अत्र सूत्रम् – “उत्तरस्य हविर्धानस्याग्रेणोपस्तम्भनमनुपोप्ते ध्रुवस्थालीम्” इति।
ध्रुवोऽवस्थितस्य सोमस्य होतृचमसेऽवनयनं विधत्ते —
“आयुर्वा एतद्यज्ञस्य यद्ध्रुव आत्मा होता यद्धोतृचमसे ध्रुमवनयत्यात्मन्नेव यज्ञस्याऽऽयुर्दधाति” (सं. का. ६ प्र. ५ अ. २) इति।
अवनयनस्य कालं विधित्सुर्मतान्तराण्युपन्यस्यति —
“पुरस्तादुक्थस्यावनीय इत्याहुः पुरस्ताद्ध्यायुषो भुङ्क्ते मध्यतोऽवनीय इत्याहुर्मध्यमेन ह्यायुषो भुङ्क्त उत्तरार्धेऽवनीय इत्याहुरुत्तमेन ह्यायुषो भुङ्क्ते” (सं. का. ६ प्र. ५ अ. २) इति।
उक्थं शस्त्रम्। तच्च त्रेधा विभज्य पूर्वभागे शस्यमानेऽवनयेत्। एवमितरयोरपि। आयुषः पूर्वभागे बाल्ये बहुकृत्वो भुज्यते। मध्यमे भागे बह्वन्नं भुज्यते। उत्तमे भागे शक्त्यभावेऽपि बहु भोक्तुमिच्छति।
इदानीं विधत्ते —
“वैश्वदेव्यामृचि शस्यमानायामव नयति वैश्वदेव्यो वै प्रजाः प्रजास्वेवाऽऽयुर्दधाति” (सं. का. ६ प्र. ५ अ. २) इति।
उत नोऽहिर्बुध्नियः शृणोत्वित्येषा वैश्वदेवा।
मूर्धानं दिव इत्येषा त्रिष्टुप्॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके
त्रयोदशोऽनुवाकः॥१३॥
–––––––––